तथा हि– ब्रह्मणो धर्माः किं साधकाभावान्न सन्ति ? उत बाधकसद्भावात्

४. ब्रह्मणो निर्गुणत्वभङ्गः

न्यायामृतम्

तथा हि– ब्रह्मणो धर्माः किं साधकाभावान्न सन्ति ? उत बाधकसद्भावात् । नाद्यः, ‘बृहन्तो ह्यस्मिन्गुणाः’ ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ ‘सत्यकामः सत्यसङ्कल्पः’ इत्यादिश्रुतीनाम्, ‘ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः । नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ।। ‘मय्यनन्तगुणेऽनन्ते’ ‘तेजोबलैश्वर्यमहाव-बोधसद्वीर्यशक्त्यादिगुणैकराशिः’ ‘परः पराणाम्’ इत्यादि स्मृतीनाम्, ‘अन्तस्तद्धर्मोप-देशाद्’ ‘अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशाद्, ‘अदृश्यत्वादिगुणको धर्मोक्तेः’ ‘सर्वधर्मोपपत्तेश्च’ इत्यादीनां निर्णायकसूत्राणाम् ।

१) ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवद्, उक्तसत्ताकभावरूपधर्मवद्वा, यावत्स्व-स्वरूपमनुवर्तमान धर्मवद्वा, उक्तविशेषणवद्भावरूपधर्मवद्वा, स्वज्ञानाबाध्यभावरूप-धर्मवद्वा, धर्मैर्भावरूपैर्धर्मैर्वा हीनं नावतिष्ठते पदार्थत्वाद्, भावत्वाद्, अभावविलक्षण-त्वाद्वा, घटवत् । २) ब्रह्म स्वज्ञानाबाध्यप्रकारवत्, स्वारोपितव्यावर्तक स्वज्ञानाबाध्य-प्रकारवद्वा, अधिष्ठानत्वाच्छुक्तिवत् । ३) ब्रह्म स्वज्ञानाबाध्यदुःखव्यावृत्तिमत्, स्वज्ञानाबाध्य दुःखव्यावर्तकधर्मवद्वा, दुःखानात्मकत्वाद् घटवत् । ४) ब्रह्म स्वज्ञाना-बाध्यप्रकारकज्ञानविशेष्यम्, सन्दिग्धत्वाद्, विचार्यत्वात्, निर्णेतव्यत्वाच्च, स्थाणुवत् । ५) ब्रह्म वेदान्ततात्पर्यगोचरप्रकारवद्, वेदान्तविचारविषयत्वात्, यदेवं तदेवं यथा कर्मकाण्डविचारविषयो धर्मः । ६) ईश्वरः सदाऽवाप्तसमस्तकल्याणगुणः, सदा तत्प्रेप्सुत्वे सति तत्र शक्तत्वाद्, यो यदा यत्प्रेप्सुत्वे सति यत्र शक्तः, स तदा तद्वान्, यथा चैत्रः । ७) ईश्वरः सदा त्यक्तसमस्तदोषः सदा तज्जिहासुत्वे सति तत्त्यागे शक्तत्वाद्, यो यदा यज्जिहासुत्वे सति यत्त्यागे शक्तः, स तदा त्यक्ततद्दोषः, यथा चैत्रः । तत्प्रेप्सादिकं च प्रेक्षावत्त्वादिना विपक्षेऽधिष्ठानत्वसन्दिग्धत्वादिकं न स्यादित्याद्यनुकूलतर्कसनाथानु-मानानां च सत्त्वात् ।

न चानवस्थानिरासाय कश्चिद्धर्मो निर्धर्मक इति तत्राद्यहेतोर्व्यभिचारः, १साध्यस्वरूपस्य २निर्धर्मकत्वस्य पदार्थत्वात्मकस्य हेतुरूपस्य च धर्मस्य भावाभावाभ्यां व्याघातात् । प्रमेयत्वाभिधेयत्वादीनाम् अबाधितानुभवबलेन त्वदभिमतमिथ्यात्व-दृश्यत्वादिवत् स्ववृत्तित्वाच्च । गोत्वादेरपि गोव्यक्तिरेव वा गोत्वं वा तं स्वाश्रयव्यक्तिं प्रति अन्यस्माद्व्यावर्तकत्वं वा व्यावर्तकमिति न दुःखानात्मकत्वस्य तत्र व्यभिचारः । न च श्रुतिः सगुणब्रह्मपरा, न तु परब्रह्मपरेति वाच्यम् । सगुणातिरिक्तस्य परस्याद्याप्य-सिद्धेः । त्वत्पक्षेऽपि तात्त्विकगुणवद्व्यक्त्यन्तराभावाच्च । ‘परः पराणाम्’ इत्यादिस्मृतौ परात्परत्वोक्तेश्च । अन्यथा ‘सदेव सोम्येदम्, असद्वा इदमग्रे’ इति सदसच्छ्रुती अपि परापरब्रह्मविषये, ग्रहणाग्रहणश्रुती अपि परापरयागविषये स्याताम् । ‘असन्नेव स भवति असद् ब्रह्मेति वेद चेत्’ इति श्रुतिरपि नासत्त्वनिन्दार्था, किन्तु शून्यतापत्तिरूप परममोक्षपरेति स्यात् । न चेदानीं सगुणं दशान्तरे तु निर्गुणम् । तथात्वेऽपि गुणानामनित्यत्वमात्रापत्त्या त्वदभिमतमिथ्यात्वासिद्धेः ।

ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः’ । ‘एष नित्यो महिमा ब्राह्मणस्य’ । इत्यादिश्रुतेश्च । ‘एष नित्य’ इति श्रुतिश्च ब्रह्मपरा । पूर्वत्र ‘नावेदविन्मनुते तं बृहन्तम्’ इति ब्रह्मणः प्रकृतत्वात् । उत्तरत्र ‘न कर्मणा वर्धते नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेन’ इति ब्रह्मलिङ्गात् । बृहदारण्यके ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः । स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष सर्वेश्वर एष भूताधिपतिः एष भूतपालः’ इत्यादिना ब्रह्मोक्त्वा तत्र सम्मतित्वेन ‘तदेतदृचाभ्युक्तम्’ इति ‘एष नित्य’ इत्यादिमन्त्रस्योदाहृतत्वाच्च । अन्यथा ब्रह्मेदानीं सदृशान्तरे त्वसदिति स्यात् । न चौपाधिका धर्माः औपाधिकत्वस्य सोपाधिकाध्यस्तत्वरूपत्वे श्रुत्यप्रामाण्यापातात् । वक्ष्यमाणसत्यत्वश्रुतिविरोधाच्च । उपाधिकृतत्वरूपत्वे तूक्तनित्यत्वश्रुतिविरोधाद्, अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेवेक्षि-तृत्वादिश्रुतेश्च । ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिश्रुतेश्च । न च योगलब्धयोगि-शक्त्यादिवैधर्म्य मात्रेण तदुक्तिः । सङ्कोचकाभावेनोक्तनित्यत्वश्रुत्यनुसारेण स्वाभाविक-ज्ञानसमभिव्याहारेण चोपाधिमात्रनिषेधात् । अन्यथा ब्रह्मणः सत्त्वमौपाधिकं, असत्त्वं तु स्वाभाविकमिति स्यात् । न चातात्त्विका गुणाः । श्रुत्या गुणमात्रोक्त्या तात्त्विका-नुक्तेरिति वाच्यम् । नित्यत्वोक्तिसामर्थ्याद्, विषयाबाधलक्षणप्रामाण्यस्यौत्सर्गिकत्वात्, ‘सत्यः सोऽस्य महिमा’ इत्यादिश्रुतेश्च तत्सिद्धेः । अन्यथा सत्यं ज्ञानं तत्त्वमसीत्यादि श्रुत्युक्तं ब्रह्मसत्त्वैक्यादिक मपि तात्त्विकं न स्यात् । निर्गुणश्रुतिविरोधस्तूद्धरिष्यते ।

अद्वैतसिद्धि:

कैवल्यश्रुत्या तावदात्मा निर्गुणः । ननु ‘बृहन्तोऽस्य धर्माः’ इति श्रुत्या ‘ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः ।। नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा’ इति स्मृत्या च ब्रह्म, धर्मवत्, पदार्थत्वात्’ इत्याद्यनुमानेन च स्वसमानसत्ताकधर्मवद् ब्रह्मेति चेत्, मैवम्, न तावच्छ्रुत्या सगुणत्वसिद्धिः । सगुणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्पकत्वेन तत्परत्वाभावात् । न चापूर्वत्वात्सत्यकामादौ विशेषणे तात्पर्यम् । अपूर्वत्वेऽप्यन्यशेषस्यातत्परत्वदर्शनात् । यथा हि ‘जर्त्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयात्’ इत्यादौ जर्त्तिलयवाग्वादेर्होमसाधनत्वस्य ‘अनाहुतिवै जर्त्तिलाश्च गवीधुकाश्च’ इति निन्दायाश्च ‘अजक्षीरेण जुहोति’ इति विध्येकवाक्य-तयाऽतत्परत्वं, तथैवात्राप्युपपत्तेः । निर्गुणप्रकरणस्थायास्तु अद्वितीयब्रह्मप्रतिपत्त्यनुकूल निषेधापेक्षित-विषयसमर्पकतयाऽन्यथासिद्धेः ।

न च ‘किञ्चन’ इत्यादिसामान्यवाचकपदेनैव ब्रह्मातिरिक्तसर्वनिषेध्योपस्थितौ विशेषग्रहणम् अनर्थकमिति वाच्यम् । अलौकिकतया वाक्यप्रमेयत्वभ्रमव्युदासार्थत्वात् । अत एव श्रुतिप्राप्तस्य श्रुत्या निषेधे अहिंसावाक्यम् अग्निषोमीयहिंसायाः, अग्रहणवाक्यं च षोडशिग्रहणस्य, असद्वेत्यादिवाक्यं ब्रह्मसत्त्वस्य भेदवाक्यं चैक्यस्य निषेधकं स्यादिति निरस्तम् । प्रकृते श्रुतिप्राप्तस्यैवाभावात् । श्रुति-प्राप्तत्वं हि न तत्प्रसक्तत्वम् । अतिप्रसङ्गात् । तत्प्रमितत्वस्य च प्रकृतेऽभावात् । अहिंसावाक्यस्या-वैधहिंसाविषयत्वेन समानविषयत्वाभावात् । समानविषयत्वे ग्रहणाग्रहणवद्विकल्पापत्तेः । ग्रहणाग्रहण-वाक्ययोस्तु सत्यपि समानविषयत्वे एकस्याधिकबलत्वाभावेन बाध्यबाधकभावस्यासम्भावितत्वात् । अन्यथा विकल्पानाश्रयणप्रसङ्गात् । असद्वाक्यभेदवाक्ययोस्तु न ब्रह्मसत्त्वैक्यनिषेधकता । सत्यैक्य-बोधकयोरेव तत्परत्वेन प्राबल्यात् ।

नाप्यनुमानं ब्रह्मणि तात्त्विकधर्मसाधनायालम् । तथा हि– १) ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवद्, उक्तसत्ताक भावरूपधर्मवद्वा, यावत्स्वरूपमनुवर्तमानधर्मवद्वा, तादृशभावरूपधर्मवद्वा, स्वज्ञानाबाध्य-धर्मवद्वा, तादृशभावरूपधर्मवद्वा, धर्मैर्भावरूपधर्मैर्वा हीनं नावतिष्ठते वा, पदार्थत्वाद्, अथवा भावत्वाद्, घटवत् । २) ब्रह्म, स्वज्ञानाबाध्यप्रकारवत्, स्वारोपितव्यावर्तकस्वज्ञानाबाध्यप्रकारवद्वा, अधिष्ठानत्वात्, शुक्तिवत् । ३) ब्रह्म स्वज्ञानाबाध्यदुःखव्यावर्तकधर्मवद्, दुःखानात्मकत्वात्, घटवत् । ४) ब्रह्म, स्वज्ञानाबाध्यप्रकारविशेष्यम्, सन्दिग्धत्वात्, विचार्यत्वात्, निर्णेतव्यत्वाद्वा स्थाणुवत् । ५) ब्रह्म, वेदान्ततात्पर्यगोचरप्रकारवत्, वेदान्तविचारविषयत्वात्, यदेवं तदेवम्, यथा कर्मकाण्डविचारविषयो धर्मः । ६) ईश्वरः, सदावाप्तसमस्तकल्याणगुणः, सदा प्रेप्सुत्वे सति तत्र शक्त त्वात् । यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्वान् । यथा चैत्रः । ७) ईश्वरः, सदा त्यक्तसमस्तदोषः, सदा तज्जिहा-सुत्वे सति तत्त्यागे शक्तत्वात्, यश्चैवं स तथा, यथा चैत्रः इत्याद्यनुमानेषु धर्मिपदस्वपदयो-र्यत्किञ्चिद्धर्मि यत्किञ्चित्सम्बन्धिपरत्वे घटादिसमसत्ताककल्पितधर्मवत्त्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मं ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेः ।

न च दृष्टान्ते साध्यनिरूपणे तदेव धर्मि । पक्षे तन्निरूपणे ब्रह्मैव धर्मि । धर्मिपदस्वपदादीनां समभिव्याहृत परत्वादिति वाच्यम् । शब्दस्वभावोपन्यासस्यानुमानं प्रत्यप्रयोजकत्वात् । स्वरूपपदस्याप्येवमेव ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिपरत्वे सिद्धसाधनम् । समभिव्याहृतपरत्वस्य शब्दस्वभावस्यानुमानं प्रत्यप्रयोजकत्वमिति दूषणं पूर्ववत् । धर्मैर्विना नावतिष्ठत इत्यस्य ब्रह्म धर्मव्याप्तमित्यर्थः । तथा च सिद्धसाधनम् । यस्मिन् काले देशे वा ब्रह्म, तत्र धर्मा सन्त्येव । न हि कालो देशो वा धर्मरहितः । मायाचित्सम्बन्धस्य कालस्य मुक्त्यसहवृत्तित्वात् । स्वज्ञानाबाध्येत्यत्रापि पूर्ववत्स्वपदार्थविकल्पः । अत एव स्वारोपितव्यावर्तकस्वज्ञानाबाध्यधर्मवदिति निरस्तम् । स्वज्ञानाबाध्यदुःखव्यावर्तक धर्मवदित्यत्रापि स्वपदार्थविकल्पः पूर्ववत् । दुःखव्यावर्तक-धर्मवत्त्वेन सिद्धसाधनम् । वेदान्ततात्पर्यगोचरेत्यत्रावान्तर तात्पर्यमादाय सिद्धसाधनम् । मुख्यतस्ता-त्पर्योक्तौ च वेदान्तवाक्यमुख्यतात्पर्यविषयप्रकाराप्रसिद्ध्या साध्याप्रसिद्धिः ।

न च यत्तद्भ्यामनुगमय्य साध्यप्रसिद्धिः । तथा शब्दानुगमस्यानुमानं प्रत्यनुपयोगात् । ईश्वरः सदाऽवाप्त समस्तकल्याणगुण इत्यत्र कालं व्याप्य आप्तगुणत्वस्यास्माभिरप्यङ्गीकारात् । न हि निर्धर्मकतायां सत्यां कालसम्बन्धोऽस्ति । किञ्च शुद्धस्य पक्षीकरणे हेत्वसिद्धिः । उपहितस्य पक्षीकरणे अर्थान्तरम् । स्वाभिन्नाप्तसमस्तकल्याणगुणत्वेन सधर्मकत्वायोगाच्च सिद्धसाधनाच्च कल्याणगुणानामा-नन्दादीनां नित्यत्वेन तत्प्रेप्सायास्तत्र सामर्थ्यस्य च त्वयापि वक्तुमशक्यत्वाच्च । अत एव प्रेप्सादिकं प्रज्ञानघनत्वादिति निरस्तम् । सदा त्यक्तसमस्तदोषत्वे साध्ये चरमवृत्तिपर्यन्तत्यागे सामर्थ्याभावेन हेत्वसिद्धेः । यदा तु तत्सामर्थ्यं तदा त्यक्तदोषत्वमिष्टमेव । प्रकारवत्त्वादौ साध्येऽप्रयोजकत्वमपि । न चाधिष्ठानत्वसन्दिग्धत्वाद्यनुपपत्तिरेवानुकूलस्तर्कः । अधिष्ठानत्वे हि स्वारोपितव्यावर्तकवत्त्वं तन्त्रम् । कल्पिताकल्पित साधारणमित्युक्तत्वात् । स्वज्ञानाबाध्यत्वविशिष्टधर्मं विना तस्यानुपपत्त्यभावात् ।

सन्दिग्धत्वमपि व्यावर्तकेन कल्पितेनाकल्पितेन वा रूपेणानिश्चिततयैवोपपद्यत इति तस्यापि नानिश्चितसाध्यधर्मं विनाऽनुपपत्तिः । एवं दुःखानात्मकत्वं दुःखव्यावर्तकस्वरूपतयैवोपपन्नं कदाचिद्वक्तव्यम् । अन्यथा अनवस्थानापत्तेः । न हि व्यावर्तकधर्मोऽपि केवलान्वयी । येन स्ववृत्तिः स्यात् । तथा च तदपि व्यावर्तकधर्मं विनाऽप्युपपन्नं न तत्साधनायालम् । अनवस्थाभिया क्वचिद्धर्मे विश्रान्तौ पदार्थत्वमपि व्यभिचार्येव । न च स्वस्यैव स्ववृत्तित्वान्न व्यभिचारः । आत्माश्रयात् । न चैवं दृश्यत्वस्यापि स्वस्मिन्नवृत्त्या भागासिद्धिः । स्ववृत्तित्वाभावेऽपि स्वनिष्ठात्यन्ताभाव-प्रतियोगित्वस्य तत्रासिद्धताप्रयोजकस्या भावात् । तस्मान्नानुमानं ब्रह्मसमसत्ताकधर्मे प्रमाणम् ।

किञ्च श्रुतिरपरब्रह्मविषया । निर्धर्मकश्रुतिविरोधेन विषयभेदस्यावश्यकत्वात् । न च सगुणाति-रिक्तस्य परब्रह्मणोऽद्याप्यसिद्धिः । त्वत्पक्षे तात्त्विकगुणवद्व्यक्त्यन्तरस्याभावात् । किंविषयत्वं च सगुणश्रुतेरिति वाच्यम् । तात्त्विकत्वपर्यन्तस्य सगुणश्रुत्याऽविषयीकरणात् । निर्धर्मकत्वश्रुत्या शुद्धब्रह्मसिद्धेश्च । तदुक्तम् अन्तरधिकरणे कल्पतरुकृद्भिः–

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ।।

वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।

तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ।। इति ।

अत एव स्मृतिसूत्राभ्यां न विरोधः । न च सगुणे ‘परः पराणाम्’ इत्यादिस्मृत्या परादपि परत्वं स्मर्यते । तथा च कथं सगुणवाक्यानाम् अपरब्रह्मविषयत्वमिति वाच्यम् । जडापेक्षया परः किञ्चिज्ज्ञः तदपेक्षया सर्वज्ञस्य शुद्धापेक्षयाऽपरस्यापि परत्वात् । न च ‘सदेव सोम्येदमग्र आसीत्’ ‘असद्वा इदमग्र आसीत्’ इति श्रुती अपि परापरब्रह्मविषये स्यातामिति वाच्यम् । अत्र ‘इदम्’ इति प्रपञ्चस्य प्रकृतत्वेन ब्रह्मपरत्वस्य वक्तुमशक्यतया प्रपञ्चस्यैव पूर्वं कारणात्मना सत्त्वं कार्यात्मना असत्त्वं विषयीकुरुतः ।

नापि ग्रहणाग्रहणवाक्ये अपि परापरयागविषये । ‘ऐन्द्रवायवं ग्रहं गृह्णाति’ इत्यादिवच्छोडशि-ग्रहणवाक्यस्य यागपरत्वेऽप्यग्रहणवाक्यस्य तदभावबोधकतया यागविषयत्वाभावात् । नन्वेवं ‘असन्नेव स भवति असद् ब्रह्मेति वेद चेत्’ इति श्रुतिरपि नासत्त्वसिद्धार्था किन्तु शून्यतापत्तिरूपपरममोक्षपरेति स्यादिति चेन्न । शून्यताया अपुरुषार्थत्वात्  आनन्दावाप्तिरूपमुक्तिप्रतिपादकविरोधाच्च । यद्वा इदानीं सगुणं दशान्तरे निर्गुणमिति वाक्याविरोधः । न च एतावता अनित्यत्वमात्रं गुणानां न त्वदभिमत-मिथ्यात्वसिद्धिरिति वाच्यम् । त्वदभिमततात्त्विकत्वस्याप्यसिद्धेः । उपायान्तरानुसरणं च समानम् । यत्तु ब्रह्मेदानीं सद् दशान्तरे त्वसदित्यप्यापद्येत इति, तन्न । दशान्तरे निर्गुणत्ववद् असत्त्वस्या-बोधनेनाप्रसङ्गात् । न च ‘ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः’‘एष नित्यो महिमा ब्राह्मणस्य’ इत्यादिश्रुत्या ब्रह्मज्ञानादीनां नित्यत्वप्रतिपादनात्सगुणत्वमिति वाच्यम् । ज्ञानादीनां स्वरूपतया गुणत्वासिद्धेः । स्वरूपातिरिक्तानां तु चरमसाक्षात्कारपर्यन्तस्थायितया नित्यत्वोपचारात् । ‘अपाम सोमममृता अभूम’ इत्यादौ अमृतशब्दस्य ‘अभूतसम्प्लवस्थानम् अमृतत्वं हि भाष्यते’ इति पौराणिकोक्तामृतत्ववत् । अत एव ‘एष नित्यो महिमा’ इत्यादिवाक्यस्य तैत्तिरीयशाखागतस्य नित्यगुणपरत्वमिति निरस्तम् ।

बृहदारण्यकगतस्य तु ‘स एष नेति नेति’ इति वाक्यं प्रतिषिद्धसर्वोपाधिकरूपस्य महिम्नः त्यक्तसर्वेषणपुरुषगतस्य प्रतिपादनेन ब्रह्मगतगुणपरत्वाभावात् । न च ‘सर्वस्य वशी’ इत्यादौ ब्रह्मणः प्रकृतत्वेन तद्गतगुणपरत्वमिति शङ्क्यम् । ‘योऽयं विज्ञानमयः प्राणेषु’ इत्यादि वाक्योक्तजीव-स्वरूपानुवादेन ब्रह्मस्वरूपताबोधनपरत्वेन ब्रह्मगतगुणपरत्वाभावात् । ब्राह्मणपदस्य ‘तदधीते तद्वेद’ इति सूत्रविहिताणन्तस्य ब्रह्मवित्प्रतिपादकतया ब्रह्मपरत्वे लक्षणापत्तेश्च । किञ्च सगुणवाक्या-नामौपाधिगुणविषयत्वेन स्वाभाविकनिर्धर्मकत्वश्रुतेर्न विरोधः । न चौपाधिकत्वस्य सोपाधिकाध्यस्त-रूपत्वे श्रुत्यप्रामाण्यापत्तिः । वक्ष्यमाणसत्यत्वश्रुतिविरोधः, उपाधिकल्पितरूपत्वे तूक्तनित्यत्वश्रुति-विरोधः, अन्तःकरणादि रूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रुतेरुपाध्यसम्भवश्चेति वाच्यम् । मायावि-दर्शितमायानुवादिवाक्यवत् स्वतो भ्रमजनकत्वाभावेनाप्रामाण्यानापत्तेः । सत्यत्वश्रुतेरन्यथा नेष्यमाणत्वात् । नित्यत्वश्रुतेरन्यथार्थस्योक्तेः । सृष्टेः पूर्वमन्तःकरणाभावेऽपि अविद्याया उपाधेः सत्त्वाच्च ।

न चौपाधिकत्वे ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यनेन विरोधः । अस्मदादाविव भौतिको-पाधिकत्वाभावेन योगिष्विव योगार्जितत्वाभावेन स्वाभाविकत्वोक्तेः । न च सङ्कोचकाभावः । निर्गुणवाक्यस्यैव सङ्कोचकत्वात् । न च– स्वाभाविकज्ञानसमभिव्याहारविरोधः । सार्वज्ञ्यादि-रूपाविद्यापरिणतस्यैव ज्ञानपदेन विवक्षितत्वाद्वाधकसत्त्वासत्त्वाभ्यां समभिव्याहारेऽपि वैरूप्याङ्गीकरणात् ‘पावको ब्राह्मणः’ इतिवत् । किञ्च सगुणवाक्यानां न गुणसत्यत्वबोधकत्वम् । सत्यत्वस्यापदार्थत्वात् । न च नित्यत्वोक्तिसामर्थ्याद्विषयाबाधलक्षणस्य प्रामाण्यस्यौत्सर्गिकत्वात् ‘सत्यः सोऽस्य महिमा’ इत्यादिश्रुतेः स्वरूपतश्च तत्सिद्धिरिति वाच्यम् । प्रथमस्यान्यथासिद्धेरुक्तत्वादुत्सर्गाख्यतर्कस्य व्यवहाराबाध मादायैवोपपादितत्वात् ‘सत्यः सोऽस्य महिमा’ इत्यादौ महिम्नः स्वरूपरूपत्वादविरोधात् । धर्मत्वे तु ब्रह्मसाक्षात्कारेतरा निवर्त्यत्वगुणयोगेन सत्यपदप्रवृत्त्युपपत्तेः । न चैवं ‘सत्यं ज्ञानं’ ‘तत्त्वमसि’ इत्यादिश्रुत्युक्तब्रह्मसत्यत्वैक्यादिकमपि तात्त्विकं न स्यादिति वाच्यम् । निर्गुणश्रुतिविरोधस्य तत्रेवात्राभावात् ।

न्यायामृततरङ्गिणी

परास्येति । ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते’इति परास्येति श्रुतेः पूर्वार्धः । प्रत्येकं हेतुत्रयोपेताष्टसाध्यवदनुमानान्येकहेतुकद्विसाध्यकानुमाने पुनरप्येकहेतुकद्विसाध्यकानुमाने त्रिहेतुकैकसाध्यकानुमानान्येक हेतुकैकसाध्यकानुमानत्रयं चाह– ब्रह्मेत्यादिना ।। वेदान्तमुख्यतात्पर्यविषयो ब्रह्मेत्यर्थः । तेनोपहितस्य पक्षीकरणे सिद्धसाधनमित्यादि निरस्तम् । नन्वत्र धर्मिपदस्वरूपपदस्वपदानां यत्किञ्चिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पित धर्मिपरत्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेः । मैवम् । दृष्टान्ते साध्यनिरूपणे घटादेर्धर्म्यादित्वात् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । न चानुमाने शब्दमहिमा नोपयुज्यत इति वाच्यम् । स्वार्थानुमाने तथात्वेऽपि परार्थानुमाने न्यायवाक्यरूपे तदुपयोगात् । अत एव स्वप्रागभाव-व्यतिरिक्तस्वविषयावरण स्वनिवर्त्यस्वदेशगतेत्यादीनि वेदान्तिनां, स्वोपादानगोचरेत्यादीनि च न्यायविदामनुमानानि । धर्मैर्हीनं नावतिष्ठत इत्यस्य धर्मरहितं नेत्यर्थः । अत एव धर्मैर्हीनं नेत्यादेर्धर्माव्याप्यमित्यर्थः । तथा च सिद्धसाधनं, यस्मिन्देशे काले वा ब्रह्म तत्र धर्माः सन्त्येव । न हि कालो देशो धर्मरहितः । मायाचित्सम्बन्धरूपकालस्तु मुक्त्यसहवृत्तिरिति परास्तम् । अस्मादेवानुमानात् । व्याघाताच्च । मुक्तिकाले कालो नास्तीत्यस्य व्याहतत्वाच्च । मुक्तेरपि कालसम्म्बन्धाच्च ।

वेदान्ततात्पर्येति । ननु वेदान्तानाम् अवान्तरतात्पर्यमादाय सिद्धसाधनं मुख्यतात्पर्योक्तौ वेदान्तवाक्य मुख्यतात्पर्यविषयप्रकारस्याप्रसिद्ध्याऽप्रसिद्धिरिति । मैवम् । व्याप्तिग्रहसत्त्वे साध्याप्रसिद्धेरदोषत्वात् । अत्रापि सामान्यव्याप्तिग्रहोऽस्तीत्याह– यदेवमित्यादिना । तत्प्रेप्सुत्वे सतीति ।। समस्तकल्याणगुणनिरूपितगुणित्वेच्छा तत्प्रेप्सा । एतेनानन्दादीनां नित्यत्वेन तत्र प्रेप्साशक्त्योरसम्भव इति निरस्तम् । गुणित्वस्यापि नित्यत्वेऽस्मदिष्टसिद्धेः ।। सदा तज्जिहासुत्वे सतीति ।। न च चरमवृत्तिपर्यन्तं तत्त्यागे शक्त्यभावादसिद्धो हेतुः अज्ञानविरोधिनः स्वरूपस्फुरणस्य चरमवृत्तिकाल इव संसारकालेऽपि सत्वात् । उक्तं चैतद-ज्ञानविषयभङ्गे । व्यावर्तकत्वं वेति । न चैवं व्यावर्तकत्वे व्यभिचारः । व्यावर्तकत्वमन्य-व्यावृत्तमित्यबाधितप्रतीतिबलेन तस्यापि व्यावृत्त्यादिरूपधर्मवत्त्वात् । व्यावत्तिर्व्यावृत्तेति प्रतीत्या व्यावृत्तेरपि व्यावृत्तिमत्त्वाच्च । न चैवमनवस्था । स्वस्यैव स्ववृत्तित्वाङ्गीकारात् । अबाधितप्रतीत्या च नात्माश्रयदोषोऽपि । न हि केवलान्वयित्वमेव स्ववृत्तित्वे तन्त्रम् । गन्धात्यन्ताभावादेः स्ववृत्तित्वात् ।

सगुणातिरिक्तस्येति ।। निर्गुणब्रह्मसिद्धौ सगुणवाक्यस्य सगुणब्रह्मपरत्वेन निर्गुणा-बाधकत्वम् । सगुणवाक्यस्याबाधकत्वे निर्गुणब्रह्मसिद्धिरित्यादि दोषेण सगुणातिरिक्तासिद्धिः । न च ‘केवलो निर्गुणश्च’ इति श्रुत्या निर्गुणब्रह्मसिद्धिः । निर्गुणत्वरूपगुणसत्त्वासत्त्वाभ्यां व्याहत्या त्वदभिमतनिर्गुणस्य निर्गुणश्रुत्याप्यसिद्धेः ।। त्वत्पक्ष इति ।। तात्विकगुणवद् ब्रह्मव्यक्तिसत्त्वे सगुणश्रुतिस्तद्विषया । तदभावात्तु सा निर्विषया स्यात् । श्रुतेस्तात्विकार्थ-विषयत्वात् । यदि चातात्विकार्थमादाय श्रुतिः प्रवर्तेत तर्हि प्रस्तरश्रुतिरप्यतात्विक-यजमानाभेदमादाय प्रवृत्तेति न तत्र गौण्यादिकं कल्प्येत । यस्तु सगुणश्रुतिस्तात्विकत्वपर्यन्तं न विषयीकरोतीत्याह तदबोधात् । न हि सगुणश्रुत्या तात्विकत्वं गुणानामत्र साध्यते । किन्तु वस्तुगत्या तात्विकं सगुणमादाय सा प्रवर्तत इत्युच्यते ।। परः पराणामिति ।। ‘तेजो बलैश्वर्य’ इत्यत्र श्लोके सगुणस्य परात्परत्वोक्तेः ।। अन्यथेति ।। श्रुतेरुभया-सिद्धार्थपरत्वे ।। सदेवेति ।। इदंशब्दोदितः प्रपञ्चः सृष्टेः पूर्वं सदसच्छब्दोक्तापरपरब्रह्मात्मक इति श्रुतेः त्वद्रीत्यैवार्थः स्यात् ।। ग्रहणेति ।। यत्त्वैन्द्रवायव वाक्यवत् षोडशिग्रहणवाक्यस्य यागपरत्वेऽप्यग्रहणवाक्यस्य न यागविषयत्वं ग्रहणाभावबोधकत्वादिति । तन्न । अबोधात् । न ह्युक्तवाक्याभ्यासपरम्परया यागानुमानमापाद्यते किन्तु निर्गुणपरब्रह्मवदप्रामाणिकमपि परं यागं कल्पयित्वा तत्परं ग्रहणनिषेधवाक्यं सर्वज्ञादिगुणनिषेधकवाक्यवदित्युच्यते । तत्र कः प्रसङ्गोऽग्रहणवाक्येन यागानुमानस्य ।

नन्वसद् ब्रह्मत्वस्य निषेधात्कथमसच्छब्दः परब्रह्मपरः स्यादत आह– असन्नेवेति । ननु तात्विकगुणवद्व्यक्त्यन्तराभावेऽप्येकस्यामेव व्यक्तौ कालभेदेन सगुणनिर्गुणश्रुती प्रवर्त्स्येत इत्याशङ्क्याह– न चेदानीमिति ।। कालभेदेनापि सगुणश्रुतिरतात्विकगुणविषया वा तात्विक-गुणविषया वा । आद्ये कालभेदानुसरणं व्यर्थम् । एकत्रैकदैव मिथ्याऽमिथ्यार्थविषयकत्वेन सगुणनिर्गुणश्रुत्युपपत्तेः । तदपि निरसिष्यते । द्वितीयं निराकरोति– तथात्वेऽपीति । यस्तु वैयात्यादनित्यत्वमेव मिथ्यात्वमित्याह तं प्रत्याह– ज्ञानं नित्यमिति । तैत्तिरीयवाक्यं पठति– एष इति ।। तस्यैवेति ।। तस्यैव महिम्नः पदं स्थानमाश्रयः तस्य वित् वेत्ता भवेत् । तं महिमानं विदित्वा पापकेन कर्मणा न लिप्यत इत्यर्थः ।। बृहदारण्यक इति ।। नन्वत्र ब्रह्मणः प्रकृतत्वेऽपि न गुणे तात्पर्यम् । ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते सर्वस्य वशी’ इत्यादिवाक्ये योयमित्यादिना शेत इत्यन्तेन जीवमुक्त्वा तस्य ‘स वा एष महानज आत्मा’ इत्यनेन ब्रह्माभेदे तात्पर्यात् । मैवम् । हृदयाकाशस्थेन ह्यैक्यमुच्यते । तत्स्थश्च परमात्मैव । दहराधि-करणन्यायात् । ‘तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्’ इति श्रुतेश्च । ऐक्ये तात्पर्यसिद्धौ गुणेष्वतात्पर्यकल्पनम् । तेष्वतात्पर्ये विरोधादैक्ये तात्पर्यसिद्धि-रित्यन्योन्याश्रयाच्च ।

।। मन्त्रस्येति ।। ननूदाहृदमन्त्रो न ब्रह्मपरः किन्तु ब्राह्मणस्य ब्रह्मविदस्त्यक्तसर्वैषणस्य एषः नेतिनेतीत्यादि वाक्यप्रतिषिद्धसर्वोपाधिरूपः महिमा नित्य इत्येवं पर इति । तन्न । एषणात्यागात्पूर्वमसतस्ततः परं च सतो महिम्नो नित्यत्वायोगात् । ब्राह्मणशब्दस्य तदधीते तद्वेदेति सूत्रविहिताणंतस्य मुख्याध्ययनवेदनवति ब्रह्मणि मुख्यत्वात् । ब्रह्मविदो ब्राह्मणा विवदिषन्तीति बहुवचनेन प्रस्तुतस्यैकवचनेन ब्राह्मणस्येत्यनेन परामर्शायोगाच्च । एषणा-भावादिरूपस्य महिम्नस्त्वयापि नित्यत्वाङ्गीकाराच्च । अत एव त्वद्भाष्ये तस्यैव स्यात्पदवित्तं विदित्वेत्यादिमन्त्रव्याख्याने आत्मस्वरूपस्य सर्ववैलक्षण्यरूपमहिमस्वरूपविदः पुण्य-पापादिनिमित्तौ ह्रासौ न स्त इत्युक्तम् ।। अन्तःकरणेति ।। छान्दोग्ये ‘सदेवसोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत’ इतीक्षितृत्वस्य ‘बहु स्याम्’ इत्यादिसंकल्पस्य च ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः’ इत्यादिना वक्ष्यमाणमनःसृष्टितः पूर्वमेव श्रवणात्तदाऽविद्यायाः सत्त्वेऽपि तस्या ईक्षितृत्वं प्रत्यनुपाधित्वात् । ‘कामः सङ्कल्पः’ इत्यादिश्रुतेः स्वाभाविकज्ञानेति ज्ञानं नित्यमित्यत्र स्वाभाविकज्ञानस्य यादृशं नित्यत्वमुक्तं नित्यशब्देन तस्यैव क्रिया नित्येत्यत्र प्रत्यभिज्ञानात् । ननु माभूत्तात्विकगुणवद्व्यक्त्यन्तरं सगुणश्रुतिर्निर्गुण एव तात्विकगुणान्विषयीकरिष्यतीत्या-शङ्क्य निराकरोति– न चातात्विका इति । ननु श्रुतिविषयाणामतात्विकत्वे श्रुत्यप्रामाण्यं स्यादित्यत आह– श्रुत्येति ।। अतात्विकं तात्विकत्वेन विषयीकुर्वती ह्यप्रमाणं स्यान्न च तथाऽस्तीत्यर्थः ।। विषयेति ।। अर्थसत्त्वलक्षणस्वतःप्रामाण्योपेतश्रुतिबोधितत्वेन गुणानां तात्विकत्वसिद्धिः ।। अन्यथेति ।। श्रुतिबोधितस्याप्यतात्विकत्वे । औत्सर्गिकप्रामाण्यस्याप-वादाभावमाह– निर्गुणेति । निर्गुणश्रुतेर्दुःखादिगुण परत्वेन तद्विरोध एव नास्ति नतरां तस्यापवादत्वम् ।

न्यायामृतकण्टकोद्धारः

ननु वेदान्तानां सखण्डार्थत्वेऽपि कथं ब्रह्मणोऽनन्तगुणत्वम् ? तत्र प्रमाणाभावाद् बाधक-सद्भावात् । न ह्यप्रामाण्यकमनेकबाधकोपेतम् अङ्गीकर्तुमुचितम् । तथात्वे नरविषाणाद्यप्यङ्गीकर्तव्यं स्यादित्याशङ्कायां तत्रासिद्धिं वक्तुं प्रतिजानीते– तथा हीति ।। अत्र ‘श्रुतीनाम्’ इत्यादीनां ‘सत्त्वात्‘ इत्यनेनान्वयः । अत्र सर्वत्रानुमानेषु ब्रह्मशब्दो वेदान्ततात्पर्यविषयवस्तुपरोऽतो ब्रह्मशब्दवाच्यं शबलं चेत् पक्षः, तदा सिद्धसाधनम् । यदि लक्ष्यं निर्गुणं तदाऽश्रयासिद्धिः । भवद्भिस्तादृशस्यानङ्गीकारात् । निर्गुणे सगुणत्वसाधने बाधश्च इत्यादिदूषणमलग्नकं वेदितव्यम् । न चैतेष्वनुमानेषु धर्मादिपदानां यत्किञ्चिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पितधर्मवत्त्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेरिति वाच्यम् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । अन्यथा ‘स्वप्रागभाव’ इत्यादिपरोदाहृतानुमाने-ष्वप्युक्तदोषापत्तेः ।

न च पदार्थत्वस्यासत्यपि भावाद् व्यभिचार इति वाच्यम् । सत्पदार्थत्वस्य विवक्षितत्वात् । तस्य चासत्य भावात् । न चेश्वरपक्षके सिद्धसाधनम् । ‘ईशानः सर्वविद्यानाम्’ इत्यादौ ईश्वरपद-तात्पर्यविषयस्य विवक्षितत्वात् । तस्य च समस्तगुणपूर्णत्वस्य त्वयाऽनङ्गीकारात् । साध्ये च ज्ञानाबाध्येत्यपि विशेषणम् । तेन न कल्पितगुणवत्त्वेन सिद्धसाधनम् । एवमुत्तरत्रापि द्रष्टव्यम् । अप्रयोजकत्वपरिहारार्थमुक्तम् विपक्ष इति । तथा च विपक्षबाधकसत्त्वात् नोपाध्यादिशङ्का युक्तेति भावः ।। निर्धर्मकत्वरूपेति ।। अनवस्थापरिहारश्च धर्मधर्मिणोरभेदेन वा बीजाङ्कुरन्यायेन वा द्रष्टव्यः । ननु प्रमेयत्वादीनां निर्धर्मकत्वात्तत्र हेतोर्व्यभिचार इत्यत आह– प्रमेयत्वाभिधेय-त्वादीनामिति ।। ननु गोत्वादौ न व्यावर्तको धर्मः । तस्य स्वत एव विलक्षणत्वात् । तथा च तत्र व्यभिचार इत्यत आह– गोत्वादेरपीति ।। किञ्चिदिति नियमोऽसिद्ध एवेति भावः ।। न चेति ।। तथा च वेदान्ततात्पर्यविषयस्य सगुण त्वमिति भावः ।

सगुणेति ।। तत्र प्रमाणाभावाद् वेदान्तैश्च सगुणस्यैव प्रतिपादनादिति भावः । ननु मया सगुणब्रह्मातिरिक्तं निर्गुणं ब्रह्म स्वीक्रियत इत्यत आह– त्वत्पक्ष इति ।। गुणानाञ्च तात्विकत्वस्य प्रतिपादयिष्यमाणत्वादिति भावः ।। परात् परत्वोक्तेः ।। सगुणस्यैवेति शेषः ।। अन्यथेति ।। सगुणसत्यादिवाक्यानां परापरब्रह्मविषयत्व इत्यर्थः । न चेष्टापत्तिः । अपसिद्धान्तात्पूर्वतन्त्र-विरोधाच्च ।। ननु न मया परापरं व्यक्तिद्वयं स्वीक्रियते । किन्त्वेकस्यैव दशाभेदेन सगुणत्व-निर्गुणत्वे यथैकस्य घटस्य श्यामत्वरक्तत्वे । अतो नेदमनिष्टापादनमित्याशङङ्क्य निषेधति– न चेदानीमिति ।। ननु गुणानामपगमे निर्गुणमेव सेत्स्यतीत्यत आह– ज्ञानमिति ।। नन्वेषा श्रुतिर्ब्राह्मणस्य महिम्नो नित्यत्वं प्रतिपादयति न ब्रह्मगुणानाम् । तत्र ब्रह्मज्ञापकाभावादित्यत आह– एवेति ।। ननु लिङ्गप्रकरणाभ्यां ब्रह्मपरत्वेऽपि मध्ये प्रासङ्गिकोक्तिः किं न स्यादिति चेन्न । अन्यस्य नित्यमहिमत्वासम्भवात्, त्वयाऽनङ्गीकाराच्च । न च ब्रह्मपरत्वे कथं ब्राह्मणशब्दः । तस्मिन् ब्राह्मणत्वजातेरसम्भवादिति वाच्यम् । पत्यादिशब्देभ्य इत्युक्तन्यायेन सर्वस्योपपत्तेः । नन्वियं श्रुतिर्न नित्यत्वपरा किन्तु बहुकालीनत्वपरेति । अतोऽस्या बृहदारण्यके स्वोक्तार्थे सम्मति त्वेनोदाहृतत्वेनासन्दिग्धार्थत्वान्निन्निश्चितं हि दृष्टान्तत्वेनोपादीयत इत्याह– बृहदारण्यक इति ।। अन्यथेति ।।

एवं प्रमाणेन नित्यत्वे सिद्धेऽपि चेद्दशाभेदेन व्यवस्था स्वीक्रियत इत्यर्थः । औपाधिकत्वं किमुपाधावनुभूयारोप्यमाणत्वम् अथवोपाधिकृतत्वम् ? आद्य आह– औपाधिकत्वस्येति ।। द्वितीय आह–  उपाधिकृतत्वेति ।। अन्तः करणेति ।। अन्यस्य चोपाधेरसम्भवादिति भावः । न च विद्यैवोपाधिरिति वाच्यम् । तस्याः प्रलयेऽपि सत्त्वेन तदापीक्षितृत्वापत्तेरपसिद्धान्ताच्च ।। अन्यथेति ।। प्रमाणसिद्धस्य स्वाभाविकत्वानङ्गीकार इत्यर्थः ।। न चेति ।। न च पौनरुक्त्यम् । पूर्वं सोपाधिकाध्यासनिरासाय, अत्र तु निरुपाधिकाध्यासनिरासाय शङ्क्यत इत्यर्थभेदात् । यद्वा पूर्वं सामान्येन सोपाधिकत्वमाशङ्कितम् । अत्र तु विशेषत आशङ्क्यत इति भेदात् ।। अन्यथेति ।। प्रामाणिकस्य तात्विकत्वस्यानङ्गीकारे इत्यर्थः ।

(इतः आरभ्य ‘स्वप्रकाशत्वलक्षणभङ्ग’ पर्यन्तं न्यायामृतप्रकाशः नोपलब्धः)

न्यायकल्पलता

ब्रह्मणः सदनन्तगुणत्वं व्यवस्थापयितुमाह– तथा हीति ।। परास्येति । ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते’ इति परास्येति श्रुतेः पूर्वार्धम् । ‘परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ।। इत्युत्तरार्धम् । विष्णुपुराणे मैत्रेयं प्रति पराशरवचनम् । प्रत्येकं हेतुत्रयोपेताष्टसाध्यवदनुमानान्येकहेतुकद्विसाध्यकानुमाने पुनरप्येकहेतुकद्विसाध्यकानुमाने त्रिहेतुकैक-साध्यकानुमानान्येकहेतुकैकसाध्यकानुमानत्रयं चाह– ब्रह्मेत्यादिना ।। वेदान्तमुख्यतात्पर्यविषयो ब्रह्मेत्यर्थः । तेनोपहितस्य पक्षीकरणे सिद्धसाधनमित्यादि निरस्तम् । नन्वत्र धर्मिपदस्वरूप-पदस्वपदानां यत्किञ्चिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पितधर्मिपरत्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेरिति । मैवम् । दृष्टान्ते साध्यनिरूपणे घटादेर्धर्म्यादित्वात् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । न चानुमाने शब्दमहिमा नोपयुज्यत इति युक्तम् । स्वार्थानुमाने तथात्वेऽपि परार्थानुमाने न्यायवाक्यरूपे तदुपयोगात् । अत एव स्वप्राग-भावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतेत्यादीनि वेदान्तिनां, स्वोपादानगोचरेत्यादीनि त्वदीयानाम् औतिनां, स्वोपादानगोचरेत्यादीनि च  न्यायविदामनुमानानि । ‘धर्मैर्हीनं नावतिष्ठते’ इत्यस्य धर्मरहितं नेत्यर्थः । अत एव धर्मैर्हीनं नेत्यादेर्धर्माव्याप्यमित्यर्थः । तथा च सिद्धसाधनं, यस्मिन्देशे काले वा ब्रह्म तत्र धर्माः सन्त्येव । न हि कालो देशो धर्मरहितः । माया चित्सम्बन्धरूपकालस्तु मुक्त्य-सहवृत्तिरिति परास्तम् । अस्मादेवानुमानाद् व्याघाताच्च । मुक्तिकाले कालो नास्तीत्यस्य व्याहत-त्वाच्च । मुक्तेरपि कालसम्बन्धाच्च तदुक्तम् अनुव्याख्याने– यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् । किं वक्ष्यति यदावस्थाम् वदेत्सापेक्षतां व्रजेत् ।। अवस्थात्वादिति ह्येव हेतुः सापि कदेति च । पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ।। इति ।

वेदान्त(वाक्य) तात्पर्येति ।। ननु वेदान्तानाम् अवान्तरतात्पर्यमादाय सिद्धसाधनं, मुख्य-तात्पर्योक्तौ वेदान्तवाक्यमुख्यतात्पर्यविषयप्रकारस्याप्रसिद्ध्याऽप्रसिद्धिरिति । मैवम् । व्याप्तिग्रहसत्त्वे साध्याप्रसिद्धेरदोषत्वात् । अत्रापि सामान्यव्याप्तिग्रहोऽस्तीत्याह– यदेवं तदेवमित्यादिना ।। तत्प्रेप्सुत्वे सतीति । समस्तकल्याणगुणनिरुपितगुणित्वेच्छा तत्प्रेप्सा । तेनानन्दादीनां नित्यत्वेन तत्र प्रेप्साशक्त्योरसम्भव इति व्युदस्तम् । गुणित्वस्यापि नित्यत्वेऽस्मदिष्टसिद्धेः ।। सदा तज्जिहासुत्वे सतीति ।। न च चरमवृत्तिपर्यन्तं तत्त्यागे शक्त्यभावादसिद्धो हेतुः । यदा तु तत्सामर्थ्यं तदा त्यक्तदोषत्वम् इष्टमेवेति वाच्यम् । अज्ञानविरोधिनः स्वरूपस्फुरणस्य चरमवृत्तिकाल इव संसार-दशायामपि सत्वात् । उक्तं चैतदज्ञानविषयभङ्गे ।। व्यावर्तकत्वं वेति ।। नचैवं व्यावर्तकत्वे व्यभिचारः । व्यावर्तकत्वमन्यव्यावृत्तमित्यबाधित प्रतीतिबलेन तस्यापि व्यावृत्त्यादिरूपधर्मवत्त्वात् । व्यावृत्तेति प्रतीत्या व्यावृत्तेरपि व्यावृत्तिमत्त्वाच्च । न चैवमनवस्था । स्वस्यैव स्ववृत्तित्वाङ्गीकारात् । अबाधितप्रतीत्या च नात्माश्रयदोषोऽपि । न हि केवलान्वयित्वमेव स्ववृत्तित्वे तन्त्रम् । गन्धात्यन्ता-भावादेः स्ववृत्तित्वात् ।

सगुणातिरिक्तस्येति ।। निर्गुणब्रह्मसिद्धौ सगुणवाक्यस्य सगुणब्रह्मपरत्वेन निर्गुणाबाधकत्वम् । सगुणवाक्यस्याबाधकत्वे निर्गुणब्रह्मसिद्धिरित्यादिदोषेण सगुणातिरिक्तब्रह्मासिद्धिः । न च ‘केवलो निर्गुणश्च’ इति श्रुत्या निर्गुणब्रह्मसिद्धिः । निर्गुणत्वरूपगुणसत्त्वासत्त्वाभ्यां व्याहत्या त्वदभिमतनिर्गुणस्य निर्गुणश्रुत्याप्यसिद्धेः ।। त्वत्पक्ष इति ।। तात्विकगुणवद् ब्रह्मव्यक्तिसत्त्वे सगुणश्रुतिस्तद्विषया । तदभावात्तु सा निर्विषयैव स्यात् । श्रुतेस्तात्विकार्थविषयत्वात् । यदि चातात्विकार्थमादाय श्रुतिः प्रवर्तेत तर्हि प्रस्तरश्रुतिरप्यतात्विकयजमानाभेदमादाय प्रवृत्तेति न तत्र गौण्यादिकं कल्प्यते । यस्तु सगुणश्रुतिस्तात्विकत्वपर्यन्तं स्वार्थं न विषयीकरोतीत्याह बादरायणीय सिद्धान्ताबोधात् । प्रामाण्यस्य स्वतस्त्वेनार्थावेदक(च)तत्सत्वावेदकत्वात् । केचित्तु न हि सगुणश्रुत्या तात्विकत्वं गुणानामत्र साध्यते । किन्तु वस्तुगत्या तात्विकं सगुणमादाय सा प्रवर्तत इत्युच्यते इत्याहुः ।। परः पराणा-मिति ।। ‘तेजोबलैश्चर्य’ इत्यत्र श्लोके सगुणस्य परात्परत्वोक्तेरित्यर्थः । तेन ‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्चराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ।। वशीकृते मनस्येषां सगुणब्रह्म-शीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ।। इति अन्तराधिकरणे कल्पतरूक्तं निरस्तम् । सगुणोपासनेन विरोधान्निर्गुणाविर्भावानुपपत्तेश्च ।

अन्यथेति ।। श्रुतेरुभयासिद्धार्थपरत्वे ।। सदेवेति ।। इदंशब्दोदितः प्रपञ्चः सृष्टेः पूर्वं सदसच्छब्दोक्तापरपरब्रह्मात्मक इति (श्रुतेः) त्वद्रीत्यैवार्थः स्यात् ।। ग्रहणेति ।। यत्तु ‘ऐन्द्रवायवं गृह्णाति’ इति वाक्यवत् षोडशिग्रहणवाक्यस्य यागपरत्वेऽप्यग्रहणवाक्यस्य न यागविषयत्वं, ग्रहणाभावबोधकत्वादिति । तन्न । भावानवबोधात् । न ह्युक्तवाक्याभ्यामपरपरयागानुमानमापाद्यते किन्तु निर्गुण•)परब्रह्मवदप्रामाणिकमपि परयागं कल्पयित्वा तत्परं ग्रहणनिषेधकं वाक्यं सार्वज्ञादि-गुणनिषेधकवाक्यवदित्युच्यते । तत्र कः प्रसङ्गोऽग्रहणवाक्येन यागानुमानस्य । नन्वसद् ब्रह्मत्वस्य निषेधात्कथमसच्छब्दः परब्रह्मपरः स्यादत आह– असन्नेवेति । ननु तात्विकगुणवद्व्यक्त्यन्तरा-भावेऽप्येकस्यामेव व्यक्तौ कालभेदेन सगुणनिर्गुणश्रुती प्रवर्त्स्येत इत्याशङ्क्याह– न चेदानीमिति । कालभेदेनापि सगुणश्रुतिरतात्विकगुणविषया उत तात्विकगुणविषया । आद्ये कालभेदानुसरणं व्यर्थम् । एकत्रैकदैव मिथ्यासत्यार्थविषयकत्वेन सगुणनिर्गुणश्रुतिप्रवृत्त्युपपत्तेः । तदपि निरसिष्यते ।

द्वितीयं निराचष्टे– तथात्वेऽपीति ।। यस्तु वैयात्यादनित्यत्वमेव मिथ्यात्वमित्याह तं प्रत्याह– ज्ञानं नित्यमिति ।। तैत्तिरीयवाक्यं पठति– एष इति ।। तस्यैवेति ।। तस्यैव महिम्नः पदं स्थान-माश्रयः तस्य वित् वेत्ता भवेत् । तं महिमानं विदित्वा पापकेन कर्मणा न लिप्यत इत्यर्थः ।। बृहदारण्यक इति ।। नन्वत्र ब्रह्मणः प्रकृतत्वेऽपि न गुणे तात्पर्यम् । ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते सर्वस्य वशी’ इत्यादिवाक्ये योऽयमित्यादिना शेत इत्यन्तेन जीवमुक्त्वा तस्य ‘स वा एष महानज आत्मा’ इत्यनेन ब्रह्माभेदे तात्पर्यात् । मैवम् । हृदयाकाशस्थेन ह्यैक्यमुच्यते । तत्स्थश्च परमात्मैव । दहराधिकरणन्यायात् । ‘तत्रापि दहरङ्गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्’ इति श्रुतेश्च । ऐक्ये तात्पर्यसिद्धौ गुणेष्वतात्पर्यकल्पनम् । तेष्वतात्पर्ये विरोधाभावादैक्ये तात्पर्यसिद्धिरित्यन्योन्याश्रयाच्च ।। मन्त्र-स्येति ।। ननूदाहृदमन्त्रो न ब्रह्मपरः । किन्तु ब्राह्मणस्य ब्रह्मविदस्त्यक्तसर्वैषणस्य एषः नेति-नेतीत्यादिपूर्ववाक्यप्रतिषिद्धसर्वोपाधिरूपः महिमा नित्य इत्येवं पर इति । मैवम् । एषणात्यागा-त्पूर्वमसतस्ततः परं च सतो महिम्नो नित्यत्वायोगात् । ब्राह्मणशब्दस्य तदधीते तद्वेदेति सूत्र-विहिताणंतस्य मुख्याध्ययनवेदनवति ब्रह्मणि मुख्यत्वात् । ब्रह्मविदो ब्राह्मणा विविदिषन्तीति बहुवचनेन प्रस्तुतस्यैकवचनेन ब्राह्मणस्येत्यनेन परामर्शायोगाच्च । एषणाभावादिरूपस्य महिम्नस्त्वयापि नित्यत्वाङ्गीकाराच्च । अत एव त्वद्भाष्ये तस्यैव स्यात्पदवित्तं विदित्वेत्यादिमन्त्र व्याख्याने आत्मस्वरूपस्य सर्ववैलक्षण्यरूपमहिमस्वरूपविदः पुण्यपापादिनिमित्तौ ह्रासौ न स्त इत्युक्तम् । अथवा ब्रह्मणा वेदेन अण्यतेऽवगम्यते इति ब्राह्मणः । स्वरव्यत्यासश्चाधिक्यार्थः ।। अन्तःकरणेति ।। छान्दोग्ये ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत’ इतीक्षितृत्वस्य बहुस्यामित्यादि सङ्कल्पस्य च ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः’ इत्यादिना वक्ष्यमाणमनः सृष्टितः पूर्वमेव श्रवणात्तदाऽविद्यायाः सत्त्वेऽपि तस्या ईक्षितृत्वं प्रत्यनुपाधित्वात् । कामः सङ्कल्प इत्यादिश्रुतेः ।। स्वाभाविकज्ञानेति ।। ज्ञानं नित्यमित्यत्र स्वाभाविकज्ञानस्य यादृशं नित्यत्वमुक्तं नित्यशब्देन तस्यैव क्रिया नित्येत्यत्र प्रत्यभिज्ञानात् । ननु मा भूत्तात्विकगुणवद्व्यक्त्यन्तरं सगुणश्रुतिर्निर्गुण एव तात्विकगुणान्विषयीकरिष्यतीत्याशङ्क्य निराकरोति–

न चातात्विका इति । ननु श्रुतिविषयाणामतात्विकत्वे श्रुत्यप्रामाण्यं स्यादित्यत आह– श्रुत्येति ।। अतात्विकं तात्विकत्वेन विषयीकुर्वती अप्रमाणं स्यान्न च तथाऽस्तीति शङ्कार्थः ।। विषयेति ।। अर्थसत्त्वगर्र्भितस्वतःप्रामाण्योपेत श्रुतिबोधितत्वेन गुणानां तात्विकत्वसिद्धिः ।। अन्यथेति ।। श्रुतिबोधितस्याप्यतात्विकत्वे । औत्सर्गिकप्रामाण्यस्याप वादाभावमाह– निर्गुणेति ।। निर्गुणश्रुतेर्दुःखादिगुणपरत्वेन तद्विरोध एव नास्ति नतरां तस्यापवादत्वम् ।

Load More