पुराणादिषु क्वचित् जगतोऽसत्त्वोक्तिरसाधुत्वात्, ‘‘नासत्पुरुषमाश्रयेत्’’ इत्यादिवत्

श्रीवेदव्यासाय नमः

पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्

न्यायामृतम्

४९. जगदसत्त्ववाचिपुराणवचनार्थः

न्यायामृतम्

पुराणादिषु क्वचित् जगतोऽसत्त्वोक्तिरसाधुत्वात्, ‘‘नासत्पुरुषमाश्रयेत्’’ इत्यादिवत् । ‘‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’’ इति, ‘‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह’’ इति च गीतोक्तेः । ‘‘सच्छब्दः साधुवाचकः’’ इति विष्णुपुराणोक्तेश्च । अस्वातन्त्र््याद्वाऽसत्त्वम्–

सत्त्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे ।

अस्वातन्त्र्यात् तदन्येषामसत्त्वं विद्धि भारत ।।

इति भारतोक्तेः । अन्यथा अत्यन्तासत्त्वापातात् । अवस्तुत्वोक्तिरपारमार्थिकत्वोक्तिश्च परिणामित्वाद्विनाशित्वाच्च ।

यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै ।

परिणामादिसम्भूतां तद्वस्तु नृप तच्च किम् ।

अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ।।

इति विष्णुपुराणोक्तेः । मिथ्यात्वोक्तिस्तु वृथात्वात्, ‘‘मिथ्यैष व्यव-सायस्ते’’ इत्यादिवत् । सदोषत्वाद्वा । मिथ्योपपदात्कृञोऽभ्यास इति सूत्रे वृत्तौ ‘‘पदं मिथ्याऽकारयते’’ इत्युदाहृत्य स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थ इत्युक्तत्वात् । न्यासे पदमञ्जर्यां च ‘‘एतेन मिथ्याशब्दस्यार्थमाचष्टे’’ इत्युक्तत्वात् । अतात्त्विकत्वोक्तिस्तु विकारित्वात् । ‘‘तद्वदेव स्थितं यत्तु तात्त्विकं तत्प्रचक्षते’’ इति कौर्मोक्तेः । अविद्यमानत्वोक्तिस्तु जीवसम्बन्धि-त्वेनाविद्यमानत्वात् । ‘‘अविद्यमानं जीवस्य प्रतिभाति तदीयवत्’’ इति स्कान्दोक्तेः । स्वप्नादिसाम्योक्तिस्त्वनित्यत्वादेः ।

अनित्यत्वविकारित्वपारतन्त्र््यादिरूपतः ।

स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता ।।

इति वचनात् । मायामयत्वोक्तिस्तु प्राकृतत्वात्, ‘‘मायां तु प्रकृतिं विद्यात्’’ इति श्रुतेः।

त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् ।

अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः ।। इति स्मृतेश्च ।

अन्यथा ‘‘स्वप्यमायासरूपेति सृष्टिरन्यैर्विकल्पिता’’ इत्यादिश्रुतिभिः ‘‘न मायेत्यवधार्यताम्’’ इत्यादिस्मृतिभिः ‘‘वैधर्म्याच्च न स्वप्नादिवत्’’ इत्यादिसूत्रैस्तत्रैव पूर्वोत्तरवाक्यैश्च विरोधात् ।

श्रीव्यासरामाचार्यविरचिता

न्यायामृततरङ्गिणी

।। असत्त्वोक्तिरिति ।। तावन्ममेत्यसदवग्रह आर्तिमूलमित्यादौ ।। अपारमार्थिकत्वोक्तिरिति ।। माया यदात्मपरबुद्धिरियं ह्यपार्थेत्यादौ ।। मिथ्यात्वोक्तिरिति ।। यत्र त्रिसर्गो मृषेत्यादौ ।। एतेनेति ।। स्वरादिदुष्टमित्यनेन वाक्येनेत्यर्थः ।। आचष्ट इति ।। काशिकाकार इति शेषः ।। अविद्यमान-त्वोक्तिरिति ।। अविद्यमानो ह्यवभाति हि द्वय इत्यादौ ।। स्वप्नादिसाम्योक्ति-रिति ।। ध्यातुर्धिया स्वप्नमनोरथो यथेत्यादौ । अत्र स्वप्नशब्देन स्वाप्नगजादि-जाग्रत्त्वमुच्यते न स्वाप्नगजादि । तेषां तज्ज्ञानस्य च सत्यत्वेन जगति तत्साम्यस्यानिष्टत्वाभावेन तस्याव्याख्येयत्वात् ।। अनित्यत्वादेरिति ।। नित्यत्वाभावादेरित्यर्थः । स्वप्नजाग्रत्त्वस्य भ्रमविषयतयाऽयन्तासत्त्वेन तत्र ध्वंस-प्रतियोगित्वादिरूपानित्यत्वस्याभावात् । विकारित्वं कूटस्थत्वाभावः । पारतन्त्र््यं स्वातन्त्र््याभाव इति बोध्यम् ।। मायेति ।। मायामये वासनया शयान इत्यादौ ।

श्रीपाण्डुरङ्गि आनन्दभट्टारकविरचितः

न्यायामृतकण्टकोद्धारः

ननु पुराणादिषु जगतोऽसत्वानृतत्वासत्यत्वमायामयत्वादीन्युच्यन्ते तेषां च मिथ्यात्वमेवार्थोऽन्यस्यासम्भवादित्यतोऽर्थान्तरमाह ।। पुराणादिष्विति ।। असच्छब्दस्या- साधुवाचित्वं कुत इत्यतः तत् समर्थयते ।। नासत्पुरुषमिति ।। सच्छब्द इति ।। तथा चासच्छब्दस्यासाधुवाचकत्वमर्थात् सिद्ध्यतीति भावः ।। अन्यथेति ।। असच्छब्द-स्यात्यन्तासत्ववाचित्व इत्यर्थः । तथा चासद्विलक्षणत्वं त्वदभिमतं न सिद्ध्येदिति भावः । वृथात्वात् निष्प्रयोजनत्वात् । अत्र प्रमाणमाह ।। मिथ्यैष इति ।। मिथ्या-शब्दस्य दुष्टवाचित्वं कुत इत्यत आह ।। मिथ्योपपदादिति ।। तथा च मिथ्याशब्दो दुष्टवाचीति भावः ।। जीवसम्बन्धित्वेनेति ।। जीवस्वामिकत्वेनेत्यर्थः ।। अन्यथेति ।। स्वप्नमायासरूपेत्यादेः मिथ्यात्वार्थत्वाङ्गीकार इत्यर्थः । सर्वत्र यववराहाधिकरणन्यायेन शास्त्रप्रसिद्धस्यैवार्थस्य ग्राह्यत्वादिति भावः ।

श्री श्रीनिवासतीर्थविरचितः

न्यायामृतप्रकाशः

असत्वोक्तेरिति ।। ‘तावन्ममेत्यसदवग्रह आर्तिमूलं तस्मादिदं जगदशेषमसत् स्वरूपं’’ इत्यादौ । अश्रद्धयेति ।। तथैवमादिरूपोऽसद्भावोऽसच्छब्दार्थ इति भावः । अस्वातन्त्र्याद्वाऽसत्वोक्तिरिति सम्बन्धः । अन्यथेति ।। असाधुत्वास्वातन्त्र्याभ्याम् असत्त्वोक्त्यव्याख्यान इत्यर्थः । अवस्तुत्वोक्तिः ‘किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत्’ इत्यादौ, अपारमार्थिकत्वोक्तिः ‘न यत्किञ्चित् भासते परमार्थतः’ इत्यादौ । परिणामित्वादवस्तुत्वोक्तिमुपपादयति ।। यत्त्विति ।। यथा परिणामेन सुवर्णस्य रुचिकादि-संज्ञा भवतीति दृष्टं तथा च हे नृप कालान्तरेणापि परिणामादिसम्भूताम् अन्यसंज्ञां यत् नोपैति तत् वस्तुशब्देनोच्यते । तच्च किमिति चेत् त्वं पृच्छसि तर्हि वक्ष्यामीति वा, कञ्चित् नृपं प्रति कस्यचित् प्रश्नो वा । एवं चापरिणामित्वस्य वस्तुशब्दार्थत्वे परिणामित्व-मवस्तुशब्दार्थ इति लब्धमित्यर्थः । विनाशित्वादपारमार्थिकत्वोक्तिमुपपादयति ।। अनाशीति ।। तथा च विनाशी न परमार्थ इति सिद्ध्यतीति द्रष्टव्यम् । मिथ्यात्वोक्तिरिति ।। ‘लोकस्य मिथ्याभिमतेरचक्षुषः’ इत्यादावपि मिथ्याशब्दस्य सदोषार्थकत्वं वैय्याकरणसंमतमित्याह ।। मिथ्योपपदादिति ।। मिथ्याशब्दोपपदात् ‘कृञ् करणे’ इत्यस्मात् धातोरभ्यासे सकृदुच्चारणरूपेऽर्थे विवक्षिते सति णिच् स्यादिति सूत्रार्थः । सूत्रवृत्तौ काशिकायाम् असकृदुच्चारयतीति सौत्राभ्यासशब्दार्थः । ‘स्वरादिदुष्टम्’ इति कस्य पदस्यार्थ इत्यत एतद्व्याख्यानपरकाशिकाटीकाद्वयवाक्यमुदाहरति । न्यास इति ।। एतेनेति ।। ‘स्वरादिदुष्टम्’ इति वचनेनेत्यर्थः । आचष्टे काशिकाकारो वामनः । इत्युक्तत्वात् न्यास-रूपपदमञ्जरीरूपकाशिकावृत्तिटीकाकर्तृभ्यामित्यर्थः । अतात्विकत्वोक्तिः ‘तस्मान्न तात्विकं विद्धि जगदेतत् चराचरम्’ इति विष्णुपुराणादौ । अविद्यमानत्वोक्तिः अविद्यमानो ह्यवभाति हि द्वय इत्यादौ । जीवसम्बन्धित्वेनेति ।। जीवस्वामिकत्वेनेत्यर्थः । स्वप्नादीति ।। ‘स्वप्नमनोरथो यथा’ इत्यादौ । मायामयत्वोक्तिः ‘मायामये वासनया शयानः’ ‘माया-मात्रमिदं द्वैतम्’ इत्यादौ । मायामात्रमित्यत्र माण्डूकवाक्यस्य मायामयत्वेन मिथ्यात्वाभिप्राये बाधकमाह ।। अन्यथेति ।। बोधनिवर्त्यत्वरूपमिथ्यात्वेनैव स्वप्नादिसाम्याङ्गीकारे बाधक-माह ।। वैधर्म्याच्चेति ।। मिथ्याभूतस्येति ।। असत्वादिवाक्येषु सर्वत्रापि प्रतीतार्थाङ्गीकारे बाधकमाह ।। तत्रैवेति ।। असत्वावस्तुत्वादिकं यत्र यत्र पुराणे कथ्यते तत्र तत्रैव पूर्वोत्तर- वाक्यैश्च विरोधात् नासत्वादिकं तदर्थ इत्यर्थः । इति जगदसत्ववाचिपुराणार्थविवरणम् ।।

श्रीकूर्मनरहरिआचार्यविरचिता

न्यायकल्पलता

।। असत्वोक्तिरिति ।। देहापत्यकलत्रादिष्वात्मदैन्येष्वसत्स्वपीत्यादाविति । तावन्म-मेत्यसदवग्रह आर्तिमूलमित्यादौ तु न जगतोऽसत्वोक्तिः किं तु स्वातन्त्र्यस्यैव । तच्च तत्त्वविन्मतेऽसदेवेति न दोष इत्यवधेयम् ।। अवस्तुत्वोक्तिरिति ।। ‘किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत्’ ‘स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः (प्रतिबुद्धवास्तुः)’ इत्यादौ ।। अपारमार्थिकत्वोक्तिश्चेति ।। माया यदात्मपरबुद्धिरियं ह्यपार्थेत्यादौ ।। मिथ्यात्वोक्ति-स्त्विति ।। यत्र त्रिसर्गो मृषेत्यादौ ।। एतेनेति ।। स्वरादिदुष्टमित्यनेन वाक्येनेत्यर्थः ।। आचष्ट इति ।। काशिकाकार इति शेषः ।। अतात्विकत्वोक्तिस्त्विति ।। ........ ।। अविद्यमानत्वोक्तिरिति ।। अविद्यमानो ह्यवभाति हि द्वय इत्यादौ ।। स्वाप्नादि-साम्योक्तिरिति ।। ध्यातुर्धिया स्वप्नमनोरथो यथेत्यादौ । अत्र स्वप्नशब्देन स्वाप्नगजादि-जाग्रत्वं गृह्यते । न स्वाप्नगजादि । तेषां तज्ज्ञानस्य च सत्यत्वेन जगति तत्साम्य-स्यानिष्टत्वाभावेन तस्याव्याख्येयत्वात् ।। अनित्यत्वादेरिति ।। नित्यत्वाभावादेरित्यर्थः । स्वाप्नजाग्रत्वस्य भ्रमविषयतयाऽत्यन्तासत्वेन तत्र ध्वंसप्रतियोगित्वादिरूपानित्यत्वादेर-भावात् । विकारित्वं कूटस्थत्वाभावः । पारतन्त्र्यं स्वातन्त्र्याभावः । आदिपदेनानास्थेयत्वं गृह्यत इति बोध्यम् । रूपतो धर्मेण ।। मायेति ।। मायामये वासनया शयान इत्यादौ । विपक्षे बाधकानि दर्शयति ।। अन्यथेति ।।

।। इति जगदसत्वादिवाचिपुराणार्थः ।।