यच्चेदमुच्यते जीवब्रह्माभेदे ‘तत्त्वमसि’ इत्यादिश्रुतिर्मानम्
२७. ऐक्यश्रुतेरुपजीव्यबाधः
न्यायामृतम्
यच्चेदमुच्यते जीवब्रह्माभेदे ‘तत्त्वमसि’ इत्यादिश्रुतिर्मानम् । यद्यप्यत्र सार्वज्ञ्या-सार्वज्ञ्यादिविशिष्टयोस्तत्वंपदवाच्ययोरैक्यं जरद्गवादिवाक्यवद्योग्यताविरहान्न युक्तम् । तथापि ‘सोऽयं देवदत्तः’ इत्यादिवद् विरुद्धांशत्यागेन लक्षितयोरैक्यं युक्तम् । उक्तं हि–
युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः ।
अनभिज्ञेऽनर्थकं स्याद्बधिरेष्विव गायनम् ।। इति ।
इयं च नवप्रकरणी षड्विधतात्पर्यलिङ्गवत्त्वात्प्रबला । तथा हि– ‘एकमेवा-द्वितीयम्’ इत्युपक्रमः । ‘तत्त्वमसि’ इत्युपसंहारः । ‘तत्त्वमसि तत्त्वमसि’ इति नवकृत्वोऽभ्यासः । जीवब्रह्मैक्यस्यान्यतोऽप्राप्तत्वाद् अपूर्वता । ‘अथ सम्पत्स्यते’ इति फलम् । ‘येनाश्रुतं श्रुतं भवति’ इत्यादिरर्थवादः । मृत्पिण्डादिदृष्टान्तैरुपपादना-दुपपत्तिरपि । एवं ‘विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते । आत्म-त्वात् । परमात्मवत्’ इत्याद्यनुमानानि चेति ।
अत्र ब्रूमः– विरुद्धाकारत्यागः किं अविवक्षामात्रेण ? अनित्यत्वेन वा ? मिथ्यात्वेन वा ? नाद्यः । विरुद्धाकारस्याविवक्षायामप्यनपायात् । न हि ‘असद्वा इदमग्र आसीत् सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुत्या असत्त्वशून्यत्वयोश्चित्वजडत्वयोर्वा अविवक्षामात्रेण ब्रह्मणः शून्येन जडेन वैक्यं सुवचम् । न द्वितीयः । तथात्वे तत्त्वं भविष्यसीति निर्देशापत्त्याऽसीति वर्तमाननिर्देशायोगात् । दशाभेदेन भेदाभेदयोः सत्त्वापत्त्या त्वयाऽप्यनङ्गीकाराच्च । जीवेशयोः स्वातन्त्र्यपारतन्त्र्यादेर्नित्यत्वे श्रुत्यादे-रुक्तत्वाच्च । न तृतीयः । निर्दोषश्रुतिसाक्षिसिद्धयोर्विरुद्धधर्मयोर्मिथ्यात्वायोगा-दित्युक्तत्वात् । ‘सोऽयम्’ इत्यादौ तु तत्तादेरनत्यागः क्रमेणैकत्र तत्तेदन्तयोर-विरोधादित्युक्तम् ।
किञ्चैक्यश्रुत्या प्रत्यक्षसिद्धं जीवम् अनूद्य तस्य ब्रह्मत्वं वा, श्रुतिसिद्धं ब्रह्मानूद्य जीवत्वं वा, उभयानुवादेनाभेदो वा विधेयः । सर्वथाऽप्युपजीव्यविरोधान्नैक्ये प्रामाण्यम् । प्रत्यक्षेण जीवस्य ब्रह्मतो भिन्नत्वेन श्रुत्या च सर्वज्ञत्वादिना ब्रह्मग्राहिण्या ब्रह्मणस्तद्धीनत्वेनानुभूयमानाज्जीवाद्भिन्नत्वेन ग्रहणात् । उपजीव्योपजीवकयोर्हि विरोधे न तावद् द्वयोः प्रामाण्यं वस्तुनो द्वैरूप्यापातात् । नापि द्वयोरप्रामाण्यं वस्तुनो निःस्वभावत्वापातात् । नाप्युपजीव्यस्यैवाप्रमाण्यम् । दुर्बलेन प्रबलबाधायोगात् । तस्मात्परिशेषादुपजीवकस्यैवाप्रमाण्यम् । तदुक्तम्–
शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ।
अनुभूतिविरोधेन कथमेकत्वमुच्यते ।।
सार्वज्ञ्यादिगुणं जीवाद् भिन्नं ज्ञापयति श्रुतिः ।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ।। इति ।
ईश्वरस्यानुमेयत्वेऽप्युपजीव्यविरोध एव । अनुमित्यापि तस्य सर्वज्ञत्वादिनैव सिद्धेः । न चैवं निषेध्यार्पिका इदंरूप्यमिति धीरपि नेदं रूप्यमित्यस्योपजीव्या स्यादिति वाच्यम् । यद्धि यदपेक्षं यस्य बाधे स्वस्यापि बाधापत्तिश्च । तत्तस्योप-जीव्यमिह । तच्च यद्धर्म्यादिग्राहकं स्वप्रामाण्यादिग्राहकं च तदेव । न तु निषेध-व्यापकम् । न हि ब्रह्मरूपधर्मिज्ञानाप्रामाण्ये ऐक्यज्ञानप्रामाण्याप्रामाण्ये च ब्रह्मात्मैक्य ज्ञानाप्रामाण्यवत् प्रतिषेध्यज्ञानाप्रामाण्ये प्रतिषेधज्ञानाप्रामाण्यम् । प्रतिषेधशास्त्रविपरि-लोपापातात् । न चेदं रूप्यमिति धीरपि धर्मिग्राहित्वेनैवोपजीव्या । धर्मिण इदमंशस्यापि नेदं रूप्यमिति प्रत्यक्षेणैव सिद्धेः । न च जीवोऽपि तत्त्वमस्यादि-वाक्यसिद्धः । अप्राप्ते शास्त्रस्यार्थवत्त्वात् । अस्तु वेदं रूप्यमिति धीरपि धर्मि-ग्राहकत्वेनोपजीव्या तथापि नेदमित्यत्रेदमंशमात्रं धर्मि, न तु रजतत्वविशिष्टम् । इदमंशमात्रे रूप्यत्वनिषेधेनैवेष्टसिद्धेः । एवं च यदुपजीव्यं तन्न बाध्यम्, इदमंशस्या-बाधात् । यच्च बाध्यं रजतत्ववैशिष्ट्यम्, न तदुपजीव्यम्, रजतत्वविशिष्टस्याधर्मि-त्वात् । नन्वेवमैक्येऽपि ब्रह्मस्वरूपमात्रं धर्मि, न तु सार्वज्ञ्यादिविशिष्टम् । एवं च यदुपजीव्यं न तद्बाध्यं यच्च बाध्यं न तदुपजीव्यमिति चेत्, किं सार्वज्ञ्यादिना भावरूपेणासंसारित्वादिना ऽभावरूपेण वाऽसाधारणधर्मेण ब्रह्मोद्देश्यम् ? चित्त्वादिना साधारणधर्मेण वा ? स्वरूपेणैव वा ? आद्ये सुस्थ उपजीव्यविरोधः । द्वितीये चित एव जीवैक्यं सिद्ध्येत्, न तु ब्रह्मणः । तच्च तवापि सम्मतम् । न तृतीयः । शब्देनासाधारणब्रह्मस्वरूपोद्देशस्यासाधारणधर्मेण विनाऽसिद्ध्योपजीव्यविरोधता-दवस्थ्यात् । साधारणस्वरूपोद्देशे च ब्रह्मैक्यासिद्धेः ।
एतेन न सार्वज्ञ्यादिवाक्यसिद्धं ब्रह्म धर्मि, किन्तु निर्गुणादिवाक्यसिद्धमिति निरस्तम् । तत्सिद्धस्याप्युक्तपक्षाबहिर्भावात् । निर्गुणादिवाक्येनापि धर्मिग्राहकविरोधेन गुणनिषेधासम्भवाच्च । एतेन सार्वज्ञ्याद्युपलक्षितो धर्मीति निरस्तम् । जीवव्यावृत्तब्रह्म-त्वस्योपलक्ष्यतावच्छेदकत्वे धर्मिग्राहकविरोधात् । चित्तस्य तत्त्वे सिद्धसाधनात् । ‘सोऽयं देवदत्तः’ इत्यादौ तु तत्ताविशिष्ट एवोद्देश्यः । यद्वत्तया ज्ञात एव यदन्वयधीः तत्त्वरूपस्य विशेषणत्वस्य तत्तादौ सम्भवादित्युक्तम् । न च प्रकृतेऽपि संसारित्वेन ज्ञाते ब्रह्मैक्यधीः । तज्ज्ञानस्य प्रमात्वे ब्रह्मैक्यायोगात् । भ्रमत्वे चोपजीव्यस्योप-जीवकेन बाधापातात् । ‘पुरोडाशकपालेन तुषानुपवपति’ इत्यत्राधिष्ठानलक्षणायामपि न दोषः । तत्र तुषोपवापस्यान्यतोऽप्राप्त्या तत्र तुषोपवापविधानेनैवेष्टसिद्धिः । इह तु चितो जीवैक्येन नेष्टसिद्धिः ।
एवं च–चिता चिदैक्यं सिद्धं नः सार्वज्ञ्यादिविशिष्टयोः ।
ऐक्यं तु धर्मिग्राहिभ्यां श्रुत्यक्षाभ्यां विरुध्यते ।।
अन्यथा परमाणुः सावयवः, ईश्वरोऽसर्वज्ञः, ‘आदित्यो यूपः’ इत्यादावप्यु-जीव्यविरोधो न स्यात् । उत्पत्तिशिष्टगुणविरुद्धगुणविधेरुत्पत्तिवाक्यविरोधश्च न स्यात् । तत्रापि परमाणुत्वादिविशिष्टो न धर्मी, किन्तु स्वरूपमात्रमिति सुवचत्वात् । निरवयवत्वादिना विना परमाण्वादेर्धर्मिकरणमेव न सिद्ध्यतीति चेत्, समं प्रकृतेऽपि । सर्वज्ञत्वादिना विनेश्वरस्यापि धर्मिकरणासिद्धेः । आरोपितेन सार्वज्ञ्यादिना व्यावृत्तं धर्मीति चेत्, तत्राप्यारोपितेन निरवयवत्वादिना व्यावृत्तो धर्म्यस्तु । निरवयवत्वादि-ग्राहिणः प्रमाणत्वान्न तथेति चेत्समं प्रकृतेऽपि । एतेनैक्यश्रुतेर्जीवान्यद् ब्रह्म नास्तीत्यत्र तात्पर्यमिति निरस्तम् । निरीश्वरवादान्तर्भावेन बहुश्रुतिविरोधात् । यदि तु सार्वज्ञ्यासार्वज्ञ्यादिके विरुद्धधर्मे सत्यपि चित्त्वादिनैक्यं विवक्षितम् । तन्ममापि सम्मतम् । एतेनैक्यश्रुतेर्लक्षणया चिन्मात्रपरत्वेनैक्यपरत्वाभावान्न तस्या धर्मिग्राहक-त्वेन श्रुत्यादिकमुपजीव्यं न वा तद्विरोध इति निरस्तम् । इष्टापत्तेः ।
यद्वा येन विना यस्यानुत्थानम्, तत्तस्योपजीव्यम्, इदं रूप्यमिति धीश्च प्रतिषेध्यार्पकतयोपजीव्यैव । तथापि न दोषः । न ह्युपजीव्यत्वमेव प्राबल्ये तन्त्रम् । किन्तु परीक्षितत्वविशिष्टम् । न चाविशिष्टस्य व्यभिचाराद्विशिष्टम् अप्रयोजकं भवति । परीक्षा च न तावत्प्रतिषेध्यार्पकशुक्तिरूप्याभेदज्ञानांशेऽस्ति । त्वन्मतेऽपि तस्य व्यावहारिकप्रामाण्यापातात् । इह तु निषेध्यार्पिकापि भेदश्रुतिः साक्षिप्रत्यक्षं च निर्दोषत्वात्परीक्षितम् । इत्थमेव च दोषाभावादिज्ञानरूपपरीक्षायामनाश्वासे प्रमाणतदाभासव्यवस्था न स्यादित्युक्तं प्रत्यक्षप्राबल्यप्रस्तावे । यद्यपि धर्म्यर्पके इदंज्ञानांशे परीक्षितत्वविशिष्टमुपजीव्यत्वमस्ति, तथापि न तद्बाध्यमित्यनुपदमेवोक्तम् । तदुक्तम्–
भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य तु ।
बाधकज्ञानवृत्तिः स्यान्न चैवं सुपरीक्षितः ।। इति ।
तस्मादुपजीव्यविरोधाद्–
उत्पत्तिवाक्यविज्ञातं कर्म सर्वमनूद्यते ।
न चाश्रितगुणे शक्यं तद्विरोधि गुणान्तरम् ।।
इति वार्तिकोक्तरीत्या आमिक्षावाक्योपजीवकस्य वाजिनवाक्यस्य तद्विरोधिगुण-विधायकत्ववत् प्रत्यक्षोपजीवकस्य ‘यजमानः प्रस्तरः’ इत्यादेस्तद्विरुद्ध यजमानत्व-बोधकत्ववच्च तत्त्वमस्यादिवाक्यस्य नैक्यबोधकता युक्ता । तदुक्तम्–
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ।। इति ।
यजमानप्रस्तारादिवाक्यादैक्यश्रुतेर्वैषम्यशङ्का तु प्रत्यक्षस्य शब्दाबाध्यत्वप्रस्तावे निरस्ता । नैवं भेदश्रुतेरैक्य श्रुतिरुपजीव्या । धर्मिणो जीवस्य प्रत्यक्षेण ईश्वरस्य च सर्वज्ञादिवाक्ये शब्दधीप्रामाण्यादेश्च प्रत्यक्षेणैव सिद्धेः । तस्य च सर्वस्य भेदानुगुणत्वात्प्रतिषेध्यार्पकविरोधस्य च प्रतिषेधशास्त्रप्रामाण्यानापादकत्वादित्युक्तत्वात् । श्रुतिं विनैवैक्यप्राप्तेर्वक्ष्यमाणत्वाच्च । ऐक्यश्रुतेस्तु निषेध्यप्रसक्तिर्भेदश्रुतिप्रत्यक्षाभ्यामेव । त्वत्पक्षे हि भेदश्रुतिरपि निषेध्यार्पिकैव, न तु सत्यचिन्मात्रपरा, तत्त्वावेदकत्वापत्तेः । निषेध्यार्पकम(पि) परीक्षितं चेन्न, बाध्यमित्युक्तम् । एतेन–
अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा ।
तथा चाऽऽद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात् ।।
इति निरस्तम् । तदुक्तं ‘नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात्’ इति । ।। इति ऐक्यश्रुतेरुपजीव्यबाधः ।। २७ ।।
अद्वैतसिद्धि:
ननु– सार्वज्ञ्यासार्वज्ञ्यादिविशिष्टयोरैक्यम् अयोग्यत्वपराहतं कथमुदाहृतश्रुत्या बोध्यमिति चेन्न, सोऽयमित्यादाविव विरुद्धाकारत्यागेन शुद्धाकारैक्यबोधनात् । ननु विरुद्धाकारत्यागः किमविवक्षामात्रेण ? उतानित्यत्वेन ? उत मिथ्यात्वेन ? नाद्यः । विरुद्धाकारस्याविवक्षायाम् अप्यनपायात् । न हि ‘असद्वा इदमग्र आसीत्सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुत्या सत्त्वशून्यत्वयोश्चित्त्वजडत्वयोर्वेहा-विवक्षामात्रेण ब्रह्मणः शून्येन जडेन च ऐक्यं सुवचम् । न द्वितीयः । तत्त्वं भविष्यसीति निर्देशापत्त्या असीति वर्तमाननिर्देशायोगाद्, दशाभेदेन भेदाभेदयोः सत्त्वापत्त्या त्वयाप्यनङ्गीकाराच्च, जीवेशयोः स्वातन्त्र्यपारतन्त्र्यादेर्नित्यत्वाच्च । न तृतीयः । निर्दोषश्रुतिसाक्षिसिद्धयोर्विरुद्धधर्मयोर्मिथ्यात्वायोगादिति चेन्न, विरुद्धाकारस्याविवक्षयैव त्यागात् । त्यागश्च ब्रह्मानुभवाविषयत्वम्, न त्वपायः, तस्य चरम-साक्षात्कारसाध्यत्वात् । तथा च तत्तेदन्ते इवानपेते अपि सार्वज्ञ्यासार्वज्ञ्ये नाश्रयाभेदविरोधाय । अविवक्षा च प्रधानप्रमेयनिर्वाहाय । न च– ‘सोऽयम्’ इत्यत्र तत्तेदन्तयोर्न त्यागः । क्रमेणैकत्र तयोरविरोधादिति वाच्यम् । अभेदपरे अस्मिन्विशेषणयोरैक्यापत्त्या क्रमेणैकत्र सत्त्वेऽपि तत्त्यागस्यावश्यकत्वात्, ‘असद्वा’ इत्यादौ ‘सर्वं खल्विदं ब्रह्म’ इत्यादौ च न शून्यजडैक्यापत्तिः शून्यसतोः चिज्जडयोर्वा विरुद्धाकारपरित्यागेन जीवब्रह्मणोरिवानुस्यूतस्याकारस्याभावात् । असतो निःस्वरूपत्वाज्जडस्य बाध्यस्वरूपत्वात् । इत्यद्वैतसिद्धौ जीवब्रह्माभेदे प्रमाणम् ।
ननु– ऐक्यश्रुत्या प्रत्यक्षसिद्धं जीवम् अनूद्य ब्रह्मत्वं वा बोधनीयं, श्रुतिसिद्धं ब्रह्मानूद्य तस्य जीवत्वं वा, उभयानुवादेनाभेदो वा विधेयः । सर्वथाऽप्युपजीव्यविरोधात् नैक्ये प्रामाण्यम् । प्रत्यक्षेण जीवस्य ब्रह्मभिन्नत्वेन, श्रुत्या च सर्वज्ञत्वादिमद्ब्रह्मग्राहिण्या तद्धीनत्वेनानुभूयमानाज्जीवाद् भिन्नत्वेन ब्रह्मणो ज्ञायमानत्वात् । न चानुमानेन ब्रह्मोपस्थितिः । तेनापि सर्वज्ञत्वादिना ब्रह्मणो विषयीकरणेन उपजीव्यविरोधतादवस्थ्यादिति चेन्न । शक्तिग्रहादौ तयोरुपजीव्यत्वेऽपि स्वप्रमेयेऽनुपजीव्यत्वात् । तदुक्तं वाचस्पत्ये– ‘यत् उपजीव्यं, तन्न बाध्यते, यद्वाध्यते तन्नोपजीव्यमिति । यथाकथञ्चि-दपेक्षामात्रेणोपजीव्यत्वे ‘नेदं रजतम्’ इत्यत्रापि ‘इदं रजतम्’ इत्यस्योपजीव्यतापत्तेः ।
ननु– यद्धि यदपेक्षं यस्य बाधे स्वस्य बाधापत्तिश्च तत्तस्योपजीव्यम् । प्रकृते च धर्म्यादिग्राहकस्यैव स्वप्रामाण्यग्राहकतया तद्बाधे स्वबाधापत्तिः । निषेध्यार्पणस्थले तु न तथा । न हि ब्रह्मस्वरूपधर्मिज्ञानाप्रमाण्ये ऐक्यज्ञानाप्रामाण्यवत् प्रतिषेध्यज्ञानाप्रामाण्ये प्रतिषेधज्ञानाप्रामाण्यम् । प्रतिषेधशास्त्रविलोपप्रसङ्गादिति चेत्, सत्यम्, सार्वज्ञ्यादिविशिष्टं न तावद्धर्मि, किन्तु ब्रह्मस्वरूपमात्रम् । विशिष्टधर्मिज्ञानप्रामाण्यं ऐक्यज्ञानप्रामाण्ये नापेक्ष्यते, किन्तु स्वरूपज्ञानप्रामाण्यमात्रम् । अन्यथा ‘इंद रजतम्’ इत्यस्यापि धर्मिज्ञानत्वेन उपजीव्यतया निषेधज्ञानप्रामाण्ये रजतत्वविशिष्टेदंज्ञानप्रामाण्यं स्यात् । रजतत्ववैशिष्ट्यस्य धर्मित्वाप्रयोजकत्ववत् सार्वज्ञ्यादिवैशिष्ट्यस्यापि तदप्रयोजकत्वस्य प्रकृतेऽपि समानत्वात् ।
ननु– एवम् असाधारणसार्वज्ञ्यादिधर्मावच्छेदेन ब्रह्मणोऽनुद्देश्यत्वे साधारणधर्मेण स्वरूपेण वा उद्देश्यता वाच्या । तत्राद्ये इष्टापत्तिः । चित्त्वादिसाधारणधर्मैक्यस्यास्माभिरप्यङ्गीकारात् । द्वितीये ब्रह्मैक्यासिद्धिः । साधारणस्वरूपमात्रोद्देशादिति चेन्न । ब्रह्मैक्यासिद्धिरित्यत्र ब्रह्मशब्देन सार्वज्ञ्यादिविशिष्टं चेदभिमतम्, तदेष्टापत्तिः । तदा त्वया च लक्षितयोरेव पदार्थयोरैक्यबोधस्य प्राक् प्रतिपादितत्वात् । अत एव शब्देन असाधारणब्रह्मस्वरूपोद्देशस्यासाधारणधर्मेण विनाऽसिद्धेरुप-जीव्यविरोधतादवस्थ्यमिति निरस्तम् । असाधारणधर्मस्य उद्देश्यसमर्पणे उपलक्षकत्वात् । न च उप लक्ष्यतावच्छेदकाभावे उपलक्ष्यत्वासिद्धिः । चित्त्वस्य तत्त्वे सिद्धसाधनादिति वाच्यम् । स्वरूपोप-लक्षणउपलक्ष्यताव च्छेदकस्यानपेक्षणात् । यत्तु चित्त्वेनैक्ये सिद्धसाधनम्, तन्न । चित्त्वैक्यस्येष्टत्वेऽपि तदाश्रयैक्यस्य तवानिष्टत्वात् । इष्टौ चाविवादात् । अत एव– ‘पुरोडाशकपालेन ‘तुषानुपवति’ इत्यत्राधिष्ठानलक्षणायाम् अन्यतोऽप्राप्ततुषोपवापविधानरूपेष्टसिद्धिवदत्र न लक्षणयाऽभीष्टसिद्धिः । येन लक्षणा स्यादिति निरस्तम् । चित्त्वैक्यस्य प्राप्तत्वेऽप्य•श्रयैक्यस्या प्राप्तस्य लक्षणाप्रापणीयस्य सत्त्वात् । सोऽयमित्यत्रापि उक्तप्रकारस्यावश्यवाच्यत्वात् । न च तत्ताविशिष्टस्य तत्रोद्देश्यता यद्वत्तया ज्ञात एव यदन्वयधीः, तत्त्वस्य विशेषणत्वस्य तत्तादौ सम्भवादिति वाच्यम् । दत्तोत्तरत्त्वात् ।
ननु– एवं परमाणुः सावयवः, ईश्वरो न सर्वज्ञः, आदित्यो यूपः’ इत्यादावुपजीव्यविरोधो न स्यात् । उत्पन्न शिष्टगुणविधौ सगुणोत्पत्तिवाक्यविरोधश्च न स्यात् । तत्रापि परमाणुत्वादिविशिष्टं न धर्मी, किन्तु स्वरूपमात्रमिति सुवचत्वादिति– चेन्न । परमाणवादेः स्वरुपेणापि सावयवत्वादिकं प्रति धर्मित्वे परमाणुत्वादिकं धर्मिसमानसत्ताकं परमाण्वादौ न स्यात् । तदीयसमसत्ताकत्वस्य तत्सावयवत्वबोधकप्राबल्याधीनत्वात् । तत्प्राबल्येऽनुमानाभावात् । प्रत्युत भ्रान्तवाक्यत्वेन दुर्बलत्वात् । ‘आदित्यो यूपः’ इत्यत्राभेदो न प्रमेयः । स्तुतिद्वारान्यशेषत्वात् । स्तुतेश्च प्रत्यक्षाविरुद्धैर्गुणैरपि सम्भवे प्रत्यक्षविरुद्धार्थकल्पनायोगात् । उत्पन्नशिष्टगुणविधौ तूत्पत्तिवाक्यस्थितामिक्षादिपदस्य द्रव्यसामान्यपरत्वे तत्पदवैयर्थ्यापत्तिः । ‘तद्धितार्थान्तर्गतास्येति सर्वनाम्ना यजति चोदनाद्रव्यदेवता-क्रियम्’ इति न्यायेन यागचोदनमात्रेण च द्रव्यसामान्यलाभात् । प्रकृते अनन्यशेषतया प्रबलत्वात् प्रमाणवाक्यत्वाच्च तद्विरोध्यैक्यप्रतिपादकतया स्वरूपलक्षणाया युक्ततमत्वाच्च ।
ननु– रूप्यरूपनिषेध्यार्पकस्यापेक्षितस्यापि परीक्षितत्वाभावाद्, यद्यपि दुर्बलत्वम्, उपजीव्यत्व-मात्रस्य प्राबल्याप्रयोजकत्वात्, तथापीह निषेध्यार्पकभेदश्रुतिः, साक्षिप्रत्यक्षं च निर्दोषत्वात् परीक्षितमपि प्रबलं तद्विरोधात् कथमैक्यपरत्वमिति– चेन्न, निर्दोषाया अपि श्रुतेः भेदपरत्वस्यैवाभावेन तद्विरोधस्यैक्यश्रुतावसम्भवावितत्वात् । न हि श्रुतेरुपक्रमादिषडि्वधतात्पर्यलिङ्गशून्यार्थपरत्वम् । तन्नियामकाभावात् । अन्यथाऽतिप्रसङ्गात् । साक्षिणोऽपि निर्दोषत्वमात्रेण परीक्षितत्वाभावात् । दुःखाभावादावारोपितसुखादेरपि प्रामाणिकत्वापत्तेः । मन्मते प्रातिभासिकमात्रस्य साक्षिसिद्धस्य मिथ्यात्वात् । साक्षिणोऽपि निर्दोषजवृत्त्युपरक्तत्वेनाबाध्यत्वासिद्धेरुक्तत्वाच्च । प्रमाणतदभावव्यवस्थापि प्रातिभासिकव्यावहारिकयोः करणसंसर्गिदोषप्रयुक्तत्वाप्रयुक्तत्वाभ्याम् । व्यावहारिकस्य चैतन्यमात्रस्था-ज्ञानदोषप्रयुक्तत्वात् । तस्मादुपजीव्यविरोधाभावात्, प्रत्युताभेदश्रुतेरेव सर्वशेषितया भेदश्रुतिं प्रत्युपजीव्यत्वाद्, भेदश्रुतेरेव तद्विरोधेन तदनुकूलतया नेयत्वात् सर्वविरोधशून्यं तत्त्वमस्यादिवाक्यम् । तथा चैक्यपरमिति सिद्धम् ।। इत्यैक्यश्रुतेरुपजीव्यविरोधाभावः ।। २७ ।।
न्यायामृततरङ्गिणी
।। विरुद्धाकारस्याविवक्षायामपीति ।। अविवक्षामात्रेण वस्तुनोऽन्यथात्वाभावात् । ननु त्यागो नाम नाप्ययः । अप्ययस्य चरमसाक्षात्कारसाध्यत्वात् । किन्तु ब्रह्मानुभवा-विषयत्वमित्यत आह– न हीति ।। सुवचं हि सत्वशून्यत्वयोश्चित्त्वजडत्वयोश्चाविवक्षया सच्छून्याभेदानुभवं प्रति चिज्जडाभेदानुभवं च प्रत्यविषयत्वमात्रेण सच्छून्ययोश्चि-ज्जडयोश्चाभेदसिद्धिरिति । ननु सच्छून्ययोश्चिज्जडयोर्विरुद्धाकारपरित्यागे आकारान्तराभावः । असतो निःस्वरूपत्वात् । जडस्य चाध्यस्त (बाध्यस्व)रूपत्वात् । मैवम् । सर्वज्ञत्वनिर्दुःख-त्वादिधर्मिग्राहकमानसिद्धाकारपरित्यागे ब्रह्मण्यप्याकाराभावाच्चित्तादिप्रकारत्यागे चिदाकार-स्याप्यसम्भवाज्जीवे प्रत्यक्षबाधितस्य ब्रह्मगतपूर्णानन्दाकारस्यापि त्यक्तव्यत्वेन पूर्णानन्दैक्या-सिद्धेश्च । किञ्च विरुद्धाकारसंत्यागो यद्यैक्यस्योपपत्तये तह्यैक्यं त्यज मुख्यस्य विरुद्धस्योप-पत्तये । तच्च ममापि सम्मतमिति । ननु चित्त्वैक्ये तव सम्मतावपि न तदाश्रयैक्येऽपि सम्मतिः । मैवम् । चितोऽपि चित्त्वाश्रयत्वाभेदेन चित्त्वाश्रयैक्येऽपि मम सम्मतेः । न हि घटो घटत्वाश्रयाभिन्न इत्युक्ते घटान्तरेणाभेदश्चायाति । येनेदं वाक्यं ममासम्मतार्थं स्यात् ।। पुरोडाशकपालेनेति ।। दर्शपूर्णमासयोः श्रूयते ‘पुरोडाशकपालेन तुषानुपवपति’ इति । अत्र पुरोडाशकपालशब्देन पुरोडाशरूपविशेष्यान्विततयोपस्थितस्य तुषोपवापलक्षणशेषान्तरेणा-काङ्क्षाविरहात् अन्वयासम्भवलक्षणस्य विनियुक्तविनियोगदोषस्य परिहाराय पुरोडाशकपाल-शब्दस्य वस्तुतः पुरोडाशश्रपणशेषत्वाधिष्ठानैक कपालस्वरूपे लक्षणेति वर्णितं चतुर्थाध्यये ।।
इह त्विति ।। जीवस्यापि चित्त्वेन चिदभेदस्य मयाप्यङ्गीकारादित्यर्थः ।। अन्यथेति ।। धर्मिग्राहकविरोधस्योपजीव्यविरोधाभावे ।। उत्पत्तिशिष्टेति ।। ‘वैश्वदेव्यामिक्षावाजिभ्यो वाजिनम्’ इत्यत्रोत्पत्तिशिष्टामिक्षारूपगुणावरुद्धे यागे उत्पन्नशिष्टवाजिरूपगुणस्यानन्वयः । उत्पत्तिवाक्यविरोधादिति यदुच्यते मीमांसकैः तदपि तव मते न स्यादित्यर्थः ।। एतेनैक्य-श्रुतेरिति ।। तत्त्वमस्यादिश्रुतेर्धर्मिग्राहकरूपत्वान्न तस्याः धर्मिग्राहकश्रुत्यन्तरापेक्षेत्यर्थः ।। एतेन ‘अभेदं नोल्लिखन्ती धीः’ इति ।। भेदग्राहकं प्रत्यभेदग्राहकस्यानुप जीव्यत्वेन । अभेदं गृह्णन् ज्ञानभेदं गृह्णाति । भेदस्याभेदपूर्वकत्वात् । एवं चाभदांशे सा भेदप्रतीतिः प्रमा स्यात् । न तु भेदांशे । स्वापेक्ष्यवैशसात् । स्वोपजीव्यस्य नाशनादित्यर्थः ।। बलादिति ।। भेदश्रुतेर्बलवत्त्वात् ।। ऐक्यश्रुतेरुपजीव्यबाधः ।। २७ ।।
न्यायामृतकण्टकोद्धारः
ननु जीवब्रह्मैक्यं नोक्तविकल्पपांसुभिर्निराकर्तुं शक्यम् । तत्वमसीत्यादि सतात्पर्यकश्रुति-सिद्धत्वात् । श्रुतिसिद्धेऽर्थे तर्काणामाभासत्वात् । अन्यथाऽलौकिकवस्तुसिद्धिः क्वापि न स्यात् । तत्रापि कुतर्कसम्भवादित्यतस्तत्वमसीति वाक्यं न जीवब्रह्मैक्यपरं, किन्तु भेदपरमिति प्रतिपादयितुं परमतम् अनुवदति– यच्चेदमिति । यद्यप्यभ्यर्हितं पूर्वमिति ब्रह्मशब्दस्य पूर्वनिपातेन भवितव्यम् । तथापि अत्र वाक्ये जीवस्योद्देश्यतेति द्योतयितुं जीवस्य पूर्वनिपातः । आदिशब्देनैतदात्मप्रकरणस्थानि ‘ऐतदात्म्यम्’ इत्यादीनि ग्राह्याणि । नन्वनेन जीवब्रह्मभेदो बोधयितुं न शक्यते । विशिष्टाभेदयोग्यताविरहात् । प्रकारान्तरस्य चाभावात् इत्याशङ्क्य परिहरति– यद्यपीति । सोऽयमिति मायिमतानुसारेण दृष्टान्त इति ज्ञातव्यम् । उक्तं हीति । युष्मदस्मच्छब्दयोर्विरुद्धाविरुद्धवाच्यलक्ष्यरूपार्थद्वयविभागज्ञ इत्यर्थः । यद्यप्यत्रास्मच्छब्दो नास्ति । तथापि ‘अहं ब्रह्मास्मि’ इत्यत्रास्मच्छब्दस्य विद्यमानत्वात् तदभिप्रायेणेदमुक्तम् । ननु भेदवाक्यविरोधान्नेदम् अभेदपरमित्यत आह– इयं चेति । तथा च प्रबलत्वाद् अनेन भेदवाक्यबाध इति भावः ।
अन्य(था)त इति । श्रुत्यननुगृहीतप्रत्यक्षादिनेत्यर्थः । प्रत्युत ब्रह्मभेदस्यैव प्रत्यक्षादिना ज्ञानादित्यर्थः । एवमिति । यद्यप्यनुमानगम्यत्वे ‘नेन्द्रियाणि नानुमानम्’ इत्यादिश्रुतिविरोधः । तथापि तत्र केवलानुमानगम्यत्वनिषेधात् । प्रकृते च श्रुत्यनुग्रहस्योक्त-त्वाददोषः । आदिपदेन ‘जीवः परमात्मनो न भिद्यते तदंशत्वात् मत्स्यादिवत्’ इत्यादिकं च द्रष्टव्यम् । चशब्देन मानमित्यस्यानुकर्षः । विरुद्धेति । न च प्रधानप्रमेयनिर्वाहाय विरुद्धांशत्याग इति वाच्यम् । अन्योन्याश्रयात् । ऐक्यस्य प्रधानप्रमेयत्वसिद्धौ तन्निर्वाहाय विरुद्धांशत्यागः । विरुद्धांशत्यागे च ऐक्यस्य प्रधानप्रमेयतेति । न हीति । न चेष्टापत्तिरिति वाच्यम् । शून्यब्रह्मैक्याङ्गीकारेऽपसिद्धान्तापातात् । यथाकथञ्चिदैक्यस्य जीवब्रह्मणोरप्यङ्गी-कृतत्वेनेष्टापत्तेः । तथात्व इति । न च ‘वर्तमानसामीप्य’ इति सूत्राद् वर्तमानवत् प्रत्यय इति वाच्यम् । वर्तमानसामीप्यस्यानिर्णयात् । तन्निर्णयवति सूत्रप्रवृत्तेः । अन्यथा सर्वत्र वर्तमानसामीप्यसम्भवात् वर्तमानप्रयोगापत्तेः । दशेति । भेदसत्वानङ्गीकारेऽभेदस्यापि तन्न स्यादविशेषादिति भावः । जीवेशयोरिति । सगुणवाद इति भावः । तथा च नानित्यत्वेनैक्योपपत्तिरिति भावः । निर्दोषेति । न च श्रुतेस्तत्र न तात्पर्यमिति वाच्यम् । अतात्पर्ये ज्ञापकाभावात् । तात्पर्यज्ञापिकाया अपूर्वतायाः सत्वात् ।
ननु सोऽयमित्यादेर्विरुद्धाकारात्यागे कथमैक्यावगतिरित्यत आह– सोऽयमिति । न चाभेदपरेऽस्मिन् वाक्ये विशेषणात्यागे तयोरैक्यापत्तिरिति वाच्यम् । यथा विशषणयो-र्नैक्यापत्तिः तथोक्तमखण्डार्थवादे । क्रमेणेति । एतदपि तत्रैवोपपादितं द्रष्टव्यम् । श्रुत्या चेति । न च प्रत्यक्षेण जीवग्राहिणा भवतु भेदग्रहः । प्रतियोगितावच्छेदकप्रकारक-प्रतियोग्युपस्थितौ तत्प्रतियोगिकभेदस्य धर्मिस्वरूपग्राहिणा ग्रहसम्भवात् । श्रुत्या तु धर्मिस्वरूपग्राहिण्या कथं भेदग्रहः ? न तावत् पदार्थत्वेन । ‘यः सर्वज्ञः’ इत्यादौ भेदस्यापदार्थत्वात् । नापि संसर्गत्वेन । सार्वज्ञ्यधर्मिसंसर्गस्यैव तत्त्वात् । भेदस्यातथात्वात् । अतथाभूतस्य च शाब्दबोधविषयत्वेऽपि(ति) प्रसङ्गात् । न च भेदस्य धर्मिस्वरूपत्वात् तद्ग्रह एव भेदग्रह इति वाच्यम् । तादृशभेदज्ञानस्याभेदज्ञानाविरोधित्वात् । अन्यथा रजतभ्रमानु-पपत्तेः । न च प्रत्यक्षेण प्रतियोग्युपस्थितौ तत्प्रतियोगिकभेदग्रहवत् श्रुत्यापि ग्रहः किं न स्यादिति वाच्यम् । प्रत्यक्ष उपनीतभानाभ्युपगमेन, श्रुतौ तथात्वाभावादिति चेन्मैवम् । वह्नितात्पर्यकधूमवद्वाक्यस्य वह्न्यर्थकत्ववद् भेदतात्पर्यकसार्वज्ञ्यवाक्यस्यापि भेदार्थत्वोपपत्तेः । तथा च भेदतात्पर्यात् भेदस्य तदर्थत्वम् । अन्यथा सार्वज्ञ्यस्य तद्धेतोः प्रतिपादनानुपपत्तेः । तात्पर्यनिर्वाहश्च शक्त्या लक्षणया वेत्यन्यदेतत् ।
यद्वा श्रुत्यर्थसार्वज्ञ्यानुपपत्तिसिद्धत्वाद् भेदस्य श्रुत्यर्थत्वम् । यथा यागसाधनत्वान्यथानु-पपत्तिसिद्धम् अपूर्वं श्रुत्यर्थः । यथा वा सूत्रार्थानुपपत्तिसिद्धं प्रपञ्चमिथ्यात्वं परेषां सूत्रार्थ-स्तद्वत् । यश्चार्थादर्थो न स चोदनार्थ इति तु वाक्यार्थत्वनिषेधपरम् । अथवा प्रतियोग्युप-स्थितौ तत्प्रतियोगिकभेदः प्रत्यक्षेण यथा गृह्यते तथा श्रुत्यादिभेदो गृह्यताम् । न च प्रत्यक्ष उपनीतभानमङ्गीकृतं, न शब्द इति वाच्यम् । नियामकाभावेन श्रुतावपि तद्भानसम्भवात् । न चैवमपि प्रसङ्गः । प्रत्यक्षेऽपि साम्यात् । अदृष्टादिकं तत्र नियामकमिति चेत् समं प्रकृतेऽपि । यद्वा प्राभाकरमते घटेन जलमाहरेत्यत्र योग्यतावच्छेदकत्वेन छिद्रेतरत्वभानवत् प्रकृतेऽपि असर्वज्ञत्वेनानुभूयमानजीवभिन्नत्वेन विना सार्वज्ञ्यस्य बाधयितुमशक्यत्वात् योग्यतया जीवभेदो भासते ।
अथवा भेदकधर्मज्ञानमेव भेदज्ञानम् । भेदशब्दस्य च भिद्यतेऽनेनेति व्युत्पत्त्या सम्भवात् । न च भेदज्ञानमेव विरोधीति वाच्यम् । भेदवद् भेदकधर्मज्ञानस्यापि विरोधित्वात् । अन्यथा शुक्तित्वेन ज्ञानेऽपि रजताभेदारोपापत्तेः । यद्वा प्रतियोगितावच्छेदकप्रकारक-प्रतियोग्युपस्थितिसमानकालिकं भेदकधर्मविशिष्टधर्मिज्ञानं भेदज्ञानमिह विवक्षितम् । धर्मिणो भेदस्वरूपत्वात् । न च धर्मिज्ञानं न विरोधीति वाच्यम् । प्रतियोग्युपस्थितिसमानकालीन-भेदकधर्मविशिष्ट धर्मिज्ञानस्य विरोधित्वात् । ननूपजीव्योपजीवकयोर्विरोधे द्वयोरपि प्रामाण्यं वा, द्वयोरप्यप्रामाण्यं वा किं न स्यात् ? उपजीवकविरोधेनोपजीव्यस्यैव वाऽप्रामाण्यं किं न स्यादित्यत आह– उपजीव्योपजीवकयोर्हीति । उपजीव्यविरोधेनोपजीवकस्याप्रामाण्यं सिद्धान्तसिद्धमित्याह– तदिति । ननु प्रतियोगिप्रत्यक्षाभावे कथं तत्प्रतियोगिको भेदः प्रत्यक्ष इति चेन्न । धर्मिप्रत्यक्षस्यैवान्योन्याभावप्रत्यक्षप्रयोजकत्वात् । प्रतियोगिज्ञानस्यैव कारण-त्वात् । तस्य च प्रकृते सत्वात् ।
नन्वनुमानेनैवेश्वरसिद्धिसम्भवात् । कथं श्रुतेरुपजीव्यत्वमित्यत आह– ईश्वरस्येति । अनुमानस्यापि उपजीव्यत्वेन प्राबल्यसम्भवात् । नन्वनुमानस्य स्वरूपमात्रविषयत्वेन विरोधाभावात् कथं तद्विरोधेनाप्रामाण्यमित्यत आह– अनुमित्यापीति । श्रुतिसमान-योगक्षेमम् अनुमानमिति भावः । अङ्गीकारवादोऽयम् । केवलानुमानस्य सर्वत्र प्रतिपक्षग्रस्त-त्वेन वस्तुसाधकत्वाभावात् । श्रुतिसाहाय्ये च श्रुतिविरोधस्यावश्यकत्वात् । न चैवमिति । तथा च तद्विरोधेन ‘नेदं रजतम्’ इत्यस्याप्यप्रामाण्यं स्यात् । येन विना यस्यानुत्थानं तत् तस्योपजीव्यमित्यस्योपजीव्यत्वे भवेदिदं दूषणम् । अस्योपजीव्यत्वस्य प्राबल्या-प्रयोजकत्वात् । अन्यथा प्रतिषेधशास्त्रविलोपापत्तेः । किं तर्हि इत्यत आह– यद्धीति । न च शक्तिग्रहे तदपेक्षायामपि ऐक्यवाक्ये न तदपेक्षेति वाच्यम् । ऐक्यस्य ससम्बन्धिकत्वेन धर्मिप्रतियोगिज्ञानापेक्षावश्यम्भावात् । अन्यथा भेदज्ञानादावपि तदपेक्षा न स्यात् । ननु नेदं रजतमित्यत्र रजतत्ववैशिष्ट्यांशे प्रामाण्यानपेक्षावत् सार्वज्ञ्यवैशिष्ट्यांशेऽपि प्रामाण्यानपेक्षा किं न स्यात् ? अविशेषादिति चेन्न । प्रकृते सार्वज्ञ्यस्य धर्मितावच्छेदकत्वेन रजतत्वस्या-तथात्वेन वैषम्यात् । यथा चैत्तथा आकर एवाग्रे स्फुटम् । इहेति । तथा च तदेव प्राबल्य-प्रयोजकम्, न प्रतिषेध्यार्पकसाधारणं येन विनेत्यादिकमिति भावः ।
ननु यथा इदमंशस्य नेदं रूप्यमित्यनेन सिद्धिः तथा जीवस्यापि तत्वमस्यादिवाक्यादेव सिद्धिरस्तु । तथा च नोपजीव्यविरोध इत्यत आह– न चेति । अप्राप्त इति । शास्त्रस्य परार्थत्वादिति भावः । ननु यथा तत्वमस्यादिवाक्ये धर्मिसिद्धिः पृथगपेक्षिता तथा नेदं रजत-मित्यत्रापि । अन्यथा प्रकृतेऽपि श्रुत्यादेरुपजीव्यता न स्यात् । पृथक् सिद्धिश्चेदं रजत-मित्यस्मात् पृथङ्नास्तीति तस्योपजीव्यत्वमावश्यकमित्यस्वरसादाह– अस्तु वेति । ननु रजतत्वस्य धर्मितावच्छेदकत्वे इष्टसिद्धिर्न स्यादित्यत आह– इदमंशमात्र इति । रजतत्वस्य धर्मितावच्छेदकत्वे निषेध एव न सिध्येत् । रजतं रजतं नेति व्याघातादिति भावः । समानन्यायाभिमानेन शङ्कते– नन्विति । ब्रह्मैक्यासिद्धेरिति । ननु सार्वज्ञ्यादिविशिष्टेनैक्य-सिद्धिरुच्यते उत तदुपलक्षितेन ? नाद्यः । अनङ्गीकारात् । न हि विशिष्टैक्यम् अस्माभि-रुच्यते । उपलक्षितैक्याङ्गीकारात् । न द्वितीयः । उपलक्षणे बाधकाभावादिति चेन्न । उपलक्षणं न सम्भवति । उपलक्ष्यतावच्छेदकाभावात् । न च स्वरूपोपलक्षणेऽवच्छेदकं नापेक्षितमिति वाच्यम् । उपलक्ष्यता वच्छेदकानपेक्षणे यत् किञ्चित्स्वरूपैक्यापत्त्या सिद्धसाधनतापत्त्या जीवव्यावृत्तोपलक्ष्यतावच्छेदकस्यावश्यकत्वात् । तत्सिद्धस्येति । निर्गुणवाक्यसिद्धमपि सर्वथा गुणसम्बन्धशून्यत्वादिरूपासाधारण धर्मोपेतं स्यात् । साधारणचित्त्वाद्युपेतं वा । स्वरूपं वेत्युक्तपक्षान्तर्भाव इत्यर्थः ।
ननु निर्गुणादिवाक्येन धर्ममात्रनिषेधान्नोक्तरूपं सिध्यतीत्यत आह– निर्गुणादि-वाक्येनापीति । एतेनेति परामृष्टं हेतुं दर्शयति– जीवव्यावृत्तेति । चित्त्वस्येति । न च चित्त्वैक्येऽपि न तदाश्रयैक्यमिष्टम् । इष्टौ वा विवादाभाव इति वाच्यम् । चित्त्वाश्रय-यावदैक्याभावे चित्त्वाश्रयैक्यस्येष्टत्वात् । तावतैव वाक्यस्योपपत्तेः । ननु ‘सोऽयं देवदत्तः’ इत्यादौ यथा स्वरूपमात्रमुद्देश्यं तथा प्रकृतेऽपि किं न स्यादित्यत आह– सोऽयमिति । न च विशिष्टैक्ये विशेषणैक्यापत्तिरिति वाच्यम् । ‘धूमवान् पर्वतोऽग्निमान्’ इत्यादौ व्यभिचारेणापादनासम्भवात् । ननु विद्यमानस्यैव विशेषणत्वात्, तत्ताया अतीतत्वात् कथं विशेषणत्वमित्यत आह– यद्वत्तयेति । नन्वेतादृशं विशेषणं संसारित्वादिकमस्त्वित्याशङ्क्य निषेधति– न चेति । भ्रमत्वे चेति । ऐक्यवाक्यविरोधादिति शेषः ।
ननूपलक्ष्यतावच्छेदकाभावेनोपलक्षणाभावे ‘पुरोडाशकपालेन तुषानुपवपति’ इत्यत्राधिष्ठान-लक्षणा न स्यात् । तथा च तद्वाक्यं विधायकं न स्यात् । तथा च तस्याप्रामाण्यं स्यात् इत्यत आह– पुरोडाशकपालेनेति । दर्शपूर्णमासयोः श्रूयते । ‘पुरोडाशकपालेन तुषानुप-वपति’ इति । तत्र सन्देहः– कपालस्य तुषोपवापं प्रति साधनत्वं न युक्तमुत युक्तं वेति । पूर्वपक्षस्तु– न युक्तम् । पुरोडाशशेषतयोपस्थितस्य तुषोपवापशेष्यन्तरान्वयासम्भवात् । अन्यान्वितस्यान्येनाकाङ्क्षाविरहात् । विनियुक्तविनियोगविरोधाच्चेति । सिद्धान्तस्तु– पुरोडाश-रूपशेष्यन्वितस्य कपालस्वरूपस्यान्वयासम्भवेऽपि अधिष्ठानलक्षणया लक्षितस्य कपाल-स्वरूपमात्रस्य तुषोपवापशेष्यन्तरं प्रति शेषतया तृतीयया विधानोपपत्तेः । तत्र तुषोप-वापस्यान्यतोऽप्राप्ततया तद्विधानमात्रेणैव कृतार्थत्वादिति मीमांसका वदन्ति । न चानेन प्रकृते साम्यम् । स्वरूपैक्यस्य सिद्धत्वात् । उक्तमर्थं कारिकया सङ्गृह्णाति– एवं चेति । अन्यथेति । यद्युपजीव्यधर्मिग्राहकविरोधेनोपजीवकस्याप्रामाण्यं नाङ्गीक्रियेतेत्यर्थः । इदमधिकरणं प्रागेव विवृतम् । गुणविधेरिति । वाजिभ्यो वाजिन इत्यर्थः । सम-मित्युक्तमेवोपपादयति– सर्वज्ञत्वादिनेति । आरोपितेनेति । आरोपितस्यापि ‘यः पुरुषः स स्थाणुः’ इत्यत्र धर्मितावच्छेदकत्वदर्शनादित्यर्थः । समं प्रकृतेऽपीति । ननु प्रबलैक्य-वाक्यविरोधात् सार्वज्ञादिबोधकम् अप्रमाणमिति चेत् सावयवत्वादिप्रमाणविरोधात् निरवयवत्वादिबोधकम् अप्यप्रमाणं स्यात् । सावयवत्वादिबोधकस्य धर्मिग्राहकविरोधात् प्रमाणत्वमेव सन्दिग्धमिति चेत् तुल्यमैक्यवाक्यस्यापि । निरवयवत्त्वादिकं धर्म्यतिरिक्तं नास्तीति चेत् सार्वज्ञ्यादेरपि धर्म्यतिरिक्तत्वाभावात् तुल्यमेवेति ।
एतेनेति । परामृष्टं हेतुं दर्शयति– निरीश्वरेति । उपलक्षणमेतत् । अपदार्थत्वाद् अवाक्यार्थत्वाच्चेत्यपि द्रष्टव्यम् । तदिति । चित्त्वस्यैकत्वं, चित्त्वादिकरणेन चैक्यं ममापि सम्मतं, न तु यावत् चित्त्वाधिकरणैक्यम् । तस्याप्रतीतेरित्यर्थः । इष्टेति । इदमापाततः । निर्निमित्तं मुख्यार्थत्यागे क्वापि मुख्यार्थता न स्यादिति द्रष्टव्यम् । ननु यद्धीत्यादि नोपजीव्यत्वं, तस्य प्रतिषेधार्पके भावात् । न च तदुपजीव्यमेव नेति वाच्यम् । सकल-तान्त्रिकाणां तत्रोपजीव्यत्वव्यवहारात् । न चान्यदेव तत्रोपजीव्यत्वं, तेनैव सर्वत्र व्यवहार-सम्भवे नानार्थत्वायोगादित्यस्वरसादाह– यद्वेति । नन्वेवं तर्ह्युपजीव्यत्वेन प्राबल्यमुक्तं भज्येतेत्यत आह– न हीति । ननु परीक्षायाम् अनाश्वासात् न श्रुतौ परीक्षितत्व-विशिष्टमुपजीव्यत्वमित्यत आह– इत्थमेव चेति । ननु ‘इदं रजतम्’ इति ज्ञाने इदमंशे परीक्षितत्वविशिष्टोप जीव्यत्वस्य सत्वात् तद् बाध्यं न स्यादित्यत आह– यद्यपीति । ननु प्राप्ताप्राप्तविवेकेन परीक्षितत्वमेव प्राबल्ये तन्त्रमस्तु । नोपजीव्यत्वम् । निषेध्यार्पके तस्य सत्वेऽपि प्राबल्याप्रयोजकत्वात् । न चेष्टापत्तिः । उपजीव्यत्वात् प्राबल्यमित्युपसंहारायोगात् इति चेन्मैवम् । तस्याप्युत्सर्गतः प्राबल्यप्रयोजकत्वात् । अत एवाह ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विधातस्य’ इति ।
क्वचित्तु प्राबल्याप्रयोजकत्वम् अपरीक्षितत्वनिश्चयरूपप्रबलबाधकात् । न हि दोषवशात् साक्षिणा प्रामाण्यं न गृहीतमिति तस्याग्राहकत्वम् । न वा प्रतिबद्धो दहनो दाहं न जनयतीति न दाहहेतुः । प्रतिबन्धकत्वादिकं च फलबलकल्प्यम् । तथा च प्रतिबन्धाभावे तदपि प्राबल्यहेतुः । परीक्षितत्वमुपोद्बलकमुक्तम् । निषेध्यार्पके चापरीक्षितत्वनिश्चय एव प्रतिबन्धक इत्युक्तम् । अत एवापेक्षितं पूरयन् केवलस्यैवोपजीव्यत्वस्य प्राबल्यहेतुत्वमुप-संहरति– तस्मादिति । आमिक्षाधिकरणं तु प्रागेव विवृतम् । तत्सिद्धिपेटिकया च ‘यजमानः प्रस्तरः’ इति विवृतम् । ननु ‘यजमानः प्रस्तरः’ इत्यादिकम् अन्यशेषः । तत्वमस्यादिवाक्यं तु प्रधानम् । तत् कथं तत्तुल्यत्वमस्येत्यत आह– यजमान-प्रस्तरेत्यादीति ।
ननु यथा भेदश्रुतिरुपजीव्या ऐक्यश्रुतिं प्रति, तथा ऐक्यश्रुतिरपि भेदश्रुतिं प्रत्युपजीव्येति उपजीव्यविरोधाद् भेदश्रुतिरपि प्रमाणं न स्यादित्यत आह– नैवमिति । ननु भेदो ह्यभेदाभावः । तत्र प्रतिषेधार्थकत्वेन ऐक्यश्रुतिरुपजीव्यैव । अपौरुषेयत्वेन परीक्षिता च । तत् कथं नोपजीव्यविरोध इत्यत आह– श्रुतिं विनेति । नन्वैक्यश्रुतेरपि भेदश्रुति –र्नोपजीव्या । भेदस्य प्रकारान्तरेण प्राप्तत्वादित्यत आह– ऐक्यश्रुतेस्त्विति । ननु निषेध्यार्पकत्वे ‘इदं रजतम्’इति वद्बाध्यमेव स्यादित्यत आह– निषेध्यार्पकमपीति । व्याख्यातमेतत् । एतेन अभेदस्य श्रुतिं विनाऽप्राप्तिवचनेनेत्यर्थः । किं भेदः स्वरूपं तद्धर्मो वेति विकल्प्य स्वरूपभेदप्रतीतिपक्षे किं भेद इत्येव प्रतीतिः, किं वा घटाद्भिन्नः पट इतीति विकल्प्य आद्य आह– अभेदमिति । तथा चाद्ये सा न स्यादेवेत्यन्वयः । तत्र युक्तिः ‘अभेदम्’ इति । तादृशप्रतीतेरभावादेवेत्यर्थः । अन्त्य आह– साऽप्रमा स्यात् । तत्र हेतुः स्वापेक्ष्येति । प्रतियोगिघटितस्य भेदस्य पटस्वरूपत्वे पटस्यापि घटस्वरूपत्वेन घटस्यापि पटस्वरूपत्वापत्तेः स्वविषयीकृतभेदविरोधाद् भेदांशेऽप्रमात्वमित्यर्थः ।
यद्वा जीवब्रह्मणोर्भेदप्रतीतिरभेदप्रसक्तिम् अपेक्षते । भेदस्याभेदनिषेधरूपत्वात् । तत्राभेदप्रसक्तिः श्रुतिं विना न सम्भवतीति श्रुत्या प्रसक्तिर्नास्त्युतास्ति ? आद्य आह– अभेदमिति । पूर्ववदेव योजना । द्वितीय आह– साऽप्रमा स्यात् । तत्र हेतुः स्वेति । उपजीव्या भेदश्रुतिविरोधादित्यर्थः । तत्राद्यपक्षस्योत्तरम्– भेदं प्रति प्रतियोगिनो निरूपकत्वेन तटस्थत्वाद् भेदस्य पटस्वरूपत्वेऽपि घटस्य न तत् स्वरूपत्वम् । अन्यथा ब्रह्मज्ञानस्य ज्ञाननिवर्त्यन्ते ब्रह्मणोऽपि तदापत्तेः । तथा च न स्वापेक्ष्यवैशसमिति । द्वितीयपक्षे श्रुतिं विनाप्यभेदप्रसक्तेर्वक्ष्यमाण त्वादिति । अस्तु वाऽभेदश्रुत्याऽभेदप्रसक्तिः । तथापि तस्यापरीक्षितत्वेन तत्रत्यस्योपजीव्यत्वस्याकिञ्चित्करत्वात् । भेदश्रुतेः परीक्षितत्वेन बलवत्त्वादिति । परीक्षितत्वं च प्रमाणान्तराविरोधः स्वाविरोधश्चेति । अत एवाचार्य-सम्मतिश्लोके ‘बलाद्’ इत्युक्तम् । इति ऐक्यश्रुतेरुपजीव्यबाधः ।। २७ ।।
न्यायामृतप्रकाशः
असद्वा इदमग्रआसीदिति ।। श्रुत्याऽसत्वशून्यत्वयोरविवक्षामात्रेण ब्रह्मणः शून्येनैक्यं न हि सुवचं ‘सर्वं खल्विदं ब्रह्म‘ इत्यादिश्र•ा चित्त्वजडत्वयोरविवक्षामात्रेण ब्रह्मणो जडेन वैक्यं न हि सुवचमित्यन्वयो द्रष्टव्यः ।। भविष्यसीति ।। विरुद्धाकारस्यानित्यत्वेन तन्नाशानन्तरमित्यर्थः ।। प्रतिषेधशास्त्रेति ।। तथा च ‘नेदं रजतम्’ इत्यादेरप्यप्रामाण्यापातात् प्रतिषेध्यरजतज्ञानस्य प्रामाण्यादिति भावः ।। धर्मिण इति ।। ‘नेदं रजतम्’ इत्यत्र धर्मिभूतेदमंशसमर्पकत्वेन ‘इदं रजतम्’ इति ज्ञानं नापेक्षितं ‘नेदं रजतम्’ इति ज्ञानेन इदमंशरूपधर्मिसिद्धेः । यदि च ‘इदं रजतम्’ इति ज्ञानमेव धर्मिसमर्पकमित्युच्यते तर्हि तत्रापि धर्मिभूतेदमंशसमर्पकं ज्ञानान्तरं वाच्यं स्यात् । उच्यत एवेति चेत् । तर्हि ‘इदं रजतम्’ इत्यत्र यद्धर्मिसमर्पकं ज्ञानान्तरमुच्यते तदेव ‘नेदं रजतम्’ इत्यत्रापि धर्मिसमर्पकमस्तु । किं मध्ये ‘इदं रजतम्’ इति ज्ञानस्य धर्मिसमर्पकत्ववचनेन । अथ ‘नेदं रजतम्’ इति ज्ञानमेवास्मिन् धर्मिसमर्पकमिति ब्रूयास्तर्हि ‘नेदं रूप्यम्’ इति प्रत्यक्षेऽपि तुल्यमिति प्रौढिवादेन दूषणोक्तिरिति सम्प्रदायः । ननु यथा पुरोडाशकपालेन ‘तुषानुपवपति’ इत्यत्र ‘कांस्यपात्र्या भुङ्क्ते’ इत्यत्रेव करणस्याधिकरणत्वं विवक्षितम् । एवं च तुषोपवापे पुरोडाशविशिष्टकपालस्याधिकरणत्वा-भावात्पुरोडाशत्यागेन कपालरूपाधिष्ठानलक्षणाम् अङ्गीकृत्य वाक्यार्थोपपत्तिर्मीमांसकैः स्वीकृता एवं मयापि लक्षणाऽङ्गीक्रियत इत्यत आह– पुरोडाशेति ।। तदेवोपपादयति– तत्रेति ।। तत्रेत्यनन्तरम् अधिष्ठानमात्रलक्षणयेति शेषः । इह त्वित्यनन्तरं लक्षणयेति शेषः । चितो जीवैक्येन उक्तेन ।। नेष्टसिद्धिरिति । सिद्धत्वेन शास्त्राबोध्यत्वेन शास्त्रवैयर्थ्यं स्यादिति भावः ।। ।। ऐक्यश्रुते-रुपजीव्यबाधविवरणम् ।। २७ ।।
न्यायकल्पलता
जरद्गवादिवाक्यवदिति ।। विरुद्धाकारस्याविवक्षायामपीति ।। अविवक्षामात्रेण वस्तुनोऽ-न्यथात्वाभावात् । ननु त्यागो नाम ना(पायः)प्ययः । अ(पा)प्ययस्य चरमसाक्षात्कारसाध्यत्वात् । किन्तु ब्रह्मानुभवाविषयत्वमित्यत आह– न हीति ।। सुवचं हि सत्वशून्यत्वयोश्चित्त्वजडत्व-योश्चाविवक्षया सच्छून्याभेदानुभवं प्रति चिज्जडाभेदानुभवं च प्रत्यविषयत्वमात्रेण सच्छून्ययोश्चि-ज्जडयोश्चाभेदसिद्धिरिति । ननु सच्छून्ययोश्चिज्जडयोर्वा विरुद्धाकारपरित्यागे आकारान्तराभावः । असतो निःस्वरूपत्वात् । जडस्य बाध्यस्वरूपत्वात् । मैवम् । सर्वज्ञत्वनिर्दुःखत्वादिधर्मिग्राहकमान सिद्धाकारपरित्यागे ब्रह्मण्यप्याकारान्तराभावाच्चित्तादिप्रकारत्यागे चिदाकारस्याप्यसम्भवाज्जीवे प्रत्यक्ष-बाधितस्य ब्रह्मगतपूर्णानन्दाकारस्यापि त्यक्तव्यत्वेन परिपूर्णानन्दैक्यासिद्धेश्च । किञ्च विरुद्धाकार-संत्यागो यद्यैक्यस्योपपत्तये तह्यैक्यं त्यज मुख्यस्य विरुद्धस्योपपत्तये । तच्च तत्त्वविदो ममापि सम्मतमिति ।
ननु चित्त्वैक्ये तव सम्मतावपि न तदाश्रयैक्येऽपि सम्मतिरिति चेत् । न । चितोऽपि चित्त्वा-श्रयत्वाभेदेन चित्त्वाश्रयैक्येऽपि मम सम्मतेः । न हि घटो घटत्वाश्रयाभिन्न इत्युक्ते घटान्तरेणाप्यभेद आयाति । येनेदं वाक्यं ममासम्मतार्थं स्यात् ।। पुरोडाशकपालेनेति ।। दर्शपूर्णमासयोः श्रूयते ‘पुरोडाशकपालेन तुषानुपवपति’ इति । अत्र पुरोडाशकपालशब्देन पुरोडाशरूपविशेष्यान्वित तयोप-स्थितस्य तुषोपवापलक्षणशेषान्तरेणाकाङ्क्षाविरहात् अन्वयासम्भवलक्षणस्य विनियुक्तविनियोगदोषस्य परिहाराय पुरोडाशकपालशब्दस्य वस्तुतः पुरोडाशश्रपणशेषत्वाधिष्ठाने (नैक) कपालस्वरूपे लक्षणेति वर्णितं चतुर्थाध्यये ।। इह त्विति ।। जीवस्यापि चित्त्वेन चिदभेदस्य मयाप्यङ्गीकारादित्यर्थः । धर्मिग्राहकविरोधस्योपजीव्यविरोधत्वाभावे दोषमाह– अन्यथेति ।। उत्पत्तिशिष्टेति ।। ‘वैश्वदेव्यामिक्षावाजिभ्यो वाजिनम्’ इत्यत्रोत्पत्तिशिष्टामिक्षारूपगुणावरुद्धे यागे उत्पन्नशिष्टवाजिन-रूपगुणस्यानन्वयः । उत्पत्तिवाक्यविरोधा(धश्चेति) दिति यदुच्यते मीमांसकैः तदपि तव मते न स्यादित्यर्थः ।। एतेनैक्यश्रुतेरिति ।। तत्त्वमस्यादिश्रुतेर्धर्मिग्राहकरूपत्वान्न तस्याः धर्मिग्राहक-श्रुत्यन्तरापेक्षेति शङ्कितुरभिसन्धिः । एतेन ‘अभेदं नोल्लिखन्ती धीः’ इति ।। भेदग्राहकं प्रत्यभेदग्राहकस्यानुपजीव्यत्वेन । अभेदं गृह्णत् ज्ञानं भेदं गृह्णाति । भेदस्याभेदपूर्वकत्वात् । एवं चाभदांशे सा भेदप्रतीतिः प्रमा स्यात् । न तु भेदांशे । स्वापेक्ष्यवैशसात् । स्वोपजीव्यनाशनादित्यर्थः ।। बलादिति ।। भेदश्रुतेर्बलवत्त्वात् ।।
।। ऐक्यश्रुतेरुपजीव्यबाधः ।। २७ ।।