वस्तुतस्त्वस्मन्मते भेदो वस्तुना सविशेषाभिन्नः

१६. विशेषसमर्थनम्

न्यायामृतम्

वस्तुतस्त्वस्मन्मते भेदो वस्तुना सविशेषाभिन्नः । ततश्चाभिन्नत्वान्नानवस्थादि । भेदप्रतिनिधेश्च विशेषस्य सत्त्वान्न पर्यायत्वादिकम् । विशेषश्च भेदहीनेऽप्येकतर-परिशेषाभावादिनिर्वाहकः । तदुक्तम्–

भेदहीने त्वपर्यायशब्दान्तरनियामकः ।

विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ।। इति ।

प्रमाणं (त्वत्रार्था)तत्रार्थापत्तिः । तथा हि– ‘विज्ञानमानन्दं ब्रह्म’ इत्यादि-वाक्यबोध्यविज्ञानानन्दादीनां परमतेऽपि न तावद्भेदो भेदाभेदौ वा, अखण्डार्थत्वात् । ‘एकधैवानुद्रष्टव्यम्’ इत्याद्यैकरस्यश्रुतिविरोधाच्च । तत्र भेदप्रतिनिधिर्विशेषोऽपि न चेत्कथं तच्छब्दानामपर्यायत्वम् ? पदान्तरावैयर्थ्यम् ? विज्ञानानन्दयोरेकतरा परिशेषः ? भ्रमाधिष्ठानत्वेन चैतन्यभानेऽपि मोक्ष इवेदानीमानन्दाप्रकाश इत्यादिभेदकार्यं स्यात् ? लक्ष्यार्थभेदाभावेऽपि वाच्यार्थभेदादपर्यायत्वं व्यावर्त्यभेदादवैयर्थ्यं चेति चाखण्डवादे निरस्तम् । न च सखण्डवादेऽपि प्रवृत्तिनिमित्तयोर्ज्ञानत्वानन्दत्वयोर्भेदादपर्यायत्वम्, ‘एवं धर्मान्’ इति श्रुत्या तयोरपि भेदनिषेधात् । अर्थप्रकाशत्वनिरुपाधिकेष्टत्व-रूपयोस्तयोरर्थप्रकाशनिरुपाधिकेष्टरूपाश्रयविशेषसापेक्षत्वाच्च । आकाशशब्द शब्दाश्रय-शब्दयोर्निमित्तभेदाभावेन पर्यायत्वापाताच्च । न ह्याकाशशब्दस्य शब्दाश्रयत्वाद् अन्यन्निमित्तमस्ति । ज्ञानानन्दयोरेकतरपरिशेषे च मोक्षे आनन्दप्रकाशो न स्यात् । तस्माद्विज्ञानानन्दादेरैक्यश्रुतिबलादभेद इत्येकतरापरिशेषाद्यर्थं विशेषोऽप्यङ्गीकार्यः ।

एवं तत्त्वमसीत्यत्र शोधितात्तत्पदार्थाद् वाक्यार्थस्यैक्यस्य न तावत्परमते भेदो भेदाभेदो वा । ऐक्यस्य मिथ्यात्वाद्यापत्तेः । तत्र विशेषोऽपि न चेत् कथं स्वप्रकाश-चैतन्यप्रकाशेऽप्यैक्यस्याप्रकाशः ? तत्प्रकाशस्य भेदभ्रमाविरोधित्वेऽप्यैक्यप्रकाशस्य तद्विरोधः ? तस्य निरपेक्षत्वेऽप्यैक्यस्य सापेक्षत्वमित्यादि ? न चाविद्यावरणादैक्यस्या-प्रकाशः, विशेषाभावे अनावृतचिदभिन्नस्यैक्यस्यावरणायोगात् । न हि शुक्त्यज्ञानेन शुक्त्यंश एवावृतोऽनावृतश्च भवति । किञ्च ‘एवं धर्मान्’ इति श्रुतिबलादपि विशेषसिद्धिः । अत्र हि ब्रह्मणो धर्मानुक्त्वा तद्भेदो निषिध्यते । न च भेदप्रतिनिधेरभावे धर्मधर्मिभावो धर्माणामनेकत्वं च युक्तम् । न च धर्मानित्यनुवादः, श्रुतितोऽन्येन ब्रह्मधर्माप्राप्तेः । न चेयं श्रुतिरत्यन्तभेदनिषेधिका, भेदमात्रनिषेधात्तादृश भेदाभावस्य लोकत एव प्राप्यत्वाच्च । ‘भेदाभेदौ च यः पश्येत्स याति तम एव च’ इत्यादि स्मृतेश्च । तदुक्तम्–

उक्त्वा धर्मान्पृथक्त्वस्य निषेधादेवमेव हि ।

विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ।। इति ।

किञ्च गुणगुण्याद्यभेदपक्षे पटोपलम्भेऽपि शौक्ल्याद्यनुपलम्भार्थं भेदाभेदपक्षेऽपि तयोरविरोधार्थम् अत्यन्तभेदपक्षेऽपि समवायः सम्बन्धः, सत्ता सती, भेदो भिन्नः, अन्त्यविशेषो व्यावृत्तः, कालः सदाऽस्ति, देशः सर्वत्र’ इत्यबाधितव्यवहारार्थं विशेषोऽङ्गीकार्यः । किञ्चाभावादावस्तित्वादिर्नाभावादितो भिन्नः । गुणादिष्वनन्तर्भावेन षट्पदार्थनियमभङ्गात् । अनियमपक्षेऽप्यस्तित्वेऽप्यस्तित्वान्तरमित्यनवस्थानात् । तत्र विशेषोऽपि न चेत्कथं विशेषणविशेष्यभावादि ? न च सत्ता सतीत्यादिधीर्भ्रान्तिः । सन्घट इत्यादिवद् अबाधात् । नाप्युपचारः, देवदत्तः सिंहो नेतिवत् सत्ता सती नेति कदाप्यव्यवहारात् ।

ननु सत्तादेः सत्ताद्यन्तराभावेऽपि स्वभावविशेषादेव सद्व्यवहार इति चेन्न, तस्यैव स्वभाव विशेषस्यास्माभिर्विशेषशब्देनोक्तेः । समवायादिः स्वनिर्वाहक इति चेन्न, स्वस्य स्वयमेव निर्वाहकं स्वनिर्वाहकम् । विशेषाभावे च कथमेकस्यैव निर्वहणक्रियायां कर्तृत्वं कर्मत्वं च ? अयमेव विशेषः वस्त्वभिन्नः स्वनिर्वाहकश्चेति नानवस्था । तस्य तथात्वं च धर्मिग्राहकमानसिद्धम् । यत्र भेदाभावो भेदकार्यं च प्रमितं तत्रैव विशेषः कल्प्यत इति न प्रमितभेदे घटपटादौ विशेषमादाय भेदत्यागः । न हि सोमाभावे पूतीक इति तल्लाभेऽपि सः । एतेनोक्तस्थले भेद एवास्तु भेदकार्यार्थं न तु भेदप्रतिनिधिरस्त्विति निरस्तम्, तत्र भेदस्य बाधितत्वात् ।

एवं च (१) ब्रह्मस्वरूपभूतयोर्विज्ञानानन्दयोर्ब्रह्मभेदयोश्च एकतरपरिशेषाभावः, प्रमेयत्वादेः स्वाश्रित त्वादिकं वा भेदान्यनियम्यम्, भेदानियम्यत्वे सति नियम्यत्वाद्, यद्यदनियम्यत्वे सति नियम्यं तत्तदन्य नियम्यं यथासम्मतम् । (२) ब्रह्मस्वरूपभूतं विज्ञानानन्दादिकं वा भेदान्यैकतरापरिशेषनिर्वाहकवद् भेद हीनत्वे सत्येकेतरा-परिशेषरूपनिर्वाह्यवत्त्वात् । यद्यद्धीनत्वे सति यन्निर्वाह्यवत् तत्तदन्यनिर्वाहकवद्, यथासम्मतम् । (३) स्वाश्रितं प्रमेयत्वादिकं वा भेदान्याश्रयाश्रयिभावनिर्वाहकवद्, भेदहीनत्वे सत्याश्रयाश्रयिभावरूपनिर्वाह्यवत्त्वात्, यद्यद्धीनत्वे सति यन्निर्वाह्यवत् तत्तदन्यनिर्वाहकवद्, यथा सम्मतम्’ इत्यदिप्रयोगो द्रष्टव्यः ।

किञ्चायं विशेषः प्रत्यक्षसिद्धः । तथा हि– तन्तुपटादिबुद्धीनां भिन्नघटपटादिबुद्धितो वैलक्षण्यं तावदनुभूयते । तच्च न तावत्सम्बन्धविषयत्वेन, कुण्डबदरादिबुद्धितोऽपि वैलक्षण्यानुभवात् । नापि संयोगान्यसम्बन्धविषयत्वेन, घटतदज्ञानतदभावबुद्धितोऽपि वैलक्षण्यानुभवात् । नापि स्वरूपप्रत्यासत्ति संयोगान्यसम्बन्धविषयत्वेन, घटतद्धर्मिका-न्योन्याभावादिबुद्धेः घटपटादिबुद्धितो वैलक्षण्याभावापातात् । नाप्ययुतसिद्धिविषयत्वेन । आश्रयाश्रयिभावनियमो ह्ययुतसिद्धिः । तत्र तदानीन्तनाश्रयाश्रयिभावः कुण्डबदरादि-बुद्धावपि भाति । नियमस्तु न तन्तुपटादिबुद्धावपि । न हि प्रत्यक्षा तन्तुपटादिधीः तन्तुपट सम्बन्धनाशो वा तन्तुपटविभागो वा न भविष्यतीत्याकारा । नापि कुण्ड-बदरादिधीस्तयोः सम्बन्धनाशो वा कुण्डबदरविभागो वा भविष्यतीत्याकारा । नापि समवायविषयत्वेन, उक्तरीत्या सम्बन्धनित्यत्वस्य वा सम्बन्ध्ययुतसिद्धत्वस्य वा तत्राऽस्फुरणात् । तस्मादभेदविषयत्वेनैव वैलक्षण्यं वाच्यम् । अयं घटः गजाश्वादिरेव सेना, पत्रमेव ताटङ्कम् इत्यादौ १पुरोवर्त्यादिना घटादेरिव आतानवितानात्मकाः तन्तवः पटः शुक्लः पट इत्यादावपि तन्त्वादिना पटस्याभेदप्रतीतेः ।

न चात्र पटत्वशुक्लत्वयोरेकस्थत्वमेव भातीति वाच्यम् । पटशुक्लयोरैक्यस्यापि तत्रान्तर्गतेः । अन्यथा क्वाप्यभेदो न सिध्येत् । घटः पटो नेति धीश्च भेदविषया न स्यात् । दण्डी चैत्र इत्यत्रापि दण्डिना चैत्रस्याभेदो भात्येव । न च शुक्लः पट इत्यत्र शुक्लवानेव शुक्लपदार्थ इति वाच्यम् । शुक्लरूपमित्यत्र यच्छुक्लं तस्यैवेह प्रतीतेः । अन्यथेहापि शुक्ली पट इति धीः स्यात् । मतुब्लोपादिकल्पनं तु व्यवहारे, न तु प्रतीतौ । पटस्य शौक्ल्यं, रूपी पट इत्यादिधीस्तु सम्बन्धविषया, न तु भेदविषया, सत्ता सतीत्यादिवद् भेदाभावेऽप्युपपन्ना । पटस्य तन्त्वन्यत्वे च गुरुत्वद्वयं स्यात् । तन्तुयुक्ते भूतले पटवृत्तिश्च न स्यात् । मूर्तानां सामानाधिकरण्यायोगात् । व्यवहारार्थक्रियाभेदादि तु पत्रताटङ्कादिवदित्युक्तम् । तस्मात्तन्तुपटादिबुद्धिरभेदविषयैव । यदि चेयं केवला-भेदविषया, तर्हि समानाधिकरणं व्यवहारं न जनयेद्, घटः कलश इत्यव्यवहारात् । तेन ज्ञायते अधिकोऽप्यस्या विषयोऽस्तीति । न चायं भेदः पटो न शुक्ल इत्युल्लेखा-पातात् । भेदाभेदाविरोधाय विशेषस्यावश्यकत्वाच्च । तस्माद्योऽधिको विषयः, स एव विशेष इति सिद्धं विशेषस्य प्रत्यक्षत्वम् । तदुक्तं ‘येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत्’ इति । ‘अभेदेऽपि विशेषोऽस्ति व्यवहारस्ततो भवेत्’ इति स्मृतिसिद्धश्च विशेषः । तस्माद्भेदस्य वस्तुना सविशेषाभिन्नत्वान्न कोऽपि दोषः ।

।। इति विशेषसमर्थनम् ।। १६ ।।

अद्वैतसिद्धि:

ननु अस्माकं भेदो न स्वरूपमात्रम्, किन्त्वन्योन्याभावः । स च वस्तुना सविशेषाभिन्नः । ततश्चाभिन्न त्वान्नानवस्थादिः । भेदप्रतिनिधेर्विशेषस्य विद्यमानत्वान्न पर्यायत्वादिकम् । विशेषश्च भेदहीनेऽपि एकतर परिशेषाभावादि निर्वाहक इति चेन्न, पर्यायत्वादिप्रमाजनकस्य स्वरूपातिरिक्तस्य विशेषस्याङ्गीकारे तस्यैव भेदत्वेन भेदस्य धर्मभेदोक्त्ययोगात् । विशेषस्यापि भेदः सविशेषाभिन्न एव वाच्यः । तथा चानवस्थातादवस्थ्यम् । न च वैशेषिकाभिमतविशेषवत्तस्य स्वपरनिर्वाहकत्वम् । एतादृशविशेषे मानाभावात् । ननु ‘विज्ञानमानन्दं ब्रह्म’ इत्यादिवाक्य बोध्यविज्ञानानन्दादीनां त्वन्मतेऽपि भेदस्य भेदाभेदयोर्वाऽखण्डार्थकत्वेन ‘एकधैवानुद्रष्टव्यम्’ इत्यादिश्रुतिविरोधेन चाङ्गीकर्तु-मशक्यतया भेदप्रतिनिधेर्विशेषस्यापर्यायत्वाद्यर्थमवश्यं स्वीकार इति अर्थापत्तिरेव मानमिति चेन्न, भेदे ऐक्यस्यश्रुतिविरोधवद् अत्रापि तत्तादवस्थ्यात् । लक्ष्यार्थाभेदेऽपि वाच्यार्थभेदेनापर्यायत्वस्य व्यावर्त्यभेदादवैयर्थ्यस्य चान्यथैवोपपत्तेः ।

किञ्च तवापि ज्ञानानन्दत्वादिनिमित्तभेदादेवापर्यायत्वमस्तु, किं विशेषेण ? न च ‘एवं धर्मान्’ इति श्रुत्या तयोरपि भेदनिषेधात्, नैवमिति वाच्यम् । तर्हि विशेषस्याप्याश्रितत्वेन धर्मतयाऽस्यापि भेदनिषेधात्तेनाप्यनुपपत्तिः । न च ज्ञानत्वानन्दत्वयोरर्थप्रकाशत्वनिरुपाधिकेष्ठत्वरूपयोरर्थ-प्रकाश-निरुपाधिकेष्टरूपाश्रयविशेष आवश्यक इति वाच्यम् । ज्ञानत्वानन्दत्वयोर्जातिरूपत्वेन उक्तरूपत्वा-भावात् । न च आकाशशब्दाश्रयशब्दयोः प्रवृत्तिनिमित्ताभेदेन पर्यायत्वापत्तिः ।  तत्परिहाराय विशेषो वाच्य इति वाच्यम् । पर्यायत्वेऽपि सहप्रयोगस्य व्याख्यानव्याख्येयभावादिनाप्युपपत्तेः । न चैवं ज्ञानानन्दयोरेकतरपरिशेषेण मोक्षे आनन्दप्रकाशो न स्यादिति वाच्यम् । तयोर्भेदाभावेन एकतरत्वस्यैवाभावात् । द्वयोर्वचने तरब्विधानात् । एतेन शोधिततत्पदार्थादैक्यस्य न भेदः । नापि भेदाभेदौ, किंत्वत्यन्ताभेदः । एवं च विशेषानङ्गीकारे स्वप्रकाशचैतन्यभाने ऐक्याभानापत्तिः । तत्प्रकाशस्य भेदभ्रमाविरोधित्वेऽप्यैक्यप्रकाशस्य तद्विरोधः, तस्य निरपेक्षत्वेऽपि ऐक्यस्य सापेक्षत्वं च नोपपद्यत इति निरस्तम् । आवरकाज्ञानकल्पितांशमादाय सर्वस्योपपत्तेः । न च एकस्या एव शुक्तेरावृतानावृतत्वे शुक्त्यंशभेद एव स्यादिति वाच्यम् । तदंशकल्पकस्य फलस्याभावात् ।

ननु– ‘एवं धर्मान्’ इति श्रुतिरस्तु मानम् । अत्र हि ब्रह्मधर्मानुक्त्वा भेदो निषिध्यते । न च भेदप्रतिनिधेरभावे धर्मधर्मिभावो धर्माणामनेकत्वं च युक्तमिति चेन्न । धर्मानित्यस्य निषेधानुवादत्वेन धर्मत्वानेकत्वादौ तात्पर्याभावात् । न च श्रुतितोऽन्यतो ब्रह्मधर्माः प्राप्ताः । आविद्यकमात्रस्य साक्षिसिद्धतया प्राप्तेः । ननु गुणगुणिनोरभेदपक्षे घटोपलम्भे शुक्लाद्यनुपलम्भार्थं भेदाभेदपक्षे तयोरविरोधार्थम् अत्यन्तभेदपक्षेऽपि समवायः सम्बन्धः, सत्ता सती, अन्त्यविशेषो व्यावृत्तः, कालः सदास्ति, देशः सर्वत्रास्तीत्यबाधितव्यवहारार्थं विशेषोऽङ्गीकार्यः अभावादावप्यस्तित्वादिर्नाभावादितो भिन्नः । गुणादिष्वनन्तर्भावेन षडेव पदार्था इति नियमभङ्गापत्तेः अनियमपक्षेऽप्यस्तित्वेऽप्य-स्तित्वान्तरमित्यनवस्थापत्तेः तत्रापि सोऽङ्गीकार्य इति– चेन्न, स्वभावविशेषादेव सर्वस्योपपत्तेः । न च तर्हि विशेषस्याङ्गीकारेण मन्मतप्रवेश इति– वाच्यम्, तत्तदसाधारणस्वरूपस्यैव स्वभावविशेष-शब्दार्थत्वेन त्वदुक्तविशेषानुक्तेः, तत्तदसाधारणरूपेण समवायादेः स्वनिर्वाहकत्वात् ।

अत एव स्वनिर्वाहकत्वं हि स्वकर्मक निर्वहणकर्तृत्वम्, तच्चैकस्मिन्विरुद्धमिति तदुपपादनायापि विशेषाङ्गीकार इति निरस्तम्, स्वनिर्वाहकशब्दस्य स्वेतरानपेक्षव्यवहारविषयत्वमात्रार्थकत्वात् । अन्यथा विशेषोऽप्यनवस्थाभिया वस्त्वभिन्न इति तवाङ्गीकारेण तद्दूषणापातात् । स्वरूपभेदपक्षोक्तैकतर-परिशेषादिदूषणतादवस्थ्यापत्तेश्च । न च अन्त्यविशेषवदस्य धर्मिग्राहकमानेन तादृक्स्वभावतया सिद्धेः पर्यनुयोगायोग इति– वाच्यम्, दृष्टान्त इव दार्ष्टान्तिके स्वरूपातिरेकस्य त्वयैवानङ्गीकारेण वैषम्यात् । यत्तु यत्रैव भेदाभावो भेदकार्यं च प्रमितं, तत्रैव विशेषः कल्प्यते, न तु प्रमितभेदे घटपटादौ विशेष-मादाय भेदत्यागः, न हि सोमाभावे पूतीक इति तल्लाभेऽपि स इति, तन्न, मुख्यत्वनियामकस्य तत्रेवात्राभावाद् विशेषभेदयोरुभयोरपि स्वरूपपर्यवसन्नत्वेन त्वद्वाग्भङ्गेरनवकाशात् । किञ्च भेदः स्वयमेव स्वकार्यं करोतु, अभेदकार्यार्थं तत्प्रतिनिधिरस्त्वित्याद्यापत्तेश्च । न चानन्दादावभेदवद् भेदस्य बोधाभावः, अलौकिकस्थले द्वयोः साम्यात् ।

ननु अनुमानमत्र मानम्, तथा हि– (१) ब्रह्मस्वरूपभूतयोर्विज्ञानानन्दयोर्ब्रह्माभेदयोश्च एकतरपरिशेषाभावः, प्रमेयत्वादेः स्वाश्रितत्वादिकं वा भेदान्यनियम्यम्, भेदानियम्यत्वे सति नियम्यत्वाद्, यद् यदनियम्यत्वे सति नियम्यम्, तत् तदन्यनियम्यम्, यथा संमतम् । (२) ब्रर्ह्मस्वरूपभूतं विज्ञानानन्दादिकं वा, भेदान्यैकतरापरिशेषनिर्वाहकवद्, भेदहीनत्वे सति एकतरापरिशेषरूपनिर्वाह्यवत्त्वात्, यद्येन हीनत्वे सति यन्निर्वाह्यवद्, तत्तदन्यनिर्वाहकवद्, यथा सम्मतम् । (३) स्वाश्रितं प्रमेयत्वादिकं वा, भेदान्याश्रयाश्रयिभावनिर्वाहकवद्, भेदहीनत्वे सत्याश्रया-श्रयिभावरूप निर्वाह्यवत्त्वाद्, यथा संमतमित्यादिकमिति चेन्न, त्वदभिमतविशेषादन्यस्यैवाविद्यादेः सर्वत्र नियामकत्वसंभवेनार्थान्तराद्, आविद्यकभेदनियम्यत्वेन बाधादसिद्धेश्च ।

ननु तथापि प्रत्यक्षमत्र मानम् । तथा हि– तन्तुपटादिबुद्धीनां भिन्नघटादि बुद्धितो वैलक्षण्यं तावदनुभूयते । तच्च न तावत्सम्बन्धविषयत्वेन, कुण्डबदरादिबुद्धितो वैलक्षण्यानुभवात् । नापि संयोगान्यसम्बन्धविषयत्वेन, घटतज्ज्ञान तदभावबुद्धितोऽपि वैलक्षण्यानुभवात् । नापि स्वरूप-प्रत्यासत्तिसंयोगान्यसम्बन्धविषयत्वेन, घटतद्धर्मिकान्योन्याभाव बुद्धेर्घटपटादिबुद्धितो वैलक्षण्याभावा-पातात् । नाप्ययुतसिद्धिविषयत्वेन, आश्रयाश्रयिभावनियमो ह्ययुतसिद्धिः, तत्र च तदानींतन आश्रयाश्रयिभावः कुण्डबदरादावपि भाति, नियमस्तु न तन्तुपटादिबुद्धावपि, न हि तन्तुपटादिधीः प्रत्यक्षा, अनयोः सम्बन्धनाशो वा, विभागो वा, न भविष्यतीत्याकारा, न वा कुण्डवदरादिधीस्तयोः सम्बन्धनाशो वा, विभागो वा, भविष्यतीत्याकारिका । नापि समवायविषयत्वेन, उक्तन्यायेन सम्बन्ध-नित्यत्वस्य सम्बन्ध्ययुतसिद्धत्वस्य वा तत्र तत्रास्फुरणात् । तस्मादभेदविषयत्वेनैव वैलक्षण्यं वाच्यम्, अयं घटः, गजादिकं सेना, पत्रमेव ताटङ्क इत्यादौ पुरोवर्तिना घटादेरिवातानवितानात्मकास्तन्तव एव पटः, शुक्लः पट इत्यादावपि तन्त्वादिना पटस्याभेदप्रतीतेः । न च– अत्र पटत्वशुक्लत्व-योरेकस्थत्वमेव भातीति– वाच्यम्, पटशुक्लयोरैक्यस्यापि तत्रान्तर्गतेः, अन्यथा क्वाप्यभेदो न स्यात् । ‘घटः पटो’ नेति धीश्च भेदविषया न स्यात् । ‘दण्डी चैत्र’इत्यादावपि दण्डिना चैत्रस्याभेदो भात्येव ।

न च– शुक्लः पट इत्यत्र शुक्लवानेव इति प्रतीयत इति– वाच्यम्, शुक्लं रूपमित्यत्र यत् शुक्लं तस्येवेह प्रतीतेः । अन्यथेहापि दण्डीतिवत् शुक्लीति स्यात् । मतुब्लोपादिकल्पनं शब्दविषयकव्यवहारे, न तु प्रतीतौ । पटस्य शौक्ल्यमित्यादिधीर्न भेदविषया, किन्तु सम्बन्धविषया सती सत्तेत्यादिवद् भेदाभावेऽपि उपपन्ना च । पटस्य तन्त्वन्यत्वे च गुरुत्वद्वयापत्तिः । तन्तुमति पटवृत्तिश्च न स्यात्, मूर्तानां समानदेशताविरोधात् । व्यवहारार्थक्रियाभेदादिकं तु पत्रताटङ्कादिवद्युक्तम् । तस्मात्तन्तुपटादि-बुद्धिरभेदविषयैव । यदि चैवं केवलाभेदविषया, तर्हि सामानाधिकरण्यव्यवहारं न जनयेत्, घटः कलश इत्याद्यव्यवहारात् । तेन ज्ञायते अधिकोऽप्यस्य विषयोऽस्ति । न चायं भेदः, घटः न शुक्ल इत्युल्लेखापातात्, भेदाभेदाविरोधाय विशेषस्यावश्यकत्वाच्च । तस्माद्योऽधिको विषयः, स विशेष इति– चेन्न, सत्यप्यभेदे काल्पनिकभेदमादाय तथा व्यवहारोपपत्त्या विशेषस्यासिद्धेः । न च पटो न शुक्लः इति प्रतीत्यापत्तिः, फलबलेन काल्पनिकभेदस्य सामानाधिकरण्यादि व्यवहारमात्र-निर्वाहकत्वकल्पनेन विपरीतोल्लेखनं प्रत्यहेतुत्वात् ।

तस्मादेवं विशेषोऽयं न मानविषयः सखे ।

विषादं जहि मत्सिद्धाविद्यया सर्वसङ्गतिः ।। इत्यद्वैतसिद्धौ विशेषखण्डनम् ।। १६ ।।

न्यायामृततरङ्गिणी

भेदहीने त्विति ।। क्वचिद् ‘भेदहीनेऽप्यपर्याय’ इति पाठः । स न युक्तः । सुधायां तुशब्दोऽवधारण इति व्याख्यानात् । अपर्यायशब्दान्तरनियामक इत्यशेषभेदकार्यनिर्वाहकत्वोप-लक्षणम् । अनेनैव विशेषलक्षणं चोक्तं भवति । भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति ।। विशेषो नामेति ।। अभिन्नेऽपि विशेषकत्वाद्विशेषसंज्ञः । न केवलं भेदभेदिनोरेव विशेषोङ्गीक्रियतेऽपि तु सर्वत्रापीत्याह– सोऽस्तीति ।। नन्वखण्डवादे ज्ञानानन्दपदयोः पर्यायत्वेऽपि सखण्डवादेज्ञानत्वानन्दत्वयोःप्रवृत्तिनिमित्तयोःसत्वान्न ज्ञानानन्दपदयोः पर्यायत्वप्रसङ्गोऽतः सखण्डमते विशेषाङ्गीकारोऽप्रयोजन इत्यत आह– सखण्डेति ।। शब्दाश्रयत्वादन्यदिति ।। आकाशत्वस्याजातित्वेन शब्दाश्रयत्वरूप-स्याकाशत्वस्याकाशपदेन प्रतिपादानात् । आकाशशब्दाश्रयशब्दयोः पर्यायत्वापातात्सह प्रयोगायोगः । न च व्याख्यानव्याख्येयभावादिना तदुपपत्तिः । आकाशत्वशब्दाश्रयत्वयोर-विशेषेतद्द्वारकाकाशादिशब्दानां व्याख्येयत्वाद्यनुपपत्तेः । अज्ञातज्ञातयोर्व्याख्येयव्याख्यान-रूपत्वात् ।। एकतरेति ।। एकपरिशेष इत्यर्थः । तेन ज्ञानानन्दयोर्भेदाभावे एकतरत्वमेवासिद्धं द्वयोर्विधाने तरविधानादिति निरस्तम्  ।। धर्माणामनेकत्वञ्चेति ।। चैतन्यमेकं सत्य-त्वादीन्यनेकानीति सङ्ख्यावैलक्षण्यमनेकत्वम् ।। अनुवाद इति ।। तथा च न धर्मादौ श्रुतेस्तात्पर्यम् ।। अत्यन्तभेदेति ।। तथा च भेदाभेदयोरनुज्ञानाद्धर्मधर्मिभावादि युज्यत इत्यर्थः ।।

लोकत एवेति ।। गुणगुणिनोरत्यन्तभेदाभावस्य नीलो घट इत्यादिना लोकत एव च सिद्धेर्न तत्र श्रुतितात्पर्यम् ।। भेदाभेदौ चेति ।। तथा च ‘एवं धर्मान्’ इति श्रुतिर्न भेदा-भेदावनुजानातीत्यर्थः ।। तस्यैव स्वभावविशेषस्येति ।। तथा च मम मतप्रवेशः । ननु तत्तदसाधारणस्वरूपमेव स्वभावविशेषशब्देन मयोक्तं न तु त्वदुक्तो विशेष इति न तव मतप्रवेशः । मैवम् । विशेषं विना स्वरूपासाधारण्यानुक्तेः ।। विशेषाभाव इति ।। एतेन स्वनिर्वाहकशब्दस्य स्वेतरानपेक्षव्यवहारविषयत्वमर्थ इति निरस्तम् । अविरोधाय स्वेतरापेक्षाया आवश्यकत्वात् ।। स्वनिर्वाहकश्चेतीति ।। न विशेषे स्वस्य निर्वाहकत्वं विशेषान्तरं विनानुपपन्नमिति कथं नानवस्थेत्यत आह– तस्य तथात्वं चेति ।। वैशेषिकाभिमतान्त्यविशेषवदयंधर्मिग्राहकमानेन तादृक्स्वभावतया सिद्धः । न हि स्वयमनु-पपन्नम् अनुपपत्त्यन्तरशान्त्यैप्रभवतीत्यर्थः  ।। प्रमितभेद इति ।। मुख्यसम्भवे प्रतिनिधे-रनादरणीयत्वादित्यर्थः । ननूभयोरपि भेदकार्यकारित्वान्न मुख्यो भेद इत्यत्र मानमस्ति । मैवम् । सर्वाविवादस्यैव मानत्वात् । न हि विशेषे सर्वाविवादोऽस्ति । सर्वसङ्करवादिनाभेद-वन्मिथ्याभूतस्यापि विशेषस्यानङ्गीकारात् ।। एतेनेति ।। भेदासम्भवे विशेषस्य ग्राह्यत्व-कथनेन ।। अभेदकार्यं त्विति ।। एतावतापि विशेषसिद्धिः अभेदस्य भेदस्य वा प्रतिनिधि-रिति वादान्तरमवशिष्यत इत्यपि बोध्यम् ।। एवञ्चेति ।।

ननु त्रिष्वप्यनुमानेष्वर्थान्तरम् । अविद्यादेः सर्वत्र नियामकत्वसम्भवात् । मैवम् । त्वदभिमताविद्याया अद्याप्यजीवनान्मोक्ष आनन्दप्रकाशस्याभावापाताच्चेत्युक्तत्वात् ।। घटतद्धर्मिकेति ।। घटतद्धर्मिकान्योन्याभावबुद्धौ समवायादिरूपः स्वरूपप्रत्यासत्ति-संयोगाभ्यामन्यः सम्बन्धो न विषय इति तन्तुपटादिबुद्धितोस्यांवैलक्षण्यं न स्यादित्यर्थः ।। तन्तुपटादिबुद्धावपीति ।। तथा च तन्तुपटादिबुद्धेः कुण्डबदरादिबुद्धितो वैलक्षण्यं न स्यात् ।। पुरोवर्तिनेति ।। यथेदंपदार्थेन घटस्याभेदो भासते गजाश्वादिना च सेनायास्तथा तन्तुभिः पटस्य शुक्लादिभिश्चाभेदो भासते ।। पटशुक्लयोरिति ।। पटशुक्लयोरैक्यंविना पटत्वशुक्ल-योरेकस्थत्वासम्भवात् ।। अन्यथेति ।। धर्म्यभेदं विनापि धर्मयोरैकाधिकरण्ये ।। क्वापीति ।। अयं घट इत्यादावपि घटत्वेदन्त्वादेरैकाधिकरण्यमात्रं नत्विदङ्घटयोरभेद इति स्यात् ।। घटः पटो नेतीति ।। अत्रापि घटत्वपटत्वयोरेकस्थत्वनिषेध एव न तु घटपटयोर्भेदो विषयः स्यात् । ननु दण्डी चैत्र इत्यत्र दण्डित्वचैत्रत्वयोरेकस्थत्वेऽपि न दण्डिचैत्रयोरैक्यमत आह– दण्डीति ।। शुक्लवानेवेति ।। एवं च शुक्लः पट इत्यादिना न पटस्य शुक्लरूपाभेदः सिध्द्यतीति भावः ।

शुक्लं रूपमित्यत्रेति ।। न चैवं शुक्लः पट इतिवच्छुक्लं रूपं पट इत्यपि स्यादिति वाच्यम् । प्रतीत्यापादन इष्टापत्तेः । शुक्लत्वरूपत्वाभ्यां युक्तस्य पटाभेदप्रतीत्यङ्गीकारात् । व्यवहारे रूपशब्दाप्रयोगस्त्वव्यावर्तकत्वात् । उपरञ्जकत्वेऽप्यसाधुत्वात् ।। अन्यथेहापीति ।। शुक्लः पट इत्यस्य पटे शुक्लरूपाभेदो न विषयः किं तु शुक्लवदभेद इत्यङ्गीकारे नायं दण्डः किन्तु दण्डीतिवत् नायं शुक्लः किन्तु शुक्लीतिधीः स्यात् । न हि यावद्द्रव्यभाविशुक्ले कदाप्येवं प्रतीतिरस्ति ।

ननु शुक्लः पट इति प्रतीतौ मतुब्लोपसत्त्वेन शुक्लवदभेदप्रतीतिमङ्गीकुर्वाणं प्रति शुक्ली पट इति प्रतीत्यापादनमनुकूलमेव । न हि शुक्लवान् शुक्लीतिप्रतीत्योर्विषयभेदोस्तीत्यत आह– मतुब्लोपादिकल्पनं त्विति ।। तथा च प्रतीतौ मतुब्लोपादेरभावाच्छुक्लरूपाभेद एव शुक्लः पट इत्यत्र भासते ।। पटस्य शौक्ल्यमिति ।। यद्यपि पटस्य शौक्ल्यमित्यत्र न पटशुक्लयो-र्भेदशङ्का । षष्ठ्याः शौक्ल्यव्यतिरेकाविषयत्वात् । तथापि शुक्लं रूपमेव पटे शुक्लपदप्रवृत्ति-निमित्तम् । तदेव च शौक्ल्यमिति भेदशङ्का । ननु पटशुक्लादीनां सत्यप्यभेदे काल्पनिकभेद-मादाय तथा व्यवहारोपपत्त्या विशेषासिद्धिरित्यत आह– न चायं भेद इति ।। ननु फलबलेन काल्पनिकभेदस्य सामानाधिकरण्यादिव्यवहारमात्रनिर्वाहकस्य कल्पनेन विपरीतोल्लेखनं प्रत्यहेतुत्वमत आह–  भेदाभेदाविरोधायेति ।। तदुक्तमिति ।। भवेदित्यतः परम् । भावा-भावविभागेन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेदित्युक्तम् । ननु वस्तुभिरभिन्नविशेषस्य सर्ववस्तुष्वेकत्वे वस्तूनामैक्यापत्तिः । मैवम् । प्रतिवस्तु नानाविशेषाङ्गीकारात् । एकत्रापि वस्तुनि यावन्तो व्यवहारास्तत्र तावतां विशेषाणामङ्गी-काराच्च । विशेषविशेषिणोर्विशेषाणां च न मिथो विशेषान्तरमङ्गीक्रियतेऽतो नानवस्था । तदुक्तमनुव्याख्याने–

विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ।

स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ।। इति ।।

।। इति विशेषसमर्थनम् ।। १६ ।।

न्यायामृतकण्टकोद्धारः

किञ्च भेदस्य स्वरूपत्वे पर्यायत्वादयो दोषाः ऐक्यादिप्रतिबन्द्यादिना समाहितास्ते भेदस्य स्वरूपमात्रत्वमभ्युपगम्य । अस्माभिर्भेदस्य वस्तुमात्रत्वानभ्युपगमान्नैते दोषा भवन्ति । अत एव प्रतिबन्दिमात्रमनुत्तरमिति निरस्तमित्याह – वस्तुतस्त्विति ।। तत्र भेदस्य वस्त्वभेदाङ्गीकार फलमाह– ततश्चेति ।। भेदस्य सविषयत्वाङ्गीकारफलमाह– भेदे चेति ।। ननु चापर्यायत्वादि-निर्वाहार्थमङ्गीकृतस्य विशेषस्य च भिन्नत्वादिना दुष्टत्वम् । न च सोऽपि वस्तुना सविशेषाभिन्न इति वाच्यम् । तथापि विशेषपरम्परया अनवस्थानात् । न च स स्वनिर्वाहक इति वाच्यम् । तत्र प्रमाणाभावादिति चेन्न । धर्मिग्राहकेण प्रमाणेन तस्य तथैव सिद्धत्वात् । यथा चैतत्तथा वक्ष्यते । ननु लक्षणाभावे कथं विशेषस्य स्वेतरव्यावृत्तत्वेन ज्ञानम् । न च वैशेषिकै-स्तल्लक्षणमुक्तम्– अन्त्यव्यावृत्तिहेतवो विशेषा इतीति वाच्यम् । तदङ्गीकारेऽपसिद्धान्तादित्यत आह– विशेषश्चेति ।। स्वभाव इति शेषः । अपर्यायत्वादिनिर्वाहकत्वं भेदेऽपीति तद्व्यावृत्यर्थं भेदहीन इत्युक्तम् । न चैवमपसिद्धान्तः । एतादृशस्य विशेषस्य वैशेषिकैः सर्ववस्तुष्वनभ्युपगमात् । नित्यद्रव्येष्वेव विलक्षणस्याभ्युपगमात् । अत्र सिद्धान्तसम्मतिमाह– तदुक्तमिति ।।

ननूक्तलक्षणविशिष्टो विशेषः प्रमाणाभावादयुक्त इत्यत आह– प्रमाणं त्विति ।। यद्यपि ज्यैष्ठ्यात् प्रत्यक्षमादावुपन्यसनीयम् । तथापि तस्य परं प्रत्युपन्यासानर्हत्वात् पश्चात्तदुपन्यासः । यद्यपि बहुवादिसम्मतत्वात् अनुमानं प्रथममुपन्यासार्हं तथापि अर्थापत्युपन्यासेन प्रमाणद्वयोपन्यासः फलतीति तदुपन्यास इति द्रष्टव्यम् । नन्वनुपपद्यमानार्थादर्शनात् कथमर्थापत्तिरित्यतस्तद्दर्शयितु-मुपोद्धातमाह– तथा हीति ।। अखण्डार्थत्वादिति ।। निर्भेदार्थनिष्ठत्वादित्यर्थः ।। तत्र चेति ।। न च विशेषाङ्गीकारेऽपि ऐक्यस्य श्रुतिविरोधः सम एव । ऐक्यस्य निर्विशेषार्थत्वादिति वाच्यम् । ऐक्यं हि निर्भिन्नार्थत्वम् । तथाच विशेषस्य भेदप्रतिनिधित्वेन स्वीक्रियमाणस्य स्वरूपत्वेन निर्भिन्नार्थत्वविरोधित्वाभावान्न तद्विरोधः । ननु लक्ष्यार्थभेदाभावेऽपि मुख्यार्थभेदात् व्यावर्त्यभेदाच्च न पर्यायत्वादिकमित्यत आह– लक्ष्यार्थेति ।। यथा चैतत्तथोपपादितम् ।। एवमिति ।। न च विशेषस्याप्याश्रितत्वेन धर्मत्वात् तद्भेदनिषेधात् तेनाप्यनुपपत्तिरिति वाच्यम् । तस्य तद्भेदनिषेधेऽपि अपर्यायत्वादिनिर्वाहकत्वेन सिद्धत्वात् । तेनोपपत्तेरावश्यकत्वात् । अन्यथा प्रमितव्यवहारविलोपापत्तेरिति ।। अर्थेति ।। न च ज्ञानत्वानन्दत्वयोर्जातिरूपत्वेन नोक्तरूपत्व-मिति वाच्यम् । तयोर्ब्रह्मसाधारणधर्मत्वेन ब्रह्मणि च जातेरभावेनोक्तरूपस्यावश्यकत्वात् । ब्रह्मलक्षणप्रश्नोत्तरवाक्ये लक्षणत्वेन श्रुतयोस्तयोर्जातिरूपत्वाभावाच्च । अन्यथाऽसम्भवाति-व्याप्त्यापत्तेरिति । ब्रह्मण एकत्वेन तत्र जातेरसम्भवात् शुद्धाद्वितीयस्यैव लक्ष्यत्वेन कल्पित-भेदमादायापि ब्रह्मबहुत्वस्य वक्तुमशक्यत्वात् ।

ननु ज्ञानत्वानन्दत्वयोर्जातिरूपत्वाभावे उक्तोपाधिरूपयोस्तयोः स्वरूपानतिरेकेणाभेदात् ज्ञानानन्दशब्दयोः प्रवृत्तिनिमित्तभेदाभावेन पर्यायत्वं स्यात् । तथा च पर्यायत्वापत्या सहप्रयोगो न स्यादित्यत आह– आकाशस्येति ।। आकाशस्यैकव्यक्तित्वेन तत्राकाशत्वजातेरभावात् । यदि स्वरूपविशेषमादाय प्रवृत्तिनिमित्तभेदस्तत्रापि तुल्यमिति भावः । नन्वाकाशशब्देऽष्टद्रव्यातिरिक्त-द्रव्याश्रयत्वं प्रवृत्तिनिमित्तमतः कथं तदभेद इत्यत आह– न हीति ।। लाघवेन शब्दाश्रयत्वस्यैव प्रवृत्तिनिमित्तत्वादिति भावः । न चाकाशशब्दाश्रयशब्दयोः पर्यायत्वेऽपि व्याख्यान व्याख्येय-भावादिना सहप्रयोगोपपत्तिरिति वाच्यम् । सार्वत्रिकसहप्रयोगानुपपत्तेरुक्तत्वात् । तस्याश्च पर्यायत्वेऽयोगात् । नन्वस्तु ज्ञानानन्दयोरेकतरपरिशेषः । तत्र को दोष इत्यत आह– ज्ञानेति ।। न च ज्ञानानन्दयोरभेदात् तरप्प्रयोगो युक्तः । द्वयोर्वचने तरब्बिधानादिति वाच्यम् । लोके ज्ञानानन्दयोर्भेदेन द्वित्ववचनसम्भवात् । ब्रह्मण्यपि ज्ञानानन्दयोः निर्विशेषाभेदस्याद्याप्यसिद्धत्वाच्च । अभेदेऽपि ऋतं पिबन्तावित्यादौ द्विवचनस्य प्रयोगाच्च । यथा चैतत्तथोपपादितं गुहां प्रविष्टावित्यादौ भाष्यटीकादिना ।

स्थलान्तरेऽपि विशेषमङ्गीकारयितुमाह– एवमिति ।। ऐक्यस्येति ।। आदिपदेनाद्वैत-हान्यादिपरिग्रहः । एवञ्च चैतन्यभिन्नत्वे ऐक्यस्य सत्यत्वेऽद्वैतहानिः । मिथ्यात्वे च भेदसत्यत्वादिकमिति । नन्वज्ञानकृतांशभेदमादाय सर्वस्योपपत्तिरित्याशङ्क्य निषेधति– विशेषाभाव इति ।। तथा चावरकाज्ञानोपपत्तौ तत्कृतांशभेदकल्पना । तदेव न सम्भवतीति भावः । नन्वेकस्यैवावरणम् अनावरणं च किं न स्यादित्यत आह– न हीति ।। तथा सति शुक्त्यंशस्य भेदापत्तेः । न च तत्रांशभेदकल्पकं फलं नेति वाच्यम् । प्रकृते फलभेदस्याप्यन्यथोपपत्तौ असम्भावितांश भेदकल्पनायाम् अतिप्रसङ्गस्य दुष्परिहरत्वात् । स्थलान्तरेऽपि विशेषं साधयति– किञ्चेति ।। ननु धर्मविधिभेद निषेधान्यथानुपपत्या विशेषः साधनीयः । न च प्रकृते धर्मविधिः । धर्मनित्यस्यानुवादत्वादित्याशङ्क्य निषेधति–  न चेति ।। श्रुतित इति ।। तथा च श्रुत्यैव धर्मा विधातव्याः । न चाविद्यकधर्माणां साक्षिणैव प्राप्तिरिति वाच्यम् । सार्वज्ञादिधर्माणां तदभावात् । न ह्यहं सर्वज्ञ इति साक्ष्यनुभवोऽस्ति । प्रत्युत नाहं सर्वज्ञ इत्येव । तथा च न साक्षिप्राप्तिः । किञ्च सार्वज्ञादिधर्माणां श्रुतितात्पर्यविषयत्वेन ब्रह्मवदाविद्यकत्वासिद्धिः । किञ्चानुवादो व्यर्थः । न च निषेधार्थमिति वाच्यम् । पृथगित्यनेन विशेषणेन तस्यैव निषेधप्रतीतेः । अन्यथा तद्वैयर्थ्यप्रसङ्गात् ।। तादृशेति ।। अत्यन्तेत्यर्थः । किञ्चात्यन्तभेदनिषेधे हि भेदाभेदावभिमतौ वक्तव्यौ । न च तद्युक्तं, स्मृतिविरोधादित्याह– भेदाभेदौ चेति ।। स्वोक्तेऽर्थे सिद्धान्तसम्मतिमाह– तदुक्तमिति ।। ‘धर्मान्, उक्त्वा विधाय, पृथक्त्वस्य भेदस्य निषेधाद्, अत एव उक्तपृथक्त्वनिषेधान्यथा उपपत्तित एव, भेदादन्यो विशेषो ज्ञायत इत्यर्थः । साक्षितश्च ज्ञायते इति हेत्वन्तरम् ।

एवं वैदिकेष्वर्थेषु विशेषं साधयित्वा लौकिकेष्वपि तं साधयति– किञ्चेति ।। तत्परम्परेति ।। भेदपरम्परेत्यर्थः । नन्वियं भेदाभेदपरम्परा प्रामाणिकीत्यत उक्तम् अप्रामाणिकीति ।। न च भेदाभेदपरम्परायां कार्यमेव प्रमाणमिति वाच्यम् । तस्य प्रामाणिकविशेषेणैवोपपत्तेरिति भावः । ननु व्यवहारान्यथानुपपत्त्या विशेषाङ्गीकारे इदं रजतमिति व्यवहारादपि प्रथमविशेषाङ्गीकारः स्यादित्यत आह– अबाधितेति ।। तस्य बाधितत्वादिति भावः । ननु मया षट्पदार्थनियमो नाङ्गीक्रियत इत्यत आह– अनियमपक्षेऽपीति ।। न चानवस्था प्रामाणिकीति वाच्यम् । एकेन विशेषेणोपपत्तौ परम्पराकल्पनस्याप्रामाणिकत्वात् ।। तस्यैवेति ।। न च तत्तदसाधारणस्वरूपस्यैव स्वभाव विशेषशब्दार्थत्वेन भवदुक्तविशेषैक्यमिति वाच्यम् । उक्तव्यवहारसमर्थतादृशस्वरूपस्यैव मया विशेषत्वेनाङ्गीकारात् ।। स्वस्येति ।। न च स्वेतरानपेक्षव्यवहारविषयत्वमेव स्वनिर्वाहकत्वमिति वाच्यम् । इतरानपेक्षस्य व्यवहारस्य स्वानपेक्षत्वेन तस्याकस्मिकत्वं स्यात् । विशेषनिषेधस्य शेषविधिनान्तरीयकत्वाच्च । स्वापेक्षा च कर्मत्वादिनेति कथं न विशेषसिद्धिः ।

ननु विशेषस्यापि वस्तुना भेदाङ्गीकारात् भेदपरम्परया विशेषपरम्परया वाऽनवस्था स्यादित्यत आह– अयञ्चेति ।। नच विशेषस्यापि कथं स्वनिर्वाहकत्वं तस्यापि वस्त्वभेदाङ्गीकारादित्यत आह– तस्येति ।। तस्य वस्तुनीव स्वस्मिन्नपि विशेषरूपत्वेन तदुपपत्तेः । तथात्वं च धर्मिग्राहक-मानसिद्धमिति भावः । ननु भेदकार्यस्य विशेषनिर्वाहे घटपटादावपि विशेषेणैव भेदकार्यनिर्वाहाद् भेदाङ्गीकारो व्यर्थः । एकेनैवोपपत्तौ पदार्थद्वयाङ्गीकारे गौरवं इत्यत आह– यत्रेति ।। भेदकार्यमुपजीव्य कल्पितो विशेषो न भेदं व्याहन्ति उपजीव्यविरोधात् । अन्यथा पूतिकनामपि सोमबाधकत्वं स्यात् । सोमस्य प्रत्यक्षसिद्धत्वान्न बाधकत्वमिति यदि तर्हि भेदस्यापि प्रत्यक्षादि-सिद्ध त्वान्न तद्बाधकत्वम् । प्रतिनिधेर्मुख्यबाधकत्वादर्शनादित्याह– न हीति ।। एतेनालौकिकस्थले द्वयोः साम्यमिति निरस्तम् । भेदस्य ‘एवं धर्मान्’ इति बाधितत्वात्  । एतेनेति परामृष्टं हेतुं दर्शयति– तत्रेति ।। न च तत्रेवात्र मुख्यत्व नियामकं नेति वाच्यम् । सोमस्य श्रौतत्वात्कार्य-निर्वाहकत्वेन भेदस्य प्रत्यक्षसिद्धत्वस्यैव मुख्यत्वनियामकत्वात् ।

एवमर्थापत्या विशेषं प्रसाध्यानुमानेनापि तं साधयति– एवमिति ।। उक्तसाधनस्यानु-मानेऽनुकूलतर्कोपदर्शक त्वेनोपयोगीति दर्शितम् ‘एवञ्च’ इति शब्देन । अत एवार्थापत्तिप्रदर्शना-नन्तरम् अनुमानप्रदर्शनम् अन्यथाऽनुमानमेवादावुपदर्श्येत । न केवलं तर्कोपदर्शकत्वेनोपयोगोऽपि तु पक्षहेतुसाधकत्वेनापीति द्रष्टव्यम् । न चोक्तानुमानेऽविद्या रूपनिर्वाहकत्वेनार्थान्तरतेति वाच्यम् । तस्याः भेदकार्यनिर्वाहकत्वस्य क्वाप्यदर्शनात् । स्वभावविशेषरूपस्य विशेषस्य घटाभावे घटाभाव इत्यादौ तन्निर्वाहकत्वदर्शनात् । अविद्याया निराकृतत्वाच्च । अत एवाविद्यकभेदस्याविद्यमानत्वाद् बाधोऽसिद्धिश्चेति परास्तम् । तथात्वे तत्कार्यबाधितत्वप्रसङ्गात् । न चेष्टापत्तिः । बाधकानां मिथ्यात्वानुमानबाधप्रस्तावे निराकृतत्वाद् घटपटादावाविद्यकभेदस्यैव वास्तवाभेदविरोधस्य त्वया वक्तव्यत्वेन प्रकृते वास्तवाभेदाभावप्राप्तेश्च ।

किञ्च प्रत्यक्षानुकूलानि प्रकृतानुमानानि प्रबलानीति वक्तुं विशेषे प्रत्यक्षमाह– किञ्चेति ।। नन्वेवं घट इत्यादिवदयं विशेष इत्यननुभवात् कथं प्रत्यक्षेण विशेषसिद्धिरित्यत आह– तथा हीति ।। अत्यन्तभिन्नेषु घटपटादिषु घटः पट इति बुद्धिर्नास्तीति शुक्लादिषु त्वस्ति । शुक्लः पट इत्यनुभवात् । तत्र किञ्चिद्विषयवैलक्ष्यण्यं वाच्यम् । तत्र किं सम्बन्धविषयत्वं वा संयोगान्य-सम्बन्धविषयत्वं वा ? स्वरूपप्रत्यासत्तिसंयोगान्यसम्बन्धविषयत्वं वा समवायविषयत्वं वा अभेदविषयत्वं वा इति विकल्प्य परिशेषात् चरमपक्ष एवाश्रयणीय इति भावेनाद्यं दूषयति– तच्चेति ।। कुण्डेति ।। कुण्डे बदरमितिवत् मृदि घट इत्यादिबुद्ध्यापातादित्यर्थः । द्वितीयं दूषयति– नापीति ।। घटेति ।। तत्र संयोगान्यस्वरूपप्रत्यासत्तेः विषयत्वादित्यर्थः । तत्र घटो ज्ञानमित्या-द्यनुभवाभावात् । तृतीयं दूषयति– नापीति ।।अयुतसिद्धिर्हि युतसिध्यभावः । युतसिद्धिर्हि संयुक्तसिद्धिर्वा असम्बन्धसिद्धिर्वा । ‘यु मिश्रणामिश्रणयोः’ इति स्मरणात् । तत्राद्ये संयोगा-विषयत्वमुक्तं स्यात् । तच्च ‘न घटतदज्ञानादिबुद्धितः’ इत्यादिना दूषितत्वात् । द्वितीये सम्बन्धविषयत्वमुक्तं स्यात् । तदपि ‘न कुण्ड’ इत्यादिना दूषितत्वात् ।

अथायुतसिद्धत्वं रूढ्या आश्रयाश्रयिभावनियम इति ।  तत्राह– आश्रयेति ।। तत्रापि नियमो न भासतेऽथ भासते । आद्य आह– तत्र वेति ।। द्वितीय आह– नियमस्त्विति ।। शुक्लः पट इत्यादिज्ञाने नियमस्फुरणे नियामकाभावात् । नन्वाकारवैलक्ष्यण्यमेव नियामकं भविष्यतीत्यत आह– न हीति ।। पञ्चमं दूषयति– नापीति ।। उक्तेति ।। नित्यसम्बन्धस्यैव समवायत्वादिति भावः । न च स्वरूपेण समवायविषयत्वं वैलक्षण्यप्रयोजकमिति वाच्यम् । घटतद्धर्मकान्योन्या-भावबुद्धेः वैलक्षण्यं न स्यात् । स्वरूपेण समवायविषयत्वात् । परिशेषसिद्धमर्थमुपसंहरति–  तस्मादिति ।। नन्वभेदविषयत्वस्यानुभवानारूढत्वात् कथं तद्विषयत्वेन वैलक्षण्यमित्यत आह– अयमिति ।। पटेति ।। पटशुक्लयोरैक्याभावे तद्धर्मयोरेकस्थत्वासम्भवादिति भावः ।। अन्यथेति ।। धर्मिणोरैक्याभान इत्यर्थः । धर्मद्वयस्यैकस्थत्वाभावविषयत्वं स्यादित्यर्थः । नन्वेवं दण्डी चैत्र इत्यादावपि अभेदभानं स्यादित्यत आह– दण्डीति ।। विशिष्टशुद्धयोरभेदाङ्गीकारादिति भावः । न चैवं दण्डेनाप्यभेदापत्तिः । मन्मते विशिष्टस्य पदार्थान्तरत्वात् ।। अन्यथेति ।। यदि शुक्लशब्दः शुक्लवत्परः स्यादित्यर्थः ।

ननु मतुब्लोपात् तथा न प्रयोग इत्यत आह– मतुबिति ।। ननु शुक्लपटयोरभेदे पटस्य शौक्ल्यमित्यादि भेदविषयबुद्धिर्न स्यादित्यत आह– पटस्येति ।। न च भेदे सम्बन्धविषयः प्रत्ययो न दृष्ट इत्यत आह– सत्तेति ।। सत्तादौ च सत्ताद्यङ्गीकारेऽनवस्था स्यादित्यर्थः । ननु पटतन्त्वादीनां भेदे प्रबलबाधकाभावाद् भेदमङ्गीकृत्य वैलक्षण्यबुद्धिः स्वभावविशेषादुपपादनीयेत्यत आह– पटस्येति ।। तन्त्विति ।। न च पटस्तन्तावेव न भूतल इति वाच्यम् । भूतले पट इत्यबाधितप्रतीतेः । न चेयं परम्परासम्बन्धविषयेति वाच्यम् । साक्षात्सम्बन्धावगाहिप्रतीतितो वैलक्षण्याभावात् । ननु पटशुक्लयोरभेदे व्यवहारार्थक्रियाभेदो न स्यादित्यत आह– व्यवहारेति ।। न च दृष्टान्ते विवदितव्यम् । पत्रमेव ताटङ्कमित्यबाधितप्रतीत्या भेदसिद्धेः । परिशेषसिद्धं पक्षमुपसंहरति– तस्मादिति ।। नन्वेतावता विशेषस्य कथं प्रत्यक्षत्वमित्यत आह– यदि चेति ।। तस्मादिति ।।

ननु कथितभेदेनान्यथासिद्धत्वान्न विशेषसिद्धिरिति चेन्न । भेदकल्पनादशायाम् अभेद-व्यवहारादिकार्यायोगात् । न हि रजत एव ‘नेदं रजतम्’ इति कल्पनादशायाम् अभेदव्यवहारा-द्यस्ति । त्वन्मते भेदस्यापि कल्पितत्वेन परस्परप्रतिबन्धादेकमपि कार्यं न सिध्यति । किञ्च कल्पितभेदेन व्यवहारे ‘इदं रजतम्’ इत्यादिवद् बाध्येत । न च बाधो दृश्यते । तस्मात् पारमार्थिकमेवोपपादकं कल्प्यमिति विशेषसिद्धिः । प्रकारान्तरेण परिशेषस्वरूपं दर्शयति–   यद्वेति ।। विशेषस्य प्रत्यक्षसिद्धत्वे सिद्धान्तसम्मतिमाह–  तदुक्तमिति ।। विशेषस्मृतिमप्याह– अभेदेऽपि इति । परमप्रकृतमुपसंहरति– तस्मादिति ।। इति विशेषसमर्थनम् ।। १६ ।।

न्यायकल्पलता

ननु ‘नेह नाना’ इति श्रुत्या ब्रह्मणि गुणादिभेदनिराकरणात् कथं गुणित्वादिनिर्वाह इत्यत आह–    वस्तुतस्त्विति ।। भेदहीने त्विति ।। क्वचिद् ‘भेदहीनेऽप्यपर्याय’ इति पाठः । स न युक्तः । सुधायां ‘तुशब्दोऽवधारणे’ इति व्याख्यानात् । ‘अपर्यायशब्दान्तरनियामकः’ इत्यशेषभेदकार्य-निर्वाहकत्वोपलक्षणम् । अनेनैव विशेषस्य लक्षणं चोक्तं भवति । भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति ।। विशेषो नामेति ।। अभिन्नेऽपि विशेषकत्वाद्विशेषसंज्ञः । न केवलं भेदभेदिनोरेव विशेषोऽङ्गीक्रियतेऽपि तु सर्वत्रापीत्याह– सोऽस्तीति ।। नन्वखण्डवादे ज्ञानानन्दपदयोः पर्यायत्वेऽपि सखण्डवादे ज्ञानत्वानन्दत्वयोः प्रवृत्तिनिमित्तयोः सत्वान्न ज्ञानानन्दपदयोः पर्ययत्वप्रसङ्गोऽतः सखण्डमते विशेषाभ्युपगमोऽप्रयोजन इत्यत आह– न च सखण्डेति ।। शब्दाश्रयत्वादन्यदिति ।। आकाश-त्वस्याजातित्वेन शब्दाश्रयत्वरूपस्याकाशत्वस्याकाशपदेन प्रतिपादनात् । आकाशशब्द-आश्रयशब्दयोः पर्यायत्वापातात्सह प्रयोगायोगः । न च व्याख्यानव्याख्येयभावादिना तदुपपत्तिः । आकाशत्व-शब्दाश्रयत्वयोरविशेषे तद्द्वारकाकाशादिशब्दानां व्याख्येयत्वाद्यनुपपत्तेः । अज्ञातज्ञातयोर्व्याख्येय-व्याख्यानरूपत्वात् ।। एकतरेति ।। एकपरिशेष इत्यर्थः । तेन ज्ञानानन्दयोर्भेदाभावे एकतरत्वमेवासिद्धं द्वयोर्विधानेतरविधानादिति निरस्तम् । स्वार्थे तरप् इति ज्ञेयम् । अल्पाच्तरम् इति निर्देशात् ।  धर्माणाम् अनेकत्वं (वेति) चेति ।। चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्ख्यावैलक्षण्यम् अनेकत्वम् ।। अनुवाद इति ।। तथा च न धर्मादौ श्रुतेस्तात्पर्यम् ।। अत्यन्तभेदेति ।। तथा च भेदाभेदयोरनुज्ञानाद्धर्मधर्मिभावादि युज्यत इत्यर्थः ।।

लोकत एवेति ।। गुणगुणिनोरत्यन्तभेदाभावस्य ‘नीलो घटः’ इत्यादिना लोकत एव सिद्धेर्न तत्र श्रुतितात्पर्यम् । भेदाभेदौ चेति ।। तथा च ‘एवं धर्मान्’ इति श्रुतिर्न भेदाभेदावनुजानातीत्यर्थः ।। तस्यैव स्वभावविशेषस्येति ।। तथा च मम मतप्रवेशः । ननु तत्तदसाधारणस्वरूपमेव स्वभावविशेषशब्देन मयोक्तं न तु त्वदुक्तो विशेष इति न तव मतप्रवेशः । मैवम् । विशेषं विना स्वरूपासाधारण्यानुक्तेः ।। विशेषाभाव इति ।। एतेन स्वनिर्वाहकशब्दस्य स्वेतरानपेक्षव्यवहार-विषयत्वमर्थ इति निरस्तम् । अविरोधाय स्वेतरापेक्षाया आवश्यकत्वात् ।। स्वनिर्वाहकश्चेतीति ।। ननु विशेषे स्वस्य स्वनिर्वाहकत्वं विशेषान्तरं विनानुपपन्नमिति कथं नानवस्थेत्यत आह – तस्य तथात्वं चेति ।। वैशेषिकाभिमतान्त्यविशेषवदयं धर्मिग्राहकमानेन तादृक्स्वभावतया सिद्धः । न हि स्वयम् अनुपपन्नम् अनुपपत्त्यन्तरशान्त्यै प्रभवतीत्यर्थः ।। प्रमितभेद इति ।। मुख्यसम्भवे प्रतिनिधेरनादरणीयत्वादित्यर्थः । यत्तूभयोरपि भेदकार्यकारित्वान्न मुख्यो भेद इत्यत्र मानमस्तीति, तन्न । सर्वाविवादस्यैव मानत्वात् । न हि विशेषे सर्वाविवादोऽस्ति । सर्वसङ्करवादिना भेदवन्मिथ्या-भूतस्यापि विशेषस्यानङ्गीकारात् ।। एतेनेति ।। भेदासम्भवे विशेषस्य ग्राह्यत्वकथनेन ।। अभेदकार्यं त्विति ।। एतावतापि विशेषसिद्धिः । सभेदस्याभेदस्य वा प्रतिनिधिरिति वादान्तरम् अवशिष्यत इत्यपि बोध्यम् ।। एवञ्चेति ।।

ननु त्रिष्वप्यनुमानेष्वर्थान्तरम् । अविद्यादेः सर्वत्र नियामकत्वसम्भवात् इति । मैवम् । त्वदभिमताविद्याया अद्याप्यसिद्धेः । मुक्तौ आनन्दप्रकाशस्याभावापाताच्चेत्युक्तत्वात् ।। घट-तद्धर्मिकेति ।। घटतद्धर्मिकान्योन्याभावबुद्धौ समवायादिरूपः स्वरूपप्रत्यासत्तिसंयोगाभ्याम् अन्यः सम्बन्धो न विषय इति तन्तुपटादिबुद्धितोऽस्या वैलक्षण्यं न स्यादित्यर्थः ।। नियमस्तु नेति ।।  तथा च तन्तुपटादिबुद्धेः कुण्डबदरादिबुद्धितो वैलक्षण्यं न स्यात् ।। पुरोवर्तिनेति ।। यथेदंपदार्थेन घटस्याभेदो भासते गजाश्वादिना च सेनायास्तथा तन्तुभिः पटस्य शुक्लादिभिश्चाभेदो भासते ।। पटशुक्लयोरिति ।। पटशुक्लयोरैक्यं विना पटत्वशुक्लयोरेकस्थत्वासम्भवात् ।। अन्यथेति ।। धर्मभेदम् अन्तरेणापि धर्मयोरैकाधिकरण्ये ।। क्वापीति ।। ‘अयं घटः’ इत्यादावपि घटत्वेदन्त्वादेरैकाधि-करण्यमात्रं न त्विदङ्घटयोरभेद इति स्यात् ।। घटः पटो नेतीति ।। अत्रापि घटत्वपटत्वयो-रेकस्थतानिषेध एव न तु घटपटयोर्भेदो विषयः स्यात् । ननु ‘दण्डी चैत्रः’ इत्यत्र दण्डित्व-चैत्रत्वयोरेकस्थत्वेऽपि न दण्डिचैत्रयोरैक्यम् अत आह– दण्डीति ।। शुक्लवानेवेति ।। एवं च ‘शुक्लः पटः’ इत्यादिना न पटस्य शुक्लरूपाभेदः सिध्यतीति शङ्कितुरभिसन्धिः ।। शुक्लं रूपमित्यत्रेति ।। न चैवं शुक्लः पट इतिवत् शुक्लं रूपं पट इत्यपि स्यादिति देश्यम् । प्रतीत्यापादन इष्टापत्तेः । शुक्लत्वरूपत्वाभ्यां युक्तस्य पटाभेदप्रतीत्यङ्गीकारात् । व्यवहारे रूपशब्दाप्रयोगस्त्वव्यावर्तकत्वात् । उपरञ्जकत्वेऽप्यसाधुत्वात् ।। अन्यथेहापीति ।। शुक्लः पट इत्यस्य पटे शुक्लरूपाभेदो न विषयः किं तु शुक्लवदभेद इत्यङ्गीकारे ‘नायं दण्डः किन्तु दण्डी’ इतिवत् ‘नायं शुक्लः किन्तु शुक्ली’ इति धीः स्यात् । न हि यावद्द्रव्यभाविशुक्ले कदाप्येवं प्रतीतिरस्ति ।

ननु शुक्लः पट इति प्रतीतौ मतुब्लोपसत्त्वेन शुक्लवदभेदप्रतीतिम् अङ्गीकुर्वाणं प्रति शुक्ली पट इति प्रतीत्यापादनम् अनुकूलमेव । न हि शुक्लवान् शुक्लीतिप्रतीत्योर्विषयभेदोऽस्तीत्यत आह– मतुब्लोपादिकल्पनं त्विति ।। एवं च प्रतीतौ मतुब्लोपादेरकल्पनात् शुक्लरूपाभेद एव शुक्लः पट इत्यत्र भासते ।। पटस्य शौक्ल्यमिति ।। यद्यपि पटस्य शौक्ल्यमित्यत्र न पटशुक्लयोर्भेदशङ्का । षष्ठ्याः शौक्ल्यव्यतिरेकोपजातत्वेन शुक्लव्यतिरेकाविषयत्वात्, तथापि शुक्लं रूपमेव पटे शुक्लपदप्रवृत्तिनिमित्तम् । तदेव च शौक्ल्यमिति भेदशङ्का । ननु पटशुक्लादीनां सत्यभेदे काल्पनिकभेद-मालम्ब्य तथा व्यवहारोपपत्त्या विशेषासिद्धिरित्याशङ्क्य निराकरोति– न (चायं) च भेद इति ।। समानाधिारणप्रतीतितवषय इत्यनुषज्यते । ननु फलबलेन काल्पनिकभेदस्य सामानाधिकरण्यादि-व्यवहारमात्रनिर्वाहकत्वकल्पनेन विपरीतोल्लेखनं प्रत्यहेतुत्वम् अत आह– भेदाभेदाविरोधायेति  ।। समयपादीयानुव्याख्यानं संवादयति– तदुक्तमिति ।। भवेदित्यतः परम् ‘भावाभावविभागेन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत्’ इत्युक्तम् । यत्तु वस्तुभिरभिन्नविशेषस्य सर्ववस्तुष्वेकत्वे सर्ववस्तूनामैक्यापत्तिरिति, तदसारम् । प्रतिवस्तु नानाविशेषाङ्गीकारात् । एकत्रापि वस्तुनि यावन्तो व्यवहारास्तत्र तावतां विशेषाणाम् अङ्गीकाराच्च । विशेषविशेषिणोर्विशेषाणां च न मिथो विशेषान्तरम् अङ्गीक्रियतेऽतो नानवस्था । तदुक्तम् अनुव्याख्याने–

विशेषास्ते(ऽप्य) ह्यनन्ताश्च परस्परविशेषिणः ।

 स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः’ ।।

।। इति विशेषसमर्थनम् ।। १६ ।।