यच्चेदमुच्यते अध्यस्तमज्ञानोपादानकं तत्त्वज्ञाननाश्यं चेति
७५. आविद्यकरजतोत्पत्तिभङ्गः
न्यायामृतम्
यच्चेदमुच्यते अध्यस्तमज्ञानोपादानकं तत्त्वज्ञाननाश्यं चेति । तन्न, तथात्वे रूप्यमुत्पन्नं नष्टं चेति धीप्रसङ्गेन त्रैकालिकनिषेधायोगात् । न चार्थक्रियाकारित्वादिरूपलौकिकपारमार्थिकत्वाकारेण तथा निषेधः रूप्यं नासीदस्ति भविष्यतीति स्वरूपेणैव निषेधात्, लौकिकपारमार्थिकत्वस्यापि रूप्यवत् प्रतीतत्वेन तत्काले सत्त्वाच्च । नाप्ययं निषेध आपणस्थरूप्यस्य, ‘नेह नानास्ति’ इति निषेधाय तात्त्विकप्रपञ्चान्तरापातात्, तस्याप्रसक्तेश्च । अन्यथाऽन्यथाख्यात्यापत्तेः । आभासस्य प्रसक्तिरेव पारमार्थिकस्य निषेधे तन्त्रमिति चेन्न, यत्प्रतीतं तन्नास्तीत्यनुभवविरोधात्, प्रतिपन्नोपाधाव-निषिद्धस्यास्य मिथ्यात्वासिद्धेश्च । निवृत्तिज्ञान इव त्रैकालिकनिषेधज्ञानेऽपि प्रसक्तस्याभासस्य निषेधसम्भवे निषेध प्रत्यवच्छेदकमधीस्थं पारमार्थिकमन-वच्छेदकस्याभासस्य धीस्तु निषेधधीहेतुरिति वैयधिकरण्यकल्पनायोगाच्च, अनारोपपूर्वकनिषेधस्यानुपपत्तेश्च । न च तत्रापि बुद्धिपूर्वकारोपकल्पना, यस्यारोपस्तस्यैव निषेध इति मते निषेधस्य प्रसक्त्यर्थं बुद्धिपूर्वकारोप-कल्पनेऽपि त्वन्मते तदयोगाद्, घटे स्मृते तदारोपं विनैवेह घटो नास्तीति-ज्ञानस्यानुभवात् । न चाभासप्रसक्त्याऽनाभासस्यापि प्रसक्तिः, आभास इत्यप्रसक्तेः । न च रजतत्वाकारेणानाभासस्यापि प्रसक्तिः, आभासाना-भासानुगतसामान्याभावात् फलबलेन व्याप्तिज्ञाने सामान्यस्य प्रत्यासत्तित्वेऽपि अतिप्रसङ्गेनान्यत्र तदभावाच्च ।
किं चाध्यस्तं न सोपादानकं सकर्तृत्वस्याप्यापाताद्, अविद्यालक्षण-भङ्गेऽध्यस्तस्याज्ञानोपादनकतया निरासाच्च । इदं रूप्यमिति रूप्यानु-विद्धस्येदमंशस्यैव दोषादिवशात् सत्यविकाराविरोधेन रूप्यात्मना मिथ्या-विकाररूपविवर्तसम्भवे तदननुविद्धस्याज्ञानस्योपादानत्वायोगाच्च । परोक्ष-धीरप्यज्ञानविरोधिनीत्युक्तत्वेन श्वेतत्वेनानुमिते शङ्खे श्वैत्यज्ञानाभावेन पीतत्वभ्रमायोगाच्च, त्वन्मते बिम्बप्रतिबिम्बयोरैक्यस्य प्रत्यक्षतया ऐक्या-ज्ञानाभावेनोपाधिवशादपि तत्र भेदभ्रमायोगाच्च । घटत्वेन साक्षात्कृते घटे घटत्वाज्ञानाभावेन पटोऽयमिति वाक्याभासाद् भ्रमानुत्पत्तिप्रसङ्गाच्च । अयं घट इत्यत्राग्निना सिञ्चेदितिवदन्वयविरोधिनो धर्मस्यानुपादानेनान्वयधीर्युक्तैव, साक्षिवेद्येऽज्ञानसुखादावज्ञानाभावेन तत्र ज्ञानाभावत्वदुःखाभावत्वादि-भ्रमायोगाच्च । परोक्षतत्वज्ञानस्याज्ञाननिवर्तकत्वे शङ्खे श्वैत्यानुमित्याऽप्यज्ञान-निवृत्तौ भ्रमानुत्पत्त्यापाताद्, अपरोक्षतत्त्वज्ञानस्य, च परोक्षे अभावेन परोक्षाध्यासस्यानिवृत्त्यभावेन मिथ्यात्वेनाधिष्ठानतत्त्वज्ञानैकनिवर्त्ययो रूप्य-ज्ञानाकाराविद्यापरिणामयोर्निवृत्त्यभावेन रूप्यधीसामग्रीसद्भावेन रूप्यप्रतीते-र्दुर्वारत्वाच्च । न च सर्वज्ञानानां स्वगोचरशूरत्वाद्यथाभ्रान्तितदर्थोऽङ्गीकार्य इति युक्तम्, अर्थतत्त्वव्यवस्थापकस्य बाधस्यैवानुसर्तव्यत्वेनानेवंविधस्य भ्रमस्या-तथात्वाद्, अन्यथा तदर्थस्य तात्त्विकत्वापातात् । आविद्यकरजतोत्पत्तिभङ्गः ।
अद्वैतसिद्धि:
तच्चानिर्वचनीयमज्ञानोपादानकम्, तत्त्वज्ञानेन नाश्यं च । ननु एवं ‘रूप्यमुत्पन्नं नष्टं च’ इति धीप्रसङ्गः, त्रैकालिकनिषेधप्रतीतिश्च न स्यादिति चेन्न, उत्पादविनाशप्रतीतिरियं भ्रान्तिसमये आपाद्यते ? बाधसमये वा ? नाद्यः, पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव तत्र प्रतिबन्धकत्वाद्, विरोधिज्ञानानुदयेन रूप्यस्याविनाशाच्च । न द्वितीयः, अत्यन्ता-भावग्रहस्यैव प्रतियोगिग्रह इव तदुत्पादविनाशग्रहेऽपि प्रतिबन्धकत्वात् । न हि कुत्रापि कदापि अत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति । न च त्रयाणां सत्त्वे कथमत्यन्ताभावबुद्ध्या विनाशबुद्धिप्रतिबन्धः ? विनाशबुद्ध्यैवात्यन्ताभावबुद्धिः किमिति न प्रतिबध्यते ? नियामकाभावादिति वाच्यम्, फलबलेनात्यन्ताभावधीसामग््रया एव बलवत्त्वेन तस्यैव विनिगमकत्वात् । न च तर्हि उत्पादाद्यधिकरणे अत्यन्ताभावः कथम् ? प्रतीति-मुपलभस्व, यथा अपरोक्षप्रतीत्याद्यन्यथानुपपत्त्या सिद्धोत्पादादिकस्य त्रैकालिकनिषेध-प्रतियोगित्वं विषयीक्रियते ।
यद्वा न स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वम्, किन्तु पारमार्थिकत्वाकारेण । न च पारमार्थिकसत्त्वस्यापि प्रतिभाससमये प्रतीतत्वेन न त्रैकालिकनिषेधप्रतियोगित्वं सम्भवति रजतप्रतियोगित्वेनानुभवविरोधश्चेति वाच्यम्, प्रतीतिकालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तत् निषिध्यते, किन्त्वन्यत्र वृत्त्येवेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वेऽनुभवविरोधोऽपि । ननु यद्यपि प्रसक्तिर्ज्ञानम्, सा च स्मृतिरूपा पारमार्थिकत्वस्यास्त्येव तथापि निषेध्यताप्रयोजकपारमार्थिकत्वाकारेण प्रातिभासिकस्य प्रसक्तिर्नास्तीति चेन्न । व्यधिकरणधर्मावच्छिन्नप्रतियोगिके ह्ययमभावः, तत्प्रतीतौ च न विशिष्टप्रसक्तिरुद्देश्या, प्रत्येकप्रसक्त्यैव तत्प्रतीत्युपपत्तेः । निर्विकल्पकादभावप्रतीति रिष्टापत्त्यैव परिहरणीया ।
यद्वा लौकिकपरमार्थरजतस्यैव तत्र त्रैकालिकनिषेधः । न च तर्हि ‘नेह नाना’ इति निषेधायापि तात्त्विकप्रपञ्चान्तरोररीकारापत्तिः, नेह नानेति निषेधस्थले किञ्चनेति पद-दसन्दंशात् प्रतीयमानसर्वनिषेधस्यावश्यकतया निषेध्यत्वेन प्रपञ्चान्तरकल्पनाया गौरव-करत्वात्, प्रकृते तु सर्वत्वेन प्रतियोग्यनुल्लेखाद् आपणस्थरूप्यनिषेधस्य इदम्यावश्य-कत्वेनाप्रतीतनिषेधकल्पनैव युक्ता । न चान्यथाख्यातिभिया तस्याप्रसक्तौ कथं तन्निषेधः ? अपरोक्षत्वाभावेऽपि स्मृतिरूपतत्प्रसक्तेः सम्भवात् । एतेन अधीस्थं पारमार्थिकत्वमवच्छेद-कम्, अनवच्छेदकस्याभासस्य धीस्तु निषेधधीहेतुरिति परास्तम् । न च आरोपपूर्विकैव निषेधधीः, तस्यानारोपात् कथं तदभावप्रत्यय इति वाच्यम्, आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुपपत्तेः । अत एव न बुद्धिपूर्वकतदारोपोऽपि । अन्यथाख्यातेः सामग््रयभावेनासत्ख्यातिवत् प्रागेव निरासादारोपस्य विशेषादर्शनजन्यत्वेन बुद्धिपूर्वकत्वानुपपत्तेश्च ।
किञ्चाभासप्रसक्तिरेव तत्प्रसक्तिः । ननु आभास इत्यप्रसक्ते रजतत्वाकारेणाभासाना भासयोः प्रसक्तिः वाच्या, सा चानुपपन्ना, उभयोरेकसामान्याभावात्, फलबलेन व्याप्तिग्रहे सामान्यस्य प्रत्यासत्तित्वेऽपि अन्यत्रातिप्रसङ्गेन तदभावाच्चेति चेन्न, शुक्तिरूप्यस्यापणरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसमामान्यस्यैकस्यावश्यकत्वात् । तेन सामान्येन प्रत्यात्तस्या आपणरूप्ये ज्ञानं न ब्रूमः, किन्तु प्रतियोगितावच्छेदकप्रकारकं ज्ञानं प्रतियोग्यविषयकमपि अभावप्रतीत्युपयुक्तं संवृत्तमिति । अतो न सामान्यप्रत्यासत्ति-निबन्धनातिप्रसङ्गावकाशः । यत्तु व्याप्तिग्रहे सामान्यप्रत्यासत्तिमङ्गीकृत्यातिप्रसङ्गेनान्यत्र तदनङ्गीकरणं, तदाशीविषमुखे अङ्गलिं निवेश्य वृश्चिकाद्भयनाटनम् । प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति व्याप्तिग्रह एवातिप्रसङ्गस्य प्राचीनैरुक्तत्वात् । इदं च यथाश्रुतप्राचीनग्रन्थानुसारेणोक्तम् । अन्योयाभावमादाय तु लौकिकपरमार्थरजतस्य निषेध्यत्वं प्राग्व्याख्यातं न विस्मर्त्तव्यम् ।
न च सोपादानत्वे सकर्तृकत्वापत्तिः, इष्टापत्तेः । ननु एवमपि रूप्यस्य कथमज्ञान-मुपादानम् ? तदनुविद्धतया अप्रतीतेः, इदमंशानुविद्धतया प्रतीतेरङ्गुलिनिर्देशाच्चेलाञ्चल-बन्धनादितश्चेदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तत इत्यङ्गीक्रियतामिति चेन्न, शुक्त्यज्ञानस्य तावदन्वयव्यतिरेकाभ्यां कारणत्वमावश्यकमिति उपादानमपि तदेवास्तु । तत्कल्पनाया एवाभ्यर्हितत्वाद्, उपादानान्तरासिद्धेः । किञ्च शुक्तिज्ञानमज्ञानं नाशयद्रूप्यमपि नाशयति । तच्च तदुपादानत्वं विना न घटते, निमित्तनाशस्य कार्यनाशं प्रत्यप्रयोजकत्वाद्, उपादेये उपादानानुवेधनियमाभावात्, ‘रूपं घटः’ ‘कपालो घट’ इत्यप्रतीतेः, कथञ्चिदनु-वेधस्य जडत्वादिनात्रापि सम्भवात् । अनवच्छेदकतया इदमंशे इदमंशानुविद्धतया प्रतीतिरेव तदनुविद्धतया प्रतीतिः । कार्यकारणयोरभेदादङ्गुलिनिर्देशादिकमप्युपपद्यते । न च परोक्ष-ज्ञानस्याप्यज्ञाननाशकतया श्वैत्यानुमित्या अज्ञाने नाशिते पीतभ्रमानुदयः स्यात्, उपादाना-भावादिति वाच्यम्, विषयगताज्ञानस्य परोक्षवृत्त्याऽनाशात् । न च अपरोक्षवृत्तेरज्ञान-नाशकतायामपि ‘घटोऽयम्’ इति साक्षात्कृते पटोऽयमिति वाक्याभासाद् भ्रमानुत्पत्तिप्रसङ्गः । न ह्यत्र वह्निना सिञ्चतीत्यत्रेवान्वयविरोध्युपस्थितिरस्ति, येनेष्टापत्तिरवकाशमासादयेदिति वाच्यम्, यदा हि घटत्वं पटत्वविरुद्धतयाऽवगतं, तदा हि तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टापत्त्यवकाशः ? यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानम्, तदा घटत्वज्ञानेन तदज्ञान-नाशेऽपि पटत्वविरुद्धतया अज्ञातविशेषाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इति न काप्यनुपपत्तिः ।
न च साक्षिवेद्याज्ञानसुखादौ ज्ञानाभावत्वदुःखाभावत्वारोपौ न स्याताम्, अज्ञान-रूपोपादानाभावादिति वाच्यम्, दुःखाभावभिन्नत्वेन ज्ञानाभावभिन्नत्वेन दुःखत्वविरुद्धधर्म-वत्तयाऽज्ञानत्वविरुद्धधर्मवत्तया वा अधिष्ठानज्ञानं भ्रमनिवर्त्तकम् । तच्च विरोधभेदादि न साक्षिगम्यम्, किन्त्वनुपलब्धिगम्यम् । तथा च तदज्ञानमेव भ्रमोपादानम् । न च परोक्षा-ध्यासो न परोक्षज्ञानेन निवर्तेत, तस्याज्ञानानिवर्तकत्वादिति वाच्यम्, परोक्षाध्यासे हि प्रमातृगताज्ञानमेवोपादानम् । तच्च परोक्षज्ञानेनापि निवर्तत इत्युक्तत्वात् । न च रूप्यं दृष्ट्वाऽधिष्ठानतत्त्वज्ञानं विना निवृत्तस्य पुंसोऽज्ञाननिवृत्त्यभावेन रूप्यतज्ज्ञानयोरविद्या-परिणामयोरनिवृत्त्या रूप्यधीसामग्री सद्भावेन तद्धीर्दुर्वारैवेति वाच्यम्, रूप्यं तद्धीश्च उत्पन्ने तावदुदीच्यज्ञानेन उपादाने विलीयते । उपादानस्य निवृत्तिः परं न भवति, अधिष्ठान-तत्त्वज्ञानाभावात् । रूप्यबुद्ध्यन्तरोत्पत्तिस्तु इदमाकारान्तःकरणवृत्ति सद्भावेनानुत्पन्ना-धिष्ठानतत्त्वसाक्षात्कारस्य भवत्येव । तदभावे तद्विलम्बादेव विलम्ब इति न काप्यनुपपत्तिः । तथा च सर्वप्रत्ययानां स्वगोचरशूरत्वात् प्रतीतिकाले रजतस्य विद्यमानता सिद्धा । न चैवं तात्त्विकत्वमपि सिद्ध्येत, तस्यापि प्रातीतिकत्वादिति वाच्यम्, अपरोक्षप्रतीत्या तावत् त्रिकालाबाध्यत्वरूपं तात्त्विकत्वं विषयीकर्तुं न शक्यत इत्युक्तत्वात् । परोक्षप्रतीत्या विषयीकृतमपि तात्त्विकत्वं प्रातीतिकमेव, कालान्तरबाधेन पुनरतात्त्विकत्वस्य सम्भवात् । इत्याविद्यकरजतोत्पत्त्युपपत्तिः ।
न्यायामृततरङ्गिणी
।। तथात्व इति ।। ननूत्पादादिप्रतीतिरियं भ्रान्तिकाले आपाद्यते बाधसमये वा । नाद्यः । पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव प्रतिबन्धकत्वात् । न द्वितीयः । अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इवैतदुत्पादादिग्रहे प्रतिबन्धकत्वात् । न हि तदत्यन्ता-भावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति । मैवम् । इदानीमुत्पन्नरूप्याभेदेनेदं विशिष्टरूप्ये उत्पत्त्यादिप्रत्ययस्य चोदितत्वात् । समारोप्यधर्मस्यैव विषये प्रतीतेश्च । उत्पादादिप्रत्ययेनैवात्यन्ताभावप्रतीतिप्रतिबन्धसम्भवेन बाधासिद्धेश्च । न हि तदुत्पत्त्यधि-करणे तदत्यन्ताभावधीरस्ति ।। पारमार्थिकत्वस्यापीति ।। ननु न प्रतीतिकालप्रतीतं पारमार्थिकत्वं निषिध्यते किन्त्वन्यत्र वृत्तेरेवेति तेनाकारेण रजतस्यैव निषेध इति चेन्न । येनाकारेणानिषेधस्तेन रूपेण प्रतियोगिप्रसक्तौ पारमार्थिकत्वस्य रूप्यतुल्यत्वात् । न च व्यधिकरणधर्मावच्छिन्नाभावप्रतीतौ न विशिष्टप्रसक्तिरुद्देश्या । प्रत्येकप्रसिद्ध्यैव तत्प्रतीत्युप-पत्तेरिति वाच्यम् । तथापि निषिध्यमानस्य निषिध्यतावच्छेदकवैशिष्ट्येन प्रतीतिं विना निषेधायोगेन निषिध्यमानस्यानिर्वचनीयस्य तदवच्छेदकपारमार्थिकत्ववैशिष्ट्यज्ञानम-वर्जनीयमिति पारमार्थिकत्वमपि रजततुल्यमेव ।। नेह नानेति ।। प्रातिभासिकनिषेधस्य व्यावहारिकविषयत्वे व्यावहारिकनिषेधस्य तात्विकविषयत्वं स्यात् ।। तस्येति ।। आपणस्थरूप्यस्य । ननु भ्रमेणैव तत्प्रसक्तिरस्त्वित्यत आह ।। अन्यथेति ।।
नन्वप्रसक्तस्यैवापणस्थरूप्यस्य निषोधोऽस्तु तथापि नातिप्रसङ्ग इति शङ्कते ।। आभासस्येति ।। यत्प्रतीतमिति प्रतीतिनिषेधयोर्वैय्यधिकरण्यस्य त्वयाङ्गीकृतत्वात्तव तत्सामानाधिकरण्यप्रतीतिविरोध इत्यर्थः ।। प्रतिपन्नेति ।। शुक्तौ प्रतीतरूप्यस्या-निषिद्धत्वात् ।। प्रसक्तस्येति ।। न च तस्य स्वरूपेण निषेधे तस्यासत्त्वापत्तिः । इष्टत्वात् ।। निषेधसम्भव इति ।। निषेधज्ञानजनकप्रतियोगिप्रसक्तिविषयस्यैवाभावा-प्रतियोगित्वात् । एतेन स्मृतिरूपा प्रसक्तिः सम्भवतीति निरस्तम् । नन्वधिकरणे निषेध्यारोपं विनैव प्रतियोगिस्मरणाधिकरणानुभवादिनैव निषेधज्ञानमस्त्वित्यत आह ।। अनारोपेति ।। अन्यथा तस्य बाधत्वानुपपत्तेः । तदुक्तं प्रसक्तप्रतिषेधात्मा बाधो ख्यातौ न युज्यत इति ।। तत्रापीति ।। अनाभासेति ।। निषेधस्य प्रसक्त्यर्थमिति ।। निषेधोपपादकप्रसक्त्यर्थम् ।। त्वन्मत इति ।। अन्यथाख्यातिभयादिति भावः ।। तदारोपमिति ।। स्मर्यमाणघटारोपं विना ।
नन्वाभासस्य प्रसक्त्याऽनाभासस्य प्रसक्तिः । किमिदं रजतमित्याकारेण वा रजत-मित्याकारेण वा । नाद्य इत्याह ।। आभास इतीति ।। इदं रजतमित्यप्रसक्तेः । द्वितीयमाशङ्क्य निराकरोति ।। न चेति ।। ननु शुक्तिरूप्यस्यापणस्थरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसामान्यमेकमावश्यकमिति प्रतियोगिता-वच्छेदकप्रकारकज्ञानं प्रतियोग्यविषयकमप्यभावप्रतीत्युपयुक्तं संवृत्तमिति मैवमित्याह ।। आभासेति ।। उभयानुगतसामान्यं किमाभास एव वाऽनाभास एव वोभयावच्छेदेनोभयरूपं वा । नाद्यौ । उभयोराभासत्वस्यानाभासत्वस्य वाऽऽपातात् । न तृतीयः । दृष्ट-विरोधादबिभ्यतैकमनुगतं रूप्यमेव तथेति स्वीकर्तव्यत्वात् । तेन सामान्येनापणस्थ-रूप्यस्यैव पुरोवर्तिनि प्रतीतिसम्भवाच्च । प्रवृत्तिं प्रति तु न रूप्यत्वसामान्यं हेतुः । किं तु रूप्यज्ञानमेव । नन्वाभासानुगतसामान्याभावेऽप्यनाभासस्य रजतत्वसामान्यप्रत्यासत्त्या भानमस्तु । न चान्यथाख्यात्यापत्तिः । तस्य स्वरूपेणैव भानात् । पुरोवर्तितादात्म्येन भानस्यान्यस्यानिर्वचनीयत्वादित्यत आह ।। फलबलेनेति ।। अतिप्रसङ्गः सार्वज्ञादिप्रसङ्गः ।। सकर्तृकत्वस्येति ।। न चेष्टापत्तिः । जीवस्येश्वरस्य वा तत्कर्तृत्वासम्भवात् ।
ननु भट्टमते क्षित्यादेरकर्तृकत्वेऽपि सोपादानत्ववद्रूप्यस्यापि तथास्त्वित्यत आह ।। अविद्येति ।। सोपादानत्वेऽप्यज्ञानोपादानत्वं नाध्यस्तस्य सम्भवतीत्याह ।। इदमिति ।। तदननुविद्धस्येति ।। एतेन शुक्त्यज्ञानमन्वयव्यतिरेकाभ्यां कारणमिति तदेवोपादानमिति निरस्तम् । अन्वयव्यतिरेकयोर्निमित्ततायामुपपत्तेः ।। परोक्षधीरिति ।। न च प्रमातृ-गताज्ञाननाशेऽपि विषयगतं तदस्तीति वाच्यम् । पीतभ्रमकाले शङ्खे श्वैत्यासिद्ध्या श्वेतार्थिप्रवृत्त्यनुपपत्तेः । भ्रमानुत्पत्तिप्रसङ्गे इष्टापत्तिं परिहरति ।। अयं घट इत्यत्रेति ।। ननु यदा घटत्वं पटत्वविरुद्धतयावगतं तदा तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टा-पत्त्यवकाशः । यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानं तदा घटत्वज्ञानेन तदज्ञाननाशेऽपि पटत्वविरुद्धत्वाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इत्यत आह ।। युक्तैवेति ।। घटत्वस्य पटत्वविरुद्धतयावगमेऽपि पुरोवर्तीदन्त्वपटत्व योर्विरुद्धत्वानवगमादाप्तिगौरवादयं पट इति वाक्याभासात्पुरोवर्तिनि पटत्वबुद्धेरनुभवसिद्धत्वात्सा युक्तैव ।। साक्षिवेद्य इति ।। न चाज्ञानस्य सुखादीनां च स्वरूपेण साक्षिवेद्यत्वेऽपि ज्ञानाभावभिन्नत्वे दुःखाभाव-भिन्नत्वादिना न तद्वेद्यत्वम् । किन्त्वनुपलब्धिवेद्यत्वम् । तथा च तदज्ञानमेव भ्रमो-पादानमिति वाच्यम् । अमानत्वस्याभावविलक्षणत्वादि रूपतयाऽज्ञानत्वेनावगतेऽज्ञाने सुखत्वस्यानुकूलत्वादिरूपतया सुखत्वेनावगते च सुखादौ ज्ञानाभावदुःखाभावत्वाद्या रोपस्यानुभूयमानत्वात् ।। परोक्षेति ।। न च परोक्षाध्यासं प्रति प्रमातृगताज्ञानमेवोपादानं तच्च परोक्षज्ञानेनापि निवर्तत इति वाच्यम् । श्वैत्यानुमित्या प्रमातृगताज्ञाननाशे सति शङ्खे पीताध्यासो न स्यात् ।। रूप्यं दृष्ट्वेति ।।
ननु रूप्यतद्धियावुदीच्य ज्ञानेन स्वोपादाने प्रविलीयेते ।। उपादाननिवृत्तिः परं न भवति । अधिष्ठानतत्वज्ञानाभावात् । रूप्यबुद्ध्यन्तरोत्पत्तिस्त्विदमाकारान्तः करणवृत्ति-सद्भावेऽनुत्पन्नाधिष्ठाने तत्वसाक्षात्कारस्य भवत्येव । तदभावे तु तद्विलम्बादेव विलम्ब इति । मैवम् । प्रविलयः किं ध्वंसो वा पिशाचादिवत्तिरोधानं वा । आद्ये तस्य पुनरुत्पत्त्यसम्भवात्तज्ज्ञानसम्भवः । न द्वितीयः । पिशाचादिवद्रूप्ये तिरोधानशक्तेरभावात् ।। खगोचरेति ।। स्वविषयव्यवस्थापकत्वादित्यर्थः ।। अर्थेति ।। भ्रमभिन्नज्ञानस्यैव स्वविषयशूरत्वमित्यर्थः ।। तात्विकत्वेति ।। न चापरोक्षप्रतीत्यां त्रिकालाबाध्यत्वरूपं तात्विकत्वं न विषय इति वाच्यम् । स्वकाले सत्ताग्राहकस्य त्रिकालेऽसत्त्वाभाव-ग्राहकत्वस्योक्तत्वात् ।।
न्यायामृतकण्टकोद्धारः
किञ्च रूप्यस्यानिर्वचनीयत्वे उत्पत्यादिकं स्वीकर्तव्यम् । तच्चानुभवविरुद्धं त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वविरुद्धं चेति वक्तुं परमतमनुवदति ।। यच्चेदमिति ।। तथात्व इति ।। ननूत्पादादिप्रत्ययः कदाऽपाद्यते । भ्रान्तिकाले बाधकाले वा । नाद्यः पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव प्रतिबन्धकत्वात् विरोधिज्ञानानुदयेन रूप्यस्या-विनाशाच्च । न द्वितीयः । अत्यन्ताभावप्रतियोगित्व ग्रहस्यैव प्रतियोगित्वग्रह एव उत्पादादिग्रहेऽपि प्रतिबन्धकत्वादिति चेन्मैवम् । प्रमाणेनानिर्वचनीयत्वे सिद्धे उत्पादादौ च सिद्धे प्रतिबन्धकल्पना । न चैवम् । अनिर्वचनीयप्रमाणानां निरस्तत्वात् । उत्पादादौ प्रमाणाभावाच्च । न चापरोक्षाभासान्यथानुपपत्त्या तत्सिद्धिरिति वाच्यम् । असत्त्वेऽपि तदुपपत्तेः । अन्यथा शशशृृङ्गस्यापि सत्त्वं प्रतिबन्धकसद्भावात् प्रतीत्यभाव इति स्यात् । किञ्च उत्पातादिग्रह एव भ्रान्तिबाधादौ प्रतिबन्धकः स्यात् । फलबलस्य चान्यथा-प्युपपादितत्वात् । प्रतीतिमात्रशरीरत्वेन विरोधिज्ञानानुदयेऽपि विनाशस्य वक्तुं शक्यत्वेन प्रतीतेरावश्यकत्वाच्चेति ।। पारमार्थिकत्वस्यापीति ।। न च यत्प्रतीतं प्रातिभासिकं पारमार्थिकत्वं तन्न निषिध्यते । किन्त्वन्यगतमेव । व्यधिकरणधर्मावच्छिन्ना भावाभ्युप-गमादिति वाच्यम् । तेन मिथ्यात्वासिद्धेः । अन्यगतपारमार्थिकत्वेनाभावेऽपि स्वगत-पारमार्थिकत्वेन सत्त्वसम्भवात् । किञ्च निषेध्यताप्रयोजकपारमार्थिकत्वेन प्रसक्तेरभावात् कथं तथा निषेधधीः । न च व्यधिकरणधर्मावच्छिन्नाभावे विशिष्टप्रसक्तिर्न तन्त्रं किन्तु प्रतियोगिप्रसक्तिमात्रमिति वाच्यम् । निर्विकल्पकादपि अभावधीप्रसङ्गात् । न चेष्टापत्तिः । किञ्चिदस्तीति ज्ञानानन्तरं घटो नास्तीति निषेधधीप्रसङ्गात् । तस्मात् पारमार्थिकत्वेन निषेधः ।
ननु नायं प्रतीतस्य निषेधः । येनोत्पादादिना विरोधः । किं त्वापणस्थस्येत्याशङ्क्य निषेधति ।। नापीति ।। नेहेति ।। न च सर्ववाचककिञ्चनेतिपदात् प्रतीयमानस्यापि निषेधसम्भवे तात्विकप्रपञ्चान्तरकल्पने गौरवम् । प्रकृते च न सर्वत्वेन प्रतियोग्युल्लेख इत्यतोऽप्रसक्तनिषेधकल्पना युक्तेति वाच्यम् । भ्रान्तोऽसि प्रतीयमानस्य सत्त्वेन त्रैकालिकनिषेधासम्भवे चोदिते किञ्चनपदान्निषेध इत्यस्यायुक्तत्वात् बाधकवशाद्विशेष-परत्वस्यैव युक्तत्वात् । प्रकृतेऽपि सामान्यनिषेधात् प्रतीतस्यापि निषेध इति वक्तुं शक्यत्वाच्च । न चानुपपत्त्याऽप्रसक्तस्यापि निषेध इति वाच्यम् । अन्यथाख्याते-रुपपादितत्वेन तदभावात् ।। अन्यथेति ।। आपणस्थस्य प्रसक्त्यङ्गीकार इत्यर्थः । न चापरोक्षप्रसक्त्यभावात् नान्यथाख्यातिः । स्मृतिरूपप्रसक्तेर्विद्यमानत्वान्निषेधोपपत्तिश्चेति वाच्यम् । अपरोक्षप्रसक्तिसम्भवे तत्त्यागायोगात् । न चान्यथाख्यातिसामग््रयभावान्ना-परोक्षप्रसक्तिरिति वाच्यम् । तस्या उपपादितत्वात् । प्रतीतस्यैव त्रैकालिकनिषेधानुभवाच्च । अत एवाह ।। यत्प्रतीतमिति ।। आपणस्थरूप्यनिषेधाङ्गीकारे प्रतीतरूप्यमिथ्यात्वा-सिद्धिरूपदूषणान्तरमाह ।। प्रतिपन्नोपाधाविति ।। उपलक्षणमेतत् । तद्वत् प्रपञ्च-मिथ्यात्वासिद्धिश्चेत्यपि द्रष्टव्यम् ।। निवृत्तिज्ञान इवेति ।। न च स्मृतिरूपधीस्थत्वात् कथमधीस्थतेति वाच्यम् । बाधसमये भ्रान्तिव्यतिरिक्तस्मृत्यसिद्धेः । न च स्मृतिः कल्प्यत इति वाच्यम् । भ्रान्त्यैव निषेधसम्भवे स्मृतिकल्पने गौरवात् ।। अनारोपितेति ।। तथा च तत्राभासप्रसक्तेरप्यभावात् निषेधो न स्यादिति भावः ।। घट इति ।। न चैवमाणस्थरूप्यस्याप्रसक्तस्यैव निषेधोपपत्तिरिति वाच्यम् । यत्प्रतीतं तन्नेत्यनुभव-विरोधस्योक्तत्वात् ।। न चेति ।। न चेदं पुनरुक्तमिति वाच्यम् । प्रकारान्तरेणा-भासप्रसक्त्याऽनाभासप्रसक्तिरित्यस्य दूष्यमाणत्वात् । अत्रानाभासप्रसक्तिः किमाभास-त्वेनाथवाऽभासानाभाससाधारणेन रजतत्वसामान्यलक्षणप्रत्यासत्या ? नाद्य इत्याह ।। आभास इतीति ।। उपलक्षणमेतत् । आभासत्वस्यानाभसनिष्ठत्वाभावेन तेन रूपेण तद्भानासम्भवाच्चेत्यपि द्रष्टव्यम् । द्वितीयमाशङ्क्य निषेधति ।। न चेति ।। न चाभासा-नाभाससाधारणसामान्याभावे रजतार्थिनस्तत्र प्रवृत्तिर्न स्यादिति वाच्यम् । रजतार्थिप्रवृत्तौ हि रजतत्वप्रकारकज्ञानं कारणम् । तावन्मात्रेण प्रवृत्युपपत्तेः । न त्वाभासानाभास-साधारणं सामान्यं कारणम् । तद्विलम्बने कार्यविलम्बाभावात् ।। फलबलेनेति ।। पर्वतीयधूमेन वह्न्यनुमितिरूपफलबलेनेत्यर्थः । न चैवं प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति वाच्यम् । तेन रूपेण सार्वज्ञस्येष्टत्वात् । तत्तदसाधारणधर्मप्रकारक-तत्तद्धर्मिविशेष्यकसर्वज्ञानस्यैवानिष्टत्वात् ।। अतिप्रसङ्गेनेति ।।
ननु न वयं सामान्यप्रत्यासत्याऽपणस्थरूप्यज्ञानं वदामो येनातिप्रसङ्गः स्यात् किं नाम । प्रतियोगितावच्छेदकप्रकारकं प्रतियोग्यविषयकमेवेति चेन्न । प्रसक्त्यभावान्न निषेध इति वदन्तं प्रति प्रतियोगितावच्छेदकप्रकारकप्रतियोग्यविषयकज्ञानोपपादानस्य व्यधि-करणत्वात् । त्वया प्रतियोगिभूतापणस्थरूप्यस्मरणस्योपपादितत्वेन व्याहतत्वाच्च । न च प्रतियोगितावच्छेदकप्रकारकज्ञानादिकमेव तत्प्रसक्तिरिति वाच्यम् । समानविषय-प्रसक्तिसम्भवे भिन्नविषयकप्रसक्तेर्हेतुत्वे गौरवात् । न चान्योन्याभाव लौकिकपारमार्थिक-रजतस्य निषेधत्वं प्रागुक्तं स्मर्तव्यम् तत्र दोषाभावादिति वाच्यम् । तत्रापि तादात्म्य-प्रसक्तेरावश्यकत्वात् । अत्र रजतं नेत्युल्लेखानुपपत्तेश्च । सविस्तरमस्य पक्षस्य प्रागेव दूषितत्वाच्चेत्यलम् ।
।। सकर्तृकत्वस्येति ।। यत् सोपादानकं सत् सकर्तृकमिति व्याप्तेरिति भावः । न चेष्टापत्तिः । यावद्विशेषबाधेन सकर्तृकत्वस्य बाधात् । न चेश्वरः कर्ता । तस्य तत्र रजतज्ञानाभावात् । तज्ज्ञाने च भ्रान्तत्वापत्तेः । तदङ्गीकारे च सार्वज्ञश्रुतिविरोधः । तज्ज्ञानाभावे च न तत्कर्तृत्वम् । नापि जीवः कर्ता तस्योपादानादिविषयकज्ञानादेर-भावात् । तथा च नेष्टापत्तिरिति भावः ।। इदं रूप्यमिति ।। उपलक्षणमेतत् । अङ्गुलिनिर्देशाच्चेलेन्धनादितश्चेत्यपि द्रष्टव्यम् । न चोपादानान्तरासिद्धेरज्ञानस्यैव तत्कल्पना युक्ता । तस्यान्वयव्यतिरेकसिद्धकारणत्वात् । रूप्यनाशजनकनाशप्रति योगित्वाच्च । न हि निमित्तनाशात् कार्यनाशोऽस्तीति वाच्यम् । इदमंशस्यैवोपादानत्व सम्भवादुक्तयुक्तेः तस्यापि कारणत्वात् । निमित्तनाशादपि कार्यनाशो दृष्ट एव । अपेक्षाबुद्धिनाशादपि कार्यनाशो दृष्ट एव । अपेक्षबुद्धिनाशात् द्वित्वनाशात् । न च निमित्तनाशात् द्रव्यनाशो न दृष्ट इति वाच्यम् । तन्तुसंयोगनाशात् पटनाशदृष्टेः । न च सोऽसमवायिकारणमिति वाच्यम् । आवयोर्मते समवयाभावेन निमित्तत्वस्यैवावश्यकत्वाच्च । न चोपादानस्य नोपादेयानुविद्धत्वनियमो रूपं घट इति प्रतीतेरभावादिति वाच्यम् । घटरूपयो-रुपादानोपादेयभावासिद्धेः । ययोरुपादानोपादेयभावस्तयोरस्त्येवासाधारणधर्म पुरस्कारेणानु-विद्धत्वादि । यथा मृद्घट इत्यादि । न च रूप्याज्ञानयोः कदाप्यनुविद्धत्वमस्ति । रूप्यमज्ञानं, अज्ञानं रूप्यमिति वाऽप्रतीतेरिति ।। परोक्षधीरपीति ।। न च परोक्षधिया विषयगताज्ञानानाशात् पीतत्वभ्रमस्य तदुपादानकत्वसम्भव इति वाच्यम् । विषयगताज्ञान-सद्भावे प्रमाणाभावादित्युक्तत्वात् प्रमातृगताज्ञानेनैव सर्वस्योपपत्तेः । यथा चैतत्तथा सर्वमुपपादितम् ।। त्वन्मत इति ।। न चोपाधिनिवृत्तिसहितमेव ज्ञानमज्ञानविरोधीति वाच्यम् । ज्ञानस्याज्ञाननाशकत्वेऽ न्यानपेक्षणात् ।। घटत्वेनेति ।। न चेष्टापत्तिः । अस्य वाक्यात् अयं पटत्वेन ज्ञायत इत्यनुभवविरोधात् । नन्वन्वयबोधविरोध्युपस्थितेः विद्यमानत्वात् कथमन्वयबोधोऽन्यथा वह्निना सिञ्चेदित्यत्रापि अन्वयबोधापत्तिरित्यत आह ।। अयमिति ।।
नन्वत्रापि पटत्वविरुद्धघटत्वोपस्थितेर्विद्यमानत्वात् कथमन्वयबोधः ? न च घटत्वं पटत्वविरुद्धत्वेन नावगतमिति वाच्यम् । तर्हि विरोधाज्ञानस्यैव भ्रमोपादनत्वसम्भवादिति चेन्न । वाक्ये विरुद्धोपस्थितेरभावेन व्याघाताभावेनान्वयबोधोपपत्तेः । न च प्रत्यक्ष-विरुद्धधर्मोपस्थितिरे वान्वयबोधप्रतिबन्धिकेति वाच्यम् । वादिवाक्यादन्वयबोधाभावे कथाबधिरकलहः स्यादिति तादृशोपस्थितेरप्रतिबन्धकत्वात् । विरोधाज्ञानेनाविरुद्धत्व-भ्रमेऽपि पटत्वभ्रमासम्भवाच्चेति दिक् ।। साक्षिवेद्य इति ।। ननु यज्ज्ञानं भ्रमनिवर्तकं तदज्ञानं भ्रमोपादानम् । प्रकृते च दुःखाभावभिन्नत्वेन वाऽज्ञानाभावभिन्नत्वेन वा दुःखत्वविरुद्धधर्मवत्तया वाऽधिष्ठानज्ञानं भ्रमनिवर्तकम् । तच्च न साक्षिवेद्यमिति तदज्ञान-मेवापादनम् । तस्यानुपलब्धिगम्यत्वेन साक्षिवेद्यत्वाभावादिति चेन्न । अधिष्ठानासाधारण-धर्मज्ञानं भ्रमनिवर्तकम् । न च दुःखाभावभिन्नत्वादिकमसाधारणम् । तस्य घटादि-साधारणत्वात् । किञ्च दुःखाभावभिन्नत्वादिनाऽज्ञाने अज्ञानत्वादिना ज्ञाने भ्रमा-निवृत्तिप्रसङ्गः । अपि च येनेन्द्रियेण प्रतियोगी गृह्यते तदिन्द्रिययोग्यतयाऽभावस्य नानुपलब्धत्वम् । एवञ्च साक्षिवेद्यतया तदज्ञानसम्भवः । शुक्त्यादावपि रजताभावभिन्न-त्वादिज्ञानस्यैव भ्रमनिवर्तकत्वापत्तेश्च । न चेष्टापत्तिः । शुक्तित्वेन ज्ञाने भ्रमतादवस्था-पत्तेरिति दिक् ।। परोक्षेति ।। न च परोक्षाध्यासे प्रमातृगताज्ञानमेवोपादानम् । तच्च परोक्षतत्त्वज्ञाने निवर्तत एवेत्युक्तमेवेति वाच्यम् । प्रमातृगताज्ञानातिरिक्ताज्ञानसद्भावे प्रमाणभावादित्युक्तत्वात् ।। रूप्यमिति ।।
नन्वत्र ये रूप्यतज्ज्ञाने उत्पन्ने तयोरनुवृत्तिरापाद्यतेऽथवा तज्जातीययोरुत्पत्तिः ? नाद्यः । उदीच्यज्ञानेन तयोर्निवृत्तत्वात् नद्वितीयः । इष्टापत्तेरिति चेन्न । मन्मते ज्ञानद्वयस्य युगपदुत्पत्यवस्थानयोः सम्भवेन उदीच्यज्ञानेन तयोर्नाशासम्भवात् अत एवोक्तमानन्दबोधेन सुखदुःखयोरेकदैवोत्पत्तेरिति । उदीच्यज्ञानेन कथञ्चिद्भ्रमनाशसम्भवेऽपि रूप्यनाशासम्भवाच्च । न च रूप्यमनुवर्तत एवेति वाच्यम् । प्रातीतिकत्वविरोधात् । न चाज्ञानोपादानकमुदीच्यज्ञानेन नश्यतीति वाच्यम् । अन्तःकरणादेरपि नाशापत्तेरिति । अत एवाह अधिष्ठानतत्त्वज्ञानैकनिवर्त्ययोरिति ।। अन्यथेति ।। सर्वज्ञानानां स्वविषयत्व इत्यर्थः । तदर्थस्य भ्रान्तिविषयीकृतस्य । न च त्रिकालाबध्यत्वरूपं तात्विकत्वं न भ्रान्तिविषयीकृतस्य । न च त्रिकालाबाध्यत्वरूपं तात्विकत्वं न भ्रान्तिविषयः । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वात् भ्रान्तिग्राह्यत्वे वा तस्योदीच्यज्ञानबाध्यत्वेना तात्विक-त्वादिति वाच्यम् । एतावता ज्ञानमात्रं न स्वविषयव्यवस्थापकं किन्त्वबोध एवेति । एवं च प्रतीतिकाले बाधितस्यापि यदि सत्ता तदा सर्वदा सत्ता स्यात् व्याघातस्याविशेषादिति भावः । इति आविद्यकरजतोत्पत्तिभङ्गः ।
न्यायामृतप्रकाशः
अध्यस्तं रूप्यम् । अस्तु तथा धीरिति चेत् तत्राह ।। त्रैकालिकेति ।। तथात्वे रूप्यस्योत्पन्नत्वेनैकस्मिन् काले सत्त्वेन त्रैकालिकनिषेधो न युक्त इत्यर्थः । ध्वंसप्रति-योगित्वेनात्यन्ताभावायोगाच्चेत्यर्थः । ननु रूप्यस्यार्थक्रियाकारित्वरूपं यत् लौकिकपारमार्थि-कत्वं व्यावहारिकत्वमिति यावत्, तेनाकारेण निषेधाङ्गीकारात् तस्य चाकारस्य प्रातिभासिके रूप्ये कालत्रयेऽप्यभावेन तेनैवाकारेण त्रैकालिकनिषेधो युक्त इत्याशङ्क्य निषेधति ।। न चेति ।। तथेति ।। कालत्रयसम्बन्धित्वेनेत्यर्थः ।। स्वरूपेणैवेति ।। न पारमार्थिकत्वे-नेत्यर्थः । किं चास्तु व्यावहारिकत्वाकारेण निषेधः । तथापि न त्रैकालिकनिषेधसिद्धिः । रूप्यवत् तद्व्यावहारिकत्वस्यापि तदा प्रतीतत्वात् । अन्यथा प्रवृत्त्ययोगात् । तस्य च प्रतीतिकाले सत्वेन न त्रैकालिकनिषेधो युक्त इत्याह ।। पारमार्थिकत्वास्यापीति ।। अर्थक्रियाकारित्वरूपलौकिकपारमार्थिकत्वस्यापीत्यर्थः । व्यावहारिकत्वस्येति यावत् ।
नन्वाभासस्य प्रसक्त्याऽनाभासस्य निषेध इत्यङ्गीकारेणाभासस्य प्रातिभासिकस्य रूप्यस्य प्रसक्तौ सत्याम् अनाभासस्यापणस्थरूप्यस्य निषेध इत्यङ्गीकारात् तस्य पुरोवृत्तिनि कदाऽप्यभावेन त्रैकालिकनिषेधो युक्त इत्याशङ्क्य निषेधति ।। नापीति ।। नेह नानेति ।। यथाऽभासस्य प्रसक्त्या तदपेक्षयाऽधिकसत्ताकस्यापणस्थरूप्यस्य निषेध इत्यङ्गीक्रियत एवं नेह नानेति निषेधायाभासभूतप्रपञ्चापेक्षयाऽधिकसत्ताकं तात्त्विकं प्रपञ्चान्तरम् अङ्गीकार्यं स्यादित्यर्थः ।। तस्येति ।। आपणस्थरूप्यस्य निषेधाय प्रसक्त्यर्थं भ्रमविषयत्वस्याप्यङ्गीकारे अन्यत्र विद्यमान एवान्यत्रारोप्यत इति तार्किकाभिमतान्यथाख्यात्यापत्त्या सदसद्विलक्षणम-निर्वचनीयमेव रूप्यं ख्यायत इति त्वत्पक्ष क्षतिरित्याह ।। अन्यथेति ।। न चाप्रसक्त-स्यैवापणस्थरूप्यस्य निषेधोऽस्तु । तथात्वे नातिप्रसङ्ग इति चेत् तत्राह ।। अभासस्येति ।। पारमार्थिकस्य आपणस्थरूप्यस्य । यत् प्रतीतं रूप्यं तदेव नास्तीत्यनु-भवेन प्रतीतिनिषेधयोः समानविषयकत्वप्रतीत्या भिन्नविषयकत्वाङ्गीकारे तद्विरोधः स्या-दित्यर्थः ।। प्रतिपन्नेति ।। शुक्तौ प्रतीतस्य रूप्यस्यानिषिद्धत्वात् तस्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपमिथ्यात्वासिद्धिरित्यर्थः ।। निवृत्तिज्ञान इवेति ।। वास्तवरूप्यस्थले उत्पन्नं रूप्यं नष्टमिति निवृत्तिज्ञाने उत्पन्नत्वेन धीस्थस्यैव रूप्यस्य ध्वंसो ज्ञायते, न तु यस्य कस्यचित् रूप्यस्येत्येवं निवृत्तिज्ञाने उत्पत्तिज्ञानात् यथा वैय्यधिकरण्यं नास्ति एवं त्रैकालिकनिषेधज्ञानेऽपि प्रसक्तस्याभासस्यैव निषेधसम्भवे भ्रमबाधयोर्वैय्यधिकरण्यकल्पना-योगादित्यन्वयः । तद्विवरणम् ।। निषेधं प्रतीत्यादि ।। निषेधं प्रति अधीस्थं प्रसक्तत्वेन बुद्ध्यनारूढं यत् पारमार्थिकमापणस्थरूप्यं तत् अनवच्छेदकं प्रतियोगि । अनवच्छेदकस्य अप्रतियोगिनः अभासस्य धीस्तु पारमार्थिकस्य निषेधज्ञाने हेतुरिति वैय्यधिकरण्यम् । रूप्य-मत्रास्तीति एवं बुद्धिपूर्वकमारोप्य तदेव निषिध्यत इत्यर्थः । निषेधस्योपपादकभूता या प्रसक्तिः तदर्थमित्यर्थः ।। त्वन्मत इति ।। अनिर्वाच्य ख्यातिपक्ष इत्यर्थः । तथात्वेऽन्यत्र विद्यमानस्यान्यत्रारोपरूपान्यथाख्यात्यापत्तेरित्यर्थः ।। तदारोपं विनैवेति ।। निषेधस्यारोपं विनैवेत्यर्थः । तत्रापि अनाभासेऽपि । आपणस्थवैयधिकरण्यकल्पनायोगादित्यर्थः । तथा च यत् धीस्थं प्रसक्तं तत् न निषेध्यम् यत् निषेध्यं तदप्रसक्तम् अधीस्थमित्यलौकिक-कल्पनापत्तिरिति भावः ।
नन्वधिकरणे निषेध्यस्यानाभासस्यापणस्थरूप्यस्यारोपाभावेऽपि निषेधोऽस्त्वित्यत आह ।। अनारोपेति ।। घटस्मारणानन्तरं स्मृतमिमं घटमत्रारोपयिष्यामीति बुद्धिपूर्वकारोपं विनैव इह भूतले घटो नास्तीति प्रतीतेरनुभवसिद्धत्वात् न बुद्धिपूर्वकारोपस्यापि कल्पना युक्ता । अतः आरोपपूर्वकनिषेधानुपपत्तिः तदवस्थैवेत्यर्थः । अनाभासस्यापि प्रसक्तिः किमिदं रजत-मित्याकारेण वा? रजताभासानाभासानुगतरजतत्वसामान्यलक्षणप्रत्यासत्त्या वा? नाद्य इत्याह ।। आभास इतीति ।। आभास इति इदं रजतमित्यस्य संज्ञा । तथा चेदं रजतमित्यत्राप्रसक्तेरिति भावः । न ह्यापणस्थरूप्यम् इदं रजतमिति भावः । द्वितीयमाशङ्क्य निषेधति । अस्तु वा रजतत्वसामान्यं, तथापि तल्लक्षणप्रत्यासत्त्या नानाभासरजतप्रतीतिः । कुत इति चेत् तत्राह ।। फलबलेति ।। यथा सन्निकृष्टे धूमे इन्द्रियसम्बद्धं धूमत्वं प्रत्यासत्तीकृत्य तदाश्रयव्यक्तीनां धूमत्वसामान्यप्रत्यासत्त्योपस्थितौ तत्र सर्वोपसंहारेण व्याप्तिग्रहो भवतीत्येवं सर्वोपसंहारेण व्याप्तिग्रहरूपानुभवसिद्धफलबलेन सामान्यस्य प्रत्या-सत्तित्वेऽपि अन्यत्रापि सामान्यस्येन्द्रियसम्बद्धत्वाभावस्थलेऽपि न तस्य प्रत्यासत्तित्वं युक्तम् । पुरोदेशे व्यक्तेरभावेन तत्र रजतत्वसामान्याभावात् रजतत्वं नेन्द्रियसन्निकृष्टम्, अतः कथं प्रत्यासत्तिः स्यात् । आश्रयद्वारेन्द्रियसम्बद्धं सामान्यं प्रत्यासत्तिरिति मणिकृदुक्तत्वात् । इन्द्रियासम्बद्धस्यापि सामान्यस्य प्रत्यासत्तित्वे परमाणुत्वसामान्यं प्रत्यसत्तीकृत्यास्मदादीना-मपि सर्वपरमाणुसाक्षात्कारप्रसङ्गापत्तेः । अतो न रजतत्वस्य प्रत्यासत्तित्वमङ्गीकृत्या-स्मदादीनामपि सर्वपरमाणुसाक्षात्कारप्रसङ्गापत्तेः । अतो न रजतत्वस्य प्रत्यासत्तित्वमङ्गी-कृत्यानाभासोपस्थितिः कल्प्येत्यर्थः । अन्यत्रापि तस्य प्रत्यासत्तित्वे सर्वेषां सार्वज्ञप्रसङ्ग इत्यर्थ इत्यप्याहुः । अध्यस्तमज्ञानोपादानकमित्युक्तं दूषयति ।। किञ्चेति ।। सकर्तृकत्व-स्यापीति ।। जीवस्येश्वरस्य वा कर्तृत्वं न सम्भवतीत्यतो नेष्टपत्तिरिति भावः ।
ननु निरीश्वरवादिमते क्षित्यादेरकर्तृकत्वेऽपि सोपादनकत्ववत् रूप्यस्यापि तथाऽ-स्त्वित्यत आह ।। अविद्येति ।। निरासाच्चेति ।। आरोपिताभावं प्रति भावरूपा-ज्ञानस्यानुपादानत्वात् । अभावस्य भावोपादानकत्वे असत्यस्य सत्योपादानकत्वापातः इत्येवमादिरीत्या निरस्तत्वादित्यर्थः । किं चाज्ञानस्य न रूप्योपादानत्वं कल्प्यं, मृद्घट इत्यादिवत् अज्ञानानुविद्धत्वेनाप्रतीयमानत्वात् इदं रूप्यमिति रूप्यानुविद्धत्वेन प्रतीयमान-स्येदमंशस्यैव दोषवशात् मिथ्यारूप्यात्मना विकारसम्भवात् । न च रूप्यस्य मिथ्यात्वात् सत्यस्येदमंशस्य मिथ्यारूप्यात्मना विकारो न सम्भवति । तथात्वे इदमंशस्वरूपस्यापि मिथ्यात्वापात इति वाच्यम् । मिथ्याविकाररूपविवर्तत्वसम्भवात् । एतादृशस्य विकारस्य सत्यो योऽयमविकारः अप्रच्युतस्वरूपत्वरूपः तदविरोधित्वात् । मिथ्याविकाररूपविवर्तत्वं नाम तदारोपाधिष्ठानत्वमेवेति द्रष्टव्यम् । तथा चेदमंशाधिष्ठानकतया तत्रारोपितत्वेनैव रूप्य-स्योपपत्तौ तत् प्रत्यज्ञानस्योपादानत्वायोगादित्याशयेनाह ।। इदमिति ।। इतोऽप्यध्यस्तं नाज्ञानोपादानकमित्याह ।। परोक्षेति ।। उक्तत्वेनेति ।। अन्यथा तद्व्यवहाराभाव-प्रसङ्गादिति भावः ।। अज्ञानेति ।। अनुमितिरूपपरोक्षज्ञानेन निवृत्तत्वादिति भावः ।। भ्रमायोगाच्चेति ।। उपादानभूताज्ञानस्य निवृत्तत्वादित्यर्थः । सोपाधिकभ्रमत्वात् न दोष इति चेत् तत्राह ।। त्वन्मत इति प्रत्यक्षतयेति ।। ‘‘ग्रीवास्थमेवेदं मुखम्’ इत्यैक्यस्य प्रत्यक्षसिद्धत्वादिति भावः ।। भेदभ्रमेति ।। तद्विपरीतसाक्षात्कारे सति उपाधिवशादपि तद्भ्रमायोगादित्यर्थः ।। भ्रमानुत्पत्तीति ।। तदुपादानाभावेन पटत्वप्रकारकभ्रमो न स्यादिति भावः ।
नन्वयं पट इति वाक्याभासात् ‘अग्निना सिञ्चेत्’ इत्यत्रेवान्वयधीरेव न भवतीति चेत् तत्राह ।। अयं पट इत्यत्रेति ।। ‘अग्निना सिञ्चेत्’ इत्यत्र सेकक्रियाकरणत्वरूपान्वय-धीविरोधिनोऽग्नित्वस्योपस्थितत्वात् न तत्रान्वयबोधो भवति । अयं पट इत्यत्र तु पटप्रकारकेदम्पदार्थविशेष्यकान्वयबोधविरोधिनः कस्यापि धर्मस्यात्रानुपादानात् अन्वयबोधो सरूपो भविष्यत्येव । न ह्यमित्यनेनोपस्थितमिदन्त्वं पटत्वान्वयविरोधि न वा पटत्वमिदं त्वान्वयविरोधि । तथात्वे अयं पटः इति प्रयोगोऽपि न स्यात् । अतो युक्तैव वाक्याभासात् भ्रमोत्पत्तिरिति भावः ।। अज्ञानेति ।। ज्ञातैकसत्वादिति भावः । ज्ञानाभावत्वेति ।। त्वदुक्तमर्थं न जानामीति भावरूपाज्ञानप्रतीतिः त्वन्मते भवति । इयं च ज्ञानाभावप्रतीति-रित्यस्माभिरुक्ते तत्र त्वयोच्यते भावरूपाज्ञाने भवतो ज्ञानभावत्वभ्रम इति । स न स्यात् । तथा सुखे बौद्धानां दुःखाभावभ्रमो भवति, ‘दुःखाभावं सुखं चाहुः’ इति वचनात् । तथाचेदं भ्रमद्वयं न स्यात् । तदुपादानाज्ञानाभावादिति भावः । किं चाध्यस्तस्याज्ञानोपादानकत्वे परोक्षाध्यासनिवृत्तिरेव न स्यात् । तदुपादानाज्ञाननिवर्तकाभावात् । तन्निवर्तकं हि परोक्ष-तत्वज्ञानं वा स्यात्, अपरोक्षतत्वज्ञानं वा नोभयमपीत्याह ।। परोक्षेति ।। रूप्य-मित्यादि ।। रूप्यधीसामग्रीसद्भावेनोत्पन्नायाः रूप्यधियो नाशायोगेन सदा रूप्यधीः स्यादित्यर्थः । ननु रूप्यज्ञानाकाराविद्यापरिणामयोर्निवृत्तत्वात् न रूप्यधीसामग्रीसद्भाव इत्यत उक्तम् अधिष्ठानत्वज्ञानेत्यादि ।। अधिष्ठानतत्त्वज्ञानैकनिवर्त्यत्वे निमित्तकथनम् ।। मिथ्यात्वेनेति ।। अर्थज्ञानात्मकोभयविधभ्रमाङ्गीकारेण रूप्यतद्ज्ञानयोरुभयोरपि मिथ्यात्वा-दित्यर्थः ।
ननु तर्ह्यधिष्ठानज्ञानेनाज्ञाननिवृत्त्या रूप्यज्ञानाकाराविद्यापरिणामयोरपि निवृत्तिरस्त्वित्यत उक्तम् ।। रूप्यं दृष्ट्वेत्यादि ।। निवृत्तस्येति ।। परावृत्तस्येत्यर्थः । व्यसङ्गेनान्यत्र गतस्येति यावत् ।। स्वगोचरेति ।। स्वविषये शूरत्वात् स्वविषयव्यवस्थापकत्वस्वभावा-दित्यर्थः । यथाभ्रान्ति भ्रान्तिमनतिक्रम्य । तदनुसारेणेति यावत् । तदर्थो भ्रान्तिप्रतीतोऽर्थः । एवं च भ्रमरूपज्ञानस्यापि स्वविषयसत्त्वव्यवस्थापकत्वात् तदनुसारेण तत्र प्रतीतस्यापि अध्यस्तस्य रजतस्य प्रातिभासिकत्वात् तदज्ञानोपादानकमवश्यमङ्गीकार्यमिति भावः ।। बाधस्यैवेति ।। भ्रमभिन्नस्य बाधकज्ञानस्यैव स्वार्थसत्त्वव्यवस्थापकतयाऽनुसर्तव्यत्वा-दित्यर्थः । अनेवंविधस्य अर्थतत्वव्यवस्थापकबाधभिन्नस्य अतथात्वात् स्वविषयसत्व-व्यवस्थापकत्वरूपस्वगोचरशूरत्वाभावादित्यर्थः ।। अन्यथेति ।। भ्रमस्यापि अर्थतत्व-व्यवस्थापकत्वरूपस्वगोचरशूरत्वाङ्गीकार इत्यर्थः । तदर्थस्य भ्रमव्यवस्थापितस्वरूपस्य रूप्यरूपार्थस्य पारमार्थिकत्वापातादित्यर्थः । अतो न यथाभ्रान्ति तदर्थोऽङ्गीकार्य इति न तदनुसारेणाज्ञानोपादानकत्वमध्यस्तस्येति भावः ।
न्यायकल्पलता
।। तथात्व इति ।। ननूत्पादविनाशप्रतीतिरियं भ्रान्तिकाले आपाद्यते बाधसमये वा । नाद्यः । पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया श्रुतिग्रहस्यैव प्रतिबन्धकत्वात् । विरोधिज्ञानानुदयेन रूप्यस्याविनाशाच्च । न द्वितीयः । अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इवैतदुत्पादादिग्रहे प्रतिबन्धकत्वात् । न हि कुत्रापि अत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीति-रस्ति । मैवम् । इदानीमुत्पन्नरूप्याभेदेनेदं विशिष्टरूप्ये उत्पत्त्यादिप्रत्ययस्य चोदितत्वात् । समारोप्यधर्मस्यैव विषये प्रतीतेश्च । किञ्च । त्वन्मते त्रयाणां सत्वे कथमत्यन्ता-भावबुद्ध्याविनाशधीप्रतिबन्धः । विनाशबुध्यैवात्यन्ताभावबुद्धिः किमिति न प्रतिबध्यते । नियामकाभावात् । उत्पादादिप्रत्ययेनैवात्यन्ताभाव प्रतीतिप्रतिबन्धसम्भवेन बाधाभाव-प्रसक्तेश्च । न हि तदुत्पत्त्यधिकरणे तदत्यन्ताभावधीरस्ति ।। पारमार्थिकत्वस्यापीति ।। ननु न प्रतीतिकालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तन्निषिध्यते । किन्त्वन्यत्र वृत्त्यैवेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वे अनुभवविरोध इति चेत् न । येनाकारेणानिषेधस्तेन रूपेण प्रतियोगिप्रसक्तौ पारमार्थिकत्वस्य रूप्यतुल्यत्वात् । यत्तु व्यधिकरणधर्मावच्छिन्नो ह्ययमभावः । तत्प्र्रतीतौ च न विशिष्टप्रसक्तिरुद्देश्या । प्रत्येक-प्रसिध्द्यैव तत्प्रतीत्युपपत्तेरिति । तदयुक्तम् । तथापि निषिध्यमानस्य निषिध्यतावच्छेदक-वैशिष्ट्यप्रतीतिं विना निषेधायोगेन निषिध्यमानस्य प्रातीतिकानिर्वचनीयस्य तदवच्छेदक-पारमार्थिकत्ववैशिष्ट्यज्ञानमवर्जनीयमिति पारमार्थिकत्वमपि रजततुल्यमेवेति । लौकिक-परमार्थरजतस्यैव तत्त्त्रैकालिकनिषेध इत्याशङ्क्य निराकरोति ।। नापीति ।। प्रातिभासिक-रूप्यनिषेधस्य व्यावहारिकरूप्यविषयत्वे व्यावहारिकप्रपञ्चनिषेधस्य तात्विकविषयत्वम् स्यादित्याह ।। नेह नानेति ।। तस्येति ।। लौकिकरूप्यस्येत्यर्थः ।
ननु भ्रमेणैव तत्प्रसक्तिरस्त्वित्यत आह ।। अन्यथेति ।। नन्वप्रसक्तस्यैवापणस्थ-रूप्यस्य निषोधोऽस्तु तथापि नातिप्रसङ्ग इति शङ्कते ।। आभासस्येति ।। यत्प्रतीतमिति प्रतीतिनिषेधयोर्वैय्यधिकरण्यस्य त्वयाङ्गीकृतत्वात्तव तत्सामानाधिकरण्यप्रतीतिविरोध इत्यर्थः । श्रुतौ प्रतीतरूप्यस्य निषिद्धत्वात् मिथ्यात्वं न स्यादित्याह ।। प्रतिपन्नेति ।। प्रसक्तस्येति ।। न च तस्य स्वरूपेण निषेधे तस्यासत्त्वापत्तिः । इष्टत्वात् ।। निषेध-सम्भव इति ।। निषेधज्ञानजनकप्रतियोगिप्रसक्तिविषयस्यैवाभावाप्रतियोगित्वादित्यर्थः । एतेन आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुपपत्तेः । स्मृतिरूपा प्रसक्तिः सम्भवतीति निरस्तम् । नन्वधिकरणे निषेध्यारोपं विनैव प्रतियोगि-स्मरणाधिकरणानुभवादिनैव निषेधज्ञानमस्त्वित्यत आह अनारोपेति ।। अन्यथा तस्य बाधकत्वानुपपत्तेः । तदुक्तं प्रसक्तप्रतिषेधात्मा बाधो ख्यातौ न युज्यत । साधयत्य-न्यथाख्यातिं बाध एव हि न स्फुटमिति । आरोपस्य विशेषादर्शनजन्यत्वेन बुद्धिपूर्वकत्त्वानुपपत्त्यावपि तथा स्यादिति मन्दाशङ्कां निराचष्टे ।। न चेति ।। तत्रापीति ।। अनाभासेऽपि । कुतो नेत्यत आह यस्येति ।। निषेधस्य प्रसक्त्यर्थमिति ।। निषेधो-पपादकप्रसक्त्यर्थमित्यर्थः ।। त्वन्मत इति ।। अन्यथाख्यातिभयादिति भावः ।। तदारोप-मिति ।। स्मर्यमाणघटारोपं विना । आभासस्य प्रसक्त्याऽनाभासस्य प्रसक्तिः । किमिदं रजतमित्याकारेण वा रजतमित्याकारेण वा । नाद्य इत्याह ।। आभास इतीति ।। इदं रजतमित्यप्रसक्तेः । द्वितीयमाशङ्क्य निराकरोति ।। न चेति ।।
ननु शुक्तिरूप्यस्यापणस्थरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसामान्यमेकमावश्यकमिति प्रतियोगितावच्छेदकप्रकारकज्ञानं प्रतियोग्यविषयकमप्यभाव-प्रतीत्युपयुक्तं संवृतमिति । मैवम् । कुत इत्यत आह ।। आभासेति ।। अत्र प्रष्टव्यम् । उभयानुगतं सामान्यं किमाभास एव । अनाभास एव वा । उभयावच्छेदेनोभयरूपं वा । नाद्यौ । उभयोराभासत्वस्यानाभासत्वस्य वाऽऽपातात् । न तृतीयः । दृष्टविरोधाद=-बिभ्यतैकमनुगतं रूप्यमेव तथेति स्वीकर्तव्यत्वात् । तेन सामान्येनापणस्थरूप्यस्यैव पुरोवर्तिनि प्रतीतिसम्भवाच्च । प्रवृत्तिं प्रति तु न रूप्यत्वसामान्यं हेतुः । किं तु रूप्य-ज्ञानमेव । नन्वाभासानाभासानुगतसामान्याभावेऽप्यनाभासस्य रजतत्वसामान्यप्रत्यासत्त्या भानमस्तु । न चान्यथाख्यात्यापत्तिः । तस्य स्वरूपेणैव भानात् । पुरोवर्तितादात्म्येन भानस्यान्यस्यानिर्वचनीयत्वादित्यत आह ।। फलबलेनेति ।। अतिप्रसङ्गः सार्वज्ञादिप्रसङ्गः ।। सकर्तृकत्वस्यापीति ।। न चेष्टापत्तिः । जीवस्येश्वरस्य वा तत्कर्तृत्वासम्भवात् । ननु भाट्टमते क्षित्यादेरकर्तृकत्वेऽपि सोपादानत्ववद्रूप्यस्यापि तथास्त्वित्यत आह ।। अविद्येति ।। सोपादानत्वेऽप्यविद्योपादानत्वमध्यस्तस्यायुक्तमित्याह ।। इदमिति ।। तदनुविद्धस्येति ।। एतेन शुक्त्यज्ञानमन्वयव्यतिरेकाभ्यां कारणमिति तदेवोपादानमिति निरस्तम् । अन्वय-व्यतिरेकयोर्निमित्ततायामुपपत्तेः ।। परोक्षधीरपीति ।। न च प्रमातृगताज्ञाननाशेऽपि विषयगतं तदस्तीति देश्यम् । पीतभ्रमकाले शङ्खे श्वैत्यासिद्ध्या श्वेतार्थिप्रवृत्त्यनुपपत्तेः । भ्रमानुत्पत्तिप्रसङ्गे इष्टापत्तिं परिहरति ।। अयं घट इत्यत्रेति ।।
ननु यदा घटत्वं पटत्वविरुद्धतयावगतं तदा तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टापत्त्यवकाशः । यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानं तदा घटत्वज्ञानेन तदज्ञान-नाशेऽपि पटत्वविरुद्धत्वाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इत्यत आह ।। युक्तैवेति ।। घटत्वस्य पटत्वविरुद्धतयावगमेऽपि पुरोवर्तीदन्त्वपटत्वयोर्विरुद्धत्वानवगमादाप्तिगौरवादयं पट इति वाक्याभासात्पुरोवर्तिनि पटत्वबुद्धेरनुभवसिद्धत्वात्सा युक्तैव ।। साक्षिवेद्य इति ।। न चाज्ञानस्य सुखादीनां च स्वरूपेण साक्षिवेद्यत्वेऽपि ज्ञानाभावभिन्नत्वे दुःखाभावभिन्नत्वादिना न तद्वेद्यत्वम् । किन्त्वनुपलब्धिगम्यत्वम् । तथा च तदज्ञानमेव भ्रमोपादानमिति चेन्न । अज्ञानत्वस्याभावविलक्षणत्वादिरूपतयाऽज्ञानत्वेनावगतेऽज्ञाने सुखत्वस्यानुकूलत्वादिरूपतया सुखत्वेनावगते च सुखादौ ज्ञानाभावदुःखाभावत्वाद्या रोपस्यानुभूयमानत्वात् ।। परोक्षेति ।। न च परोक्षाध्यासं प्रति प्रमातृगताज्ञानमेवोपादानं तच्च परोक्षज्ञानेनापि निवर्तत इति । तन्न । श्वैत्यानुमित्या प्रमातृगताज्ञाननाशे सति शङ्खे पीताध्यासानुपपत्तेरिति भावः ।। रूप्यं दृष्ट्वेति ।।
ननु रूप्यं तद्धीश्च तावदुत्पन्ने ऊदीच्य ज्ञानेन स्वोपादाने प्रविलीयेते । उपादाननिवृत्तिः परं न भवति । अधिष्ठानतत्वज्ञानाभावात् । रूप्यबुद्ध्यन्तरोत्पत्तिस्त्विदमाकारान्तः करण-वृत्तिसद्भावेऽनुत्पन्नाधिष्ठाने तत्वसाक्षात्कारस्य भवत्येव । तदभावे तु तद्विलम्बादेव विलम्ब इति । मैवम् । प्रविलयः किं ध्वंस उत पिशाचादिवत्तिरोधानम् । आद्ये तस्य पुनरुत्पत्त्य-सम्भवात्तज्ज्ञानासम्भवः । न द्वितीयः । पिशाचादिवद्रूप्ये तिरोधानशक्तेरभावादिति भावः ।। स्वगोचरेति ।। स्वविषयव्यवस्थापकत्वादित्यर्थः ।। अर्थतत्त्वेति ।। भ्रमान्यज्ञानस्यैव स्वविषयशूरत्वमित्यर्थः ।। तात्विकत्वेति ।। न चापरोक्षप्रतीत्यां त्रिकालाबाध्यत्वरूपं तात्विकत्वं न विषय इति युक्तम् । प्रामाण्यस्य स्वतस्त्वेन स्वकाले सत्ताग्राहकस्य कालत्रयेऽसत्त्वाभावग्राहित्वस्योक्तत्वात् ।।
।। इति आविद्यकरजतोत्पत्तिभङ्गः ।।