सन्त्यनुमानानि
१८. जीवब्रह्मभेदे अनुमानानि
न्यायामृतम्
सन्त्यनुमानानि (१) ईश्वरः जीवप्रतियोगिकतात्त्विकभेदवान्, सर्वशक्तित्वात् सर्वज्ञत्वात् सर्वकार्यकर्तृत्वात् स्वतन्त्रत्वाच्च व्यतिरेकेण जीववत् । (२) जीवो वा ब्रह्मप्रतियोगिकतात्त्विकभेदवान् अल्पशक्तित्वाद् अल्पज्ञत्वाद् अल्पकर्तृत्वात् संसारित्वाच्च, व्यतिरेकेण ब्रह्मवत् । परमतेऽपि जीवब्रह्मणोर्व्यावहारिकभेदस्य सत्त्वात् पक्षदृष्टान्तभावः । अन्यथा परस्यापि ‘जीवात्मानस्तत्त्वतः परमात्मनो न भिन्नाः, आत्मत्वात्परमात्मवद्’ इत्यादि न स्यात् । एतेन सर्वाद्वैतवादिनं प्रति साध्यावैशिष्ट्यादिदोषान्न भेदेऽनु-मोक्ति-र्युक्तेति निरस्तम् । परेणापि स्वव्याहतिनिरासाय व्यावहारिकभेदमात्रेण हेतुसाध्यादि-व्यवस्थायाः स्वीकृतत्वात् । भेदस्य वस्तुस्वरूपत्वेऽपि विशेषबलाद् वस्तुविशेषणत्वं चास्तीत्युक्तत्वाद् भेदवत्वं न बाधितम् । न चाप्रसिद्धविशेषणता । जीवब्रह्मा-भेदेऽनिष्टप्राप्तेर्वक्ष्यमाणत्वेन तद्विपर्ययस्याष्टद्रव्यातिरिक्त द्रव्यादेरिवानुमानयोग्यत्वात् ।
यद्वा (३) जीवः किञ्चिद्धर्मिकप्रतियोगिज्ञानाबाध्यभेदप्रतियोगी, (४) ब्रह्म वा किञ्चिद्धर्मिकप्रतियोगि ज्ञानाबाध्यभेदप्रतियोगि, अधिष्ठानत्वाच्छुक्तिवत्’ इति सामान्यतस्तत्सिद्धेर्नाप्रसिद्धिः । केचित्तु जीवाद् भिन्न इत्येव साध्यम्, तथा च नाप्रसिद्धिः । मिथ्याभेदेन सिद्धसाधनं तु निरसिष्यते । यद्वा ब्रह्म जीवप्रतियोगिकधर्मि-सत्तासमानसत्ताकभेदवदिति साधनान्नाप्रसिद्धिर्नापि सिद्धसाधनम् । न चोभयत्राप्य-साधारण्यम् । तस्यागृह्यमाणविशेषावस्थायामेव दोषत्वादित्याहुः । इतरे तु ब्रह्म जीवप्रतियोगिकतात्त्विकभेदवन्नेति साधनान्नाप्रसिद्धिः । परपक्षेऽपि घटादेर्जीवेन तात्त्विकाभेदाभावादित्याहुः ।
अपरे तु– इह साध्यस्य जीवप्रतियोगिकतात्त्विकभेदस्यान्योन्याभावरूपत्वान्ना-प्रसिद्धिर्दोषः । सा हि व्याप्तिग्रहविघटकत्वेन दोषः । पक्षता तु सिषाधयिषाविरहसहकृत-साधकप्रमाणाभाववत्त्वादिरूपा सन्देहानपेक्षा । सापेक्षत्वेऽपि ‘शब्दोऽभिधेयः’ इत्यादाविव जीवब्रह्मणोर्भेदे तात्त्विकत्वमस्ति न वेति सन्देहेनैव सा युक्ता । न तु ब्रह्म जीवात्तत्वतो भिन्नं न वेति सन्देहसापेक्षा । व्यतिरेकिणि च साध्याभावस्य व्याप्तिः । अत्र च साध्याभावो जीवाभेदो जीवे प्रसिद्धः । यत्र तु व्यतिरेकिणि भावः साध्यः, तत्राभावस्य भावज्ञानाधीनत्वात् सा दोष इत्याहुः ।
यद्वा ब्रह्म जीवाद् भिन्नम्, दुःखाननुभवितृत्वाद्, घटवदिति प्रयोगान्नाप्रसिद्ध-विशेषणत्वासाधारण्ये । न च मिथ्याभेदेन सिद्धसाधनम् । भेदरूपार्थे साध्येऽर्थशून्य-भ्रान्त्या सिद्धसाधनोक्त्ययोगात् । एतदनुमितिविषयतया प्रामाणिकत्वेन सिद्ध्यतो भेदस्य मिथ्यात्वायोगाच्च । अन्यथा त्वदीयेषु मिथ्यात्वानुमानेषु कल्पितमिथ्यात्वादिना सिद्धसाधनं स्यात् । तात्त्विकत्वविशेषणेऽपि तात्त्विकत्वेन कल्पितभेदेन सिद्धसाधनमिति च स्यात् ।
(१) यद्वा ब्रह्म जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवद्, दुःखाननुभवितृत्वात्, अभ्रान्तत्वाद्, असंसारित्वाच्च, घटवत् । (२) जीवो वा ब्रह्मप्रतियोगिकधर्मिसत्ता-समानसत्ताकभेदवान्, असर्वशक्तित्वाद्, असर्वज्ञत्वाद्, अस्वतन्त्रत्वाच्च, घटवदिति प्रयोगान्न दोषः । अत्र च जीवब्रह्मशब्देन त्वन्मतेऽपि ‘तत्त्वमसि’ इत्यत्र तत्त्वंपदाभ्यां जीवाः परमात्मनस्तत्त्वतो न भिद्यन्ते, आत्मत्वात्, परमात्मवत्’ इत्यत्र च जीवपरमात्मशब्दाभ्यां ये विवक्षिते, ते संसाराधारानाधारचैतन्ये विवक्षिते । ते च सत्ये इति न सिद्धसाधनम् । न च ब्रह्मणो धर्मित्वाभावाद्वाधः । धर्मित्वाभावं प्रति धर्मित्वाधर्मित्वाभ्यां व्याघातात् । इह धर्मिशब्देनाश्रयमात्रस्य विक्षितत्वाच्च । धर्मिशब्दस्य च पित्रादिशब्दवत्सम्बन्धिशब्दत्वान्न मिथ्यात्वं प्रति धर्मिभूतशुक्तिरूप्यसमानसत्ताक-प्रातिभासिकभेदेन सिद्धसाधनम् । न हि माता पूज्येत्युक्ते स्वसुतमाता भार्या पूज्यते । धर्मिपदस्थाने स्वपदं वास्तु । सत्तात्रैविध्यं वदतस्तव मतेऽपि ब्रह्मणि बाधाभावरूपाया वा तदुपलक्षितस्वरूपरूपाया वा सत्तायाः सत्त्वान्न बाधः ।
यद्वा धर्मिसत्तासमानसत्ताकेतिपदस्थाने पारमार्थिकेति यावत्स्वरूपरूपमनुवर्तमानेति वा स्वाज्ञानाकार्येति वा स्वज्ञानाबाध्येति वा विशेषणं देयम् । स्वशब्दस्य च समभिव्याहृततत्तदर्थपरत्वस्य व्युत्पन्नत्वान्न कश्चिद्दोषः । अन्यथा तवापि स्वप्रागभाव-व्यतिरिक्तेत्याद्ययुक्तं स्यात् । न चात्राद्ये साध्ये दृष्टान्तस्य साध्यवैकल्यम् । घटो जीवप्रतियोगिक (स्वज्ञानाबाध्यभेदवानिति टिप्पणसंमतः पाठः) । प्रतियोगिज्ञाना-बाध्यभेदवान् जीवधर्मिकधर्मिज्ञानाबाध्याभेदाप्रतियोगित्वाद्, यद् यज्ज्ञानाबाध्य-यद्धर्मिकाभेदा प्रतियोगि तत्तज्ज्ञानाबाध्यतत्प्रतियोगिकभेदवद् यथा दूरस्थवनस्पत्योरेक इत्याद्यनुमानेन तत्सिद्धेः ।
यद्वा ब्रह्म, तत्त्वतो जीवाभिन्नं नेति, साध्यम् । एवं च न साध्यवैकल्यशङ्कापि । त्वन्मतेऽपि कल्पिते घटेऽकल्पिताज्जीवात्तात्त्विकभेदवत् तात्त्विकाभेदस्याप्यभावात् । न चान्तःकरणस्यैव दुःखानुभवितृत्वात् तदननुभवितृत्वं जीवेऽनैकान्तम् । त्वन्मतेऽपि दुःखादेरन्तःकरणधर्मत्वेऽपि व्यावहारिकस्य स्वतोऽनर्थरूपदुःखानुभावात्मकबन्धस्य मोक्षसामानाधिकरण्याय जीवस्थत्वावश्यम्भावात् । त्वन्मतेऽपि यदनर्थरूपम् ‘अहं दुःखी’ इत्यनुभवितृत्वं जीवस्य तदभावो हेतुरिति न कश्चित्क्षुद्रोपद्रवः । न चासंसारि-त्वादे र्ब्रह्मण्यसिद्धिः जीवेनकान्त्यं वा । त्वन्मतेऽप्यौपाधिकश्यामत्वादिवत्तस्य व्यवस्थितत्वात् । एवं च जीवेश्वरौ धर्मिज्ञानाबाध्यपरस्परप्रतियोगिकभेदवन्तौ, विरुद्धधर्माधिकरणत्वात्, दहनतुहिनवदित्याद्यपि सुस्थम् ।
विरोधश्च यद्यपि न सहानवस्थानम्, औतिनं प्रत्यसिद्धेः । नापि वध्यघातुकभावः । ‘नाजात एकोऽन्यं हन्ति, नाप्यन्याधारः’ इति न्यायेन तस्य भेदासाधकत्वात् । नापि परस्परात्यन्ताभावव्याप्यत्वं वा परस्पराभावरूपत्वं वा । कालभेदेन नीलरूपं रक्तरूपं नीलरूपप्रागभावं च प्रत्याश्रये घटे व्यभिचारात् । तथापि परस्परात्यन्ताभावव्याप्यत्वं वा परस्परात्यन्ताभावरूपत्वं वा कालभेदेनापि सामानाधिकरण्यायोग्यत्वं वा विरोधः । संयोगतदत्यन्ताभावयोश्च सामानाधिकरण्यं नेत्यावयोर्मतमिति न तदाश्रये व्यभिचारः । तादृशविरुद्धधर्माश्च स्वतंत्रत्वादयः । न चासिद्धिः ।
‘अल्पशक्तिरसार्वज्ञ्यं पारतंत्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
स्वाभाविकं तयोरेतन्नान्यथा तु कथंचन’ ।। इत्यादिश्रुतेः ।
न च कल्पितायाः सार्वज्ञ्यासार्वज्ञ्यादि व्यवस्थाया वर्णे दीर्घत्वह्रस्वत्वव्यवस्था-वत्कल्पितभेदेनैवोपपत्त्या तात्त्विकं भेदं प्रत्यप्रयोजकत्वम् । सगुणवादोक्तन्यायैः श्रुतसार्वज्ञ्यादेः ब्रह्मणि प्रत्यक्षप्रामाण्यवादोक्तन्यायैर्नित्यनिर्दोषानुभवरूपसाक्षिसिद्धा सार्वज्ञ्यादेश्च जीवे सत्यत्वात् । एवं ब्रह्म स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवत्, पदार्थत्वाद् घटवत् । जीवस्यापि जीवान्तराद्भिन्नत्वान्न व्यभिचारः । चेतनत्वं जीवत्वा-वच्छिन्नप्रतियोगिताकधर्मिज्ञानाबाध्यभेदवद्वृत्ति, सर्वचेतनवृत्तित्वाच्चेतनावृत्तित्व-रहितत्वाद्वा, शब्दार्थत्ववत्’ इत्यादीनि चानुमानानि जीवेश्वरभेदे प्रमाणानि । विपक्षे ब्रह्मणोऽपि जीववत्संसाराद्यापत्तिः । एतेन–
अप्रमेयेऽनुमानस्य प्रवृत्तिर्न कथञ्चन ।
प्रमेयस्य त्वनात्मत्वात्तत्र भेदानुमेष्यते ।। इति निरस्तम् ।
त्वन्मतेऽप्यात्मनः शब्दलिङ्गादिजन्य वृत्तिव्याप्यत्वात् । अन्यथा
अप्रमेयेऽनुमानस्य प्रवृत्तिर्न कथञ्चन ।
प्रमेयस्य त्वनात्मत्वात्तदैक्यानुमितिः कथम् ।।
इति सुवचत्वेन त्वदीया आत्माभेदे अनुमाद्युक्तिरयुक्ता स्यात् । इति जीवब्रह्म-भेदानुमानानि ।। १८ ।।
अद्वैतसिद्धि:
एतेन नवीनानुमानान्यपि निरस्तानि (१) ईश्वरः, जीवप्रतियोगिकतात्त्विकभेदवान्, सर्वशक्तित्वात्, सर्वज्ञत्वात्, सर्वकार्यकर्तृत्वात्, स्वतन्त्रत्वाद्वा, व्यतिरेकेण जीववत् । (२) जीवो वा, ब्रह्म-प्रतियोगिकतात्त्विकभेदवान्, अल्पशक्तित्वाद्, अल्पज्ञत्वाद्, अल्पकर्तृत्वात्, संसारित्वाद्वा, व्यतिरेकेण ब्रह्मवद्, इत्यादिषु भेदस्य स्वरूपत्वेन तद्वत्त्वसाधने बाधात् । न च विशेषमादाय तदुपपादानम्, तस्य स्वरूपानतिरेकेण तद्वत्त्वसम्पादकत्वात्, अप्रसिद्धविशेषणतापत्तेश्च । न च– जीवब्रह्मा-भेदेऽनिष्टप्रसक्त्या अष्टद्रव्यातिरिक्तद्रव्यत्वादेरिव त्वत्सिद्धस्वप्रकाशत्वादेरिव च साध्यस्य मानयोग्यत्व-सम्भव इति– वाच्यम् । तात्त्विकभेदव्यतिरेकेऽपि उपाधिकल्पितभेदेन सर्वानिष्टपरिहारसम्भवात् । न च जीवो ब्रह्म वा, किञ्चिद्धर्मिकप्रतियोगिज्ञानाबाध्यभेदप्रतियोगी, अधिष्ठानत्वात्, शुक्तिवदिति सामान्यतः साध्यप्रसिद्धिरिति वाच्यम् । यत्किञ्चिदभावप्रतियोगिघटादिज्ञानाबाध्यभेदप्रतियोगित्वेनात्म-ज्ञानाबाध्यभेदासिद्धेः । स्वप्रतियोगिज्ञानाबाध्यभेदप्रतियोगित्वे साध्ये दृष्टान्ते स्वपदेन शुक्तेर्दार्ष्टान्तिके स्वपदेनात्मन उक्तेर्व्याप्तिग्रहानुपपत्तेः । यत्तु जीवाद् भिन्न इत्येव साध्यम्, मिथ्याभेदेन सिद्धसाधनं पश्चान्निरसनीयमिति, तन्न, निरसनोपायस्य निरसिष्यमाणत्वात् । न च ब्रह्म जीवप्रतियोगिकधर्मिसत्ता-समानसत्ताकभेदवदित्येव साध्यम् । धर्मिपदेन ब्रह्मण उक्तावप्रसिद्धविशेषणत्वतादवस्थ्यात् । यत्किञ्चि-द्धर्म्युक्तौ घटादिधर्मिसमानसत्त्वेन सिद्धसाधनात् । विपक्षबाधक रूपविशेषाभावे पूर्वोक्तासाधारण्यापत्तेश्च ।
यत्तु ब्रह्म जीवप्रतियोगिकतात्त्विकाभेदवन्नेति, तन्न । एवमपि तात्त्विकाभेदस्यातात्त्विकाभावेन सिद्धसाधनात् । अभावेऽपि तात्त्विकत्वविशेषणेऽप्रसिद्धितादवस्थ्यात् । नन्वत्र जीवप्रतियोगिकतात्त्विक-भेदस्यान्योन्याभाव रूपत्वान्नाप्रसिद्धिर्दोषः । यत्र ह्यभावव्यापकतया हेत्वभावो गृह्यते तत्रैव साध्यप्रसिद्धिरङ्गम् । इह तु जीवतादात्म्यव्यापकता हेत्वभावस्य ग्राह्या । तदभावो हेतुना साध्यत इति किं साध्यप्रसिद्ध्या ? तां विनापि व्याप्तिग्रहोपपत्तेः । सन्देहरूपपक्षतासम्पत्तयेऽपि न तदपेक्षा । तस्यास्सिषाधयिषाविरहसहकृतसाधकमानाभावरूपत्वेन सन्देहाघटितत्वाद्, ‘ब्रह्म तत्त्वतो जीवभिन्नं न वा’ इति सन्देहाभावेऽपि ‘जीवब्रह्मणोर्भेदे तात्त्विकत्वमस्ति न वा’ इति सन्देहसम्भवाच्च । प्रमेयत्वमेतन्निष्ठात्यन्ताभावप्रतियोगि न वेति सन्देहवदिति– चेत्, न, एवं हि प्रसिद्धेतरभेदः पृथिव्यामिव प्रसिद्धजीवभेदो ब्रह्मणि सिद्ध्यतु, न तद्गततात्त्विकत्वमपि । व्यापकव्यतिरेकस्य व्याप्यव्यतिरेकमात्र-साधनसमर्थत्वात् । अन्यथाऽतिप्रसङ्गात् ।
यदपि भेदतात्त्विकत्वं धर्मिनिष्ठत्वेन उदशङ्कि, तदपि साध्याप्रसिद्ध्या दुष्टम् । नापि ‘ब्रह्म जीवाद् भिन्नम्, दुःखाननुभवितृत्वाद्, घटवत्’ इत्यन्वयि । सर्वानुभवितरि हेतोरसिद्धेः । स्वनिष्ठेति विशेषणे जीवे व्यभिचारः । दुःखस्यान्तःकरणनिष्ठत्वात्, मिथ्याभेदेन सिद्धसाधनाच्च । न च– भेदे साध्येऽर्थशून्यभ्रान्त्या सिद्धसाधनोक्त्ययोग इति– वाच्यम् । भ्रान्तेर्वस्तुशून्यत्वस्यैवाभावात् । उक्तमिद-मनिर्वाच्यवादे । न चैतदनुमितिविषयतया प्रामाणिकत्वेन सिद्ध्यतः कथं मिथ्यात्वम् ? अनुमिति-विषयतायाः प्रामाणिकत्वे अतन्त्रत्वात् । न चैवं मिथ्यात्वाद्यनुमानेऽपि कल्पितमिथ्यात्वादिना सिद्ध-साधनतापत्तिः, कल्पितत्वं व्यावहारिकत्वमभिप्रेतम् ? प्रातिभासिकत्वं वा ? आद्य इष्टापत्तेः । अन्त्ये हेतोस्स्वसमानसत्ताकसाध्यसाधकतया प्रातिभासिकत्वाप्रसक्तेः ।
एतेन– ‘ब्रह्म, जीवप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदवद्, दुःखाननुभवितृत्वाद्, अभ्रान्तत्वाद्, असंसारित्वाद्, घटवत् । जीवो वा, ब्रह्मप्रतियोगिकतादृग्भेदवान्, असर्वशक्त्यादिभ्य इति– निरस्तम् । उपहितस्य पक्षत्वे धर्मिसमसत्ताकत्वे सिद्धेऽपि तात्त्विकत्वासिद्धेः सिद्धसाधनात् । शोधिततत्त्वंपदार्थयोः पक्षत्वे तयोर्धर्मित्वाभावेन बाधापत्तेः । न च– धर्मित्वाधर्मित्वाभ्यां व्याघातः । ब्रह्मणः सर्वनिषेध-स्वरूपत्वेन व्याघाताभावात् । न च धर्मिशब्देनाश्रयमात्रविवक्षा, धर्मित्ववदाश्रयत्वस्यापि तत्रासत्त्वात् । यत्तु धर्मिशब्दस्य पित्रादिशब्दवत् सम्बन्धिशब्दत्वेन यत्किञ्चिद्धर्मिसमसत्ताकतया न सिद्धसाधनमिति, तन्न । शब्दस्वभावोपन्यासस्यानुमानं प्रत्यनुपयोगात् । एतेन– धर्मिपदस्थाने स्वपदमिति– अपास्तम्, धर्मिपदतुल्ययोगक्षेमत्वात् । अत एव– धर्मिसत्तासमानसत्ताकपदस्थाने पारमार्थिकेति वा, यावत्स्वरूपमनुवर्तमानेति वा स्वाज्ञानाकार्येति वा, स्वज्ञानाबाध्येति वा विशेषणं देयम्, स्वपदस्य समभिव्याहृततत्तदर्थपरत्वस्य व्युत्पत्तिसिद्धत्वादिति निरस्तम् । आद्ये साध्यवैकल्याच्च । न च– घटो जीवप्रतियोगिकप्रतियोगिज्ञानाबाध्यभेदवान्, जीवधर्मिकधर्मिज्ञानाबाध्याभेदाप्रतियोगित्वाद्, यद्य-ज्ज्ञानाबाध्ययद्धर्मिकाभेदा प्रतियोगि, तत् तज्ज्ञानाबाध्यतत्प्रतियोगिकभेदवद्, यथा दूरस्थवनस्पत्योरेक इत्याद्यनुमानेन साध्यसिद्धेर्नाप्रसिद्धिरिति– वाच्यम्, यच्छब्दाननुगतेन पक्षधर्महेतौ व्याप्त्यग्रहाद्, धर्मित्व-प्रतियोगित्वादिसामान्याकारेण व्याप्तिग्रहे विशिष्य साधनायोगात् । न च– एवं स्वप्रागभावव्यतिरिक्ते-त्यादौ का गतिरिति– वाच्यम्, तत्राप्येतद्दूषणसञ्चारेण व्यतिरेकिणि वाऽनुमानान्तरे वा तात्पर्यात् ।
नापि– ब्रह्म तत्त्वतो जीवाभिन्नं नेति साध्यम् । एवं च न साध्यवैकल्यशङ्कापि । त्वन्मतेऽपि कल्पितघटे कल्पितजीवात् तात्त्विकभेदवत्तात्त्विकाभेदस्याप्यभावादिति वाच्यम् । तात्त्विकाभेदस्या-तात्त्विकेनाभावेन सिद्धसाधनस्योक्तत्वात् । नापि– जीवेश्वरौ, धर्मिज्ञानाबाध्यपरस्परप्रतियोगिकभेदवन्तौ, विरुद्धधर्माधिकरणत्वात्, दहनतुहिनवत् । विरोधश्च परस्परात्यन्ताभावरूपत्वम्, तद्व्याप्यत्वं वा । कालभेदेनापि सामानाधिकरण्यायोग्यत्वं वा, संयोगतदत्यन्ताभावयोश्च सामानाधिकरण्यं मतद्वयेऽपि नेति न तदाश्रये व्यभिचार इति– वाच्यम् । धर्मिपदमादाय दोषस्य प्रागेवोक्तत्वात् । अव्याप्यवृत्ति-दुःखशब्दाद्यधिकरणे व्यभिचाराच्च । जीवब्रह्माभेदसिद्धौ स्वतन्त्रत्वास्वतन्त्रत्वादीनां सामानाधिकरण्या-योग्यत्वरूपविरोधस्यैवासिद्ध्या स्वरूपासिद्धेः । कल्पितसार्वज्ञ्यासार्वज्ञ्यादिव्यवस्थाया वर्णे ह्रस्वत्वदीर्घत्वादिव्यवस्थावत् कल्पितभेदेनैवोपपत्त्या स्वाभाविकभेदं प्रत्यप्रयोजकत्वाच्च ।
न च–‘अल्पशक्तिरसार्वज्ञ्यं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।।
स्वाभाविकं तयोरेतन्नान्यथा तु कथञ्चन ।। इत्यादिश्रुत्या सार्वज्ञ्यादेः स्वाभाविकत्वोक्त्या कल्पितत्वासिद्धिः । अनाद्यविद्यासिद्धत्वेनेदानीन्तनत्वाभावेन च स्वाभाविकत्वोक्तेः । तच्छब्देनोप-हितयोरेव परामर्शात्, न तत्र स्वाभावाकित्वोक्तिविरोधः । न ह्युपहितेऽपि सर्वज्ञत्वादिकमागन्तुकम् । नापि ‘ब्रह्म, स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवत्, पदार्थत्वाद्, घटवत् । ‘चेतनत्वम्, जीवत्वावच्छिन्नप्रतियोगिताकधर्मिज्ञानाबाध्यभेदवद्वृत्ति, सर्वचेतनवृत्तित्वात् चेतनावृत्तित्वरहितत्वाद्वा, शब्दार्थत्ववदिति– वाच्यम् । स्वपदधर्मिपदाननुगमतादवस्थ्यात् । अन्त्यहेतोर्जीवत्वे व्यभिचाराच्च । जडवृत्तित्वाद्युपाधिसत्त्वेन विपक्षबाधकाभावेन चाप्रयोजकत्वात् । ब्रह्मणो जीववत्संसारित्वापत्ताविष्टा-पत्तिः । कल्पितभेदेन वा परिहारो विधेयः । तदुक्तम्–
‘अप्रमेयेऽनुमानस्य प्रवृत्तिर्न कथञ्चन ।
प्रमेयस्य त्वनात्मत्वात् तत्र भेदानुमेष्यते ।।
शुद्धचैतन्ये धर्मानधिकरणतयाऽनुमानाप्रसरः । यत्र प्रसरः, तत्रेष्टापत्तिरित्यर्थः । न च एवमैक्यानु-मानमपि कथम् ? भवत्पद्यस्य तदैक्यानुमितिः कथमिति पठितुं शक्यत्वादिति– वाच्यम् । शुद्ध-चैतन्यैक्यस्य शब्दैकगम्यत्वेन तत्राननुमेयत्वस्येष्टत्वात् । न च तर्ह्यैक्यानुमानोपन्यासानर्थक्यम् । तस्य भेदे तात्त्विकत्वभ्रममात्रनिरासफलकत्वात् । तस्मात् ।
‘‘अप्रसिद्धविशेषत्वादन्यथैवोपपत्तितः । सर्वशक्त्यल्पशक्त्यादेर्न भेदे तन्त्रता ततः’’ ।।
।। इत्यद्वैतसिद्धौ जीवब्रह्मभेदानुमानभङ्गः ।। १८ ।।
न्यायामृततरङ्गिणी
तात्विकत्वगर्भसाध्यस्याप्रसिद्धिं परिहरति– न चाप्रसिद्धेति ।। जीवब्रह्माभेद इति ।। एतच्चोपलक्षणम् । जीवब्रह्मणोरतात्विकभेदेऽपीति द्रष्टव्यम् ।। तद्विपर्ययस्येति ।। अतात्विक-भेदविपर्ययस्य ।। अष्टद्रव्येति ।। यथा हीच्छाया अष्टद्रव्याश्रितत्वे बाधकाद् अष्टद्रव्यातिरिक्तं द्रव्यम् अप्रसिद्धमपि सिध्यति तथाऽभेदेऽतात्विकभेदे च बाधकात्तात्विकभेदोऽप्रसिद्ध एव सिध्यति ।। प्रतीयोगिज्ञानाबाध्येति ।। प्रतियोगिज्ञानबाध्यत्वसामान्यरहितेत्यर्थः । तेन यत्किञ्चिदभेदासिद्धिरिति परास्तम् ।। निरसिष्यत इति ।। निर्दुष्टानुमितिविषयत्वेन प्रामाणिकतया सिध्यतो भेदस्य मिथ्यात्वायोगादिति वक्ष्यते ।। नापीति(न चेति) ।। ब्रह्मसमसत्त्वभेदस्यैतदनुमानात्पूर्वम् असिद्धेः ।। उभयत्रेति ।। जीवभेदस्य घटसमसत्त्वभेदस्य च घटे सत्त्वेन तत्र हेत्ववृत्तेरसाधारण्यम् ।। अपरे त्वित्यादि ।। ननु सार्वज्ञाभाव-रूपव्यापकव्यतिरेकेण सार्वज्ञेन व्याप्यस्यैक्यस्य व्यतिरेको भेदः पक्षे सिध्यतु । तस्य तात्विकत्वं तु कुतः । मैवम् । व्यापकव्यतिरेकेण व्याप्यव्यतिरेकस्य साध्यमानत्वात् । मिथ्याभेदस्यैक्यव्यतिरेकित्वाभावात् । शुक्तौ शुक्त्यैक्ये सत्यपि मिथ्याशुक्तिभेदस्य सत्त्वात् ।। दुःखा(न)नुभवितृत्वादिति ।। ननु सर्वानुभवितरि हेतोरसिद्धिः । स्वनिष्ठेतिविशेषणे जीवे व्यभिचारः । दुःखस्यान्तःकरणधर्मत्वात् । दुःखकृतविक्रियाया दुःखानुभवितृत्वार्थत्वात् । निरसिष्यमाणत्वाच्च । कल्पितमिथ्यात्वादिनेति ।।
ननु मिथ्यात्वं प्रति हेतोर्दृश्यत्वादेः स्वसमसत्ताकसाध्यसाधकतया प्रातिभासिकत्वरूप-कल्पितमिथ्यात्वासिद्धिः । किन्तु व्यावहारिकं मिथ्यात्वं सिध्यति । मैवम् । जीवब्रह्मभेदस्य व्यावहारिकत्वेन तदैक्यस्य तात्विकत्ववन्मिथ्यात्वस्य जगति व्यावहारिकत्वेन तत्सत्यत्वस्य तात्विकत्वापातात् । ननु जीवब्रह्मशब्दाभ्यामुपहितचैतन्यस्य पक्षत्वे तत्र धर्मिसत्त्वभेद-साधनेऽपि न भेदस्य तात्विकत्वसिद्धिरित्यत आह– अत्र चेति ।। शोधिततत्त्वं पदार्थयो-र्ब्रह्मजीव पदाभ्याम् अभिधानात्तात्विकभेदसिद्धिः । ननु शोधिते तत्र धर्मित्वाभावाद्बाध इत्याशङ्क्य निराकरोति– न चेति ।। व्याघातादिति ।। न च सर्वनिषेधस्य ब्रह्मस्वरूपत्वेन न व्याघातः । सर्वनिषेधश्रुतेर्ब्रह्मस्वरूपमात्रपरत्वपर्यवसानेन तया भेदविरोधिसर्वनिषेधासिद्धेः ।। सम्बन्धिशब्दत्वादिति ।। नन्वनुमाने शब्दस्वभावोपन्यासो न युक्तः । मैवम् । परार्थानुमाने शब्दस्वभावप्रयोजकताया उक्तत्वात् ।। नाजात एकोन्यं हन्तीति ।। वृश्चिकादीनां जन्मना स्वमात्रादिहन्तृत्वं भटानां त्वैकस्यां समरभूमौ घटितानां हन्तृत्वमिति लोके दृष्टत्वात् । परस्परहन्तृधर्माश्रयत्वं जीवब्रह्मणोर्भेदासाधकमित्यर्थः । अयं न्यायस्तु जयतीर्थाचार्यकृतवादावल्यां तत्वप्रदीपिकायां चतुर्थपरिच्छेदे च लिखितः ।। इति जीवब्रह्मणोर्भेदेऽनुमानानि ।। १८ ।।
न्यायामृतकण्टकोद्धारः
नन्वस्तु जीवेशभेदे प्रत्यक्षम् । तथापि तस्य वादिनं प्रत्युपन्यासानर्हत्वात् विप्रतिपत्तौ परं प्रत्युपन्यासनीय प्रमाणाभावस्तदवस्थ एवेत्यत आह– १अनुमानानि चेति । बहुवचनं च बहुत्वेन प्राबल्यसूचनार्थम् । यद्यपि पूर्वोक्तानुमानान्यपि उक्तन्यायेनादुष्टानि तथापि तददुष्टत्वं शिष्यैरेव ज्ञेयमिति मत्वाऽनुमानान्तराण्याह– ईश्वर इति ।। ईश्वरशब्देन वेदान्ततात्पर्यविषयीभूतं ब्रह्म विवक्षितम् । जीवशब्देन संसाराधिकरणं चैतन्यम् । अतो नार्थान्तरमिति द्रष्टव्यम् । साध्ये च ‘तत्वतः’ इति विशेषणं मिथ्याभेदमादाय सिद्धसाधनतापरिहाराय । यद्यपि तदभावेऽपि न सिद्धसाधनता । प्रमाणविषयतयोपक्षिप्ते मिथ्यात्वेन सिद्धसाधनताभिधानेऽनुमानमात्रोच्छेदप्रसङ्गात् । तथाप्यनेनापि रूपेण सिद्धावुद्धेश्यायामिदमुक्तमिति द्रष्टव्यम् । हेतुसिद्धिश्चाल्पशक्तिरिति वक्ष्यमाणश्रुत्येति द्रष्टव्यम् । न च सर्वशक्तित्वादिकं काल्पनिकमिति वाच्यम् । तस्यामेव स्वाभाविकत्वाभिधानात् । परिहरिष्यमाणत्वाच्च । ननु परमते भेदस्यैवाभावात् कथं पक्षदृष्टान्त-तेत्यत आह– परमतेऽपीति । अन्यथा पक्षदृष्टान्तभावानङ्गीकारे । तेनेति परामृष्टं हेतुं दर्शयति– परेणापीति ।
ननु तथापि बाधः । भेदस्य धर्मिस्वरूपत्वेन तद्विशेषणत्वायोगात् । न हि घटो घटवानिति युज्यत इत्यत आह– भेदस्येति ।। विशेषस्तु विशेषणत्वादिनिर्वाहक इति पूर्वमेवोक्तम् ।। जीव-ब्रह्माभेद इति ।। यदभावे बाधकं तदनुमानयोग्यमिति व्याप्तेरिति भावः । न च कल्पितभेदेन सर्वानिष्टपरिहार इति वाच्यम् । तस्य तत्रातन्त्रत्वात् । अन्यथैकस्मिन्नपि कल्पितभेदसम्भवेन सुखादिभोक्तृत्वादिव्यवस्था स्यात् । किञ्चाप्रसिद्धविशेषणता न साक्षाद् दूषणम् । किन्तु व्याप्त्यादिज्ञानविघटकत्वेन । प्रकृते च व्यतिरेकव्याप्तिज्ञानं सम्भवति । न च साध्याप्रसिद्धौ प्रतियोगिज्ञानाभावेन साध्याभावज्ञानाभावे कथं तत्र व्याप्तिग्रह इति वाच्यम् । वादिवाक्यादिना प्रतियोगिज्ञानसम्भवात् । न हि क्वचित् प्रमितमेव क्वचिन्निषिध्यत इत्यावयोर्मतम् । तथा च नाप्रसिद्धत्वं दोषः । पक्षता तु सन्देहाघटितैव निर्वाच्या । अस्मिन् पक्षेऽप्रसिद्धत्वादिपरिहारक्लेशात् पक्षान्तरमाह– यद्वेति । न च जीवप्रतियोगिकघटादिधर्मिक भेदमादायार्थान्तरमिति वाच्यम् । तस्यात्मज्ञानबाध्यत्वाङ्गीकारेण तमादायार्थान्तरासम्भवात् । न च प्रतियोगिज्ञानाबाध्येत्यनेना-बाध्यत्वं कथं लभ्यमिति वाच्यम् । तस्य ससम्बन्धिकत्वात् ।
यद्वा तत्पदस्थाने स्वपदं निक्षेप्यम् । न च दृष्टान्ते स्वशब्देन शुक्तेर्ग्रहणम् । पक्षे च ब्रह्मण इत्यननुगमेन कथं व्याप्तिग्रह इति वाच्यम् । तयोः समभिव्याहृतबुद्धिस्थत्वेनानुगमसम्भवात् । अन्यथा स्वप्रागभावव्यतिरिक्तेत्याद्यसङ्गतमेव स्यात् । नन्वस्मिन् पक्षे सामान्यतोऽबाध्यभेदासिध्या विप्रतिपत्त्यनानुगुण्यमिति । अस्मिन् पक्षे सिद्धसाधनता परिहारक्लेशभयादाह– यद्वेति । न च धर्मिशब्देन ब्रह्मण उक्तौ सैवाप्रसिद्धविशेषणता । यत्किञ्चिदुक्तौ च घटादि समानसत्वेन सिद्धसाधनत्वमिति वाच्यम् । धर्मिपदस्य ससम्बन्धिकत्वेन येन समभिव्याहारस्तत्परत्वेऽपि ब्रह्मत्वेनाप्रवेशेनाप्रसिद्धविशेषणत्वाभावात् । अन्यथा स्वप्रागभावव्यतिरिक्तेत्यादौ स्वपदस्य प्रमाण-ज्ञानपरत्वेऽप्रसिद्ध विशेषणतेत्यादेर्वक्तुं शक्यत्वात् । अज्ञानसिद्धिरपि न स्यात् ।। तस्येति ।। न चानुकूलतर्काभावात् सर्वदा गृह्यमाणविशेषतेति वाच्यम् । अनुकूलतर्कोपपादनस्य करिष्य-माणत्वादिति भावः । दुःखाननुभवितृत्वादिरूपं हेतुम् अभिप्रेत्याप्रसिद्धविशेषणत्वादिशङ्का यथा नास्ति तथा प्रकारमाह– इतरे त्विति । न चैवं भेदासिध्याऽर्थान्तरमिति वाच्यम् । तादृशाभेदा-भावस्यैव भेदत्वेनाङ्गीकारात् । न चात्र तात्विकाभेदाभावमात्रं साध्यते, उताभावे तात्विकत्व-विशेषणं दीयते ? आद्ये कल्पितम् अभावमादाय सिद्धसाधनम् । अन्त्येऽप्रसिद्धविशेषणत्वं तदवस्थमिति वाच्यम् । मिथ्याभूतेन सिद्धसाधने सर्वत्र सिद्धसाधनप्रसङ्गेनानुमान-मात्रोच्छेदस्योक्तत्वात् । तथा च नाप्रसिद्धिः ।
ननु ब्रह्म जीवप्रतियोगिकतात्विकभेदवन्नवेति विप्रतिपत्तौ जीवप्रतियोगिकतात्विकभेदवन्नेति साध्यकरणेऽर्थान्तरत्वमित्यत आह– अपरे त्विति । जीवप्रतियोगिकतात्विकभेद एव साध्यते । तथा च नार्थान्तरमिति भावः । तर्ह्यप्रसिद्धविशेषणतेत्यत आह– नेति । तथाप्यप्रसिद्ध-विशेषणतापरिहारः कथमित्यत आह– सा हीति । ननु पक्षताविघटकत्वेन दोषः किं न स्यादित्यत आह– पक्षता त्विति । ननु सन्देह घटित पक्षतैवानुमानाङ्गमिति मया स्वीक्रियते । साध्याप्रसिद्धौ तत्सन्देहाभावे तद्धटिता पक्षता न सम्भवतीत्यत आह– तत्सापेक्षत्व इति । ननु भिन्नपक्ष-कत्वान्नायम् अनुमानाङ्गमिति वाच्यम् । विरोधिविषयत्वेनैव प्रयोजकत्वे पक्षैक्यस्याप्रयोजकत्वात् । अस्तु तर्हि व्याप्तिविघटकत्वेन सा दोष इत्यत आह– व्यतिरेकिणि चेति । क्व तर्हि सा दूषणमित्यत आह– यत्र त्विति । ननु व्यापकाभावेन हेतुना व्याप्यजीवतादात्म्याभाव एव सिध्येत् । न तु तस्य तात्विकत्वम् । यथा व्यापकाभावेन पृथिवीत्वेन हेतुना व्याप्यप्रसिद्धेतरभेदः सिध्यति । तात्विकत्वभाने तु नैषा सामग्रीति चैन्मैवम् । प्रमाणविषयत्वेन सिध्यन् तात्विक एव सिध्यतीत्याशयात् ।
यद्वेश्वरानुमाने एकत्वमुपनीतं यथा भासते तथेदं तात्विकत्वमुपनीतं भासत इत्यङ्गीकारात् । अपि वा यादृशव्याप्यव्यापको ह्यभावः तदभावेन सिध्यन् (जीवतादात्म्यभेदः तात्विक एव सिध्यतीति) व्याप्तिबलादेव तात्विकत्वसिद्धिरिति । नन्वनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमात् तात्विकत्वस्य चातथात्वात् कथं तद्भानमिति चेन्न । तस्यापि व्यापकतावच्छेदकत्वाद्, भासकसामग््रयाश्च नियमस्य प्रदर्शितत्वात् इति । इदानीम् अप्रसिद्धत्वादिशङ्कैव यथा नोदेति तथा प्रकारान्तरमाह– यद्वेति ।। दुःखेति । न च ब्रह्मणः सर्वज्ञत्वाद् दुःखाननुभवितृत्वम् असिद्धम् । स्वनिष्ठेति विशेषणे जीवे व्यभिचारः । दुःखादीनाम् अन्तःकरणनिष्ठत्वादिति वाच्यम् । अनेन दुःखेनाहं दुःखीत्यननुसन्धातृत्वं दुःखाननुभवितृत्वम् । तच्च ब्रह्मण्यस्त्येवेति नासिद्धिः । नापि जीवे व्यभिचारः । तस्यान्तः करणदुःखादिनां दुःखीत्यनुसन्धातृत्वात् ।। भेदेति ।। न च भ्रान्तेरर्थशून्यत्वम् असिद्धमिति वाच्यम् । अर्थशून्यत्वाभावे भ्रान्तित्वस्यैवायोगात् । यथा चैतत् तथाऽनिर्वचनीयत्वभङ्ग एवोक्तम् ।। एतदिति ।। न चानुमितिविषयता प्रामाणिकत्वे न तन्त्रमिति वाच्यम् । तथात्वे मननेन साध्यस्य युक्तत्वनिश्चयस्याप्रामाणिकत्वापत्तेः । तथा च मीमांसायां सिद्धान्तोक्तिरयुक्ता स्यात् । आगमविषयताया अपि प्रामाणिकत्वेऽतन्त्रत्वापाताच्च । न ह्यागम-विषयोऽबाधितः, अनुमानविषयो बाधित इति सिद्धम् ।
अन्यथेति । न च मिथ्यात्वं व्यावहारिकत्वं वा, प्रातिभासिकत्वं वा ? नाद्यः । इष्टापत्तेः । न द्वितीयः । हेतोः स्वसमानसत्ताकसाध्यसाधकतया प्रातिभासिकत्वासम्भवादिति वाच्यम् । व्यावहारिकत्वेऽपि बाध्यत्वेन बाध्यमिथ्यात्वस्य परेणाप्यङ्गीकारेण सिद्धसाधनत्वापरिहारात् । व्यावहारिकैर्वेदान्तैस्तात्विकब्रह्मसिध्यङ्गीकारेण साधनस्य स्वसमानसत्ताकार्थसाधकत्वस्यासम्मतेश्च । न चानुमान एव तथा नियमः । अप्रयोजकत्वात् । प्रतिबिम्बादिना तात्विकबिम्बसिध्यङ्गीकाराच्च । ननु तात्विकत्वेन मिथ्यात्वादीनां विशेषणान्न मिथ्याभूतमिथ्यात्वादिना सिद्धसाधनमित्यत आह– तात्विकत्वेति ।। इदानीं मिथ्याभूतसाध्यादिना यथा न सिद्धसाधनत्वादि तथा प्रकारान्तरमाह– यद्वेति । दुःखाननुभवितृत्वं च पूर्ववदेव ज्ञातव्यम् । अभ्रान्तत्वं च भ्रान्तत्वात्यन्ताभावाधि-करणत्वम् । तेन जीवस्यापि कदाचिदभ्रान्तत्वाद् व्यभिचारशङ्का नेति ज्ञातव्यम् । असंसारित्व-मप्येवमेवेति न मुक्ते व्यभिचारः । नन्वत्रोपहितयोः पक्षत्वम्, उत शोधितयोः ? नाद्यः । उपहिते धर्मिसामानसत्ताके भेदे सिद्धेऽपि न तात्विकभेदसिद्धिः । उपहितस्य मिथ्यात्वात् । न द्वितीयः । तयोर्निर्धर्मकत्वेन बाधादित्यत आह– न चेति ।
ननु धर्मित्वं नाम कर्तृत्वादिमत्त्वं, तच्च शुद्धे बाधितमित्यत आह– इहेति । ननु तथापि यत्किञ्चिद्धर्मिसमानसत्ताकभेदेन सिद्धसाधनमित्यत आह– धर्मिशब्दस्य चेति । धर्मिपदेति । न च धर्मिपदतुल्यं स्वपदमिति वाच्यम् । स्वशब्दस्य समभिव्याहृतपरत्वस्य तवापि सिद्धत्वात् । अन्यथा स्वप्रागभाव व्यतिरिक्तेत्यत्रार्थान्तरतादि स्यात् । ननु तथापि ब्रह्मणि सत्ताभावाद् बाध इत्यत आह– सत्तेति । ननु सत्ताया धर्मिरूपत्वात् धर्मिसत्तासमानसत्ताकेति बहुव्रीह्यनुपपत्तिः । न च धर्मिरूपा या सत्तेति विवक्षितमिति वाच्यम् । घटादौ सत्ताया धर्मिस्वरूपत्वाभावादित्यत आह– यद्वेति । ननु स्वज्ञानाबाध्येति साध्यकरणे स्वशब्देन शुक्त्यादिकमादाय सिद्धसाधनमित्यत आह– स्वशब्दस्य चेति । आद्य इति । पारमार्थिकत्वविशेषणयुक्तसाध्यस्य मन्मते घटादाव भावात्साध्यवैकल्यमित्यर्थः ।। घट इति ।। जीवचैतन्यस्य प्रतियोगित्वात् तज्ज्ञानाबाध्यभेद-सिद्धिरेव पारमार्थिकत्व सिद्धिरित्यर्थः । नन्वत्र यत्तद् घटितत्वेऽनुगतव्यापकतावच्छेदकाभावाद् व्याप्त्यग्रहदोष इति वाच्यम् । सर्वनाम्नां बुद्धिस्थवाचकत्वेन बुद्धिस्थत्वेनानुगमसम्भवात् । अत एव यत्तच्छब्दघटिताः प्रयोगाः सर्ववादिनां दृश्यन्ते ।
यद्वा व्यतिरेकेण जीववदिति द्रष्टव्यम् । यद्वा ‘पारमार्थिकत्वं जीवप्रतियोगिकभेदवृत्तिः, सकलपारमार्थिकवृत्तित्वात् प्रमेयत्ववत्’ इत्यत्र तात्पर्यम् । साध्यवैकल्यशङ्काक्लेशपरिहारार्थं पक्षान्तरमाह– यद्वेति । तात्विकाभेदाभावस्यातात्विकत्वेन सिद्धसाधनता तु पुरैव निरस्तेति भावः ।। त्वन्मतेऽपीति ।। दुःखादेरन्तःकरणोपादानकत्वेऽपि तदनुभवितृत्वमात्मन्येव वक्तव्यम् । अन्यथा बन्धमोक्षयोः सामानाधिकरण्यं न स्यादिति भावः । नन्वनुभवितृत्वमप्यन्तःकरणनिष्ठम् । जीवे संसारस्तु तदारोपेणोपपद्यत इत्यत आह– त्वन्मतेऽपीति ।। न चेति ।। ब्रह्मैव स्वाविद्यया संसरतीत्यङ्गीकारादिति भावः ।। त्वन्मतेऽपीति ।। अन्यथा जीवब्रह्मव्यवस्था बद्धमुक्तव्यवस्था च न स्यादिति भावः ।। एवं चेति ।। न च धर्मिपदमादाय दोष उक्त इति वाच्यम् । ‘धर्मित्वा-भावं प्रति’ इत्यादिना तस्य निराकृतत्वात् । ननु संयोग तदत्यन्ताभावरूपविरुद्धधर्माधिकरणे व्यभिचार इत्यत आह– संयोगेति । न चाव्याप्यवृत्तिदुःखादौ शब्दे च स्वात्यन्ताभावाधिकरण-वृत्तित्वात् तदधिकरणे व्यभिचार इति वाच्यम् । दुःखादीनाम् अन्तःकरणपरिणामित्वेन शब्दस्य भूताकाशोपादानत्वेनाव्याप्यवृत्तित्वाभावेन तत्र व्यभिचाराभावात् ।
ननु दुःखादीनाम् अन्तःकरणधर्मत्वे जीवब्रह्मणोस्तदतिरिक्तविरुद्धधर्माधिकरणत्वाभावाद् हेतोरसिद्धिरित्यत आह– तादृशेति । न च जीवब्रह्मभेदासिद्धौ स्वतन्त्रत्वास्वतन्त्रत्वयोः सामानाधिकरण्यायोग्यत्वरूपविरोधस्यासिद्धिरिति वाच्यम् । तयोः परस्परात्यन्ताभावरूपत्वेन जीवब्रह्मभेदासिद्धावपि तादृशविरोधसिद्धेः । अन्यथा घटपटादावपि विरुद्धधर्माधिकरणत्वेन भेदो न स्यात् । व्यावहारिकभेदसिध्यर्थं त्वयापि प्रथमं धर्मविरोधसिद्धेर्वाच्यत्वात् । ननु तथापि प्रमाणाभावेन तादृशधर्माधिकरणत्वम् असिद्धमित्याशङ्क्य निषेधति– न चेति । ननु सार्वज्ञादिकं कल्पितमस्तु । न च श्रुतौ स्वाभाविकत्वविशेषणात् अकल्पितत्वमिति वाच्यम् । बहुकालीन-भ्रान्त्या अनाद्यविद्या सिद्धत्वेनेदानीन्तनत्वाभावेन तादृशविशेषणोपपत्तेरित्याशङ्क्य निषेधति– न चेति । किं सार्वज्ञादेर्मिथ्यात्व म् उतासार्वज्ञादेः उतोभयोरिति विकल्प्य पक्षत्रयमप्यनुपपन्न-मित्याह– सगुणेति । तथा च पक्षत्रयं श्रुतिन्यायप्रत्यक्षविरुद्धमिति भावः । सार्वज्ञादीनां सत्यत्वे सिद्धे विपक्षबाधकसम्भवादनुमानान्तरमपि सिद्धमित्याह– एवं चेति । स्वपदाननुगमादिकं पूर्वमेव परिहृतम् ।
ननु जीवे जीवत्वावच्छिन्नप्रतियोगिकभेदाभावाद् व्यभिचार इत्यत आह– जीवस्येति । तथा च साध्ये जीवपदं यत्किञ्चिज्जीवपरम् । तावतैवेष्टसिद्धेः । किञ्चिज्जीवभेदसिद्धौ जीवान्तराभेदस्यापि प्रतिपत्तौ एतादृश साध्यकरणेऽर्थान्तरमित्यत आह– चेतनत्वमिति । न च द्वितीयहेतौ जीवत्वे व्यभिचार इति वाच्यम् । चेतन वृत्त्यत्यन्ताभावाप्रतियोगित्वादिति विवक्षितत्वात् । न चैवं पूर्वाभेदः । उपाधिभेदात् । न च जडवृत्तित्वमुपाधिः । प्रकृतानुमानेऽनुकूलतर्कस्य वक्ष्यमाणत्वेन प्रकृतसाध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्याव्यापकत्वात् । ननु विपक्षे बाधकाभावाद् अप्रयोजकान्यनुमानानीत्यत आह– विपक्ष इति । न चेष्टापत्तिः । ब्रह्मणो दुःखादिभोगस्य सर्वप्रमाणविरुद्धत्वात् । एतेन खण्डनोक्तं निरस्तमित्याह– एतेनेति । अप्रमेये निर्धर्मक इत्यर्थः । प्रमेयस्य सधर्मकस्य । तथा च शुद्धे हेतुसाध्ययोरभावाद् अनुमानाप्रवृत्तिरित्यर्थः ।। अन्यथेति । वृत्तिव्याप्यत्वानङ्गीकार इत्यर्थः । न च न मयाऽभेदज्ञापनार्थमनुमानमुच्यते किन्तु भेदभ्रम-निरासार्थमिति वाच्यम् । अभेदबोधनं विना भेद भ्रमनिरासासम्भवात् । विरोधिज्ञानस्यैव भ्रमनिवर्तकत्वात् । अन्यथाऽतिप्रसङ्गात् । इति जीवब्रह्मणोर्भेदानुमानानि ।। १८ ।।
न्यायामृतप्रकाशः
ननूक्तानुमानद्वये जीवेश्वरयोर्मध्ये एकस्य पक्षत्वम् अपरस्य दृष्टान्तत्वमुक्तं, तदयुक्तं, तयोरेकत्वेन सन्दिग्धसाध्यवत्त्वनिश्चितसाध्यवत्त्वरूपपक्षत्वदृष्टान्तत्वयोरसम्भवादित्यतोऽनुमानं शोधयति– परमतेऽपीत्यादिना ।। अन्यथेति ।। तयोरैक्येन पक्षष्टान्तभावायोगशङ्कायाम् । ननूक्तानुमानद्वये साध्यावैशिष्ठ्यं, हेतुसाध्ययोरैक्यात् कथमिति चेत् मम सर्वपदार्थाभेदवादित्वेन तदन्तर्गतहेतुसाध्य-योरप्येकत्वादित्यत आह– एतेनेति ।। तदेव दर्शयति– परेणापीति ।। स्वव्याहतीति ।। जीवात्मनः परमात्मनस्तत्वतो न भिद्यन्त इत्यनुमानेऽपि सर्वाद्वैतिनः साध्यावैशिष्ट्यापत्त्या स्वव्याहतिः स्यादित्यर्थः । ननु भेदस्य धर्मिस्वरूपताया भवद्भिरङ्गीकाराद्भेदवानिति भेदवत्त्वोक्तिर्बाधितेत्यत आह– भेदस्येति ।। अप्रसिद्धेति ।। तात्विकभेदस्याप्रसिद्धेरिति भावः । व्यतिरेकिणि अप्रसिद्धमेव साध्यं सिध्यतीति मतमाश्रित्याह– जीवेति ।। इदमुपलक्षणम् । जीवब्रह्मणोरतात्विकभेदेऽपीति द्रष्टव्यम् । तद्विपर्ययस्य अतात्विकभेदविपर्ययस्य ।। अष्टद्रव्येति ।। तथा हि इच्छाया अष्टद्रव्याश्रितत्वे बाधकसद्भावादिच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रितेत्यनुमानेन अष्टद्रव्यातिरिक्तं द्रव्यम् अप्रसिद्धमपि सिध्यतीत्यङ्गीकृतं तार्किकैः । तथा अभेदे अतात्विकभेदे च बाधकसद्भावात्तात्विकभेदोऽप्रसिद्ध एवानुमानेन सिध्यतीत्यर्थः । ईश्वरपक्षकानुमानेऽप्रसिद्धिं परिहर्तुं सामान्यतः प्रसिद्धिमाह– जीव इति ।। व्यावहारिकभेदमादायार्थान्तर- वारणाय प्रतियोगिज्ञानाबाध्येत्युक्तम् । प्रतियोगिभूतजीवेत्यर्थः । जीवस्यैव ब्रह्मत्वेन तज्ज्ञानाबाध्य-भेदसिद्धौ तस्य तात्विकत्वमेव सिध्यति । तथा चानेनानुमानेन जीवप्रतियोगिकतात्विकभेदः कस्मिं-श्चिद्धर्मिणि सामान्यतः सिद्धः । स च व्यतिरेकिणा धर्मिविशेषनिष्ठतया साध्यत इति द्रष्टव्यम् ।
जीवपक्षके द्वितीयानुमानेऽप्रसिद्धिवारणाय सामान्यप्रसिद्धिमाह– ब्रह्म वेति ।। प्रतियोगीति ।। ब्रह्मेत्यर्थः । तथा चानेन ब्रह्मप्रतियोगिकतात्विकभेदः कस्मिंश्चिद्धर्मिणि सामान्यतः सिद्धः । स च व्यतिरेकिणा धर्मिविशेषनिष्ठत्वेन साध्यत इति भावः ।। अधिष्ठानत्वादिति ।। अविद्यानावृतं जीवचैतन्यमेवाधिष्ठानमिति मतसद्भावाज्जीवेऽप्यधिष्ठानत्वम् अस्तीति नाद्यानुमाने स्वरूपासिद्धिः ।। शुक्तिवदिति ।। शुक्तिप्रतियोगिको भेदो रूप्येऽस्ति । तथा च किञ्चिद्धर्मिको रूप्यधर्मिकः प्रतियोगि-भूतशुक्तिज्ञानाबाध्यो यो भेदः शुक्तिभेदस्तत्प्रतियोगित्वं शुक्तावस्तीति ध्येयम् । केचित्त्वित्यनन्तरम् ईश्वर इति शेषः । हेतुस्तु सर्वज्ञत्वादिरेव द्रष्टव्यः ।। तथा चेति ।। जीवाद्भेदस्य व्यावहारिकस्य घटादौ मायिमते प्रसिद्धत्वादित्यर्थः । नन्वप्रसिध्द्यभावेऽपि मिथ्याभूतेन तेनैव भेदेन सिद्धसाधनता तु स्यादित्यत आह– मिथ्येति । व्याप्तिपक्षधर्मतोपेतसल्लिङ्गपरामर्शेन जायमानानुमितिः प्रमारूपैवेति तात्विकभेदे एवानुमानविषय इति नारोपित भेदमादाय सिद्धसाधनता परीक्षकेण दातुं शक्या । अन्यथा विमतं मिथ्येत्यत्रापि कल्पितमिथ्यात्वमादायास्माकं सिद्धसाधनत्वेन त्वदभिमतं तात्विकमिथ्यात्वं न सिध्येत् । तथा पर्वतोऽग्निमानित्यादौ सर्वत्रारोपितवह्न्यादिकमादाय सिद्धसाधनताया दातुं शक्यत्वेनानुमानमात्रोच्छेदः स्यात् अतस्तत्र त्वयाऽस्मदुक्त एव समाधिर्वाच्यः तथा च न सिद्धसाधन-मित्यर्थः ।। साधनादिति ।। सर्वज्ञत्वादिहेतुनेति शेषः ।। नाप्रसिद्धिरिति ।। घटादौ साध्यसिद्धेरिति भावः ।। नापीति ।। जीवप्रतियोगिकब्रह्मरूपधर्मिसत्तासमानसत्ताकभेदस्य मायिनोऽसिद्धत्वादित्यर्थः ।
अप्रसिद्धिपरिहारे व्यतिरेकिणि असाधारण्यमापद्यत इत्याशङ्क्य निराकरोति– न चोभयत्रापीति ।। केचिदित्युक्तानुमानद्वयेऽपि साध्यवति घटादौ सर्वज्ञत्वादिहेतोरभावादिति भावः ।। तस्येति ।। अनुकूलतर्कादि विशेषादर्शनदशायामेव संशयाधायकत्वेन तस्य दोषत्वात्प्रकृते चानुकूलतर्काणां वक्ष्यमाणत्वेनागृह्यमाणविशेषत्वाभावान्न तस्य दोषत्वमित्यर्थः । जीवप्रतियोगिकव्यावहारिकाभेदाभाव-मादाय सिद्धसाधनवारणाय ‘तात्विके’त्युक्तम् । जीवप्रतियोगिकतात्विकाभेदाभावरूपसाध्यस्य घटादौ प्रसिद्धत्वान्नाप्रसिद्धिरित्याह– परपक्षेऽपीति ।। नेदं निरात्मकमित्यादिरूपेणाभावः एवं केवल-व्यतिरेकिणा साध्यते । अभावाभावश्च भाव एवेति सुशको व्याप्तिग्रह इति कश्चिदिति टीकाकारै-रुक्तत्वादिहापि भेदो नामान्योन्याभावः । तथा चेश्वरो जीवप्रतियोगिकान्योन्याभाववान् सर्वज्ञत्वादिति साध्यते । तथा च जीवप्रतियोगिकान्योन्याभावप्रतियोगितावच्छेदकीभूतं जीवतादात्म्यमेव जीवत्वमिति यावत् । तच्च जीव एव प्रसिद्धमिति नाप्रसिद्धिरित्याह– अपरे त्विति ।। सा हीति ।। विशेषणभूतसाध्यस्याप्रसिद्ध त्वात्तन्निरूपितव्याप्तेर्ग्रहीतुम् अशक्यत्वाद्व्याप्तिविघटकत्वेनैव दोषः । प्रकृते चाभावाभावस्य भावत्वात्तस्य जीव एव प्रसिद्धत्वेन सुशको व्याप्तिप्रह इति भावः ।
नन्वप्रसिद्धेर्व्याप्तिविघटकत्वेनैव दोषता कुतः । विशेषणाप्रसिद्धौ तत्कोटिकसंशयायोगेन सन्देहघटितपक्षताया अयोगाद्धेतोः पक्षधर्मताया असम्भवेन पक्षधर्मताविघटकत्वेन दोषत्वं कुतो न स्यात् । विशेषणस्याप्रसिद्धत्वेऽपि पक्षतोपपादनोपायस्तु नास्तीत्यत आह– पक्षता त्विति ।। अस्तु वा सन्देहघटिता पक्षता । सापि प्रकृते विशेषणस्याप्रसिद्धत्वेऽपि सम्भवत्येव । कथमिति चेत् उच्यते– यथा शब्दोऽभिधेय इत्यत्राभिधेयभेदस्याप्रसिद्धत्वेन शब्दोऽभिधेयो न वेति सन्देहा-सम्भवेऽपि अभिधेयत्वं शब्दवृत्ति न वेति सन्देहायोगेऽपि जीवब्रह्मणोर्भेदे तात्विकत्वमस्ति न वेत्येवंरूपेण सन्देहः सम्भत्येवेति व्याप्तिग्रहाभावघटकत्वेनैव दोषत्वं तस्या वाच्यमित्याह– सापेक्षत्वेऽपीति ।। प्रकृते च व्याप्तिग्रहः सम्भवति अभावाभावस्य भावत्वादित्याह– व्यतिरेकिणि चेति ।। जीवप्रतियोगिकान्योन्याभावाभाव रूपसाध्याभावस्य व्याप्तिः । व्याप्तिस्तन्निष्ठेत्यर्थः । जीवाभेदो जीवतादात्म्यं जीवत्वमिति यावत् । नन्वेवं व्यतिरेकिण्यभावस्यैव साध्यस्य सुखेन कर्तुं शक्यत्वेनाभावाभावो भाव एवेति सुखेन व्याप्तिग्रहसम्भवाद्व्यतिरेकिण्यप्रसिद्धिर्दोष एव न स्यात्ततश्च तत्प्रवादविरोध इत्यत आह– यत्र त्विति ।। भावः सात्मकत्वादिरूपः । ब्रह्म जीवाद्भिन्नमित्यत्र भेदविषयानुमितेर्भ्रमत्वोपपत्त्या सिद्धसाधनमिति विवक्षितमुतैतदनुमितिविषयस्वार्थस्य भेदस्य मिथ्यात्वादिति । नाद्य इत्याह– भेदरूपार्थ इति ।। अर्थपदोपरि सल्लिङ्गपरामर्शजन्याया भेदरूपार्थाव-गाह्यनुमितेः प्रमात्वादित्यर्थः । न द्वितीय इत्याह– एतदिति ।। सल्लिङ्गपरामर्शजन्यैतदनुमिति-विषयतयेत्यर्थः ।।
एषा शङ्कापिशाचिका अस्माभिः जीवाद्भिन्नमित्यत्र तात्विकत्वविशेषणे दत्तेऽपि न परिहरणीये-त्याह– तात्विकत्वेति ।। तात्विकत्वेन रूपेण कल्पितभेदमादायापि सिद्धसाधनं स्यादेवेत्यर्थः । इदमपि ममेष्टमिति न सन्तोष्टव्यम् । जीवाः परमात्मनस्तत्वतो न भिद्यन्त इत्यत्रापि तात्विकत्वेन कल्पिताभेदमादायापि सिद्धसाधनं स्यादित्यत्र तात्पर्यम् । ‘कल्पिताभेदेन’ इति पाठे तु न कोऽपि दोषः । तत्र तात्विकत्वविशेषणेऽपीत्यस्य तात्विकत्वविशेषण युक्तत्वदीयानुमानेऽपीत्यर्थो द्रष्टव्यः । नन्वत्रानुमानद्वयेऽपि जीवेश्वरयोः पक्षत्वेन तयोश्च विशिष्टत्वेन मिथ्यात्वात् स्वसमानसत्ताकपरस्पर-प्रतियोगिकमिथ्याभूतभेदवत्त्वं तयोरस्त्येवेति सिद्धसाधनमिति चेत्तत्राह– अत्र चेति ।। ‘त्वन्मते’ इत्यत्र ‘तत्त्वंपदाभ्याम्’ इत्यत्र च जीवपरमात्मशब्दाभ्यां ये विवक्षिते संसाराधारानाधारचैतन्ये ते अत्र उक्तानुमानद्वये जीवब्रह्मशब्देन विवक्षिते ते च चैतन्ये सत्ये इति योज्यम् ।
ननु ब्रह्मणो निर्धर्मकत्वेन धर्मवत्त्वरूपधर्मित्वाभावात् यद्वेत्युक्तब्रह्मपक्षकानुमाने बाध इत्याशङ्क्य निराकरोति– न चेति ।। व्याघातादिति ।। धर्मित्वाभावं प्रति धर्मित्वे धर्मित्वाभावरूपधर्मस्यैव प्राप्त्या धर्मित्वाभावोक्तिव्याघातः । धर्मित्वाभावं प्रति धर्मित्वानङ्गीकारे धर्मित्वाभावो नास्तीत्युक्तं स्यात् । ततश्च धर्मित्वस्यैव प्राप्त्या धर्मित्वाभावोक्तिव्याघात इत्यर्थः । इह अनुमाने ।। आश्रयमात्रस्येति ।। न तु धर्मवत्त्वरूपं धर्मित्वमित्यर्थः । ननु पुनः सिद्धसाधनता । तथा हि जीवप्रतियोगिकः धर्मिभूतं यच्छुक्तिरूप्यं तस्यापि मिथ्यात्वं प्रति धर्मित्वात् तत्समानसत्ताकः प्रातिभासिको भेदस्तद्वत्त्वमादायापि साध्यपर्यवसानसम्भवादित्यत आह– धर्मिशब्दस्येति ।। ब्रह्म धर्मिसमसत्ताकेत्युक्ते धर्मिशब्देन समभिव्याहृतं ब्रह्मैवायास्यति न तु यत्किञ्चिच्छुक्तिरूप्यादीत्यर्थः । तत्र दृष्टान्तमाह– न हीति ।। स्वसुतमातेत्यस्यार्थो भार्येति किन्तु स्वमातैव पूज्येत्यायाति मातृशब्दस्य सम्बन्धिशब्दत्वादित्यर्थः ।। स्वपदं वेति ।। तस्य स्पष्टं समभिव्याहृतपरत्वादित्यर्थः । नन्वथापि ब्रह्मसत्तेत्ययुक्तं ब्रह्मणि सत्ताजातेरभावादित्यतो ब्रह्मणि सत्वं नाम सत्ताजातिरूपं ममापि न विवक्षितं किं नाम तव यद्विवक्षितं बाधाभावादिरूपं तदेवेह ममापि विवक्षितमित्याह– सत्तेति ।।
ननु पुनः स्वशब्दोक्तशुक्तिज्ञानाबाध्यभेदवत्त्वादेर्ब्रह्मणि सत्वात्सिद्धसाधनता स्यादित्यत आह– स्वशब्दस्येति अन्यथेति ।। स्वशब्दस्य समभिव्याहृतपरत्वानङ्गीकारे ।। स्वेति ।। तत्रापि स्वशब्देन पक्षीभूतप्रमाणज्ञानेतर घटादिपदार्थसम्भवेन विवक्षितार्थासिद्धिः स्यादित्यर्थः ।। आद्य इति ।। ब्रह्म जीवप्रतियोगिकपारमार्थिकभेदवदित्येवं धर्मिसत्तासमानसत्ताकेतिपदस्थाने पारमार्थिकपदस्य प्रक्षेपेण साध्यकरणे दृष्टान्ते घटे जीवप्रतियोगिकपारमार्थिक भेदाभावात्साध्यवैकल्यमित्यर्थः । घटेऽपि जीवप्रतियोगिकपारमार्थिकभेदं सामान्यतः साधयति– घट इति ।। स्वज्ञानेति ।। प्रतियोगिभूतजीव-ज्ञानाबाध्येत्यर्थः । भेदस्य जीवज्ञानाबाध्यत्वे जीवस्यैव ब्रह्मत्वेन तज्ज्ञानाबाध्यत्व रूपपारमार्थिकत्व-सिद्धिरिति द्रष्टव्यम् ।। जीवधर्मिकेति ।। ‘घटो जीवप्रतियोगिकभेदवान् जीवस्य घटाभेदरहितत्वात्’ इत्यनुमानं विवक्षितम् । तत्र वैयधिकरण्यपरिहाराय जीवधर्मिकेत्यादि । अभेदरहितत्वादित्येवोक्ते वस्तुतः पटाभिन्नेऽपि पटे प्रातिभासिकाभेदरहिते भेदवत्त्वरूपसाध्यशून्ये व्यभिचारवारणायाबाध्येत्युक्तम् । तत्र चाबाध्याभेदस्यैव सत्वेन तद्राहित्याभावान्न व्यभिचारः । स्तम्भज्ञानाबाध्यो यः पटपाषाणाभेद-स्तद्राहित्यं पुनः पटेऽस्तीति व्यभिचारवारणाय जीवधर्मिकेत्यादि । धर्मिज्ञानेत्यत्र धर्मिशब्दः समभिव्याहृतजीवपरः ।
यथेति ।। दूरस्थवनस्पत्योर्मध्ये एको वनस्पतिर्दृष्टान्त इत्यर्थः । चूतः पनसज्ञानाबाध्यपनस-धर्मिकाभेदरहितत्वात् पनसज्ञानाबाध्यपनसप्रतियोगिकभेदवानित्यवधेयम् । पनसस्य चूतभिन्नत्वाच्चूतोऽपि पनसभिन्न इत्येतावतोऽर्थस्य विवक्षितत्वाद् अस्य च वनस्पतिद्वयम् अगृहीत्वा तन्मध्ये एकस्य ग्रहणेऽसम्भवाद्वनस्पत्योरेक इत्युक्तम् । दूरस्थेति स्वरूपकथनमित्याहुः । ननु घटे जीवाभेदाभावरूप-साध्यस्य भवन्मते सत्वेऽपि मन्मतेऽभावात्साध्यवैकल्यशङ्का स्यादेवेत्यत आह– त्वन्मतेऽपीति ।। बन्धस्वरूपनिर्वचनाय स्वत इत्याद्युक्तम् । एतादृशबन्धस्यान्तःकरणगतत्वे बन्धमोक्षयोर्वैयधिकरण्यं स्यादिति भावः ।। अवश्यमिति ।। तथा च न व्यभिचार इति भावः । बन्धमोक्षयोः सामानाधि-करण्यायाऽनर्थो जीवेऽङ्गीकार्यः । तथा च यादृशदुःखानुभवितृत्वं तव जीवेऽभिमतं तदभाव एव मया हेतूक्रियत इति न दोष इत्याह– त्वन्मतेपीति ।। अनुभवितृत्वम् अनुभवकृतोच्चनीचत्वादि-रूपम् । क्षुद्रोपद्रवो जीवेऽनैकान्त्यरूपः ।। असिद्धिरिति ।। जीवगतसंसारेण तदभिन्नब्रह्मणोऽपि संसारित्वादित्यर्थः ।। जीव इति ।। असिद्धिपरिहाराय ब्रह्मणोऽसंसारित्वाङ्गीकारे जीवे व्यभिचारः स्यात् । ब्रह्माभिन्नत्वेन जीवस्याप्यसंसारित्वात् । तत्र च जीवप्रतियोगिकभेदाभावादित्यर्थः ।।
औपाधिकेति ।। यथा दर्पणाद्युपाधिकृतं श्यामत्वं मालिन्यमिति यावत् प्रतिबिम्ब एवास्ति न त्ववदाते बिम्ब इत्यङ्गीकृतम् एवमिहाप्यन्तःकरणाद्युपाधिकृतं संसारित्वं प्रतिबिम्बे जीव एव न तु बिम्बभूत ईश्वर इत्यङ्गीकृतत्वेनासंसारित्वस्य ब्रह्मणि नासिद्धिर्न वा जीवेऽनैकान्त्यमित्यर्थः ।। इत्याद्यपि सुस्थमिति ।। ‘जीवेश्वरौ भिन्नौ विरुद्धधर्माधिकरणत्वाद् दहनतुहिनवत्’ इत्यत्र तात्त्विकभेदे साध्ये दृष्टान्ते साध्यवैकल्यात् । अतात्विके साध्ये सिद्ध साधनादिति पूर्वपक्षावसरे उक्तदूषणस्य धर्मिज्ञानाबाध्यपरस्परप्रतियोगिकभेदवन्ताविति साध्यकरणेनानवकाशात्तदप्यनु मानं सुस्थमित्यर्थः । विरुद्धधर्माधिकरणत्वहेतुं समर्थयते– विरोधश्चेत्यादिना ।। सर्वज्ञत्वाल्पज्ञत्वादेर्विरोधः कीदृशोऽभि-प्रेतः । किं तेजस्तिमिरवत्सहानवस्थानरूपो वा, मूषकमार्जारादिवद्वध्यघातुकभावरूपो वा, गोत्वाश्वत्व वत्परस्पराभावव्याप्यत्वरूपो वा, अभावाभावो भाव एवेति वचनाद्धटतदत्यन्ताभाववत्परस्पराभावत्वरूपो वा । नाद्य इत्याह– न सहानवस्थानमिति ।। असिद्धेरिति ।। जीवब्रह्मणोरद्वैतवादिना मया सर्वज्ञत्वाल्पज्ञत्वयोरेकस्मिन्नेव चैतन्ये सहावस्थानाङ्गीकारेण विरोधानङ्गीकारात् मां प्रति हेतुः स्वरूपासिद्ध इत्यर्थः । न द्वितीय इत्याह– नापीति ।। नाजात इति ।। इदं न्यायद्वयम् । लोके एकः स्वयम् अजातः अनुत्पन्नः सन् अन्यं न हन्ति कुलीरापत्यादेः स्वजन्मनैव स्वमात्रादि-हन्तृत्वदर्शनादित्यर्थः ।।
नापीति ।। योऽन्याधारः अन्यप्रदेशस्थः वध्यसमानाधिकरणो न भवति वध्यापेक्षया भिन्नाधि-करणस्थित इति यावत् सोऽप्यन्यं न हन्ति ।। एकस्यां समरभूमौ सङ्घटितानामेव भटानां मूषक-मार्जारादीनां च वध्यघातुकभाव दर्शनादित्यर्थः ।। तस्येति ।। एवं च सर्वज्ञत्वाल्पज्ञत्वयोर्वध्य-घातुकभावरूपविरोधम् अङ्गीकुर्वद्भिरवश्यं तयोरैकाधिकरण्यं वक्तव्यम् । एवं च सर्वज्ञत्वाल्पज्ञत्वयो-र्वध्यघातुकरूपयोराश्रयैक्यसापेक्षत्वेन स्वाधिकरणजीवब्रह्मभेदसाधकत्वाभावादिति सम्प्रदायः । नापि तृतीयचतुर्थावित्याह– नापीति ।। न परस्पराभावव्याप्यत्वं कालभेदेन नीलरूपं रक्तरूपं च प्रत्याश्रये घटे व्यभिचारात् । नापि परस्पराभावरूपत्वं कालभेदेन नीलरूपं तत्प्रागभावं च प्रत्याश्रये घटे व्यभिचारादिति यथाक्रमं सम्बन्धः ।
अयमर्थः । परस्परविरहव्याप्यत्वरूपविरोधवद्धर्माश्रयत्वेन न धर्मिभेदसाधनं युक्तम् । तथात्वे यदा नीलरूपं तदा रक्तरूपाभावः । यदा च रक्तरूपं तदा नीलरूपाभाव इति परस्परविरहव्याप्यत्व-रूपविरोधवन्नीलरूपरक्तरूपाख्यधर्मयोः कालभेदेनाधिकरणे घटे भेदाभावेन व्यभिचारात् । परस्परा-भावत्वरूपविरोधवद्धर्माश्रयत्वेन धर्मिभेदसाधने तु यद्यपि न पूर्वोक्तो व्यभिचारः सम्भवति नीलरूप-रक्तरूपयोः परस्पराभावरूपत्वाभावात् तथापि पुनर्घटे व्यभिचार एव । नीलरूपतत्प्रागभावयोस्ताव-त्परस्परविरहरूपत्वमस्ति । प्रतियोगिन एव प्रागभावविरहरूपत्वेन नीलरूपस्य स्वप्रागभाव विरह-रूपत्वात् नीलरूपप्रागभावोऽपि नीलरूपविरह एव । नीलरूपोत्पत्तेः पूर्वं विद्यमानस्य नीलरूपाभावस्य तत्प्रागभावरूपत्वात् । एवं च नीलरूपोत्पत्तेः पूर्वं प्रथमक्षणावच्छिन्ने घटे नीलरूपप्रागभावाश्रयत्व-मस्ति । द्वितीयादिक्षणेषु नीलरूपाश्रयत्वमस्ति । एवं च परस्परविरहरूपत्वरूपविरोधवन्नीलरूप-तत्प्रागभावरूपधर्मं प्रति कालभेदेनाधिकरणे भेदाभावेन व्यभिचारः स्यादिति सम्प्रदायः । ‘नीलरूपं रक्तरूपप्रागभावं च प्रत्याश्रये’ इति पाठे तु कालभेदेनेत्येतन्न संयोज्यम् । एकदैव घटे नीलरूपरक्त-रूपप्रागभावयोः सत्वादिति ध्येयम् । परस्परेति ।। नीलरूपरक्तरूपयोर्नीलरूपतत्प्रागभावयोर्वा परस्परात्यन्ताभावरूपत्वाभावान्न व्यभिचार इति भावः ।।
परस्परेति ।। नीलरूपरक्तरूपयोर्न परस्परात्यन्ताभावव्याप्यत्वं यत्र यदा नीलरूपं तत्र तदा रक्तरूपात्यन्ताभाव इति नास्ति उत्तरत्र घटे रक्तरूपस्य जायमानत्वेनात्यन्ताभावविरोधिनः प्रागभावस्य सत्वात् तथा यत्र यदा रक्तरूपं तत्र तदा नीलरूपात्यन्ताभाव इति नास्ति पूर्वं घटे जातस्य नीलरूपस्य ध्वस्तत्वेनात्यन्ताभावविरोधिनो ध्वंसस्य सत्वान्न व्यभिचारः । तथा नीलरूपतत्प्राग-भावयोरपि न परस्परात्यन्ताभावत्वरूपविरोधः । यत्र यदा नीलरूपप्रागभावः तत्र तदा नील-रूपात्यन्ताभाव इति नास्ति । प्रथमक्षणावच्छिन्न एव घटे नीलरूपात्यन्ताभावविरोधिनः प्रागभावस्यैव सत्वात् । तथा यत्र यदा नीलरूपं तत्र तदा नीलरूपप्रागभावात्यन्ताभावो नास्ति नीलरूप-प्रागभावप्रतियोगिकात्यन्ताभाव विरोधिनो नीलरूपप्रागभावध्वंसस्यैव सत्वादतो न व्यभिचार इत्यालोचनीयम् ।। कालभेदनापीति ।। तथा च कालभेदेन समानाधिकरणयोर्नीलरूपरक्तरूपयो-र्नीलरूपतत्प्रागभावयोर्वा न व्यभिचार इति भावः ।
ननु तथापि परस्परात्यन्ताभावरूपत्वेन परस्परात्यन्ताभावव्याप्यत्वेन वा विरुद्धयोः संयोगतदत्यन्ताभावरूप धर्मयोरधिकरणे वृक्षे भेदाभावेन व्यभिचार इत्याशङ्क्य हेतोरेवाभावान्न व्यभिचार इत्याह– संयोगेति ।। आवाभ्याम् अवयवावयविनोर्भेदाभेदाङ्गीकारेण भेदस्यापि सत्वादग्र-रूपवृक्षावयव एवास्ति संयोगः मूलरूपवृक्षावयव एवास्ति तदत्यन्ताभावः न तु तदवच्छिन्ने वृक्षे तदधिकरणत्वाभावान्न व्यभिचार इति भावः ।। असिद्धिरिति ।। एतादृशविरुद्ध धर्माधिकरणत्वस्या-प्रामाणिकत्वादिति भावः । नन्वथापि विरुद्धधर्माधिकरणत्वहेतोर्जीवेश्वरयोर्न तात्विकभेदप्रयोजकत्वं सिध्यति । सार्वज्ञादिविरुद्धधर्मव्यवस्थायाः कल्पितत्वेन कल्पितायास्तस्याः कल्पितभेदेनैवोपपत्तेः । यथा हि– एकस्मिन्ककारे वास्तवभेदाभावेऽपि कल्पितभेदमादाय दीर्घत्वादिकाल्पनिकी व्यवस्थाऽङ्गी-क्रियते नैतद्व्यवस्थानु सारेणैकस्मिन्वर्णे तात्विको भेदः सिध्यति । एवं प्रकृतेऽपीत्यप्रयोजकतेत्याशङ्क्य निराकरोति– न चेति ।। नेयं व्यवस्था कल्पितेत्याह– सगुणवादोक्तेति ।।
‘उपक्रमादिन्यायेन श्रुतिलिङ्गनयात्तथा ।
विशेषसामान्यनयान्न्यायान्निरवकाशतः ।। १ ।।
बह्वल्पन्यायतश्चोपजीव्यत्वन्यायतस्तथा ।
पशुच्छागनयाच्चैव सविशेषनयात्तथा ।। २ ।।
उपांशुयाजन्यायेन युक्तायुक्तनयात्तथा ।
आदृतत्वात्सूत्रकृता प्रबला सगुणश्रुतिः ।। ३ ।।
इत्युक्तन्यायेन ‘यः सर्वज्ञ’ इत्यादिश्रुत्युक्तसार्वज्ञादेर्ब्रह्मणि सत्यत्वादित्यन्वयः ।। प्रत्यक्षेति ।। ‘स्वतः प्रमात्वं प्रत्यक्षे लिङ्गाद्यैश्चोपजीविभिः ।। स्वविरोधान्मृत्यवस्थामापन्नैर्नैव बाध्यते’ इत्युक्त-न्यायैरित्यर्थः । व्यावहारिकभेदेन सिद्धसाधनत्वपरिहाराय ‘स्वज्ञानाबाध्य’ इति विशेषणम् । एवमुत्त-रत्राप्येतादृशविशेषणकृत्यं द्रष्टव्यम् । ननु जीवे जीवप्रतियोगिकभेदाभावाद्व्यभिचार इत्यत आह– जीवस्यापीति ।। चेतनत्वमिति ।। अनेनानुमानेन जीवत्वावच्छिन्न सर्वजीवप्रतियोगिकभेदवान् कश्चिच्चेतनः सिध्यति । तथा चेश्वरे जीवभेदसिद्धिरिति ध्येयम् । अत्र चेतनत्वं जीव प्रतियोगिक-भेदवद्वृत्तीत्युक्ते सिद्धसाधनता । चैत्रप्रतियोगिकभेदवन्मैत्रवृत्तित्वादतो जीवत्वावच्छिन्न प्रतियोगिता-केत्युक्तम् । यस्मिन्भेदे जीवत्वं प्रतियोगितावच्छेदकमित्यर्थः । चैत्रप्रतियोगिकभेदे तु न जीवत्वं प्रतियोगितावच्छेदकं प्रति योगितानधिकरणे मैत्रेऽपि सत्वेनाधिकवृत्तित्वात् किन्तु चैत्रत्वमेवेति नोक्तदोष इति भावः ।।
शब्दार्थत्ववदिति ।। शब्दप्रतिपाद्यत्वरूपकेवलान्वयिधर्मवदित्यर्थः । ब्रह्मणि मायिना वाच्यत्वा-परपर्यायाभिधेयत्वानङ्गीकारेण तत्र साधनवैकल्यपरिहाराय मायिमतेपि लक्ष्यभूतब्रह्मसाधारण्यायाभि-धेयत्ववदित्यनुक्त्वा शब्दार्थत्ववदित्युक्तमिति द्रष्टव्यम् । तत्र जीवत्वावच्छिन्नप्रतियोगिताक भेदवज्जड-वृत्तित्वेन दृष्टान्ते साध्यपर्यवसानम् । पक्षेऽप्येवं साध्यपर्यवसाने जडजीवभेदस्यैव सिद्ध्या नेश्वर-जीवभेदसिद्धिरित्यर्थान्तरं तु बाधादिना नेति ध्येयम् । अप्रयोजकतां परिहरति– विपक्ष इति ।। जीवेश्वरभेदानङ्गीकार इत्यर्थः ।। अप्रमेय इति ।। भेदानुमानं भवद्भिरप्रमेयेऽप्रमेयवस्तुविषये कथ्यते प्रमेये वा । नाद्यः । अप्रमेयं मन्मते ब्रह्मैव । तत्र च प्रमाणमात्रप्रवृत्तेरभावेन तत्र भेदानुमान-प्रवृत्त्ययोगात् । न द्वितीयः । प्रमेयस्य दृश्यस्य मयानात्मत्वाङ्गीकाराज्जडत्वाङ्गीकारात्तद्विषये भेदानुमानं मयेष्यत एव । जडेषु व्यावहारिकभेदाङ्गीकारेण सिद्धसाधनतापत्तेरित्यर्थः । एतेनेत्युक्तं विशदयति– त्वन्मत इति ।। ब्रह्मण्येवानुमानप्रवृत्तिरङ्गीक्रियते । न च तस्याप्रमेयत्वान्न तत्रानुमानप्रवृत्तिरिति वाच्यम् । त्वन्मतेऽप्यात्मनः शब्दलिङ्गादिजन्यवृत्तिव्याप्यत्वाङ्गीकारेणाप्रमेयत्वाभावादित्यर्थः । अप्रमेयस्य ‘जीवाः परमात्मनस्तत्वतो न भिद्यन्ते’ इत्यभेदानुमानस्य । प्रमेयस्य दृश्यस्य । अनात्मत्वात् जडत्वात् । प्रमेयेऽभेदानुमानप्रवृत्तिश्चेत् त्वन्मते जडस्यैव प्रमेयत्वात् । तदैक्यानुमितिः जडैक्यानुमितिः । कथं बाधादित्यर्थः ।। इति जीवब्रह्मणोऽर्भेदेऽनुमानानां विवरणम् ।। १८ ।।
न्यायकल्पलता
श्रुतिप्रत्यक्षानुगृहीतं प्रमाणमाह– ईश्वर इति ।। तात्विकत्वगर्भसाध्यस्याप्रसिद्धिं परिहरति– न चाप्रसिद्धेति ।। जीवब्रह्माभेद इति ।। एतच्चोपलक्षणम् । जीवब्रह्मणोरतात्विकभेदेऽपीति द्रष्टव्यम् ।। तद्विपर्ययस्येति ।। अतात्विकभेदविपर्ययस्य ।। अष्टद्रव्येति ।। यथा हीच्छाया अष्टद्रव्याश्रितत्वे बाधकाद् अष्टद्रव्यातिरिक्तं द्रव्यम् अप्रसिद्धमपि सिध्यति तथाऽभेदेऽतात्विकभेदे च बाधकात्तात्विक-भेदोऽप्रसिद्ध एव सिध्यति ।। प्रतीयोगिज्ञानाबाध्येति ।। प्रतियोगिज्ञानबाध्यत्वसामान्यरहितेत्यर्थः । तेन यत्किञ्चिदभावप्रतियोगिघटादिज्ञानाबाध्यभेदप्रतियोगित्वेन आत्म ज्ञानाबाध्यभेदासिद्धिरिति परास्तम् ।। निरसिष्यत इति ।। निर्दुष्टानुमितिविषयत्वेन प्रामाणिकतया सिध्यतो भेदस्य मिथ्यात्वायोगादिति वक्ष्यते ।। नापीति ।। ब्रह्मसमसत्त्वभेदस्यैतदनुमानात्पूर्वम् असिद्धेः ।। उभयत्रेति ।। जीवभेदस्य घटसमसत्त्वभेदस्य च घटे सत्त्वेऽपि तत्र हेत्ववृत्तेरसाधारण्यम् ।। अपरे त्वित्यादि ।। ननु सार्वज्ञाभाव रूपव्यापकव्यतिरेकेण सार्वज्ञेन व्याप्यस्यैक्यस्य व्यतिरेको भेदः पक्षे सिध्यतु । तस्य तात्विकत्वं तु कुतः । मैवम् । व्यापकव्यतिरेकेण व्याप्यव्यतिरेकस्य साध्यमानत्वात् । मिथ्याभेदस्यैक्यव्यतिरेकत्वाभावात् । शुक्तौ शुक्त्यैक्ये सत्यपि मिथ्याशुक्तिभेदस्य सत्त्वात् ।। दुःखा(न)नुभवितृत्वादिति ।। ननु सर्वानुभवितरि हेतोरसिद्धिः । स्वनिष्ठेति विशेषणे जीवे व्यभिचारः । दुःखस्यान्तःकरणधर्मत्वात् । मैवम् । दुःखकृतविक्रियाया नीचतालक्षणाया दुःखानु-भवितृत्वार्थकत्वात् । निरसिष्यमाणत्वाच्च । वस्तुतस्तु दुःखस्यान्तःकरणोपादानकत्वेऽपि साक्षिण एव तदनुभवितृत्वान्न जीवे व्यभिचार इत्यवधेयम् ।
कल्पितमिथ्यात्वादिनेति ।। ननु मिथ्यात्वं प्रति हेतोर्दृश्यत्वादेः स्वसमसत्ताकसाध्यसाधकतया प्रातिभासिकत्व रूपकल्पितमिथ्यात्वासिद्धिः किन्तु व्यावहारिकं मिथ्यात्वं सिध्यति । मैवम् । जीवब्रह्मभेदस्य व्यावहारिकत्वेन तदैक्यस्य तात्विकत्ववन्मिथ्यात्वस्य जगति व्यावहारिकत्वेन तत्सत्यत्वस्य तात्विकत्वापातात् । ननु जीवब्रह्मशब्दाभ्यामुपहितचैतन्यस्य पक्षत्वे तत्र धर्मिसम-सत्त्वभेदसाधनेऽपि न भेदस्य तात्विकत्वसिद्धिरित्यत आह– अत्र चेति ।। शोधिततत्त्वंपदार्थयो-र्ब्रह्मजीवपदाभ्याम् अभिधानात्तात्विकभेदसिद्धिः । ननु शोधिते तत्र धर्मित्वाभावाद्बाध इत्याशङ्क्य निराकरोति– न चेति ।। व्याघातादिति ।। न च सर्वनिषेधस्य ब्रह्मस्वरूपत्वेन न व्याघातः । सर्वनिषेधश्रुतेर्ब्रह्मस्वरूपमात्रपरत्वपर्यवसानेन तया भेदविरोधिसर्वनिषेधासिद्धेः ।। सम्बन्धिशब्द-त्वादिति ।। यत्त्वनुमाने शब्दस्वभावोपन्यासो न युक्तः इति । तन्न । परार्थानुमाने शब्दस्वभाव-प्रयोजकताया उक्तत्वात् ।। नाजात एकोऽन्यं हन्तीति ।। वृश्चिकादीनां जन्मना स्वमात्रादिहन्तृत्वं, वीरभटानां त्वैकस्यां समरभूमौ घटितानां हन्तृत्वमिति लोके दृष्टत्वात् । परस्परहन्तृधर्माश्रयत्वं जीवब्रह्मणोर्भेदासाधकमित्यर्थः । समाधत्ते– तथापीति ।। एतेनेत्युक्तमेव हेतुं विशदयति– त्वन्मतेऽपीति ।। विपक्षे बाधकमाह– अन्यथेति ।।
।। इति जीवब्रह्मणोर्भेदेऽनुमानानि ।। १८ ।।
।। द्वितीयपरिच्छेदस्य अवशिष्टः भागः अग्रिमसम्पुटे अनुवर्तते ।।