द्वैतद्युमणिः
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वोद्योत:
श्रीजयतीर्थभिक्षुविरचितया टीकया
श्रीहुलगि श्रीनाथाचार्यविरचितद्वैतद्युमणिनामिकया टिप्पण्या च समलङ्कृतः
प्रथमसम्पुटस्य प्रथमो भागः
मङ्गलाचरणम्
श्रीमज्जयतीर्थटीका
विश्वोत्पत्तिस्थितिध्वंसकारणं रमणं श्रियः ।
अभिवन्द्य यथाबोधं तत्त्वोद्योतं विवृण्महे ।।
द्वैतद्युमणिः
श्रीमन्तं जगदुदयस्थितिप्रणाशान् कुर्वन्तं गुणगणपूर्णमीशितारम् ।
मुक्तानामपि सकलैरवद्यगन्धैरस्पृष्टं हरिमनिशं नमामि भक्त्या।। १ ।।
श्रीमदानन्दतीर्थार्यान् जयराजमुनीनपि ।
तद्गुरून्मद्गुरूंश्चापि प्रणमाम्यहमञ्जसा।। २ ।।
माध्वागमार्थविशदीकरणप्रवीणो दुर्वादिगर्वगिरिवज्रवचोविनोदी ।
श्रीसत्यधर्मगुरुराण्मयि सुप्रसन्नो भूयाद्धयास्यवरतः सकलार्थवेदी।। ३ ।।
रघुपतिपदपाथोजातगन्धाभिनन्दी निखिलनिगमचर्चासद्विलासैकशौण्डः ।
जयति यमिकुलेशः सत्यसङ्कल्पनामा गुरुरखिलबुधानां भक्तिवैराग्यरागः।। ४ ।।
दुर्वादिव्रातमाद्यत्करिवरदमनोद्दामपञ्चास्यलीला-
मातन्वन् मोदतीर्थागमगहनपयोराशिमन्थाचलश्रीः ।
विख्यातः कण्ठपल्लीस्थलवरवसतिः श्रीरघूत्तंसनामा
दद्याद्वागर्थबोधं मम परमगुरुर्ग्रन्थमेनं विधातुम्।। ५ ।।
श्रीमद्वेदान्तशास्त्रप्रवचनमहिमत्रस्तषट्शत्रुमुख्य-
स्तातः श्रीवासुदेवाभिधगुरुतिलकः सर्वविघ्नान्निरस्य ।
ग्रन्थस्यैतस्य पारं कलयतु कमलानाथपादावलम्बी
यस्मान्माध्वागमार्थानमलमपि मनुं प्राप्तवानस्मि हृष्टात्।। ६ ।।
अस्माद्गुरुहृदब्जस्थरमाप्राणेशतुष्टये ।
तत्त्वोद्योतस्य टीकाया विवृतिं करवाण्यहम् ।। ७ ।।
तत्त्वोद्योतस्य टीकाया विकासो मत्कृतेः फलम् ।
माय्युक्तदूषणाभासनिरासोऽर्थत इप्यते ।। ८ ।।
क्व टीकाकृद्वाग्विलासः क्व चाहं जडधीपतिः ।
तथापि तत्कृपालेशो न कुर्यात्किमलौकिकम् ।। ९ ।।
निर्विघ्नपरिसमाप्त्याद्यर्थं ग्रन्थादावनुष्ठेयत्वेन शिष्टाचारपरम्परया अवगतं मङ्गलं ग्रन्थादा-वनुष्ठाय शिष्यान् ग्रहयितुं निबध्नन् स्वचिकीर्षितं प्रतिजानीते ।। विश्वेति ।। उत्तमपुरुष-प्रयोगाद्वयमिति कर्ता लभ्यते । अतो न न्यूनता । सकलवाङ्मनसदेवतायाः श्रियो नमनस्या-प्यावश्यकत्वात् भगवद्विशेषणतया तन्नमनस्य च
विष्णुना सहिता ध्याता सापि तुष्टिं परां प्रजेत्
इत्यादिमानैस्तदत्यन्तप्रीतिहेतुतया श्रियो रमणमित्युक्तम् । लक्ष्मीपतित्त्वोक्त्या तदभि-मन्यमानजडप्रकृत्यादिनियामकत्वप्राप्त्या प्रकृतिबन्धाऽदिप्रयुक्तदोषराहित्यं ध्वनितम् । विश्वो-त्पत्यादिकारणत्वं तु गुणपूर्णत्वोपपादनद्वारा नम्यताप्रयोजकविशिष्टत्वस्योपपादनाय । जगद्व्यापारवर्जमित्यादिना जगद्विषयकव्यापाररहितत्वेन प्रमितमुक्तव्यावर्तकमधर्मप्रतिपादन-द्वारा प्रकृतग्रन्थप्रतिपाद्यस्य मुक्तभेदस्येश्चरे प्रतिपादनायेति टिप्पण्यां प्राहुः । अभीत्यनेन वन्दनस्य भक्त्याद्यतिशयसाहित्यं समाप्त्यादिप्रयोजकतावच्छेदकमाह । बोधपदस्य मुख्यार्थ-कत्वेन संप्रदायसिद्धयथार्थज्ञानस्य लाभेन यथापदेन अनतिक्रमार्थकेन तदनुसारित्वस्यैव प्राप्त्या ग्रन्थस्य स्वोत्प्रेक्षादिमूलकत्वप्रयुक्तानुपादेयत्वव्यवच्छेदः । तत्त्वस्य मुख्यस्वतन्त्र-तत्त्वात्मकनारायणस्य उत्कृष्टद्योतः मुक्तामुक्तसकलनियन्तृत्वादिना ज्ञानं यस्मादिति व्युत्पत्त्या ग्रन्थस्य तत्साधनत्वलाभः ।