अविषयत्वादेव तस्य..

आत्मज्ञानस्य निर्विषयत्त्वे ज्ञानत्वाभावाऽपादनम्

श्रीमज्जयतीर्थटीका

ननु घटादिज्ञानं घटादिविषयेण ग्रस्तुं कथमात्माज्ञानं निवर्तयेदिति चेत्तत्किं इदानीं वेदान्तवाक्यजनितविज्ञानं निर्विषयमेव । बाढमिति चेत्तत्राह–

मूलं

अविषयत्वादेव तस्य ज्ञानत्वञ्च न स्याद्घटवत्

न विद्यते विषयो यस्य तदविषयम् ।

द्वैतद्युमणि:

।। किमिति ।। शुद्धब्रह्मस्वरूपस्याविषयत्वं तु स्वयमङ्गीकृतम् । तदन्यस्यापि तत्र विषयत्वानङ्गीकारे निर्विषयत्वमेव पर्यवस्यतीति भावः ।