पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे ..
नासदासीदित्यागमस्य परिशेषतया सदसद्वैलक्षण्यपरत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
माभूदिदं वाक्यमनिर्वचनीयाविद्यायामागमतया प्रमाणम् । परिशेषतया तु भविष्यति । तथा हि । तम आसीदिति महाप्रलये तमसोऽविद्यापरपर्यायस्यावस्थान-मभिहितम् । तस्य च प्रसक्तानां सत्त्वादिप्रकाराणां नासदासीदित्यादिना सदसदभावाभि-धानेन प्रतिषेधे सत्यन्यत्राप्रसङ्गात्परिशिष्यमाणे तमसोऽनिर्वचनीयत्वे बुद्धिर्भविष्यतीत्या-शङ्क्यास्य वाक्यस्यार्थान्तरं विवक्षुस्तत्सिद्धये पराभिमतार्थेऽनिष्टप्रसङ्गं तावदाह
मूलं
पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे ‘आनीदवातं स्वधया तदेकम्’
इति तदानीं परिशिष्टत्वाद्ब्रह्मण एवानिर्वचनीयत्वं स्यात्
यद्यस्य वाक्यस्योक्तविधया परिशेषप्रमाणत्वेन तमसोऽनिर्वचनीयत्वमङ्गीक्रियते तदा परमार्थतयाऽङ्गीकृतस्यैव ब्रह्मणोप्यनिर्वचनीयत्वं स्यात् । तस्यापि तमोवत् ‘आनीद-वातम्’ इतिवाक्येन तदानीं प्रलये परिशिष्टत्वावगमात् । उभयोरपि परिशिष्टत्वेनावगत-योरन्यतरस्मिन्नेव परिशेषेणानिर्वचनीयत्वापाते नियामकाभावात् । ब्रह्मणः पारमार्थिकत्वे प्रमाणमस्तीति चेन्न । तमसोऽपि तस्य वक्ष्यमाणत्वात् । अतो नैतद्वाक्यं प्रसिद्धसद-सत्प्रतिषेधपरमिति । तदेकं सर्वोत्तमं ब्रह्म अवातं वातप्रेरणया विनैव स्वधया सुखेनैव न तु सुखप्राप्त्याद्यर्थं आनीदचेष्टतेति श्रुत्यर्थः। ननु महाप्रलये ब्रह्मणोऽवस्थानं परस्य सम्मतमेव । तत्किं तत्समर्थनाय ‘आनीदवातम्’ इति वाक्यमुपादीयते । मैवं । यदीदमनुदाहृत्याति-प्रसङ्गोऽभिधीयेत तदैतद्वाक्यप्रकृतस्यैव सन्निहितत्वादनेन सत्त्वादिप्रतिषेधस्य क्रियमाणत्वा-न्नातिप्रसङ्ग इति परः परिहर्तुमुत्सहेतापि । तन्निरासायैतत्प्रकरणगतवाक्येनैव ब्रह्मणोऽव-स्थानमुपपादनीयम् ।
द्वैतद्युमणि:
।। परिशेषप्रमाणत्वेनेति ।। परिशेषप्रमाणोत्थापकत्वेनेत्यर्थः । निमित्ते तृतीया अङ्गीकारेऽन्वेति । तथा च मूले परिशेषपदं परिशेषोत्थापकपरम् । तस्माद्भावे ष्यञित्युक्तं भवति । तमस इति शेषोक्तिः ।। ब्रह्मणोऽपीति ।। अनेन एवकारोऽप्यर्थ इत्यक्तं भवति । वाक्यस्य वस्तुतः परिशिष्टत्वकारणत्वायोगादितिपदोत्तरमध्याह्रियमाणतृतीयान्तश्रुतिपदोत्तर-तृतीयाया ज्ञाप्यत्वरूपहेतुत्वार्थकत्वमङ्गीकृत्य लब्धमर्थमाह ।। परिशिष्टत्वावगमादिति ।। नियामकाभावात् ।। ब्रह्मव्यावृत्तहेत्वभावात् । ब्रह्मण्यनिर्वचनीयत्वाभावे सदसदभावाधि-करणकाले सत्त्वरूपहेतोस्तत्रैव व्यभिचारित्वप्राप्तेरिति भावः । पारमार्थिकत्वेन १प्रमाण-प्रमितत्वमपि हेतुविशेषणम् । तथा च न व्यभिचार इत्याशयेन शङ्कते ।। ब्रह्मण इति ।।
ननु च ब्रह्मणो निर्धर्मकत्वेन भावत्वानधिकरणत्वात्तच्छून्यकाले ब्रह्मसत्त्वमङ्गीकृत्य व्यभिचारवारणाय विशेषणदानशङ्गासम्भवेऽपि सदसद्वैलक्षण्यपक्षे कथमियमाशङ्का । ब्रह्मणः सत्त्वेन सदभावकाले तस्य सत्त्वमभ्युपगम्य व्यभिचारवारणाय विशेषणदानायोगात् । न च भावाभावविलक्षणत्वकल्प एवेयमाशङ्केति वाच्यम् । पूर्वकल्पे ब्रह्मणोऽनिर्वचनीययत्व-परिहारस्यास्फुटस्यानाशङ्कितत्वेन न्यूनतापातात् । मैवम् । सत्त्वरूपधर्मोपहितस्य प्रलये अभाव एव वर्तत एव । तदा सद्रूपब्रह्मसत्त्वेऽपि सत्त्वोपहिततासम्पादकभेदकल्पकस्य जीवस्य तदानीं शरीरेन्द्रियादिविकलत्वेन सत्त्वोपहितस्य तदानीमसत्त्वात् । सन्नास्तीत्यनेनापि तथैव बोधोदयात् । अत एव माधवेन ‘सत् सत्त्वेनानिर्वाच्यं नासीत्’ इत्युक्तम् । आनीदवातमिति वाक्येन ब्रह्मणः सत्त्वोपहिततया तत्कालवृत्तित्वानवबोधेन ब्रह्मत्वेनैव बोधेन तद्वाक्यस्य व्याहतार्थकत्वाभावात् । इत्थं च प्रकृतहेतुना तत्राप्यनिर्वचनीयत्वापत्तौ उक्तहेतुविशेषणं युक्त-मेव ।। तमसोऽपीति ।। वक्ष्यमाणत्वादिति ।। विश्वं सत्यमित्यादिप्रमाणोदाहरणेनेति भावः । तथा च पक्षे हेत्वसिद्धिरिति भावः ।
ननु सदसभावकाले वा भावाभावाभावकाले वा स्थितिमत्त्वं हेतुः पारमार्थिकत्वेना-प्रमितत्वरूपविशेषणाघटित एव स्वसाध्यप्रयोजकः । तदन्यतरात्मकत्वे स्वस्वाधिकरणकाले तदभावसत्त्वायोगेन साध्याभावे प्रकृतहेतूच्छित्तिरूपविपक्षबाधकतर्कोदयात् । प्रकृतहेतुशरीरे व्याप्यतावच्छेदकोटौ अनुपयुक्तमधिकविशेषणं प्रक्षिप्य कथमाशङ्का । तदभ्युपगमेन च कथं समाधानमिति चेन्न । यतस्तदभाववति तस्य सत्त्वं परस्परं न्यूनाधिकसत्ताकत्वेन घटितम् । अन्यथा विरोधप्रसङ्गात् । तथा चाधिकसत्ताकस्य स्वान्यूनसत्ताकस्य वा स्वविरोधि-नोऽधिकरणे येन रूपेण प्रतीयते यः स वस्तुतस्तद्रूपवानित्येव व्याप्तिः पराभिमता । न तु तदभाववति विद्यमानस्तद्विलक्षण इति । तथा सति प्रातिभासिकघटाभाववति विद्यमानस्य घटस्य घटविलक्षणत्वग्रहापातात् । इत्थं च तादृशाविद्यासमसत्ताकस्याधिकस्य वा सतोऽ-सतश्चाभावस्याधिकरणेऽविद्याऽसत्त्वाद्वस्तुतस्तद्रूपत्वाभावेन तत्तद्विलक्षणत्वम् । अत एवोक्त-मद्वैतसिद्धौ ‘न हि स्वरूपतः कल्पितस्य किञ्चिदपि रूपं वास्तवं भवति’ इति । अत एवाभावो नास्तीति निषेधोऽपि न व्याहतः । न्यूनाधिकसत्ताकवस्तुद्वयावगाहित्वात् । सर्वेभ्यो दर्शपूर्णमासाविति वाक्ये पश्वादीनां सर्वपदेन पशुत्वादिरूपविशेषरूपेणैव बोधकत्व-वन्नेह नानेति वाक्यस्थकिञ्चनेतिपदेन घटत्वादिरूपविशेषरूपेणैव सर्वं ब्रह्मणि मिथ्यात्वसिद्धये निषिद्ध्यते । शुद्धाद्वैते अभावत्वरूपेणोपस्थितस्याप्यभावबोध आवश्यकः । तथापि न व्याहतः स निषेधो यथा तद्वत् । अत एवानादिजीवब्रह्मविभागादेः प्रलये सत्त्वपक्षे नाभाव-निषेधानुपपत्तिः । भावरूपाविद्यायाः सत्त्वेऽपि तदभावानिषेधवत् । अनिर्वचनीयत्वस्यो-भयत्रापि साम्यात् । इत्थञ्चोक्तरीत्या पराभिप्रेतव्याप्तेरधिकसत्तादिघटितत्वेनानिर्वचनीयसिद्धेः प्रागसिद्धत्वमेवेत्याशयेन यो यदभावाधिकरणवृत्तिः स तद्विलक्षण इति लोकसिद्धव्याप्ति-मालम्ब्यैव ब्रह्मणोऽनिर्वचनीयत्वमापादितम् । तदुपरि स्वाभिप्रेतव्याप्त्यनुसारेणेदमाशङ्कितं ब्रह्मणः पारमार्थिकत्व इत्यादिना । तस्यायमभिप्रायः ब्रह्मणः प्रमाणबलेन पारमार्थिकत्वेन तदधिकसत्ताकस्य वा तदन्यूनसत्ताकस्य वा वस्तुन एवाभावाद्ब्रह्मणि तादृशसत्ताघटितहेतु-र्नास्तीति न व्यभिचारो नाप्यनिर्वनीयत्वं ब्रह्मण आपाद्यत इति पराभिप्रायं तुष्यत्वितिन्याये-नाङ्गीकृत्यैव तदभिप्रायमनुरुद्ध्यापि स्वाभ्युपगतनिर्वाहकरणेन समाधानस्याधिक्यलाभाय तमसोपीत्याद्यभिहितम् । अविद्याया अपि प्रमाणेन पारमार्थिकत्वावगमात् अधिकसत्ता-कत्वादिघटितहेतुस्तत्रासिद्ध एवेति भावः । एतद्वाक्यद्वयस्य पूर्वव्याख्यानं यथाश्रुतरीति-मनुरुद्ध्य प्रवृत्तमत्रैव पर्यवस्यतीति न पूर्वोत्तरविरोधोऽपीति ।। प्रसिद्धेति ।। भावाभावयोरपि प्रसिद्धयोगलभ्यत्वात्सदसच्छब्दौ प्रसिद्धार्थावेवेति भावः ।। वातप्रेरणां विनैवेति ।।
सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः ।
इत्युक्तेस्तस्यान्यप्रेरणादौ व्यापाराभावादिति भावः ।। अचेष्टतेति ।। अचेष्टयत् तदा नियम्यं कालादिकं न्ययामयदित्यर्थः । चेष्टतिरन्तर्णीतणिजर्थः । तेन स्वकीयचेष्टायाः कदापि वातप्रेरणानधीनत्वाद्विशिष्योक्तिरयुक्तेति शङ्कानवकाशः । यद्वा तात्कालिकपदार्थविषयिणीं वातप्रेरणां विना स्वयमेव तत्प्रेरणार्थमचेष्टतेत्यर्थः । इदं चावातमित्यनेन वातासहित-मित्यर्थकेन श्रौतपदेन लभ्यते । यद्वा यथा लोकानां चेष्टा वातप्रेरणया न तथा ब्रह्मचेष्टा । किं त्वानन्दोद्रेकेणेति ब्रह्मचेष्टास्वभावोक्तिरेवेयम् । न तु प्रलयकालमात्रवृत्तिचेष्टानिष्ठ-विशेषधर्मपरेति ध्येयम् । स्वधयेत्युक्तिसामर्थ्यलभ्यार्थप्रदर्शनं न तु सुखप्राप्त्याद्यर्थमिति । न तु स्वधापदोत्तरमवधारणपूरणेन व्याख्यानम् । कस्याप्यर्थस्यानुपपत्त्यभावेन प्रयोजनाभावात् ।। उत्सहेतापीति ।। स्वाभ्युपगतब्रह्माधिकरणप्रलयापेक्षयैतद्वाक्यप्रतिपाद्यकालस्य वैलक्षण्य-मभ्युपेत्येत्यर्थः ।। एतत्प्रकरणेति ।। ब्रह्मानधिकरणत्वाधिकरणत्वकृतवैलक्षण्याभ्युगमपूर्वशङ्कैव नोदेतीति भावः ।