स्वविषयत्वं हि..
मूले कर्तृकर्मभावविरोधादित्युक्तेरयुक्तत्वशङ्का परमतस्वमतरीत्या तत्परिहारश्च
स्वविषयत्वं हि
श्रीमज्जयतीर्थटीका
ननु ज्ञानस्य स्वविषयत्वे कर्तृकर्मभाव एव नास्ति यो विरुद्ध्येत । न हि ज्ञानं ज्ञानस्य कर्तृ । न च कर्तृभावे कर्मापि सम्भवति । तस्य तदुपहितलक्षणत्वात् । अतो ‘विषयविषयिभावस्य पराक्प्रत्यग्भावरूपत्वात् एकस्य युगपत्तद्विरोधात् स्वविषयत्वं ज्ञानस्य तैर्नाङ्गीक्रियते’ इति वक्तव्यम् । कर्तृकर्मविरोधादिति तु कथम् । मैवम् । ज्ञास्यापि विषयीकरणलक्षणव्यापारं प्रति कर्तृत्वेन स्वविषयत्वे कर्तृकर्मभावापरिहारात् । इतरथा ज्ञानमर्थं विषयीकरोतीति न स्यात् ।
अथ वा स्वमते ज्ञानस्वरूपस्याप्यात्मनो ज्ञानं प्रति कर्तृतास्तीति ज्ञापनायेदमुदितम् । कथमेतदिति चेत् । इत्थम् । अस्माभिर्विज्ञानं सविशेषमङ्गीकृतम् । विशेषश्च भेदकार्यं करोति । एवं तर्ह्यतिप्रसङ्गः स्यादिति चेन्न । सति प्रमाणे तन्निर्वाहहेतुभूतभेदाभावे च तत्प्रतिनिधिना तत एव सिद्धेन विशेषेण तन्निर्वाहाभ्युपगमात् । प्रपञ्चितञ्चैतदन्यत्राचार्यैः ।।
द्वैतद्युमणि:
।। तदुपहितेति ।। तथा च कर्तुरभावे स्वभिन्नसमवेतक्रियाप्रसिद्ध्या तद्घटितं कर्मत्वमप्रसिद्धमिति भावः ।। परागिति ।। पराक्त्वं प्रतियोगित्वं प्रत्यक्त्वमनुयोगित्वं प्रकृते विवक्षितम् । विषयस्य यो विषयी तद्भावस्य विषयितयाः पराक्प्रत्यग्भावौ अनुयोगित्व-प्रतियोगित्वे ताभ्यां रूप्यते सत्त्वेन गृह्यत इति तादृशरूपस्तत्त्वादित्यर्थः । विषयितायाः सम्बन्धरूपतया प्रतियोग्यनुयोग्युभय१सापेक्षे एकस्मिन्नेकनिरूपितप्रतियोग्यनुयोगि२भावस्य उपाधिनैरपेक्ष्येण शुद्धात्मरूपज्ञानस्य न स्वविषयकत्वमिति भावः ।
।। युगपदिति ।। ‘उपाधिकृतभेदमन्तरैककाल इत्यर्थः । पराक्प्रत्यग्भावेत्यादेश्चित्त्व-जडत्वाधीनत्वादित्यर्थः । चितो जडतादात्म्यरूपविषयताऽश्रयत्वम् । तत्प्रतियोगित्वरूपं विषयत्वं जडस्यैव । न तु चितः’ इत्यर्थोऽत्र न सङ्गच्छते । युगपदित्युत्तरपङ्क्तिविरोधात् । औपाधिकभेदेनापि चेतने जडत्वस्य जडे चेतनत्वस्यायोगेन युगपदित्यस्यालग्नकतापत्तेः । एकस्येति सामान्योक्त्यसङ्गतेश्च ।। इतरथेति ।। तथा च विषयीकरणं विषयितैव । तत्कर्तृत्वकर्मत्वे प्रतियोगित्वानुयोगित्वरूप एव पर्यवस्येत इत्युक्तविरोधो युक्त एवेति भावः । ननु तर्हि स्फुटतया पराक्प्रत्यग्भावविरोधादित्येव वक्तव्यम् । किमर्थं विषयिताया अप्युक्तरीत्या क्रियात्वविवक्षया तथोक्तिरित्यत आह ।। अथ वेति ।। इदमुदितमिति ।।
ननु पूर्वं ज्ञानरूपक्रियां प्रति कर्तृकर्मभावस्य ज्ञानस्य स्वविषयकत्वपक्षे प्रसक्ते-स्तद्विरोधस्य स्वविषयत्वपरित्यागहेतुत्वं पराभिमतमित्येतद्बाधितमित्याशङ्क्य विषयीकरण-रूपक्रियान्तरविवक्षयैतन्मूलम् । अतो न बाधितार्थकमिति रीत्या पूर्वग्रन्थेन योग्यतैवोप-पादिता । इदानीं तु तस्य प्रयोजनमनेन ग्रन्थनोच्यते । तस्य तु पूर्वग्रन्थेनानुक्त-त्वात्कथमथवेति सङ्गच्छते । भिन्नविषयत्वेनैकस्मिन्नेव विषये पक्षान्तररूपत्वाभावात् । न चेदं युक्तमपि । ज्ञानक्रियामुपादायैतन्मूलोपपादने शङ्काग्रन्थोक्तबाधकानुद्धारः । विषयीकरण-रूपक्रियान्तरमुपादाय मूलार्थवर्णने तादृशक्रियां प्रति कर्तृकर्मविरोधः स्वमते नास्ति । अतः स्वविषयकत्वमस्तीत्येव ज्ञापितं स्यात् । न तु ज्ञानरूपस्याऽत्मनो ज्ञानक्रियां प्रति कर्तृत्वम् । बीजाभावात् । अन्यथा शब्दस्य द्रव्यत्वमपि ज्ञापितं स्यात् । अविशेषात् । तस्मादिदमयुक्तमिति चेन्न । योग्यतोपपादनपरेणापि पूर्वग्रन्थेन पराक्प्रत्यग्भावविरोधादिति विहाय कर्तृकर्मेत्युक्तेः प्रयोजनविशेषः सूचितो भवति । इदानीं तु तस्य प्रयोजनान्तरमुच्यत इत्याशयेनाथवेत्युक्तिसङ्गतेः । प्रयोजनविशेषस्तु सम्बन्धप्रतियोगित्वानुयोगित्वयोरपि कर्तृत्व-कर्मत्वत्वादिरूपतयैव विरोधः । ‘चैत्रो ग्रामं युनक्ति’ ‘पटस्तन्तून् समवैति’ इति व्यवहारेण तयोरपि कर्तृत्वकर्मत्वरूपतावगतेः । न तु स्वातन्त्र्येण । गौरवात् । इति सूचनरूपः । विषयीकरणक्रियानिरूपितकर्तृत्वकर्मत्वयोरपि सामान्यतः १कर्तृत्वकर्मत्वरूपेण ग्रहणं कृत्वा तयोः विरोधाभावस्य स्वमते तैरित्यनेन सूचने ज्ञापकसामान्य एवासति बाधके प्रवृत्तेः प्रामाणिकमात्मनः स्वात्मज्ञानरूपक्रियां प्रति कर्तृत्वं बोधितं भवतीति द्वितीयदोषस्याप्य-भावात् । अत एवात्मन इत्येतावन्मात्रं हित्वाऽऽत्मप्रकाशस्येति शेषपूरणं कृतमिति ।
अथवात्मरूपप्रकाशस्य नित्यस्य कर्त्रनुपपत्तिरूपविरोधात्तत एव तद्घटितकर्मानुपपत्ति-विरोधात्स्वविषयकत्वं तैर्नाङ्गीक्रियत इति मूलार्थः । न चैवं सविषयकत्वरूपसकर्मकत्वमात्रस्य निषेधसम्भवात् स्वविषयकत्वमिति विशेषनिषेधायोग इति वाच्यम् । प्रकृताभिप्रायेण तदुपपत्तेरित्यभिप्रेत्य परोक्तं पराक्प्रत्यग्भावहेतुमनभिधाय तदभिप्रायविषयतया सम्भावित-हेतुकथने प्रयोजनमाह ।। अथवेति ।। इदमभिहितं ज्ञानरूपक्रियागर्भितमेवैतद्दूषण-मुदितमित्यर्थः । एवं चाथवेति पङ्क्तेर्मूलव्याख्यानान्तरपरत्वान्न पक्षान्तरत्वानुपपत्तिदोषः । स्वात्मज्ञानक्रियां प्रति कर्तृत्वस्य परानभिप्रेतत्वोक्त्या स्वमते विशेषबलादाश्रयत्वादिरूप-कर्तृत्वमस्तीति ज्ञापितं भवतीति न द्वितीयोऽपि दोष इति सारम् । पूर्वं ‘ज्ञानक्रियां प्रति कर्तुरात्मनः कर्मत्वविरोधात्’ इति मूलार्थमभिप्रेत्य शङ्का कृता । तादृशार्थमभ्युपेत्यैव क्रिया-मात्रस्य ज्ञानातिरिक्तत्वमभ्युपेत्यैकं समाधानमभिहितम् । इदानीं तु कर्तृत्वविरोधात्तदुपहित-कर्मत्वस्यापि तत एव विरोधादित्यर्थाभिप्रायेण समाधानं ज्ञानक्रियामादायैव । अतो न पूर्वपक्षसमाधानयोरन्यतरस्यालग्नकतेति ध्येयम् ।
टिप्पण्यां तु ‘अथवा कर्तृकर्मविरोधात् प्रत्यक्पराग्भावविरोधादित्यर्थः । न चैव-माचार्योक्तिरपि तथैव स्यादिति वाच्यम् । स्वमते ज्ञानरूपस्याप्यात्मनो ज्ञानं प्रति कर्तृताऽस्तीति ज्ञापनाय तदुक्त्युपपत्तेरित्याह । अथवेति’ इत्युक्तम् । तत्पक्षे अथवेत्यनन्तरं कर्तृकर्मविरोधादित्यस्य प्रत्यक्पराग्भावविरोधादित्यर्थ इति पूरणं कर्तव्यम् । ज्ञापनायेत्यनन्तरं तुशब्दः पूरणीयः । लाक्षणिकपदप्रयोगान्यथानुपपत्त्या च तज्ज्ञानमित्यनुसन्धेयम् । अन्यथा वेत्यस्य प्रयोजनोक्तिपरत्वप्राप्त्या पक्षान्तरत्वोक्त्यसङ्गतेः पूर्वोपदर्शिताया अनुद्धारापत्तेरिति ध्येयम् ।
।। कथमिति ।। स्वस्य स्वाश्रयताया बाधितत्वात्कथमेतत्प्रामाणिकमित्यर्थः ।। करोतीति ।। तथा चान्यत्र प्रामाणिकत्वेनोक्त आश्रयाऽश्रयिभावः सङ्गच्छत इत्यर्थः ।। अतिप्रसङ्ग इति ।। घटः स्ववानिति प्रत्ययापत्तिर्भेदाभावापत्तिश्चेत्यादिरूप इत्यर्थः ।। तत एव सिद्धेनेति ।। प्रामाणिकार्थनिर्वाहार्थमेवार्थापत्त्या सिद्धेनेत्यर्थः ।। विशेषतेति ।। वस्तुनिष्ठस्वाभाविकशक्तिविशेषेणेत्यर्थः । तथा चोक्तं विष्णुतत्वनिर्णयटीकायां द्वितीय-परिच्छेदे ‘विशेषो नाम वस्तुन काचिच्छक्तिः’ इति । ननु तादृशव्यवहारादेरन्यै-रन्यथोपपादितत्वात्कथं विशेषसिद्धिर्भवतामपीत्यत आह ।। प्रपञ्चितं चेति ।। अनुव्याख्यादावित्यर्थः तत्प्रकारं लेशतोऽग्रे दर्शयिष्यामः ।