अविषयत्वादेव तस्य
शशविषाणादिज्ञानस्य सविषयत्वोक्तिपुरःसरं दृश्यत्वहेतुदूषणोपसंहारः
अविषयत्वादेव तस्य
श्रीमज्जयतीर्थटीका
ननु कथमेतत् । यावता शशविषाणादिपदश्रवणादविषयमेव ज्ञानमुत्पद्यते । न हि शशविषाणादिकमस्ति । न चास्यान्यो विषयः सम्भवति । मैवम् । न ह्यत्रासद्विषयत्वमविषयत्वमित्यभिमतम् । किन्नाम निरालम्बनत्वम् । न हि तथा शशविषाणादिज्ञानम् । तथात्वे शशविषाणादिज्ञानमित्येव न स्यात् ।
तदेवं कयापि विधया आत्मनो दृक्कर्मत्वाभावे न वेदान्तवाक्यजनितविज्ञानमात्मज्ञानं भवतीति तत्सिद्धयेऽवश्यमात्मनो दृक्कर्मत्वेऽङ्गीकार्ये तस्यानैकान्तिकत्वं सिद्धम् ।
द्वैतद्युमणि:
१अज्ञाने व्यवहाराद्यनुकूलो विषयानौपाधिकः कश्चन शक्तिविशेषः विषयिता-स्फुरणाद्यपरनामा विषयसन्निकर्षप्रयोज्यत्वदोषविशेषप्रयोज्यत्वान्यतरवान् । तन्निरूपकसत्त्वे प्रमात्वमसत्त्वेऽप्रमात्वमित्यभिहितमुपपादितञ्चाधस्तात् । तादृश२विषयतैव ज्ञानत्वव्यापिका । व्यभिचारस्य कुत्राप्यनुपलम्भात् । निष्प्रामाणिकतत्कल्पने चानुमानमात्रोच्छेदप्रसङ्गात् । एवञ्च वेदान्तजन्यज्ञाने आत्मान्याविषयके आत्मनिरूपितविषयिता वर्तते तस्य तन्निरूपकत्वं नास्तीति व्याहतम् । अतस्तस्या अप्यभावे विषयितासामान्याभावरूपव्यापकाभावात् ज्ञानत्वरूपव्याप्याभावः स्यादित्यभिहितेऽविषयत्वपदस्य सद्विषयकत्वाभावार्थकत्वाभिमानेन शङ्कते ।। नन्विति ।। अभिमानं निराकृत्योक्ताभिप्रायं प्रकटयति ।। मैवमिति ।। असद्विषयत्वं सद्विषयत्वाभावः ।। निरालम्बनत्वमिति ।। ३विषयतारूपधर्मराहित्य-मित्यर्थः ।। तथेति ।। तादृशधर्मरहितमित्यर्थः ।। न स्यादिति ।। सम्बन्धान्तराणामति-प्रसञ्जकत्वात्तन्निरूपितविषयितैव षष्ठ्यर्थो वाच्यः । तस्याप्यनङ्गीकारे ४तादृशव्यवहारा-प्रामाण्यं न स्यादित्यर्थः । दृश्यत्वहेतोर्व्यभिचारोपपादनमुपसंहरति ।। तदेवमिति ।। कयाऽपि विधयेति ।। इदं न भवतीत्युत्तरान्वयि । दृक्कर्मत्वाभावे न ।। दृक्कर्मत्वाभाव इति छेदः । नञो भवतीत्यनेनान्वयः ।