सदिति प्रतीयमानत्वात्
प्रत्यक्षस्य सत्त्वग्राहित्वनियमोपपादनम्
श्रीमज्जयतीर्थटीका
ननु प्रत्यक्षं पदार्थस्वरूपमात्रगोचरम् । अनुमानं पुनस्तन्मिथ्यात्वगोचरमिति विषयभेदात्कथं प्रत्यक्षविरोधोऽनुमानस्य । कथन्तरां तद्बाध इत्यत आह–
मूलं
सदिति प्रतीयमानत्वात्
यद्यपि स्तम्भोऽयमित्यादिप्रतीतिर्न सदित्येवमाकारा तथापि स्तम्भादीनां सद्विशेष-त्वान्न सत्तां व्यभिचरति । अस्ति च सदित्यादिप्रतीतिः । अतः सर्वथा प्रत्यक्षेण प्रतीयमानं वस्तु सदित्येव प्रतीयत इत्यस्त्येव प्रत्यक्षविरोधोऽनुमानस्य ।
द्वैतद्युमणि:
।। यद्यपीति ।। न सदित्येवमाकारेति ।। इदमिति पूरणीयम् । तेन सदिति नपुंसकोपपत्तिः । वस्तुसामान्यग्रहणार्थं नपुंसकनिर्देशः । स्तम्भः सन्नित्यादिव्यवहारोप-धायिका कदाचिन्न भवति इत्यर्थः । तथा च तत्प्रतीतौ सत्त्वभाने स्तम्भत्वादीनामिव तस्याप्युल्लेखप्राप्तिः स्यात् । अतस्तद्भानं नास्ति । चक्षुःसन्निकर्षादिमात्रस्य तद्भासकत्वं च नास्ति । अन्यथाऽन्वयव्यभिचारप्रसङ्गात् । कदाचित्तद्भानं तु लिङ्गादिनेति वक्तव्यम् । तथा च सत्त्वविषयकप्रत्यक्षाभावात्तद्बाधाभिधानमयुक्तमिति शङ्काभिप्रायः ।
तद्वाचकशब्दप्रयोगस्य कदाचिदनुपधायकत्वमात्रं प्रतीतेर्न तद्विषयकत्वाभावकल्पकम् । १चक्षुषादिरूपादिभाननियमेन तद्विषयकत्वस्यावश्यकत्वात्तस्य सर्वदा रूपी घटः शुक्लो घटः इत्यादिव्यवहारानुपधायकत्वेन व्यभिचारात् । यावद्बोधनेच्छा तावन्मात्रबोधकवाक्यप्रयोगेण तद्बोधनेच्छाभावेनैव तच्छब्दाप्रयोगसम्भवेनान्यथासिद्धत्वाच्च । तथा च स्तम्भोऽयमित्यादि-शब्दाभिलाप्यप्रतीतीनामपि सत्ताविषयत्वमस्त्येव । वस्तुतः सद्वस्त्वगाहिप्रतीतेर्दोषविशेषाभावे सत्त्वेनैव तदवगाहित्वनियमात् स्तम्भादीनां च सत्प्रभेदत्वात् स्तम्भत्वादेरिव सत्त्वरूप-धर्मस्यापि प्रत्यक्षवेद्यत्वमेव । अतो बाधः सुस्थिर इति समाधत्ते ।। तथापीति ।। तद्विधत्वात् सत्प्रभेदत्वात् ।। न सत्तां व्यभिचरति ।। दोषविशेषाभावे सत्ताविषयिणी नियमेन भवति । ननु कुत एतत् । प्रात्यक्षिकप्रतीतेः सत्त्वाविषयकत्वमेव किं न स्यात् । कादाचित्कत-द्व्यवहारस्यानुमानादिमूलकत्वसम्भवादित्यत आह ।। अस्ति चेति ।। तत्प्रतीत्यैवेत्यादिः । प्रतीतिस्तन्मूलकव्यवहारः । तथा च यत्प्रतीत्युत्तरं स्तम्भोऽयं तमानयेति वदति तदुत्तरं श्रोत्रा कदाचित्सन्देहेन ‘अयं सत्यो वा न वा’ इति पृष्टे सदिदमित्येव वदति । न च तत्र लिङ्गानुसन्धानादिना प्रतीत्यन्तरानुभवोऽस्ति । अतस्तद्व्यवहारनिर्वाहकत्वं प्रथमप्रतीतेरेवेति तस्याः सत्ताविषयकत्वमावश्यकमिति भावः ।। अत इति ।। सत्त्वस्य प्रत्यक्षयोग्यत्वादित्यर्थः ।। सर्वथेति ।। नियमेनेत्यर्थः । तद्ग्रहप्रतिबन्धकदोषासमवहितज्ञानसामग्र्यास्तद्ग्राहकत्वनियमात् । विधिनिषेधविनिर्मोकेण प्रायः प्रतीतेरनुत्पत्तेरिति भावः । एतत्तत्वमुक्तमप्रामाणिक-प्रतियोगिकाभावविचारे ।
अत्र वदन्ति ‘लौकिकप्रत्यक्षेण न सत्त्वं गृहीतुं शक्यम् । तद्योग्यसत्त्वानिरुक्तेः । न तावत्सत्त्वं जातिः । अभावादौ तदभावापातात् । घटत्वद्रव्यत्वादिवदस्मदुक्तमिथ्यात्वाभाव-रूपत्वाभावेन तद्ग्रहस्य मिथ्यात्वग्रहाविरोधित्वाच्च । नापि प्रमाविषयत्वम् । असत्यप्यनु-व्यवसायरूपप्रमायां व्यवसायांशे विषयतया बाधप्रमायामपि विषयतया तवातिव्याप्तेः । पूर्वोक्तदोषानिवृत्तेश्च । प्रमादीनां चक्षुराद्ययोग्यतया तद्घटितस्य विशिष्टस्यापि लौकिक-प्रत्यक्षाविषयत्वाच्च । एतेन प्रमाणगम्यत्वं सत्त्वेन प्रमां प्रति साक्षाद्विषयत्वमित्यप्यपोढम् । अन्त्ये आत्माश्रयाच्च’ इति ।
अत्रोच्यते । ब्रह्मणो यादृशसत्त्वे सत्यज्ञानादिवाक्येन प्रतिपादिते अनृतव्यावृत्तिः सिद्ध्यति तदेव प्रत्यक्षेण गृह्यताम् । घटादिगोचरप्रत्यक्षोत्तरं सत्य एव घटो न मिथ्येति निश्चयपूर्विकायाः प्रवृत्तेरुत्सर्गतः सर्वलोकानुभवारूढत्वात् । क्वचितत्संशयस्य चोत्पन्नज्ञाना-प्रामाण्यसंशयमूलकस्योक्तौत्सर्गिकार्थाविरोधित्वात् । इदं रजतमिति भ्रमस्याधिष्ठानाकारानु-वेधवज्जगद्भ्रमस्यापि अधिष्ठानसम्बन्धिसाधारणाकारानुवेधनिर्वाहाय सन् घट इत्याकारकत्वस्य त्वयाप्यभ्युपगतत्वाच्च । न च सा प्रतीतिः सत्त्वविशिष्टांशे नापरोक्षेति वाच्यम् । तथात्वे तदंशस्य ज्ञानस्य सन्निकर्षत्वमनभ्युपगच्छतस्तव तदंशविशिष्टप्रतीतौ भानाभावापत्त्या घटः सन् सन्घट इत्याकारद्वयानुरोधेन परस्परतादात्म्यासिद्धिप्रसङ्गात् । न च ज्ञानद्वयविषय-योरेकविशिष्टरूपता सङ्गच्छते । तयोरसंसर्गाग्रहमात्रस्य सत्त्वेन परस्परसंसर्गानवगाहित्वात् । न च सुरभि चन्दनमित्यत्रेव वृत्तिद्वयप्रतिफलितचैतन्यैक्येनात्रोपपत्तिः । अत्र सदंशे वृत्ति-विरहात् । सन्घट इत्याकारप्रतीतिपूर्वं लिङ्गशब्दयोरभावात् । स्मरणस्य तदनुभवोपायाभावेन कथञ्चिदुपपादनेऽपि पूर्वं नियमेन सत्त्वस्यानुभवविरुद्धत्वेन च वक्तुमशक्यत्वात् । न च तत्र वृत्तिविरहे सत्त्वोपहितस्य मिथ्याभूतस्य स्वप्रकाशत्वस्याप्यभावेन पूर्वं तत्स्फुरणानुपपत्तिरेवेति वाच्यम् । केवलस्य स्वप्रकाशत्वेन तत्तादात्म्यादेव स्फुरणोपपत्तेः । न च घटाकार-वृत्तिप्रतिबिम्बितचिता स्वतः स्फुरत्सतस्तादात्म्यमस्तीति वाच्यम् । तावतापि घटाकारवृत्ति-विषयत्वस्य स्वविषयत्वस्य चानङ्गीकारेण ज्ञानस्यैकविशिष्टार्थत्वस्यानुपपादनात् घटपटा-वच्छिन्नचितोरिवैतयोस्तादात्म्ये बीजाभावाच्च । एवमप्यस्य विशिष्टज्ञानत्वाग्रहेऽप्युक्तज्ञानस्य सर्वांशेऽपरोक्षत्वापरिहाराच्च । सत्ताविशिष्टं घटं पश्यामीत्यनुभवस्य तवापि सम्मतत्वाच्च । अन्यथा अनुभवविरुद्धार्थत्वेन ‘रूपादिहीनस्यापि ब्रह्मणश्चाक्षुषविषयत्वं मीमांसकमते काल-वत्स्वीक्रियते’ इति परिच्छिन्नत्वहेतुग्रन्थे त्वदुक्तस्यात्यन्तासङ्गतत्वापाताच्च । तस्मात् सन्घट इत्यादिप्रतीतीनां मिथ्यात्वविरोधिसत्त्वविषयकापरोक्षरूपता अकामेनापि अङ्गीकर्तव्यैव । तत्सत्त्वं मिथ्यात्वाभावरूपमन्यद्वास्तु । तत्सामग्र्या अपि अन्यत्र क्लृप्ताया असम्भवे अन्यादृश्येव कल्प्यताम् । अनुभवसिद्धकार्यापलापायोगात् । इत्थं च सत्त्वविकल्पेन तदपरोक्षप्रतीतिखण्हनमयुक्तमेव ।
ननु तथापि तादृशसत्त्वं कीदृशमिति चेत् । ब्रह्मनिष्ठं यादृशं मिथ्यात्वविरोधि तादृश-मेवास्तु । ननु ब्रह्मरूपमेव सत्त्वम् । तच्च कल्पितभेदेन ब्रह्मधर्मभूतं मिथ्यात्वविरोधि । तदेव जगति चेत् अन्यधर्मस्यान्यत्र प्रतीत्ययोगात् शुक्तिधर्मस्येदन्त्वस्य रजते भाननिर्वाहाय रजतस्य शुक्तावध्यासस्येव ब्रह्मधर्मस्य सत्त्वस्य जगति भाननिर्वाहाय जगतस्तत्राध्यास-स्यावश्यकत्वापत्त्या जगन्मिथ्यात्वं सेत्स्यत्येवेति चेन्न ।
ब्रह्मसत्तासजातीयसत्ताया एव जगति मयाभ्युपगतत्वात् । ब्रह्मस्वरूपस्यैव सद्रूपत्वं न जगत्स्वरूपस्येत्यस्याद्याप्यसिद्धत्वात् । सौहार्दे तु सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वाभाव एव सत्त्वमिति वदामः । प्रागभावादिप्रतियोगिघटादावव्याप्तिवारणाय सर्वकालेति । न च घटादिप्रागभावध्वंसयोः प्रतियोगिसमानदेशत्वेन सर्वदेशपदेनैव तद्वारणं भवतीति वाच्यम् । अत्र घटो नास्तीति प्रतीत्यैव प्रतियोग्यधिकरणदेशे प्रागभावसिद्धिवत् अन्यदेशेऽपि तथैव तत्सिद्धिसम्भवात् । न चात्र तदत्यन्ताभावविषयकत्वस्यैव तादृशप्रतीतेः सम्भवे तत्र तत्प्राग-भावाद्यवगाहित्वे मानाभाव इति वाच्यम् । प्रतियोग्यभावयोः कालिकविरोधस्यैवाङ्गीकर्तृनये सर्वाभावानां सर्वदेशवृत्तौ बाधकाभावेनैव तत्सिद्धेः । अन्यथा न कुत्रापि तत्सिद्धिः स्यात् ।
न च ‘अत्र घटो भविष्यति नष्टः’ इत्यादिप्रतीतेः प्रतियोगिदेश एवोत्पत्तेस्तद्बलात्तत्रैव प्रागभावध्वंसौ सेत्स्यतो नान्यत्रेति वाच्यम् । तद्देशावच्छेदेनोत्पत्यदर्शनयोरेव तत्र प्रतीतेः । भूधातोः सत्तार्थकत्वात् उत्पत्तेस्तद्विशेषत्वात् । णश अदर्शन इति धातोः तत्समानार्थकस्य ध्वस्त इत्यादेरपि तदर्थकत्वात् । न तु घटप्रतियोगिकप्रागभावध्वंसौ नञाऽनुल्लेखात् । भविष्यतीत्यत्र प्रागभावप्रतियोगित्वभानाङ्गीकारे श्वोभाविनि घटे ‘एतद्दिवसे भविष्यति’ इति प्रयोगप्रसङ्गश्च । प्रागभावे एतद्दिवसवृत्तित्वस्याबाधात् । एवं यत्र घट एतद्दिवसे नष्टो भवति तत्र ‘श्वः परश्वो नश्यति’ इति प्रयोगप्रसङ्गश्च । ध्वंसस्य श्वस्तनवृत्तित्वस्याबाधात् । मन्मते उत्पत्तेरेतद्दिवसाधिकरणकत्वस्य णश्धात्वर्थस्य दर्शनाव्यवहितोत्तरक्षणवृत्तित्वविशिष्टतद्दर्शन-प्रागभावासमान १कालिकत्वदर्शनस्य तद्दिवसवृत्तित्वस्य बाधितत्वान्न तथा व्यवहारः । न च मन्मतेऽप्युत्पत्तिमदभावरूपध्वंसार्थकतया नश्धातोस्तदर्थैकदेशभूतोत्पत्तावेव समभिव्याहृत-दिवसान्वयादुपपत्तिरिति वाच्यम् । उक्तादर्शनापेक्षयाद्यक्षणसम्बन्धरूपोत्पत्तिघटितधर्मा-वच्छिन्ने शक्तिकल्पने गौरवात् । णश अदर्शन इत्यनुशासनविरोधाच्च ।
नन्वेवमपि प्रतियोग्यनधिकरणदेशे तत्सत्त्वे मानाभावः । न चात्र घटो नास्तीति प्रतीतिरेव मानमिति वाच्यम् । तत्र समभिव्याहृतसप्तम्यर्थस्य प्रतियोगिकोटावन्वितत्वेन तद्देशसंसृष्टघटरूपाप्रामाणिकप्रतियोगिकात्यन्ताभावस्यैव प्रतीतेरिति चेत् सत्यम् । देशान्तरं तत्प्रतियोगिकप्रागभावाधिकरणं ध्वंसाधिकरणं च तदनधिकरणकालावच्छिन्नत्वादित्यनुमानेनैव तत्सिद्धेः ।
न च प्रागभावानधिकरणकालस्यापि देशतया तत्रासत्त्वादेव प्रागभावादिवारणं भवतीति वाच्यम् । कालपदस्य पृथगुपादानाद्देशपदस्य कालातिरिक्तदेशपरत्वादिति केचित् । तदसत् । उक्तरीत्या प्रागभावध्वंसयोः स्वसमानकालिकदेशसामान्यवृत्तित्वस्य कथञ्चित्सिद्धावपि स्वा-समानकालिकदेशविशेषवृत्तित्वायोगेन तावादायोक्तरीत्या प्रयोजनकथनायोगात् ।
किन्तु सर्वदेशवृत्त्यभावप्रतियोगित्वं सर्वकालवृत्त्यभावप्रतियोगित्वं वाऽसत्वम् । तदभावः सत्त्वमिति लक्षणद्वये तात्पर्यम् । सर्वदेशवृत्तिः सर्वकालवृत्तिश्च निषेधोऽत्यन्ताभाव एव । अभावान्तराणामतथात्वस्योपपादितत्वात् । तत्प्रतियोगित्वमसत एवेत्युक्तप्रतियोगित्वाभावस्य सत्त्वरूपतानिर्वाहः । न चात्यन्ताभावात्मकभेदप्रतियोगिनि घटेऽसत्त्वापत्तिरिति वाच्यम् । अत्यन्ताभावत्वनिरूपकप्रतियोगिताया एव विवक्षणात् । सिद्धान्तेऽपि विशेषशक्त्यै-कस्मिन्नपि तादृशधर्मद्वयाङ्गीकारान्न कोऽपि दोषः । वस्तुतस्तु सर्वदेशकालेत्यादेरत्यन्ता-भावत्वरूपानुयोगितापरिचायकतया तन्निरूपकप्रतियोगित्वाभावमात्रं सत्त्वमिति तु तत्वम् ।
तरङ्गिण्यां तु ‘अश्वे गोत्वं नास्तीत्यादौ गोत्वाश्वयोरलीकसंसर्ग एव निषिद्ध्यत इति मते असत एवात्यन्ताभावप्रतियोगित्वात् सार्वकालिकनिषेधप्रतियोगित्वाभावः सत्त्वम् । न चात्यन्ताभावभिन्ने घटादावव्याप्तिः । अभावविरहात्मकत्वलक्षणस्य प्रतियोगित्वस्य विवक्षि-तत्वात् । घटादेस्तूक्तभेदं प्रति निरूपकत्वमात्रस्य सत्त्वेनोक्तप्रतियोगित्वविरहात्’ इत्युक्तम् ।
तत्राभावेत्यादेरयमभिप्रायः । नैयायिकादिमते अभावविरहात्मत्वं नान्योन्याभाव-प्रतियोगितारूपम् । घटभेदविरहस्य घटरूपत्वे घटवति भूतले घटभेदो नास्तीति प्रतीत्या-पत्तेस्तद्विरहस्य घटत्वादिरूपत्वेन घटस्य तत्प्रतियोगित्वाभावापत्तेः । किन्तु संसर्गाभाव-प्रतियोगित्वरूपमेव । तथा च परेषां मते अभावविरहात्मकत्वं यादृशं तत्तुल्यस्य विवक्षि-तत्वादित्यर्थः । तच्च सत्त्वासत्त्वयोः परस्परविरहरूपतोपपादनार्थं पूर्वं निरुक्तमेवानु-सन्धेयमिति । न चैतन्मते सर्वदेशवृत्तित्वमात्रघटितस्यापि लक्षणत्वसम्भवात्तत्परित्यागायोगः। अप्रामाणिकप्रतियोगिकस्याप्यत्यन्ताभावस्य प्रतियोग्यारोपे यत् प्रधानं तेनापि साकं विरोधेन व्यतिरेकिताया एतन्मतसिद्धत्वस्य पूर्वमप्रामाणिकप्रतियोगिताकाभावविचारेऽस्माभिरुक्तत्वेन सर्वदेशवृत्त्यभावप्रतियोगित्वस्याऽरोप्यमाणे गोत्वाश्वसंसर्गे अभावेन तस्य सत्त्वापत्तेः देश-घटितार्थस्य परित्यागोपपत्तेः । न चैतन्मते घटे कालत्वं नास्तीति प्रतीतिसिद्धाभावस्य स्वप्रतियोग्यारोपप्रधानभूतकालत्वाधिकरणवृत्तितयोक्तलक्षणस्य १तादृशाभावप्रतियोगिन्य-सत्यतिव्याप्तिरिति कालघटितपरिष्कारोऽप्ययुक्त इति वाच्यम् । एतन्मते देशविधया कालविधया च धर्मितावैलक्षण्याभ्युपगमात् प्रकृते कालविधयाऽभावधर्मिताया निवेशा-त्तस्योक्तप्रधानाविरोधत्वेनादोषात् ।
न्यायामृतेऽपि देशपदमनपेक्षितमित्युक्त्या कालघटितपरिष्कारमात्रादरणं तु अप्रामाणिक- प्रतियोगिकात्यन्ताभावानां केवलान्वयित्वमेवेति केषाञ्चित् केवलान्वयित्वं केषाञ्चि-द्व्यतिरेकित्वमिति च पूर्वोपदर्शितमतद्वयेऽप्यविप्रतिपन्नत्वेनेति ध्येयम् ।
यत्त्वत्र ब्रह्मानन्देनाभिहितम् ‘यत्तु सर्वकालवृत्तित्वमेवाभावे विशेषणं देयम् । न तु सर्वदेशीयत्वम् । अश्वाद्यवच्छेदेन गोत्वाद्यभावो न कदापि वर्तते । मानाभावात् । इदानीमश्वे गोत्वं नास्तीति प्रत्ययस्तु गोत्वाश्वयोरलीकसंसर्गस्यात्यन्ताभावमवगाहते न तु गोत्वस्य । तथा च गोत्वादौ सर्वकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावसत्त्वात्तत्र नाव्याप्तिः । सर्वदेश-वृत्त्यत्यन्ताभावप्रतियोगित्वाभावस्तु न लक्षणम् । घटादौ तादृशप्रतियोगित्वसत्त्वात्तत्रा-व्याप्तेः। घटादेर्हि स्वाधिकरणभूतलादितोऽपसरणकाले तत्रात्यन्ताभावः प्रतीयते । अत्र भूतले इदानीं घटो नास्तीति धीर्हि घटस्यैवात्यन्ताभावं गृण्हाति । घटस्यैवोक्तकाले उक्तभूतले आरोपसम्भवात् । आरोपितस्यैवालीकत्वेनात्यन्ताभावप्रतियोगित्वादिति माध्वे-नोक्तम् । तदयुक्तम् । गोत्वादेरप्यश्वादावारोपसम्भवेन तत्राव्याप्तितादवस्थ्यात् । अलीक-स्यैवात्यन्ताभावप्रतियोगित्वमिति नियमे मानाभावाच्च । यदि च तादृशनियमः स्वीक्रियते तदाऽत्यन्ताभावप्रतियोगिता न केनापि धर्मेण सम्बन्धेन वाऽवच्छिन्ना । अलीकस्य सर्वदेशकालासम्बन्धेन धर्मविशेषसम्बन्धविशेषावच्छेदकत्वे अनपेक्ष्यैव तदत्यन्ताभावस्य सर्वत्र सम्भवात् । अत एव ध्वंसप्रागभावप्रतियोगिता १तादृशीति नव्याः । तथा च तव मते धर्मसम्बन्धविशेषाणां संसर्गाभावप्रतियोगितावच्छेदकत्वस्यानुभूयमानस्यापलापापत्तेः’ इति ।
तत्तुच्छम् । त्वदुक्तानुपूर्व्या न्यायामृततरङ्गिण्यादौ कुत्राप्यभावेनानुक्तानुवादपूर्वकोपा-लम्भरूपदोषस्य स्फुटत्वात् । न च तदभिप्रेतार्थस्यैवानुवादोऽयमिति वाच्यम् । त्वदुक्तार्थ-स्यात्यन्तासम्भावितत्वेन तदभिप्रेतत्वायोगात् । न हि गव्यश्वत्वं नास्तीति धियः सकाशादत्र भूतले इदानीं घटो नास्तीति धियो मात्रयापि विशेषोस्ति । येनेदमभिप्रेतं स्यात् । न च पूर्वं घटस्य सत्त्वादारोपरूपं घटवद्भूतलमिति ज्ञानं घटरूपप्रतियोग्यवगाहीत्यभिमान इति वाच्यम् । तस्यारोपरूपत्वाभावात् । तन्मते तत्र प्रतीयमानाभावस्य घटसंसर्गध्वंसादिरूपस्य सर्वदेशवृत्तित्वाभावाच्च । अत्यन्ताभावतयाऽभिमाने सर्वकालवृत्तीत्यनेनापि घटादावव्याप्ते-रवारणात् । देशघटितपरिष्कारपरित्यागबीजस्य कथितत्वेन तस्याप्युक्तासम्भाविताभिमान-कल्पकत्वाभावाच्च । आरोपितस्यैवात्यन्ताभावेत्यनूदितचरमवाक्यस्य उपपाद्यमानाया घटादाव व्याप्तेर्विरोधित्वाच्च । कथञ्चित्तदुपपादनपरतया योजनमशुद्धं पठित्वेतिन्यायमनुकरोति ।
यदपि दूषणग्रन्थे गोत्वादेरित्यादि तदपि पूर्वोक्तवाक्यानां कमप्यभिप्रायमनवबुद्ध्यैव प्रवृत्तमिति महदाश्चर्यम् ।
यदि चेत्युक्तिरपि न साधीयसी । अलीकस्यैवात्यन्ताभावप्रतियोगिताया अस्माभिः पूर्वमुपपादितत्त्वात् । प्रतियोगितानां धर्मसम्बन्धावच्छिन्नत्वादेः पूर्वं निरस्तत्वेन तदपलापा-पादनमप्यकिञ्चित्करम् । तयोरनुभवसिद्धत्वे तुच्छप्रतियोगिकत्वेऽपि संयोगेन शशविषाणं नास्तीत्यादिप्रतीतिबलादेवाङ्गीकर्तुं शक्यत्वात् । तत्तदभावधियां प्रतिबध्यप्रतिबन्धकभाव-युक्तेरपि तौल्याच्चेति न किञ्चिदेतत् ।
उक्तासत्त्वाभावरूपसत्त्वं प्रत्यक्षेण गृह्यते । अत्यन्ताभावप्रतियोगित्वस्यासन्मात्रनिष्ठस्य घटादिनिष्ठत्वे तथोपलम्भापादनसम्भवात् । नचासता सहेन्द्रियसन्निकर्षायोगात्तन्निष्ठधर्मस्यापि तद्द्वारेन्द्रियसंन्निकर्षायोगात्तत्प्रत्यक्षस्यैवायोगेन कथमत्र तदापादनमिति वाच्यम् । तस्य च रूपादिवद्धर्मिसत्तासापेक्षधर्मत्वाभावेनैतन्निष्ठधर्मत्वस्य बौद्धस्य विलक्षणस्यैव व्यवस्थापितत्वेन तद्भाने तत्सन्निकर्षाभाव१सन्निकर्षप्रतियोगिज्ञानादेरेव सामग्रीत्वेन शुक्तौ रजतत्वं नास्ति घटो नास्तीत्याद्यभावप्रत्यक्षप्रमादौ क्लृप्ततया तद्बलादेवात्राप्यापादनसम्भवात् । न ह्येकत्र यादृशी सामग्री नियामिका प्रत्यक्षोत्पत्तौ सर्वत्रापि तादृश्येवेति नियमोऽस्ति । तथात्वे तमस्यालोकसंयोगायोगात्तद्घटितसामग्य्रा घटादिप्रत्यक्षस्येव तत्प्रत्यक्षस्यापादयितुमशक्यत्वात् आलोके तमोऽभावप्रत्यक्षापलापापत्तेः । वस्तुस्वभाववैचित्र्यात्तत्प्रत्यक्षसामग्य्रा वैलक्षण्यं चेदत्रापि तथास्तु । विशेष्यतया अत्यन्ताभावप्रतियोगित्वघटितमिथ्यात्वग्रहं प्रत्यत्यन्ताभाव-प्रतियोगित्वसामान्याभावरूपसत्त्वग्रहस्य विरोधितायामविवादात् ।
प्रामाणिकप्रतियोगिकात्यन्ताभावस्यापि स्वीकर्तृनये कालत्वव्यापकानवच्छिन्नाधि-करणताकाभावीयकालिकसम्बन्धावच्छिन्नप्रतियोगित्वं देशत्वव्यापकानवच्छिन्नाधिकरणताक-सम्बन्धत्वविशिष्टसम्बन्धावच्छिन्नप्रतियोगित्वं वाऽसत्त्वं तदभावः सत्त्वम् । विषयितायाः सम्बन्धत्वानङ्गीकारात्सम्बन्धे तद्भिन्नत्वनिवेशाद्वा देशत्वस्याव्याकृताऽकाशांशमात्रवृत्ति-रूपस्य निवेशाद्वा विषयितया ज्ञानादिरूपदेशे सम्बद्धशशविषाणादौ न द्वितीयासत्त्व-लक्षणस्याव्याप्तिः । कालिकसम्बन्धानङ्गीकारे सर्वेषामपि वस्तूनामुक्तदेशकालयोः संयोगेनैव वृत्त्यङ्गीकारे प्रतियोगितायां संयोगावच्छिन्नत्वमेव निवेश्यम् । मिथ्यात्ववादिनामपि मां प्रति साध्याप्रसिद्ध्यादिवारणायोक्तरीतिरेवादरणीया । ततश्चोक्तसत्त्वमपि प्रत्यक्षगम्यमेव तदभिमतमिथ्यात्वं विरुणद्धीति ।
ननु कालत्वव्यापकत्वं कालनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावः कालनिष्ठात्यन्ताभाव-प्रतियोगित्वाभावो वा न प्रत्यक्षगम्यः । अतीन्द्रियात्यन्तान्योयाभावीयप्रतियोगिता-तदवच्छेदकतासाधारण्यात्प्रतियोगितावच्छेदकधर्मस्य तदवच्छिन्नोपलब्धेरापादयितुमशक्यत्वे-नोक्ताभावरूपव्यापकत्वस्याप्रत्यक्षतया तद्घटितोक्तसत्त्वरूपाभावस्यापि न प्रत्यक्षं घटते । तद्धर्मावच्छिन्नाभावलौकिकप्रत्यक्षे प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मविशिष्टांशे आपादनयोग्यलौकिकप्रत्यक्षरूपोपलब्धिप्रतियोगिताकाभावस्य तन्त्रत्वात् । अन्यथा गुरुत्व-विशेषवद्घटत्वावच्छिन्नप्रतियोगिताकाभावोऽपि लौकिकप्रत्यक्षविषयः स्यादिति चेन्न ।
इदानीं घट एव न घटाभावः अयं कालो न घटाभाववानिति अत्र घटो नात्र घटाभावो नायं घटाभाववानिति साक्षात्कारेणैव घटत्वावच्छिन्नप्रतियोगिताकत्वेन गृह्यमाणेऽभावे देशकालवृत्त्यत्यन्तान्योन्याभावप्रतियोगितातदवच्छेदकत्वयोर्गृहीतत्वेन तदभावस्य प्रमेयत्वादौ संयोगेन रूपाभावादौ च चक्षुषैव गृहीतुं शक्यत्वेन व्यापकताया अप्यतीन्द्रियत्वाभावेन तद्घटितोक्तप्रतियोगित्वाभावस्यापि साक्षात्कारसम्भवात् । सम्बन्धसामान्यावच्छिन्न-प्रतियोगिताघटितकल्पे तादृशप्रतियोगिता शशविषाणादिनिष्ठैव प्रसिद्धा ।
ननु शशविषाणाभावप्रमेयत्वादौ असन्निकृष्टदेशान्तरवृत्त्यभावप्रतियोगित्वादिसत्त्वेऽपि तदनुपलम्भसम्भवाद्योग्यानुपलब्ध्यसम्भवान्न तदभावरूपव्यापकताप्रत्यक्षसम्भवः । अत एव दीधितिकृतोक्तम् ‘यथा विद्यमानमपि वह्नित्वे रासभदेशनिष्ठात्यन्ताभावप्रतियोगिता-वच्छेदकत्वं न गृह्मते । अभावदेशविप्रकर्षादिनेन्द्रियसन्निकर्षादिरूपग्राहकाभावात् । तथा धूमवन्निष्ठाभावप्रतियोगितावच्छेदकत्वमपीति नानुपलब्धेः प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रति-योगिकत्वलक्षणयोग्यतेति तदभावो नाध्यक्षः’ इति । इति चेन्न । देशान्तरादेरनुप-स्थितिदशायां विद्यमानदेशसन्निकर्षादिकाले ‘प्रमेयत्वादिकं देशनिष्ठात्यन्तान्योन्याभाव-प्रतियोगितातदवच्छेदकतावत्स्यात् घटाभाववत्तथोपलभ्येत’ इत्यापादनसम्भवेनानुपलब्धेरुक्त-योग्यत्वस्याप्रतिहतेः। न च व्यवहितदेशेऽतीन्द्रियपिशाचपरमाण्वादौ प्रमेयत्वादेरभावसत्त्वेप्य-ग्रहसम्भवात्तच्छङ्कया नोक्तापत्तेरवतार इति वाच्यम् । शङ्काविशेषाभाववतां तदापादन-सम्भवात् । अन्यथा कस्यचिच्छङ्काविशेषेणापत्तेः कुण्ठितत्वमात्रेण योग्यानुपलब्धिखण्डने अतीन्द्रियो वा स्वमात्रप्रत्यक्षाविषयस्तत्कालमात्रप्रत्यक्षाविषयोऽपि कश्चिद्घटः सम्भावित इति विप्रलम्भकवाक्यादिना भ्राम्यतः घटोऽत्र यदि स्यात्तर्ह्युपलभ्येतेत्यापादनस्य तादृशाशङ्का-कुण्ठितत्वेन घटाद्यनुपलब्धेरप्ययोग्यत्वापत्त्या घटाभावादेरप्यप्रत्यक्षतापत्तेः । उक्तशङ्काया अतिप्रसक्तत्वाच्छङ्काशून्यपुरुषीयापाद्यापादकव्याप्तिप्रमापूर्वकापादनयोग्यप्रतियोगिकत्वमेवानुपलब्धौ योग्यत्वं चेदत्रापि तत्तुल्यम् । प्रमेयत्वशशविषाणाभावादौ देशकालनिष्ठाभावप्रतियोगिता-तदवच्छेदकतारूपप्रतियोगिग्राहकातिरिक्तविशेषणा १विशेषितं तादृशप्रमेयत्वादिरूपपक्षावृत्ति-विशेषणाविशेषितं च यत्तादृशप्रतियोगितारूपप्रतियोगितद्रूपापादककापत्तेरपि व्याप्तिप्रमा-पूर्वकत्वात् प्रमेयत्वादेरपि योग्यत्वेन योग्यवृत्तित्वविशिष्टतादृशप्रतियोगितारूपापादकस्योक्त-रूपत्वाक्षतेश्च । वह्नित्वेऽपि रासभदेशसन्निकर्षदशायां तद्देशनिष्ठाभावप्रतियोगितावच्छेदकत्व-त्वेनेव सामान्यतो रासभदेशनिष्ठाभावप्रतियोगितावच्छेदकतात्वेनापि प्रत्यक्षं भवत्येव । तद्वद्देशान्तराद्यनुपस्थितिदशायां धूमवन्निष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नोपलब्धे-रप्यापादयितुं शक्यत्वेन तदभावोऽपि प्रत्यक्ष एव । न हि सन्निकृष्टकतिपयदेशातिरिक्त-धूमवद्देशानुपस्थित्या शङ्काभावदशायां धूमवदिन्द्रियादिसन्निकर्षदशायां धूमवन्निष्ठाभावप्रति-योगितावच्छेदकत्वाभावधीर्न जायत इति वक्तुं शक्यते । अनुभवविरोधात् । व्यापकता-भ्रमानुपपत्तिप्रसङ्गाच्च । घटत्वादौ नियतोपस्थितधूमवद्देशान्तरनिष्ठाभावप्रतियोगितावच्छेद-कत्व सन्देहनिरासोपयोगिनोऽन्यत्वानुपपत्तिरूपतर्कानवतारस्यानुभवसिद्धत्वात् । तथा तादृशावच्छेदकत्वाभावग्रहस्य लिङ्गशब्दाद्यजन्यत्वाल्लौकिकप्रत्यक्षात्मकत्वमेव ।
यद्यपि चक्षुषा धूमादिस्फुरणकाले तन्निष्ठतत्तद्रूपादीनां प्रतिभासावश्यकत्वात् तद्घटित-स्योक्तधर्मस्य कथं प्रतियोगितावच्छेदकत्वेन भानमिति वक्तुं शक्यते तथापि तेषां प्रति-योगितावच्छेदकाघटकतया धूमांशे स्वातन्त्र्येण भानाङ्गीकारान्न कोऽपि दोषः । अन्यथा घटादिरूपप्रतियोगिसन्निकर्षकाले तद्रहितदेशे उक्तरीत्या घटसामान्याभावप्रत्यक्षानुपपत्तिः । एवमुपस्थितस्य तदंशे नियमेन भाने जातिमान्घट इति प्रत्यक्षानुपपत्तिश्चेति । परन्तु देशान्तराद्युपस्थितिदशायां तदसन्निकर्षात्तन्निष्ठाभावप्रतियोगितावच्छेदकत्वसन्देहेन सामान्यतो धूमवन्निष्ठाभावप्रतियोगितावच्छेदकत्वसन्देहस्य पूर्वज्ञानाप्रामाण्यज्ञानाहितस्य सम्भवो यदा तदा धूमवन्निष्ठाभावप्रतियोगितावच्छेदकत्वाभावप्रत्यक्षनिश्चयो न जायते । न ह्युत्पन्नघट-सामान्याभावप्रत्यक्षनिश्चयवतोऽपि विप्रलम्भकवाक्याहितस्वप्रत्यक्षायोग्यघटसम्भावनया पूर्वोत्पन्नज्ञानाप्रामाण्यसन्देहेन घटाभावप्रत्यक्षनिश्चयो न जायत इत्येतावता घटाभावस्य प्रत्यक्षायोग्यत्वम् ।
दीधितिग्रन्थोऽपि शङ्कादशायां तदभावस्याध्यक्षत्वाभावपरः । एवं ‘मूर्तसामान्य-तद्वतोरिवोपाधिसामान्यतद्वतोरंत्यन्ताभावान्योन्याभावौ न योग्यौ’ इति व्याप्तिग्रहोपाय-स्थदीधितिवाक्यमुक्ततात्पर्यकमेव । सर्वथा अयोग्यत्वतात्पर्ये तस्यानादरणीयत्वमेव । अनुभवसिद्धेऽर्थे दीधितिविरोधस्याकिञ्चित्करत्वात् । एवं व्याप्तिग्रहोपायटिप्पण्यां प्राचीन-नैयायिकनये व्यापकतायाः लौकिकप्रत्यक्षविषयत्वस्य गदाधरभट्टैरुक्तत्वाच्च । त्वयापि ‘तथा च शिरोमण्याद्युक्तवाक्ये प्रकारत्वादेः प्रतियोगित्वानुयोगित्वादिक्लृप्तपदार्थातिरिक्तत्वोक्ति-रसङ्गता’ इति सामान्यलक्षणाखण्डनप्रघट्टिकास्थवाक्ये बहुषु स्थलान्तरेष्वपि दीधितिश्रद्धाया युक्तिसिद्धार्थे त्यक्तत्वाच्च ।
तथा च देशकालनिष्ठात्यन्तान्योन्याभावप्रतियोगित्वतदवच्छेदकत्वाभावरूपव्यापकत्वस्य लौकिकसाक्षात्कारविषयत्वात्तदाश्रयीभूतानां शशविषाणाद्यभावानां लौकिकप्रत्यक्षविषयत्वा-त्तत्प्रतियोगित्वाभावतद्वद्भेदरूपसत्त्वं चाक्षुषमेव । न च शशविषाणादीनामसत्त्वेना-योग्यत्वात्कथं तदभावः प्रत्यक्षः । तदुपलम्भापादनायोगादिति वाच्यम् । शशसम्बन्धित्व-विशिष्टविषाणत्वजात्याक्रान्तं यदि अत्र स्यात् तर्हि महत्त्वोद्भूतरूपवत्त्वप्राप्त्या उपलभ्ये-तेत्यापादनसम्भवात् । यदि शशसम्बन्धिमहत्त्वोद्भूतरूपवद्द्रव्यं विषाणत्ववत्स्यात् तर्हि शशसम्बन्धविषाणत्वोभयवत्तयोपलब्धिमत्स्यादित्यापादनयोग्योपलब्धिप्रतियोगिकाभावस्य वा शशविषाणाद्यभावप्रत्यक्षहेतुत्वसम्भवात् । अन्यथा अनुमानादेरप्रयोजकत्वादिशङ्काकुण्ठित-त्वेनानिश्चायकत्वात् तत्प्रत्यक्षानङ्गीकारे शशविषाणाद्यभावव्यवहारस्य सर्वसिद्धस्य विलोप-प्रसङ्गात् । न च तादृशशशविषाणाद्यभावीयप्रतियोगिता शशविषाणादिनिष्ठा इन्द्रिय-सन्निकर्षायोगादयोग्यैवेति कथं तदुपलब्धेरापादनयोग्यतेति वाच्यम् । शशे विषाणारोपानन्तरं शुक्तौ रजतारोपानन्तरं अत्र विषाणं नास्ति शुक्तौ रजतं नास्तीति प्रत्यक्षस्य तव मम च सिद्धत्वेन धर्मीन्द्रियसन्निकर्षादिकं विनैव स्वसन्निकर्षेणैतत्प्रत्यक्षस्य ममाभ्युपगमसम्भवात् । अन्यथा शुक्तिरजतादेर्मिथ्यात्वस्य त्वया प्रत्यक्षविषयत्वं कथितमयुक्तं स्यात् ।
न चाभावस्यैव प्रत्यक्षविषयत्वम् । संसर्गमर्यादया भासमाना प्रतियोगिता परमलौकिक-सन्निकर्षेणैवावभासते । स्मर्यमाणघटप्रतियोगिकाभावप्रत्यक्षस्थले प्रतियोग्यंश इव प्रतियोगि-त्वांशेप्यलौकिकविषयताया एवाभ्युपगतत्वात् । तथा च रजतप्रतियोगिकाभावसाक्षात्कार-मात्रेण मिथ्यात्वेऽपि प्रत्यक्षत्वव्यवहार इति वाच्यम् । एवमपि सन्निकृष्टघटस्य देशान्तरेऽ-भावप्रत्यक्षस्थलेऽभावांश इव प्रतियोगितत्त्वांशयोरपि लौकिकविषयतायाः सम्भवेन योग्य-वृत्तिप्रतियोगिताया योग्यतया ‘घटे यदि देशत्वव्यापकाभावप्रतियोगिता स्यात्तर्हि देशान्तर-वृत्त्यभावप्रतियोगितेवोपलभ्येत’ इत्यापादनसम्भवेनोक्तप्रतियोगित्वानुपलब्धेरपि योग्यत्वात् । अन्यथा स्तम्भे पिशाचत्वाभावपिशाचभेदौ घटे परमाणुत्वाभावतद्भेदौ च प्रत्यक्षेण न गृह्येताम् । पिशाचत्वपरमाणुत्वयोरतीन्द्रियत्वात् । तयोरतीन्द्रियत्वेऽपि योग्यवृत्तिजाति-परिमाणयोर्योग्यत्वमिति सामान्यव्याप्तिबलादेव तयोरुपलम्भापादनोपपादनेऽत्रापि तदुपपादित- मेव । न चोक्तस्थले परमाणुभेदतत्त्वाभावयोरनुमितिरेव महत्वादिलिङ्गिका । झटिति स्फुट-लिङ्गेन जायमानत्वात्तत्र साक्षात्कारत्वभ्रम इति वाच्यम् । पिशाचत्वाभावादिकं न साक्षात्करोमीत्यादिबाधानुदयेऽपि वृथा तस्य भ्रमत्वकल्पने घटादिस्थलेऽप्येवमेव कल्पना-पत्त्याऽनुमेय१बहिस्तत्ववादापत्तेः । भ्रमत्वप्रयोजकदोषकल्पनाप्रयुक्तगौरवापाताच्च । न चैन्द्रियकप्रतियोगिकाभावस्थल एवास्मदभिमतयोग्यानुपलब्धिसम्भवात्प्रकृते तस्या अयोगेन कारणबाधादनुमितित्वसिद्धौ तत्र साक्षात्कारत्वप्रत्ययस्य भ्रमत्वमुच्यत इति वाच्यम् । अबाधितसाक्षात्कारत्वप्रत्ययेनानुमितित्वानुमानस्यैव बाधितत्वेनास्मदुक्तरीत्यैव फलानुसारेण योग्यानुपलब्धेरुपपादनौचित्यात् । न च पिशाचभेदस्यैव प्रत्यक्षत्वमस्तु । तत्राधिकरण-योग्यतायास्तन्त्रत्वात् । पिशाचत्वाभावस्तु तेनानुमीयत एवेति युक्तम् । विनिगमका-भावेनोभयोरपि प्रत्यक्षत्वात् । तद्धर्मावच्छिन्नभेदस्य तद्धर्माभावरूपतामते तत्प्रत्यक्ष-स्यावश्यकत्वाच्च ।
नन्वेवं तर्हि धर्माधर्मगुरुत्वाद्यभावस्यापि प्रत्यक्षत्वापत्तिः । योग्यवृत्तिगुणस्य योग्यत्व-मिति सामान्यव्याप्त्यैव तत्प्रत्यक्षस्यापि आपादनसम्भवात् । न च तत्रेष्टापत्तिः सम्भवति । विष्णुतत्वनिर्णयटीकासुधादौ तेषां प्रत्यक्षाविषयत्वस्यैवाभ्युपगतत्वेनेष्टापत्तावपसिद्धान्ता-पातात् । न च योग्यगुणत्वमात्रं नोपलब्धिविषयत्वव्याप्यम् । गुरुत्वादिप्रत्यक्षानुदयेन व्यभिचारात् । अतो लौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति तादात्म्येन गुरुत्वधर्मादेः प्रतिबन्धकतया तत्तद्भिन्नत्वसहितमेव । तस्य च धर्मादावभावात् कथं तत्रोपलब्ध्यापादनमिति वाच्यम् । तर्ह्यतीन्द्रियभेदस्य प्रत्यक्षसामग्रीनिविष्टतया पिशाचत्वपरमाणुत्वादावपि कथं प्रत्यक्षापादनसम्भव इति चेन्न । यतोऽतीन्द्रियत्वं लौकिकप्रत्यक्षाविषयत्वम् । तदवच्छिन्नस्य तादात्म्येन प्रतिबन्धकत्वमङ्गीकृत्य तदवच्छिन्नभेदस्यैकस्यैव प्रत्यक्षसामग्रीशरीरनिवेशे तस्य प्रत्यक्षविषयत्वरूपतया प्रत्यक्षविषयत्वे प्रत्यक्षविषयत्वस्य तदभावे तदभावस्य प्रयोजकत्वा-पत्त्यात्माश्रयापत्त्या गुरुत्वधर्मादीनां तत्वेनैव प्रतिबन्धकत्वं कल्पनीयम् । मतान्तरे महत्वोद्भूतरूपावच्छिन्नचक्षुःसंयुक्तसमवायरूपसन्निकर्षस्य मनःसंयुक्तसमवायरूपसन्निकर्षस्य नैयायिकनये सिद्धान्ते साक्षिसम्बन्धादेः सत्त्वेऽपि तत्प्रत्यक्षानुदयात् । न चैवं पिशाचत्व-परमाणुत्वादीनां तत्तद्व्यक्तित्वादिना प्रतिबन्धकत्वे बीजमस्ति । आवश्यकमहत्वोद्भूतरूपा-वच्छिन्नचक्षुःसंयुक्तसमवायरूपसन्निकर्षाभावादेव तद्वारणात् । तथा च घटे परमाणुत्वाद्यङ्गी-कारे गुरुत्वादिभेदकूटविशिष्टयोग्यवृत्तिगुणत्वादिरूपव्याप्यापादनद्वारकोपलब्ध्यापादनं युक्त-मेव । पिशाचादीनां वायवीयत्वेन रूपाद्यभावेन तदुपलम्भापादनायोगात्तदभावो न प्रत्यक्षः । धर्मिणः प्रतियोगिनश्चैन्द्रियकत्वं न प्रयोजकम् । काले रूपाभास्य परमाणौ महत्त्वाभावस्य घटे मनस्त्वाकाशत्वाभावादेरध्यक्षसिद्धत्वादित्यादिकं बहुतरमूहनीयम् ।
यत्तु ‘कालस्य चक्षुरयोग्यत्वात्कथं कालघटितोक्तधर्मे लौकिकप्रत्यक्षापादनम्’ इति । तन्न । कालस्य साक्ष्युपनीतस्यैव घटादौ भानाङ्गीकारेण तदंशे उपनयात्मकस्यान्यांशे चाक्षुषात्मकोपलम्भस्यैव तादृशसामग्रीबलादापादनसम्भवेन तदंशे उपनयात्मकस्येतरांशे लौकिकरूपस्योक्तसत्त्वप्रत्यक्षस्य बाधकत्वसम्भवात् ।
ननु तर्हि लौकिकप्रत्यक्षबाधप्रतिज्ञा व्याहन्येतेति वाच्यम् । ग्राह्याभावांशे लौकिकत्व-मात्रस्य प्रतिज्ञातत्वात् । न हि लौकिकप्रत्यक्ष इत्युक्तेः सर्वांशे लौकिकत्वमित्यर्थः पर्यवस्यति । तथात्वे वह्निशैत्यानुमानबाधरूपत्वाचप्रत्यक्षस्य वह्नौ शीतस्पर्शाभावावगाहिनः प्रतियोग्यंशे लौकिकत्वाभावत् प्राचां तत्र लौकिकप्रत्यक्षबाधोक्तिरप्येवं प्रत्याख्येया स्यात् । ननु तर्हि प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणधर्मे लौकिकप्रत्यक्षापादनयोग्यत्वस्याभाव-प्रत्यक्षातन्त्रत्वे गुरुत्वविशेषवद्घटत्वावच्छिन्नाभावप्रत्यक्षमपि जायतामिति चेद्गुरुत्वांशे उपनयात्मकस्येतरांशे लौकिकस्य प्रत्यक्षस्यापादनसम्भवेन तादृशतत्प्रत्यक्षापादनस्येष्टत्वात् । अत एव ग्रहादौ चक्षुर्व्यापारानन्तरमेव तादृशघटो नास्तीति व्यवहाराविलम्बो युज्यते ।
एतेन पटे घटत्वं नास्तीति लौकिकप्रत्यक्षे घटेतरासमवेतत्वसहितसकलघटसमेवेतत्वं न प्रतियोगितावच्छेदकतया भासते । सकलघटानामसन्निकृष्टत्वात् । घटेतरमध्येऽतीन्द्रिय-परमाण्वादेरपि निविष्टत्वात् । किन्तु घटसमवेतत्वमात्रं भासते’ इति परोक्तमश्रद्धेयमेव । उक्तरीत्या विशिष्टघटत्वत्वस्यैव प्रतियोगितावच्छेदकत्वे बाधकाभावेनोक्तकल्पनाया निर्मूल-त्वात् । अन्यथा घटसमवेतत्वोपलक्षिताभावप्रतीतौ पटे घटसंयोगकाले घटत्वं नास्तीति प्रत्यक्षानुपपत्तिः । विशिष्टाभावस्यैव प्रत्यये त्वन्मते घटत्वत्वोपलक्षितघटत्वाभावावगाहिनो घटत्वं नास्तीति प्रत्यक्षस्यापलापापत्तिः । तादृशप्रत्यक्षानन्तरं घटत्वातिरिक्तघटसमवेतत्व-विशिष्टवान्न वेत्यनुभूयमानसंशयानुपपत्तिश्च ।
ननु प्रतियोगितावच्छेदकधर्माश्रयमात्रे आपाद्यमानोपलब्धिप्रतियोगिकाभावमात्रस्य तद्धर्मा- वच्छिन्नाभावप्रत्यक्षहेतुत्वे दण्डोपलक्षितपुरुषवति दण्डविशिष्टपुरुषाभावप्रत्यक्षानुपपत्तिः । तत्रेष्टापत्त्या दण्डाश्रयपुरुषप्रत्यक्षस्यापादनायोगेनापाद्यमानत्वयोग्योपलब्धिप्रतियोगिकाभावा-सत्त्वादिति चेन्न । विशेषणतया तद्धर्मावच्छिन्नाभावप्रत्यक्षे विशेषणविशेष्यघटितविशिष्ट एवापादनयोग्योपलब्ध्यभावस्य हेतुता । उपलक्षणविधया तद्धर्मावच्छिन्नाभावप्रत्यक्षे तद्धर्मोप-लक्षिते आपादनयोग्योपलब्ध्यभावस्य हेतुत्वमित्यङ्गीकारेण सर्वसामञ्जस्यात् । ‘घटत्वत्वेन घटत्वाभावो न प्रत्यक्षः’ इति दीधित्युक्तेरपि विशिष्टाभावाभिप्रायकत्वात् । प्रकृतसत्त्वरूपा-भावप्रतियोगितावच्छेदकीभूतदेशकालादिघटितधर्मस्योपलक्षणविधयैव तथात्वाङ्गीकारात् प्रकृते न कोऽपि दोषः ।
यद्वा स्वदेशकालयोः सन्निकृष्टत्वात्तन्निष्ठाभावप्रतियोगित्वाभावग्रहणमात्रेण मिथ्यात्वधी-र्विरुद्ध्यते ।
ननु यावन्तो देशकालादयस्तत्तन्निष्ठात्यन्ताभावप्रतियोगित्वकूटं मिथ्यात्वम् । तादृश-कूटत्वावच्छिन्नाभावः सत्त्वमिति पक्षो न सङ्गच्छते । तादृशकूटत्वावच्छिन्नस्य युगसहस्रेणापि दुर्ग्रहत्वापत्तेः । किन्तु देशकालत्वव्यापकाभावप्रतियोगित्वमेव । तत्र देशकालविशेषनिष्ठा-भावप्रतियोगित्वाभावस्य बुद्धिः कथं विरोधिनी । स्वदेशकालव्यक्तेर्मिथ्यात्वशरीरे तत्त्वेन तद्व्यक्तित्वेनानिविष्टतया तस्योक्ताभावप्रतियोगित्वाभावादिति चेन्न । वह्नौ पर्वतत्वव्यापका-भावप्रतियोगित्वबुद्धिं प्रति नात्र पर्वते वह्न्यभावः किन्तु वह्निरेवेति प्रत्यक्षस्य वह्नित्वा-वच्छिन्नप्रतियोगिताकाभावत्वावच्छेदेन तद्व्यक्तित्वपर्वतत्वोभयरूपवत्पर्वतवृत्त्यभावप्रतियोगि- १त्वमवगाहत इवात्रापि तद्व्यक्तित्वकालत्वदेशत्वाद्युभयरूपेण देशकालावगाहिन इदानीं घटः, नायं कालो घटाभाववान्, नेदानीं घटाभावः, अयं देशो घटवान्, नात्र घटाभावः, नायं घटाभाववानिति सर्वसाक्षिसिद्धसाक्षात्कारस्य घटभावत्वावच्छेदेन तादृशदेशकालनिष्ठाभाव-प्रतियोगित्वावगाहिनस्तादृशव्यापकताग्रहप्रतिबन्धविधया पक्षे साध्यग्रहप्रतिबन्धकत्वे विवादस्य सचेतसामनुचितत्वात् । एवञ्च पर्वतत्वावच्छेदेन वह्न्यभावावगाहिनीं वह्निः पक्षनिष्ठाभाव-प्रतियोगीत्यादिबुद्धिं प्रति पर्वतो वह्निमान् वह्निः पर्वतवृत्तिरिति ज्ञानस्य प्रतिबन्धकतायाः पक्षतादीधित्यादिसम्मततया इदानीं घटः, अत्र घटः, अयं देशो घटवानिति लौकिक-प्रत्यक्षस्य घटादेः देशकालसम्बन्धरूपसत्त्वावगाहिन एव मिथ्यात्वग्रह विरोधित्वेऽनुपपत्त्य-भावेन देशसम्बन्धरूपसत्त्वस्योक्तमिथ्यात्वाविरोधित्वोक्तेरद्वैतसिद्धिकारीयाया असङ्गतत्वमेव । वर्तमानदेशकालसम्बन्धावगाहिप्रतीतेर्मिथ्यात्वग्रहविरोधिताया न्यायामृतोक्ताया ब्रह्मानन्देन यदसम्भवदुक्तिकत्वमभिहितम्, यदपि ‘स्वदेशकालवृत्त्यभावप्रतियोगित्वाभावनिश्चयस्य कालत्वव्यापकाभावप्रतियोगित्वरूपमिथ्यात्वग्रहविरोधित्वं नीलघटाभावनिश्चयस्य घटवत्ता-बुद्धिं प्रतीव’ इति, यच्च तेनैव ‘तथाप्यभ्युपेत्य समाधत्ते’ इत्यवतारितं, ‘स्वदेशकालनिष्ठा-भावप्रतियोगित्वत्वस्याप्यतीन्द्रियाभावीयप्रतियोगितासाधारणतया तदवच्छिन्नाभावोऽपि न प्रत्यक्षः’ इति औतसिद्धिकारीयं दूषणं तदप्ययुक्तमेवेति ध्येयम् ।
ननु प्रतीतदेशकालयोर्निषेधविषयो यो घटाभावस्तदन्यस्य घटाधिकसत्ताकस्या-भावान्तरस्य सत्त्वात्तद्घटितमिथ्यात्वस्यैतद्देशकालसम्बन्धावगाहिप्रतीत्याऽनिषिद्धत्वात्कथं तस्य मिथ्यात्वग्रहविरोधित्वं युक्तमिति चेन्न । महानसीयवह्निग्रहे वह्नित्वावच्छिन्नाभावग्रहस्य वह्नित्वावच्छेदेन पर्वतनिष्ठाभावप्रतियोगित्वग्रहस्येवोक्तस्य देशकालत्वव्यापकाभाव-प्रतियोगित्वरूपमिथ्यात्वस्य ग्रहं प्रति विरोधित्वे विवादायोगात् विरोध्यन्यूनसत्ताकत्वस्य साध्यकोटौ निविष्टत्वेऽपि तद्घटितमिथ्यात्वग्रहे देशकालसम्बन्धग्रहोऽप्युक्तरीत्या विरोध्येव । ननु अभावान्तरशङ्कयोक्तग्रहेष्वप्रामाण्यबुद्धिर्जायत इति चेत् जगन्मिथ्यात्वनिर्णया-त्प्राङ्निर्मूलतादृशशङ्काया एवानुदयात् ।
ननु देशकालसम्बन्धस्यैव सत्त्वरूपतापक्षे कथं सत्तायां सत्ता स्वयमेव भासत इति भावदभ्युपगमः । आत्माश्रयप्रसङ्गात्स्वरूपतो भानायोगाच्चेति चेन्न । देशकालसम्बन्ध-रूपजनेर्जन्यन्तरास्वीकारेण तस्य प्रमेयत्वादिवत्स्वाश्रितत्वस्य स्वांशे स्वरूपतो भानस्य चाभ्युपगमे क्षतिविरहात् । सप्तपदार्थनियमवादिनैयायिकनये सामान्यत्वत्वादीनामाधेयत्वादि-रूपाणां स्वांशे स्वरूपतो भानस्य सिद्धत्वेन तथाङ्गीकारसम्भवात् ।
ननु मिथ्यात्वाभावरूपसत्त्वपक्षे घटादिप्रतीतेः प्राक् नियमेनोक्तनिषेधप्रतियोगित्वरूप-प्रतियोग्युपस्थित्यभावात्कथं घटावगाहिप्रत्यक्षसामान्यस्य सत्तावगाहित्वम् । तदनङ्गीकारे च विधिनिषेधाववधूय प्रतीत्ययोग इति सिद्धान्तानुपपत्तिरिति चेन्न । अनुभवबलादेव तादृश-नियमस्य स्वीकृतत्वेन तद्बलादेव पूर्वं प्रतियोग्युपस्थितिनैयत्यस्यापि कल्पयितुं शक्यत्वात् उक्तनियमस्य कालदेशसम्बन्धरूपसत्त्वविषयकत्वघटितत्वेन वा सामञ्जस्यात् ।
एवं त्रिकालाबाध्यत्वमव्याकृताकाशकालसुखादेः साक्षिणैव गृह्यते । कालस्य साक्षादेव साक्षिप्रत्यक्षविषयत्वात्कालांशेऽप्यपरोक्षत्वम् । न च स्वसम्बद्धसर्वभासकत्वात्साक्षिणः कथं भाविकालभासकत्वम् । अन्यथा भाविसुखस्यापीदानीं प्रत्यक्षतापत्तिरिति वाच्यम् । सर्वेषा-मुत्तरकालानुसन्धानस्य विद्यमानत्वात्तस्याकरे साक्षिरूपताया व्यवस्थापितत्वात् साक्षिप्रत्यक्षं भाविविषयकमेव । परन्तु भाविकालं भावित्वेनैव विषयीकरोति । ननु तथापि तत्कालीन-बाध१प्रमानुत्पत्त्यभावस्येदानीं निश्चयायोगात्कथं बाधप्रमाविषयत्वत्वावच्छिन्नाभावः साक्षि-भास्य इति चेन्न । न ह्यध्यक्षग्राह्यं सत्त्वं बाधप्रमाविषयत्वाभाव इत्यस्माभिरुक्तम् । येनेदं दूषणं सङ्गतं स्यात् । किन्तु कालत्वव्यापकात्यन्ताभावप्रतियोगित्वाभावादिरूपं काल-सम्बन्धादिरूपं च । तस्येन्द्रियग्राह्यत्वं भाविकालाद्यनुपस्थितावप्युपपादितमेव ।
तर्हि भाविकालस्य साक्षिवेद्यत्वं किमर्थं प्राचीनैरुपपादितमिति चेत् । सर्वकालस्यापि साक्षिवेद्यत्वे यावत्यः कालव्यक्तयस्तत्तद्व्यक्तिघटितबाध्यत्वाभावकूटमपि गगनादेः साक्षिसिद्धं भवति । तेन न कदापि तत्र बाध्यत्वशङ्का लोकानामिति रीत्या घटादितो विशेषबोधनाय तदुक्तिसम्भवात् ।
यत्तु ‘प्रमात्वावच्छिन्नं प्रति मनस्त्वेन कारणत्वान्मनोवृत्त्यात्मकज्ञानमेव प्रमा । अविद्योपहिता वाऽविद्यावृत्त्युपहिता वा चित्साक्षी । तस्य च न प्रमात्वम् । अविद्या-निवर्तकत्वाभावेनानधिगततथाभूतार्थावगाहित्वरूपप्रमात्वायोगात्’ इति । तन्न । साक्षिणो वेदवन्नित्यत्वेनाप्रामाण्यप्रयोजकदोषशून्यत्वेनाप्रामाण्यायोगात् ।
ननु भवन्मते दैत्याद्ययोग्यस्वरूपज्ञानस्यानादित्वेऽपि भ्रमत्ववदत्रापि किं न स्यादिति चेन्न । अनादियोग्यताख्यदोषविशेषबलेन क्षेमसाधारणप्रयोजकत्वस्य तत्र तत्राचार्योदाहृत-प्रमाणसिद्धत्वात् । भवन्मते तथात्वे प्रमाणाभावात् ।
किं चाविद्याया एव तत्र दोषविधया प्रयोजकत्वेऽविद्या लब्धसत्ताका प्रयोजिका भवेन्ना-न्यथा । तथात्वे शशविषाणादेरपि प्रयोजकत्वापत्तिः । तथा चाविद्यायाः साक्षिण्यध्य-स्ततयैव सत्ता वाच्या । साक्षिणस्तद्विषयकत्वमविद्यां विना न घटत इति स्फुटमितरेतरा-श्रयः । किञ्च साक्षिनिष्ठविषयीकरणशक्तिरविद्याधीना बाधितार्थविषयीकरणशक्तिर्वा । नाद्यः। तस्याः दोषत्वोक्तेरसङ्गतेः । स्वाभाविकं प्रमात्वं प्रतिबध्य भ्रमत्वप्रयोजकस्यैव दोषपदार्थ-त्वात् । विषयीकरणस्यैव साक्षिणः स्वतोऽभावे घटादिवन्निर्विषयके विषयीकरणशक्त््याधाय-कस्य स्वाभाविकप्रमात्वतिरस्कारकत्वाभावात् । मन्मते चायोग्यतायाश्चेतनस्वभावसिद्धप्रमात्वं प्रतिबध्य प्रकारांशे भ्रमत्वनिर्वाहकतया दोषत्वं युज्यते । न द्वितीयः । मानाभावात् ।
किञ्चाविद्यायाः विषयीकरणांशे अविद्यात्वेन बाधितार्थविषयकत्वरूपं यद्भ्रमत्वं तस्मि-न्विषयितायां बाधितार्थनिरूपितत्वपर्यवसन्ने च प्रयोजकत्वं स्वीकर्तव्यमिति गौरवमिति तस्य विषयीकरणमात्रांशे प्रयोजकत्वमस्तु । असङ्गश्रुतिबलेनासङ्गतया सिद्धस्य स्वभावत इतर-विषयीकरणरूपसंसर्गायोगात् । तथा च तद्विषयीभूतस्य सुखाद्यबाधितत्वस्य कुतो बाधितत्वम् ।
किञ्च साक्षिज्ञानस्य किञ्चिदंशे प्रमात्वं स्वीक्रियते उत सर्वांशे भ्रमत्वम् । नाद्यः । स्वाभाविकप्रमात्वाभावेन किञ्चिदंशे तथात्वे बीजाभावात् । तावतापि मदभिमते सुखादि-स्वरूपे तत्सत्त्वांशे च प्रमात्वेऽपि सुखादेः स्वस्वामिकत्वाद्यंशे भ्रमत्वसम्भवेन मदिष्टाहानेः । न द्वितीयः । शुद्धं न जानामीत्याकारस्य शुद्धचिदवच्छिन्नाज्ञानविषयकसाक्षिप्रत्यक्षस्य शुद्धचिदंशेऽपि बाधितार्थविषयकत्वरूपभ्रमत्वापत्त्या शुद्धचितोऽपि बाधितत्वापत्तेः । न शुद्धत्वोपहितस्यैव तद्विषयत्वात्तस्य मिथ्यात्वात् भ्रमत्वं युक्तमेवेति वाच्यम् । मिथ्याभूतस्य तस्याज्ञाना विषयतयाऽज्ञानस्य तदवच्छिन्नतया भानानुपपत्तिः । उपहितविषयतायाः शुद्धेऽप्यङ्गीकारे शुद्धांशे साक्षिणः प्रमात्वं दुर्वारमेव ।
एवं तत्त्वमस्यादिवाक्यजन्यशुद्धचिन्मात्रविषयकज्ञानग्राहकसाक्षिणा शुद्धचितोऽपि ज्ञाना- वच्छेदकतया गृहीतत्वात्तदंशे प्रमात्वं दुर्वारम् । न च तदंशे साक्षिणाऽज्ञानानिवृत्तेर्न प्रमात्व-मिति वाच्यम् । तावताऽप्यस्मदभिमतस्याबाधितार्थविषयकत्वस्य साक्षिज्ञानेऽव्याहतेः । न च स्वरूपमात्रविषयकस्य निर्विकल्पकत्वेनातीन्द्रियत्वात्कथं तदादाय दूषणाभिधानमिति वाच्यम् । अनावृतसाक्षिसम्बन्धस्य सत्त्वेन परेषां नैयायिकादीनामिव तदतीन्द्रियत्वे बीजाभावात् । धर्मादिवदयोग्यत्वकल्पने गौरवात् ज्ञातैकसत्त्वानुपपत्तेश्च । साक्षिणोऽप्रामाण्येऽधिक-दूषणान्याकारेऽनुसन्धेयानीत्यलम् ।
तस्मात्साक्षिणः प्रामाण्यात्तद्गृहीतं गगनादिसत्त्वमबाधितमेव । एवं घटादावप्यबाधित्वं तज्ज्ञानप्रामाण्यग्राहकेण साक्षिणा गृह्यते । अबाधितार्थविषयकत्वस्यैव प्रामाण्यरूपत्वात् । व्यवसायाविषयस्य बहिःपदार्थस्य साक्षिणा भानायोगाद्घटादिप्रत्यक्षस्याबाधितत्वादिरूप-सत्त्वावगाहित्वसिद्धिश्च ।
नन्वत्यन्ताबाध्यार्थावगाहित्वरूपं प्रामाण्यं न घटादिज्ञाने स्वीक्रियते । शुक्ति-रजतादिज्ञानव्यावृत्तं व्यवहारकालाबाध्यार्थावगाहित्वमेव । तज्ज्ञानेनैव प्रवृत्त्यादिसम्भवात् । तथा च प्रमाण्यघटकतया व्यवहारकालाबाध्यत्वविषयीकरणेऽपि नात्यन्ताबाध्यत्वसिद्धिरिति चेन्न । किं व्यवहारकालाबाध्यार्थावगाहित्वमेव सर्वत्र प्रामाण्यं क्वचिदत्यन्ताबाध्यार्थाव-गाहित्वमपि । नाद्यः । ब्रह्मस्वरूपमात्रपरवेदप्रामाण्यानुरोधात् ब्रह्मणोऽत्यन्ताबाध्यत्वासिद्धि-प्रसङ्गात् । न द्वितीयः । अपौरुषेयत्वेनाप्रामाण्यप्रयोजकदोषाभावसाम्ये स्वतः प्रामाणभावस्य वेदस्य मध्ये कस्यचिदात्यन्तिकप्रामाण्यं कस्यचिदापेक्षिकं प्रामाण्यमिति वैषम्यायोगात् । ब्रह्मपरवाक्यं प्रधानं धर्मादिवाक्यमप्रधानवाक्यमिति चेत् । तर्ह्यप्रधानवाक्यस्य प्रधान-वाक्यापेक्षया न्यूनप्रामाण्यं । तच्च तदर्थापेक्षया न्यूनसत्तावदर्थघटितत्वमेवेति प्राप्तम् । बाढ-मिति चेन्न । तथात्वे प्रयाजादिवाक्यानां प्रधानयागवाक्यापेक्षया न्यूनप्रामाण्यापत्त्या प्रयाजादीनां प्रातिभासिकत्वापत्तेः । धर्मादिवाक्यानां निषेधप्रतियोगिसमर्पकतया ब्रह्म-वाक्येनैकवाक्यतापन्नतया ब्रह्मरूपविषयेणैवैतेषामपि मुख्यप्रामाण्यमस्तीति चेत् तर्हि निषेधप्रतियोगिसमर्पकतया अनुवादकवाक्यस्य स्वार्थसत्तातात्पर्यायोगात् धर्मादीनाम-सिद्ध्याऽनुष्ठानाभावापत्तिः ।
एवं ब्रह्मज्ञानवृत्तिप्रामाण्यं साक्षिणा गृह्यते न वा । नेति पक्षे तत्प्रामाण्यासिद्धिप्रसङ्गः । वेदजन्यत्वादिलिङ्गानां धर्मादिज्ञाने व्यवहारकालाबाध्यत्वादिघटितप्रामाण्यव्याप्यतयैवोप-लब्धत्वेन तैरात्यन्तिकप्रामाण्यासिद्धेः । केवलव्यतिरेकिलिङ्गान्तराणामप्रयोजकत्वात् । आद्ये निष्प्रकारब्रह्मज्ञाने ब्रह्मांशेऽबाधितत्वादेरुपनयमर्यादया भानायोगात्त्त्रिकालाबाध्यत्वस्य साक्षादेव साक्षिभास्यत्वस्यावश्यं वक्तव्यतया त्रिकालाबाध्यत्वस्य साक्षिवेद्यत्वं न घटत इति मां प्रति दूषणोक्त्यसङ्गतिः ।
एवं व्यवहारकालाबाध्यत्वघटितप्रामाण्यं घटादिज्ञाननिष्ठमिति तावद्विवेक्तव्यम् । घटादि-व्यवसायाधिकरणकालव्यक्तिमात्रघटितं उत निखिलब्रह्मज्ञानप्राक्कालघटितम् । नाद्यः । तथात्वे घटादिज्ञानप्रामाण्यग्रहणोत्तरमपि उत्तरकालबाध्यत्वशङ्कया प्रवृत्त्युच्छेदापत्तेः । न द्वितीयः । साक्षिणो वर्तमानकालमात्रग्राहितायास्त्वदभ्युपगतत्वेन प्रामाण्यग्रहणसमय-बाध्यत्वाभावग्रहणमात्रसम्भवेऽपि तदुत्तरकालिकस्वप्रवृत्त्यधिकरणसमयाबाध्यत्वग्रहणायोगा-दुत्तरकालबाध्यत्वशङ्कया प्रामाण्यग्रहणोत्तरमपि निष्कम्पप्रवृत्त्यनुपपत्तेः । प्रथमकल्पस्य शुक्तिरजतज्ञानसाधारणतया द्वितीयपक्षस्य यावद्ब्रह्मज्ञानमसञ्जातबाधभ्रमविषयप्रातिभासिक-ज्ञानसाधारणतयोक्तप्रामाण्यस्य शुक्तिरजतादिज्ञानव्यावृतत्वोक्त्ययोगश्च ।
एतेन ‘ब्रह्मज्ञानेतराबाध्यत्वघटितमेव घटादिज्ञानप्रामाण्यम्’ इत्यप्यपास्तम् । अज्ञात-ब्रह्मणां पामराणां प्रामाण्यग्रहणायोगात्प्रवृत्त्यनुपपत्तेश्च । व्यवहारकालबाध्यत्वस्या-प्यतीन्द्रियाभावादिप्रतियोगिताघटितत्वेन त्वद्रीत्या योग्यत्वाभावेन तदभावस्य प्रत्यक्षाविषय-तयोपनयायोगात्साक्षिणा ग्रहणायोगश्च ।
तस्मान्निष्कम्पप्रवृत्त्याद्यनुरोधात्त्त्रिकालाबाध्यत्वं व्यवसायेन साक्षात्साक्षिणा च प्रामाण्य- घटकतया घटादौ गृह्यते । गगनादौ च साक्षात्प्रामाण्यघटकतयाऽपीत्यवश्यमभ्युपेयमिति ।
यत्त्वत्राद्वैतचन्द्रिकोक्तम् ‘अज्ञातमिथ्यात्वघटादिविषयकत्वमेव प्रामाण्यं स्वतो ग्राह्यं प्रवर्तकम्’ इति तत्तु प्रागेव दूषितम् ।
यत्त्वर्वाचीनेन शास्त्रारम्भसमर्थनाख्यप्रकरणेऽभिहितं ‘न चैवं सिद्धान्ते स्वतो ग्राह्य-प्रामाण्यं दुर्वचम् । तद्वति तदवगाहित्वस्यैव तत्त्वात् । न च १भ्रमसाधारण्यापत्तिः । इष्टत्वात् । न च भ्रमत्वग्रहणानन्तरमपि प्रवृत्त्याद्यापत्तिः । व्यावहारिकरजतार्थिनः प्रातीतिकत्वेन ज्ञाते तत्र प्रवृत्त्ययोगात् । व्यावहारिकं रजतं कटकादिरूपार्थक्रियाकारितयेष्यते । तत्र तदभाव-निश्चयान्न प्रवृत्तिः । न च शुक्तितात्पर्यमिदं रजतमिति वाक्यमपि प्रमाणं स्यादिति वाच्यम् । प्रमाणं स्यादित्यत्रेष्टापत्तेः । न चेदं वाक्यमस्मिन्नर्थे प्रमाणमिति व्यवहारापत्तिः । प्रपदस्य तद्वति तत्प्रकारकत्वरूपप्रकर्षद्योतकत्वे तद्घटितप्रमापदयोगार्थमादाय तादृशव्यवहारस्येष्ट-त्वात् । परेषां स्मृतिकारणे तादृशव्यवहारवत् अग्निर्हिमस्य भेषजमिति वाक्ये तादृश-व्यवहारवच्च । अनधिगतब्रह्मज्ञानेतराबाध्यविषयकत्वरूपप्रकर्षविवक्षया तु न तादृशव्यवहारः सम्भवति । सर्वज्ञानयाथार्थ्यस्य भास्करीयादिभिरुक्तत्वात्तन्मत इव उक्तोपाधिनियतस्य तादृशव्यवहारस्य भ्रमत्वेनोपगतज्ञानकरणे मन्मतेऽपीष्टत्वात् । भ्रमत्वव्यवहारश्च बाध्यत्वा-धीनः’ इति ।
तन्न । यतः बाधानुभव इदं प्रातीतिकं रजतमित्याद्याकारो वा नात्र रजतं नेदं रजत-मित्याद्याकारो वा । आद्ये प्रातीतिकत्वं नाम सत्ताविशेषो वा ब्रह्मज्ञानेतरबाध्यत्वं वा बाध्यत्वसामान्यं वा । नाद्यः। सत्ताविशेषस्य लोकानामननुभवात् । इदं प्रातीतिकमिति ज्ञानेऽपि तत्र व्यावहारिकत्वविरोधनिश्चयात् प्राक् प्रवृत्त्यापत्तेर्दुर्वारत्वात् । न हि सर्वेषां घटत्वपटत्वादिवत् तयोर्विरोधनिश्चय आवश्यको येनोद्बुद्धसंस्कारसत्त्वादेव न प्रवृत्तिरिति वक्तुं शक्येत । तत्स्वरूपस्यैव त्वत्सिद्धान्तानुसारिभिन्नैरज्ञातत्वात् । अन्यथा घटत्वादा-विवावयोर्विवादायोगात् । न द्वितीयः । १बाधानुत्पत्तेः प्राक् बाध्यत्वग्रहायोगात्तस्य चाक्षुष-त्वानुपपत्तेश्च । बाधग्रहे भासमानस्य रजतभ्रमनिवर्तकधर्मस्यावश्यवक्तव्यतापाताच्च । सर्वेषां ब्रह्मज्ञानरहितानां ब्रह्मज्ञानेतरत्वघटितधर्मस्य भानायोगाच्च । नापि तृतीयः । चरमदूषणाति-रिक्तानां द्वितीयकल्पोक्तनिखिलदोषाणामेव सत्त्वात् । नापि नात्र रजतमिति विकल्पित-पूर्वोक्तद्वितीयः पक्षः । रजतसामान्यनिषेधस्यैव तत्र प्रतीतत्वेन व्यावहारिकत्वरूपविशेषधर्मा-क्रान्तरजतनिषेधपूर्वकं प्रातीतिकरजतसत्त्वस्य लोकैरननुभूतत्वात् । अन्यथा ‘नात्र व्यावहारिकं रजतं किन्तु प्रातीतिकम्’ इत्याकारतापातात् । न च रजतपदं बाधाभि-लापकवाक्ये व्यावहारिकरजतलाक्षणिकमिति वाच्यम् । लक्षणाया वक्तृतात्पर्याधीनत्वेन वक्तॄणां लौकिकानां रजतावान्तरभेदस्यागृहीतत्वेन तथा तात्पर्यकल्पनायोगात् । तेषामपि तादृशभेदज्ञानसत्त्वे नात्र रजतमिति विशेषाभावस्यैव गृहीतत्वात् व्यवहृतत्वाच्च रजतज्ञानानु-वृत्तिप्रसङ्गात् । सुरभिगन्धाभावग्रहोत्तरमपि गन्धवत्ताबुद्धिवत् । न च तथा लोकानुभवः । लोकानुभवमतिक्रम्य स्वसिद्धान्तानुसारेणैव सर्वव्यवस्थाङ्गीकारे सौगतादिभिरपि निरधिष्ठान-भ्रमनिःसाक्षिकभ्रमवेदाप्रामाण्यादेर्व्यवस्थापयितुं शक्यत्वेन तं प्रति तव मूकीभावापत्तेः । अनिर्वचनीयरजतोत्पत्त्यादेर्निरस्तत्वेन त्वदुक्तार्थस्यापि प्रमाणासंस्पर्शात् ।
अपि च व्यावहारिकरजतार्थिनः प्रातीतिकत्वज्ञानान्निवृत्तिरिति वदतेदं विवेचनीयम् । प्रातीतिकत्वेनाज्ञानमानरजतज्ञानं प्रवर्तकम् । तत्र प्रातीतिकत्वज्ञानं साक्षाद्विरोधीति वा व्यावहारिकत्वेन रजतज्ञानं प्रवर्तकं प्रातीतिकत्वज्ञानं तु व्यावहारिकत्वाभावव्याप्यवत्ता-ज्ञानमुद्रया तद्विघटकमिति वा । नाद्यः । तस्य मिथ्यात्वेनागृह्यमाणरजतज्ञानं प्रवर्तकमिति औतचन्द्रिकोक्तपक्षपर्यवसानं स्यात् । तच्च दूषितमेव । रजतत्वप्रकारकज्ञानत्वरूप-धर्ममात्रग्रहेण प्रवृत्त्यापत्त्या तद्वति तत्प्रकारकत्वरूपप्रामाण्यस्य स्वतो ग्राह्यत्वोक्तेर-किञ्चित्करत्वापत्तेश्च । न द्वितीयः । तथात्वे भ्रमेऽपि व्यावहारिकत्वभानस्यावश्यकत्वेऽन्यत्र विद्यमानस्यात्र भानेऽन्यथाख्यात्यापत्त्या तत्र व्यावहारिकत्वस्यापि रजतस्येवोत्पत्तेरावश्य-कतया तद्घटितप्रामाण्यस्यापि गृहीतत्वेन बाधेन त्वद्रीत्या प्रातीतिकत्वस्य गृहीतत्वेऽपि प्रवृत्त्यापत्तेः । कारणस्याबाधात् । बाधानुभवस्य पूर्वानुभवस्य च त्वदभ्युपगतप्रामाण्यानु-रोधेनैकत्रावश्यमभ्युपगन्तव्यतया प्रातीतिकत्वस्य व्यावहारिकत्वाभावव्याप्यत्वबुद्ध्यनुदयाच्च ।
स्वान्तन्त्रयेण प्रातीतिकत्वज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वं तु मानाभावाद्गौरवाच्चायुक्तम् । सर्वत्र तस्य प्रातीतिकत्वाज्ञानसहितस्य तज्ज्ञानस्य प्रवृत्तिकारणत्वपर्यवसानात् प्रमाण्य-ग्रहणस्याकिञ्चित्करत्वात् प्रामाण्यस्वतस्त्वाभ्युपगमस्यैव वैयर्थ्यापत्तेश्च । न च प्रातीति-कत्वज्ञानं न प्रतिबन्धकम् । किन्तु बाधोत्तरं रजताप्रतीत्यैव न प्रवृत्तिरिति वाच्यम् । तर्हि ‘प्रातीतिकत्वेन भानात्’ इत्यस्याकिञ्चित्करत्वापत्तेः । सञ्जातबाधसोपाधिकभ्रमोत्तरं तज्ज्ञानानुवृत्तिबलात्प्रवृत्त्यापाताच्च । तत्रापि प्रातीतिकत्वज्ञानात्प्रवृत्त्यभाव इत्युक्तौ मिथ्यात्वाग्रहस्य प्रवृत्तिकारणत्वपर्यवसानात् प्रामाण्यग्रहणानुपयोगरूपदूषणं बोध्यम् ।
एवं सत्तात्रयानङ्गीकारपक्षे ब्रह्मज्ञानेतरबाध्यत्वब्रह्मज्ञानबाध्यत्वयोरेव प्रातीतिकत्व-व्यावहारिकत्वपदार्थतया ब्रह्मज्ञानविधुराणां पामराणां प्रवृत्त्याद्यनुपपत्त्या व्यावहारिकत्वज्ञानं प्रवर्तकं प्रातीतिकत्वज्ञानं निवर्तकमित्यादिव्यवस्थानुपपत्तिश्च ।
एतेन शुक्तितात्पर्यकेदंरजतमिति वाक्यस्य प्रमाणत्वाप्रमाणत्वव्यवहारव्यवस्थापि परास्ता । ब्रह्मज्ञानविधुराणां पामराणां ब्रह्मज्ञानेतरबाध्यार्थविषयकत्वरूपाप्रामाण्यानुपस्थित्या तद्व्यवहारानुपपत्तेः । बाध्यार्थविषयकत्वमात्रं भ्रमत्वव्यवहारनियामकं चेत् बाधकाल एवेदं ज्ञानं वाक्यं वा प्रमणमप्रमाणं चेति व्यवहारप्रसङ्गः । सर्वैरपि त्वदतिरिक्तैर्लौकिकैर्वैदिकैरपि तद्वाक्यस्याप्रमाणत्वेन व्यवहृतत्वेन सर्वानुभवविरुद्धे तत्प्रमाणत्वे त्वदिष्टापत्तेरयोगेन तादृश-व्यवस्थाया अयोगात् । अन्यथाऽतिप्रसङ्गात् ।
एवं परोक्षेऽन्यथाख्यात्यभ्युपगमपक्षे एकस्यां शुक्तौ यस्य रजतापरोक्षभ्रमोऽन्यस्यानु-मित्यादिरूपः परोक्षस्तदुभयोच्चरितस्य इदं रजतमिति वाक्यस्य समानार्थकतया सर्वानुभूय-मानस्य प्रमाणत्वाप्रमाणत्वे स्याताम् । एकनिष्ठस्य व्यवहर्तव्यज्ञानस्य प्रमात्वादपरनिष्ठस्या-न्यथाख्यातित्वात् इति लोकानुभवयुक्त्यादिविरुद्धत्वेनैव सर्वज्ञानयाथार्थ्यवादिमतस्य त्वयाऽपि त्यक्तत्वेन तद्विरुद्धार्थस्वीकारे तद्दृष्टान्तीकरणानौचित्यं चेति दिक् ।
तस्मादाधुनिकोक्तस्यात्यन्तासङ्गतत्वात्त्त्रिकालाबाध्यार्थावगाहित्वरूपप्रामाण्यं स्वतो ग्राह्यमङ्गीकार्यमिति तद्ग्राहकेण साक्षिणा घटादौ त्रिकालाबाध्यत्वं अवश्यं गृहीत-मित्यभ्युपेयमिति ।
यत्तु ‘सर्वदेशकालीननिषेधप्रतियोगित्वमपि साक्षिवेद्यत्वाद्योग्यम् । अत एव मन्मते १तद्रूपस्य मिथ्यात्वं साक्षिवेद्यमङ्गीक्रियते । अतस्तदभावस्य सत्यत्वस्य प्रत्यक्षविषयत्वम्’ इति तरङ्गिण्यभिप्रेतमनूद्य ब्रह्मानन्देनोक्तं ‘सर्वदेशेत्यादिकं स्वपित्रादीन्प्रत्येव वाच्यम् । यादृशाभावो हि तार्किकादीनां प्रत्यक्षस्तस्यैव त्वया साक्षिभास्यतया मां प्रति वाच्यत्वात् । अन्यथाऽतिप्रसङ्गात् । तार्किकादिवाच्यं तूक्तमेव’ इति तत्तु स्वशिष्येभ्योऽपि न रोचते । पूर्वं तत्प्रत्यक्षस्य निपुणतरमुपपादित्त्वेन तार्किकानङ्गीकृतत्वस्याप्रयोजकत्वात् । अन्यथा तार्किकानभ्युपगतं जगन्मिथ्यात्वसामान्यलक्षणाखण्डनसाक्षिरूपेन्द्रियतत्प्रत्यक्षविषयीभूत- शुक्तिरूप्यमिथ्यात्वादिपदार्थसार्थमभ्युपगच्छतस्तव प्रायश्चित्तकरणप्रसङ्गात् । अप्रामाणि-काभ्युपगमनस्यैवातिप्रसञ्जकत्वेन नैयायिकानङ्गीकृतार्थाङ्गीकारस्यातिप्रसङ्गासम्पादकत्वेना-न्यथेत्यादेरसङ्गतत्वाच्च । ननु
झडित्येव परिज्ञानान्न लिङ्गोद्भवता मता ।।
अभावोऽनुमा प्रत्यक्षं च । परामर्शापरामर्शविशेषात् ।
इत्यादिभिर्विष्णुतत्त्वनिर्णयप्रमाणलक्षणादिग्रन्थैर्योग्यानुपलब्धेरभावप्रत्यक्षकारणत्वाभावावगमात् कथमत्राभावप्रत्यक्षोपपादनाय योग्यानुपलब्धेरवश्यमुपपादनं कृतमिति चेत् तादृशग्रन्थेन प्रत्यक्षसामग्रीशरीरे तादृशयोग्यानुपलब्धिग्रहस्य निवेश एव निराकृतः । प्रत्यक्षविषयी-भूताभावत्वं प्रति योग्यस्वप्रतियोग्यनुपलब्धिकत्वं व्यापकमिति तु न निराकृतम् । तत्र बाधकाभावात् । अतो व्यापकाभावादुक्तनिषेधप्रतियोगित्वाभावो न प्रत्यक्षविषय इति शङ्का-निरासाय प्रकृते योग्यानुपलब्ध्युपपादनं युक्तमेवेति ।
इदमिहावधेयम् । सकलदेशकालसम्बन्धि१निषेधाप्रतियोगित्वरूपसद्विलक्षणत्वघटित- साध्यानुमाने स्वात्यन्ताभावसमानाधिकरणत्वरूपमिथ्यात्वानुमाने चोक्तसत्यत्वावगाहिप्रत्यक्षं ग्राह्याभावावगाहितया साक्षाद्विरोधीत्यविवादम् । स्वप्रकारकधीविषयताव्यापकात्यन्ताभाव-प्रतियोगित्वज्ञाननिवर्त्यत्वादिरूपमिथ्यात्वग्रहे च मणिमन्त्रादिवत्स्वातन्त्र्येण वा तदभाव-व्याप्यत्वेन गृहीततया वा तदभावोपस्थापकतया वा विरोधित्वम् । हेतुव्यापकत्वादिघटित-व्याप्तिज्ञानेष्वेकविधव्यभिचारग्रहस्य साक्षाद्विरोधित्वमन्येषामुक्तरीत्यैवेति यथेति । सामान्य-लक्षणाखण्डनं त्वस्मदिष्टमेव । परन्तु सादृश्यसहकृतचक्षुषाऽतीतानागतधूमादिज्ञानं जायत इति सिद्धान्तस्थितिः । अनुमानादिना तस्यान्यथोपपादनमद्वैतसिद्ध्यादौ कृतम् । तत्तु ग्रन्थगौरवभयादत्यन्तं प्रकृतानुपयोगाच्च नेह निराक्रियते । कण्टकोद्धारादित एव तदवसेयम् ।