मय्यनन्तगुणेऽनन्ते..
ब्रह्मनिर्विशेषत्ववादस्य युक्तिविरोधोपपादनम्
मय्यनन्तगुणेऽनन्ते
श्रीमज्जयतीर्थटीका
उपपत्तिविरुद्धञ्च श्रुतीनामखण्डब्रह्मनिष्ठत्वम् । तथा हि । अखण्डार्थनिष्ठत्वं नाम निर्भेदार्थनिष्ठत्वं निर्विशेषार्थनिष्ठत्वं वा । आद्ये सगुणत्वाविरोधः । भेदाभावेऽपि विशेषबलेनैव तदुपपत्तेः । न द्वितीयः । तथा सत्येकार्थत्वेन श्रौतपदजातस्य पर्यायतया सहप्रयोगाभावप्रसङ्गात् । अतः सगुणमेव ब्रह्म श्रुत्यभिप्रेतमवगम्यते ।
द्वैतद्युमणि:
।। उपपत्तीति ।। वक्ष्यमाणबाधकविरुद्धमित्यर्थः ।। निर्भेदार्थेति ।। स्वगत-गुणक्रियादिप्रतियोगिकभेदरहितार्थत्वमित्यर्थः । पररीत्या विकल्पकोटिं दर्शयति ।। निर्विशेषेति ।। निर्धर्मकेत्यर्थः ।। विशेषेति ।। तस्य भेदप्रतिनिधित्वादित्यर्थः ।। पर्याय-तयेति ।। ब्रह्मातिरिक्तस्य सत्यज्ञानादिशब्दमुख्यार्थत्वाभावात् ब्रह्मण एव मुख्यार्थत्वे वक्तव्ये तत्र यदि शब्दानां शुद्धस्वरूपमात्रबोधकत्वं तदा शब्दानामन्यूनानतिरिक्तविषयबोधजनकत्व-प्राप्त्या पर्यायत्वं प्राप्तमेवेति हृदयम् ।। सहप्रयोगेति ।। एकवस्तुविषयकैकज्ञानेच्छया युगपत्प्रयोगानुपपत्तिरित्यर्थः ।
यद्यपि ‘कलशो घटः’ इति वाक्यमपि घटरूपैकार्थमात्रविषयकसंसर्गागोचरप्रमां जनयति । ‘सम्भेदे नान्यतरवैयर्थ्यम्’ इति न्यायेनैकवस्तुबोधकसामग्रीद्वयमेलनेन तद्वस्तुबोधे बाधकाभावात् । अन्यथा चैत्रोच्चारितं ‘घटमानय’ इति वाक्यं मैत्रोच्चारितं च ‘कलशमाहर’ इति वाक्यं युगपत् शृृण्वतो देवदत्तस्य तद्बोधो न स्यात् । न स्याच्च धूमालोकपरामर्शाभ्यां वह्न्यनुमितिः । अत एव ‘प्रातिपदिकान्यनतिरिक्तविषयाणि प्राह भगवान् प्रथमाशब्दित-विभक्त्या पाणिनिः । अतः सकलतर्कसमयज्ञो वष्टि वचसोरनतिरिक्तविषयत्वम्’ इत्यनेनोच्चै-रित्यादौ नामप्रथमाविभक्त्योरेकार्थानुभावकत्वमुक्तं संक्षेपशारीरके । वचसोः उच्चैरिति प्रातिपदिकं तदुत्तरं प्रथमा चेत्यनयोः । वष्टि इच्छति । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमेति सूत्रेण पाणिनिना प्रातिपदिकसमानार्थकत्वस्य प्रथमाया उक्तत्वात्प्रातिपदिक-समभिव्याहृतप्रथमयाऽप्येकमात्रवस्तुविषयकबोधो जायते । परन्तु तत्तदुपस्थाप्ययोः संसर्ग-बोधनैराकांक्ष्यं घटः कलश इति वाक्यस्येति परैरुक्तम् । तथा च सत्यज्ञानादि-वाक्यस्याबोधकत्वापादनं न घटते ।
तथापि उच्चैरित्यादौ शब्दसाधुत्वनिर्वाहकतया प्रथमायाः साधुत्वेऽपि घटः कलश इत्यत्राधिक्यरूपवाक्यदोषोऽस्त्येव तद्वत्प्रकृतेऽपि स्यात् । न चासौ निर्दोषवाक्ये वक्तुं शक्यत इत्यभिप्रायः ।
ननूक्तार्थदृढीकरणाय पुनरुक्तिरस्त्विति चेन्न । निश्चितप्रामाण्यकतत्सत्त्वनिश्चयस्यैव दृढीकरणपदार्थतयोक्तपदानां तावत्पर्यन्तं तात्पर्यसत्त्वे स्वरूपमात्रपरत्वोक्त्यनुपपत्तेः । ‘अनन्ते स्वर्गे लोके प्रतितिष्ठति’ ज्येये प्रतितिष्ठति’ ‘मैवारुवण्यो मैवारुवण्यः’ ‘न च पुनरावर्तते न च पुनरावर्तत्ते’ इत्यादाविवोक्तशब्दस्यैवोपस्थितस्य स्वार्थगृहीतशक्तितात्पर्य-कस्यैव पुनः प्रयोगौचित्येन पर्यायशब्दान्तरोपादानानौचित्याच्च ।
अत एव ‘अभ्यासरूपतया तात्पर्यग्रहणार्थत्वान्नाधिक्यम्’ इत्यप्यसदेव । एकप्रकारास-कृदुक्तिरूपत्वाभावात् । ज्ञानपदप्रयोगमात्रेण सत्यपदेस्य स्वरूपमात्रे स्वार्थतात्पर्यनिश्चया-ननुभवात् । अन्यथा लक्षणवाक्यत्वादिना स्वरूपमात्रपरत्वव्यवस्थापनप्रयासवैफल्यापत्तेः ।