सद्विलक्षणत्वं च ..

जगतः सच्छब्दार्थविकल्पानुपपत्त्या सद्विलक्षणत्वानुपपत्तिसमर्थनम्

श्रीमज्जयतीर्थटीका

न केवलं बाध्यत्वाभावाज्जगति सद्विलक्षणत्वानुपपत्तिः । किं तु सच्छ्ब्दार्थविकल्पानुपपत्तेश्चेति भावेन विकल्पमाह ।

मूलं

सद्विलक्षणत्वं च सज्जातिविलक्षणत्वं स्मात्रविलक्षणत्वं वा

इह केचिज्जातिरेव पदार्थ इत्यातिष्ठन्ते । अपरे तु जातिविशिष्टा व्यक्तिरिति मन्यन्ते । अन्ये तु स्वरूपमेवेति सङ्गिरन्ते । तत्राद्ये मते सत् सत्ता जातिः । द्वितीये सत्ताविशिष्टा व्यक्तिः । तदुभयाभिप्रायेणोक्तं सज्जातीति । सतो जातिः सज्जातिः । तथा सत्त्वं जातिर्यस्य तत्सज्जातीति । तृतीयमतानुसारेणोक्तं सन्मात्रेति । सन्मात्रं स्वरूपेणैव सत् । न जात्या । अत्र सच्छब्दार्थ एव विकल्प्यते । वैलक्षण्योक्तिस्त्वनुवादमात्रं दूषणोक्तिसौकर्यायेति ज्ञातव्यम् । ननु सत्यमबाध्यमिति परेणाङ्गीकृतम् । तदपि कस्मान्न शङ्क्यते । सत्यम् । तथा सति ‘यदबाध्यं न तद्बाध्यते’ इति व्याप्यव्यापकभावानुपपत्तिः स्फुटैवेति निर्दलत्वेन शङ्कानर्हत्वात् । आद्यपक्षद्वयं दूषयति ।

मूलं

जात्यङ्गीकारे सद्बहुत्वम्

सच्छब्दार्थत्वेन सच्छब्दप्रवृत्तिनिमित्तत्वेन वा सत्ताजात्यङ्गीकारे सतां बहुत्वमनेकत्वमङ्गीकर्तव्यं स्यात् । लक्षणव्याघातप्रसङ्गेनैकस्मिन्नुपदेशादिनैव सङ्गतिग्रहणा-द्युपपत्त्या वैयर्थ्यप्रसङ्गेन च जातिवादिभिर्जातेरनेकाश्रयताश्रयणात् । सद्बहुत्वं च सदद्वैत-वादिनामनिष्टम् ।

अथ बहूनि व्यावहारिकाणि सन्ति सन्तीति नेदमनिष्टमिति चेत् । एवं तर्हि जगदेव सदिति न सद्विलक्षणम् । अथ सद्बहुत्वमनङ्गीकृत्य शशविषाणादिप्रतिषेधवदयं प्रतिषेधः क्रियत इति चेन्न । तथा सति जातिजातिमद्वैलक्षण्यसाधनेऽर्थान्तरतादिप्रसङ्गात् । तृतीयं दूषयति ।

मूलं

सन्मात्रविलक्षणत्वं चेत्सिद्धसाधनता

श्रीमज्जयतीर्थटीका

चेच्छब्दो यद्यर्थे । सद्विलक्षणत्वशब्दार्थस्तर्हीति शेषः । सिद्धसाधनता अर्थापत्तेरिति शेषः । कथमित्यत आह ।

मूलं

ब्रह्मवैलक्षण्याङ्गीकारात्

सत्तासम्बन्धमन्तरेण स्वरूपत एव सत् ब्रह्मैव परेणाङ्गीकृतम् । तद्वैलक्षण्यं च तद्विपरीतलक्षणयोगो वा तल्लक्षणराहित्यं वा तत्तादात्म्याभावो वा । तत्सर्वं जगत्यस्माभि-रङ्गीकृतमेवेति कथं न सिद्धसाधनता । सद्वादिना जगतो यत्सत्त्वमङ्गीक्रियते तदभावः सद्विलक्षणत्वमिति चेन्न । सद्वादिना प्रतिपन्नोपाधौ निषेधानर्हत्वलक्षणस्य सत्त्वस्याङ्गी-कृतत्वात् । तत्र च दोषस्योक्तत्वात् । तदेवं नानिर्वचनीये प्रमाणमस्तीति स्थितम् ।

द्वैतद्युमणि:

।। बाध्यत्वाभावादिति ।। सत्यभूतबाध्यत्वाभावादित्यर्थः । सद्विलक्षणत्वा-सिद्धिरिति ।। उक्तरीत्या बाधादसिद्ध्या चेत्यर्थः । विकल्पानुपपत्तेः ।। विकल्पपूर्वकानु-पपत्तेरित्यर्थः । अतिष्ठन्ते भट्टा इत्यर्थः । मन्यन्ते नैयायिकाः । सङ्गिरन्ते जरन्नैयायिकाः । न जात्या सत्ताजातिरूपशक्यतावच्छेदकेन ।। व्याप्यव्यापकभावानुपपत्तिरिति ।। अभेदे व्याप्यव्यापकभावानुपपत्तेः प्राचीनैरङ्गीकृतत्वात् । नव्यनये तत्सम्भवेऽपि परार्थस्थले तदुपन्यासायोगादिति भावः ।। अनिष्टमिति ।। यद्यपि तस्याबाध्यैक्यवादिनस्तद्बहुत्वमेवानिष्टं तथापि यदा जगति सत्ताजात्यवच्छिन्नप्रतियोगिकभेदः साधयितुमभिलषितस्तदा तदैक्यमेव अभिमतं स्यात् । अन्यथा तत्साधनानुपयोगप्रसंङ्गादित्याशयेनेदमभिहितम् ।। ब्रह्मैव परेणाङ्गीकृतमिति ।। तादात्म्याभावो वेति ।। तत्सम्बन्धावच्छिन्नप्रयिगिताकाभावो भेद इति यावत् । तथा च व्यधिकरणधर्मावच्छिन्नप्रतियोगिकभेदानङ्गीकारात्तदङ्गीकारेण सिद्धसाधना-प्रसङ्गात्तन्निष्ठप्रतियोगिताकभेद एव साध्यः विशिष्य ब्रह्मैवोपादाय तद्भेदपर्यवसायी । ब्रह्मातिरिक्तस्य सत्पदार्थतापक्षस्येदानीं त्यक्तत्वात् । व्यासज्यवृत्तिधर्मावच्छिन्नभेदो नास्त्येव । अस्ति चेदपि स्वस्मिन्नेव स्वस्य तादात्म्येन स्वरूपतो भानाङ्गीकारेण तदवच्छिन्नप्रतियोगिताकभेदस्तन्निमित्तसिद्धसाधनवारणाय निवेशनीयः । एतेन व्यधिकरण-धर्मावच्छिन्नभेदाभ्युपगमेऽपि न दोष इति ध्येयम् ।। प्रतिपन्नोपाधाविति ।।

अत्र प्रतिपन्नत्वं प्रतियोगिकोटौ विवक्षितम् । तत्वविवेकटीकायां कूर्मरोमादीनाम-नारोपितत्वं येषामसतां तेष्वतिव्याप्तिवारणाय प्रतीतत्वे सतीति विशेषणस्योपात्तत्वेन प्रकृते च तादृशासत्स्वतिव्याप्तिप्रसङ्गात् । प्रामाणिकप्रतियोगिकात्यन्ताभावाङ्गीकारपक्षे उपाधिपदं सर्व-देशपरम् । गगनादेः समवायेन सर्वदेशावृत्तित्वमते सत्यपदं सम्बन्धाधिकरणसापेक्षार्थ-बोधकमिति गगनं सर्वत्र समवायेन मिथ्येति व्यवहारो गगनं सर्वत्र समवायेन सत्यं नेति व्यवहार इष्टः । प्रामाणिकप्रतियोगिकात्यन्ताभावानङ्गीकारे उपाधिपदं त्रैकालिकपदं चोभयं सर्वदेशवृत्तित्वसर्वकालवृत्तित्वरूपविशेषणद्वयसमर्पकतया अत्यन्ताभावरूपधर्मिपरिचयाय । न चैकनैवालम् । प्रागभावप्रध्वंसयोः प्रतियोगिदेशमात्रवृत्तित्वेन प्रतियोगिपूर्वोत्तरकालमात्रवृत्तित्वेन चान्यतरेणैव तद्वारणात् । उपाधिपदस्य सर्वदेशार्थकत्वाभावे तस्याव्यावर्तकत्वेन वैयर्थ्यं चेति वाच्यम् । त्रैकालिकोपाधिपदयोर्विकल्पेन वा तत्परिचायकबाहुल्येन झटिति तद्धर्मिपरिचयाय वोपादानसम्भवात् । प्रामाणिकप्रतियोगिकात्यन्ताभावपक्षे च देशान्तरनिष्ठाभावप्रतियोगिनि सति सत्त्वानुपपत्तिपरिहाराय प्रतिपन्नोपाधिपदयोर्विकल्पेन सार्थकता । तथा च प्रामाणिक-प्रतियोगिकात्यन्ताभावानङ्गीकारे अत्यन्ताभावप्रतियोगित्वाभाव एव सत्त्वम् । तदङ्गीकारे तु सर्वदेशवृत्त्यभावप्रतियोगित्वाभावः स्वप्रकारकधीविषयनिष्ठात्यन्ताभावप्रतियोगित्वाभावो वा सत्त्वम् । स्वं यत्र सत्त्वमुपपादनीयं तदेव । यादृशकूर्मरोमादेर्न कुत्राप्यारोपस्तत्र स्वप्रकारकप्रतीतेरेवाप्रसिद्ध्या नातिव्याप्तिः । अत्र यद्यपि स्वघटितप्रतियोग्यप्रसिद्ध्योक्ता-भावोऽपि स्वस्मिन् कूर्मरोमादौ वर्तत इत्यतिव्याप्तिस्तथापि तादृशप्रतियोगि यद्यत्तत्तद्भेदकूटस्य विवक्षितत्वान्न दोष इति ध्येयम् । अनुभूयमानारोपीयप्रकारेष्वव्याप्तिवारणाय स्वप्रकारकधी-विषयताव्यापकत्वमभावे देयम् । यद्वा परेण निरुच्यमानं यादृशबाध्यत्वं तदभाव एव सत्यत्वमित्यनेनाभिप्रैति । अत्यन्तासद्व्यावर्तकं सत्त्वेन प्रतीत्यर्हत्वं तन्मते यादृशं तदेव सत्त्वेनाप्रतीतासद्व्यावर्तकं भवतीति स्फुटमित्याशयेन विशेष्यदलानुक्तिरिति ज्ञातव्यम् ।

तर्हि तदवच्छिन्नभेद एव साध्यमस्तु । तत्राह ।। तत्र चेति ।। दोषस्येति ।। व्याप्ति-ग्रहानुपपत्तिसिद्धसाधनताऽसिद्ध्यादिरूपदोषस्येत्यर्थः । आद्यपक्षे अत्यन्ताभावप्रतियोगित्वा-भावरूपसत्त्वावच्छिन्नभेदसन्देहदशायां पक्षे तद्धटितबाध्यत्वरूपहेतोरपि सन्दिग्धतैवेत्यसिद्धिः। द्वितीयपक्षे तृतीयपक्षेऽपि सत्त्वेन प्रतीत्यर्हत्वविशिष्टस्योक्तबाध्यत्वस्यैव साध्यतया प्राप्तत्वेन तस्य पक्षे साध्यसन्देहदशायां हेतोरपि सन्दिग्धतैव । बाध्यत्वस्यासत्साधारण्ये तत्र विशिष्ट-साध्यस्य व्यभिचार एव । अर्थापत्तौ च सत्त्वेन प्रतीत्यर्हत्वस्य बाध्यत्वहेतुसाध्यकोटाव-प्रवेशेऽपि सन्दिग्दासिद्धिर्दुर्वारैवेति शुक्तिरूप्यमात्रस्य पक्षत्वे सिद्धसाधनमेवेति भावः ।

परे तु अर्हपदप्रयोगानर्थक्यपरिहारायोक्तासद्विशेषातिव्याप्तिपरिहार एव तत्पदप्रयोजनं वक्तव्यम् । निषेधप्रतियोगित्वयोग्यता च निःस्वरूपत्वं कालासम्बद्धत्वं अर्थक्रियाकारित्वा-भावश्चेत्येवमादिः । तदभावः सत्त्वम् । सस्वरूपत्वकालसम्बद्धत्वादिः तद्रूपसत्त्वस्याङ्गीकारा-दित्यर्थः । तद्वत्त्वाभावादिरेव साध्यत इत्यत आह ।। तत्र चेति ।। शुक्तिरजतादौ सिद्ध-साधनता । जगति तत्साधने बाध इति दोषस्येत्यर्थः । उक्तत्वात् उक्तप्रायत्वात् । पूर्वं सत्यभूताबाध्यत्वेनात्मवत् कालसम्बद्धत्वादेरपि जगति साधनसम्भवेन तेनैवास्यापि सिद्धत्व-मिति भावः । आत्मनस्तु जगत्कारणत्वादिश्रुत्यनुरोधात्कालसम्बद्धत्वादिकं सिद्धमिति न दृष्टान्तासिद्धिः । तत्साधनसत्त्वे १अनुभवसिद्धेऽपि वादिवाक्योक्तयुक्त्याभासादिजनितशङ्का-निरासवत् २एतत्साधनमपि युज्यत इति भावः इत्याहुः ।