अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः

दृश्यत्वाद्यनुमानानां दृष्टान्तस्य साध्यसाधनवैकल्यसमर्थनम्

अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः

श्रीमज्जयतीर्थटीका

अथ वा शुक्तिरजतादेरनिर्वचनीयासिद्धेस्तथा शुक्तिकाया एव दृग्विषयत्वा-भ्युपगमादनिर्वचनीयतयाऽभिमतस्य रजतस्यासिद्धेरदृश्यत्वाद्दृष्टान्तस्य साध्यसाधन-वैकल्येनानुमानस्यानुपपत्तिरिति योजनीयम् ।