वस्तुतः परिच्छिन्नत्वमात्मनोऽपि..

वस्तुतः परिच्छिन्नत्वहेतोरनैकान्तिकतोपपादनम्

श्रीमज्जयतीर्थटीका

तृतीयं निराचष्टे–

मूलं

वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनेकान्तिकम्

वस्तुतः परिच्छिन्नत्वं हि वस्त्वन्तराद्व्यवच्छेदो भेद इति यावत् । विपक्ष-भूतस्यात्मनस्तत्ववादिना भेदोङ्गीक्रियत इति मिथ्यात्वे साध्ये वस्तुतः परिच्छिन्नत्व-मनेकान्तिकं भवति । न च प्रतियोगिभूतप्रपञ्चस्य मिथ्यात्वादात्मनो भेदानुपपत्तिरिति वाच्यम् । प्रपञ्चमिथ्यात्वसिद्धौ वस्तुतः परिच्छिन्नत्वस्व हेतुत्वसिद्धिः । तत्सिद्धौ च प्रपञ्चमिथ्यात्वसिद्धिरितीतरेतराश्रयप्रसङ्गात् । भेदमिथ्यात्वानुमानादीनां चोक्तवक्ष्यमाण-दोषग्रस्तत्वात् ।

द्वैतद्युमणि:

औतमते आत्मानः स्वसमसत्ताकभेदानङ्गीकारात्तथा विवक्षायामपि दोषार्थं तत्ववादिनेति ।