न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः

जीवेश्वरयोर्भेदाभेदवादिमतनिरासः

श्रीमज्जयतीर्थटीका

अत्रापर आह । ‘नेश्वरेण स्वस्मात्संसारिरो भेददर्शनेऽपि मुक्तस्य भेदः सिध्द्यति । न हि वयं मायावादिन इव जीवब्रह्मणोर्जीवानां वा भेदमपारमार्थिकं ब्रूमः । किं तूपाधिकृतमेव । अतः पारमार्थिकत्वादीश्वरेणानुभूयमानत्वं च युज्यते । उपाधि-कृतत्वादुपाधिनाशे मुक्तौ तन्नाशात्स्वाभाविकाभेदश्च सिध्द्यति’इति । अत्रोच्यते । स्यादेवं यद्यभेदः स्वाभाविको भेदस्त्वौपाधिक इत्युपपद्येत । न चैवम् । अभेदस्य स्वाभाविकत्वे सुखदुःखाद्यनुसन्धानप्रसङ्गात् ।

न हि चैतन्यैक्ये स्वाभाविके वर्तमानसुखदुःखाद्यनुसन्धानं क्कचिद्दृष्टम् ।

ननु वयं जीवान् परब्रह्मणोंऽशानभ्युपगच्छामः । तत्रांशानामेव किमन्योन्यसुखदुःखा-द्यनुसान्धानमापाद्यते । उतांशिनः । नाद्यः । हस्तपादाद्यवच्छिन्नात्मांशानां तदभावात् । औपाधिकभेदस्य विद्यमानत्वाच्च । अत एव न द्वितीयोऽपीति । मैवम् । अशिनः परमेश्वरस्यैव स्वाभाविकाभेदे सकलजीवगतसुखाद्यनुसन्धानापादनात् ।

ननूक्तमत्र जीवेश्वरयोः स्वभावेनाभेदेऽप्युपाधिकृतभेदस्य सत्त्वान्न जीवगतसुखदुःखा-द्यनुसन्धानप्राप्तिरीश्वरस्येति तत्राऽह ।

मूलं

न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः ।

उपाधिकृतो भेदः उपादिभेदः । दुःखमित्युपलक्षणम् । सति स्वाभाविकाभेद इति मात्रशब्देन सूचयति ।

कुतो नेत्यत आह ।

मूलं

हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वानुभवात् ।

अत्राप्युपाधिकृतो भेदः उपाधिभेदः । भोक्तुरेकत्वानुभवादित्येकस्यैवांशिनः सर्वानुसन्धानदर्शनादिति यावत् । इदमुक्तं भवति । यथा देवदत्तेन स्वगतं सुखाद्यनुसन्धीयते । तथेश्वरेणाप्यभेदे सति सकलजीवगतमनुभूयेतेत्यापादिते नोपाधिभेदादिति वदतः परस्य कोऽभिप्रायः । किं वैषम्यमात्रप्रदर्शनमुतानुसन्धाने नाभेदमात्रं प्रयोजकं, किन्नाम, औपाधिकभेदाभावे सति । न चैतत्प्रयोजकं प्रकृतेऽस्तीति व्यापकनिवृच्या व्याप्यानुसन्धाननिवर्तनमिति । नाद्यः तस्यानुपयुक्तत्वात् । न द्वितीयः । हस्तपादाद्युपाधि-कृतभेदे सत्यप्यंशिनोऽनुसन्धानादौपाधिकभेदाभावस्य व्यापकत्वासिद्धेरिति ।

स्यादेवम् । यद्यौपाधिकभेदाभावे सत्यभेदमेवानुसन्धाने प्रयोजकं ब्रूमः । किन्तु विश्लिष्टोपाधिकृतभेदाभावे सति । तथा च न व्यभिचारः । औपाधिकभेदसद्भावेऽप्येकस्मिन् शरीरे विश्लिष्टोपाधिकृतभेदाभावात् । न चैतत्प्रयोजकं प्रकृतेऽस्ति । उपाधीनां विश्लेषात् । अतो नानुसन्धानमित्यत आह ।

मूलं

‘‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः ।

पशयन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि’’ ।।

इति भारतवचनान्न विश्लेषाद्विशेषः ।

भारतवचनाद्विश्लिष्टोपाधिकृतभेदे सत्यप्यनुसन्धानप्रतीत्या तदभावस्य व्यापक-त्वाभावादिति शेषः । विश्लेषादुपाधीनामिति शेषः । विशेषो हस्तपादादीत्युदा-हरणादननुसन्धानलक्षणः ।

द्वैतद्युमणि:

‘न चोपाधी’ त्युत्तरमूलस्य पूर्वमूलेन सह सङ्गत्यप्रतीतेः सत्योपाधिकृत-सत्यभेदवादिभास्करमतनिरासकतया तन्मूलं सङ्गमयितुं पूर्वमूलोक्तदूषणपरिहारपूर्वकं मतान्तर-मुत्थापयति । अपर आहेति ।। सिद्ध्यतीति ।। मायावादिमते भेदनिवृत्तिर्नाम तद्बाध एव । तथा चेश्वरज्ञानविषयवाधे ईश्वरस्य भ्रान्तत्वापत्त्या तस्य स्वाभाविकत्वप्राप्त्या मुक्तभेदः सिद्ध्यति । मन्मते त्वस्वाभाविकस्यापि भेदस्योपाधिजन्यतया तन्नाशेन नश्यमानतया घटादियुल्यतयैव सिद्ध्यतीत्यर्थः । वर्तमानसुखादीति ।। अत्र सुखादौ वर्तमानत्वोत्कीर्तनं अननुसन्धानस्य सर्वानुभवविरोघदृढीकरणाय स्वरूपकीर्तनमात्रम् । न त्वतीतसुखादौ व्यभिचारवारणायापाद्यकोटिप्रविष्टम् । तदघटितस्यैव व्यभिचाराभावप्रदर्शनपूर्वकमापाद्यताया उपाधिखण्डनटीकायां स्पष्टत्वात् । क्कचिद्दृष्टमिति ।। न चांशेऽर्जुने इन्द्रेण सहैकीभूत इन्द्रगतसुखाद्यननुसन्धानं दृष्टमिति वाच्यम् । सर्वात्मना सुखाद्यननुसन्धानस्यानङ्गीकारात् । विदुरधर्मादीनां स्वरूर्पेक्यात्परस्परसुखाद्यनुसन्धानादिसत्वेऽपि उपदेष्टृत्वश्रोतृत्वादिकं सर्वं लोके तदप्रकाशेनैव । तथा व्यवहारस्यैवेश्वरसङ्कल्पानुसारेण देवधर्मत्वात् । तदुक्तं ‘मानुषं च स्वाध्यायप्रवचने च’ इति श्रुतौ तद्भाष्योदाहृतायाम् -

मानुषं मानुषो धर्मो देवा अपि हि मानवे ।

 मनुष्यवत्प्रकाशन्ते नैवैश्वर्यप्रकाशिनः’ ।।

इति स्मृतौ च । इन्द्रार्जुनयोः साण्डावार्थे युद्धे प्रवृत्तिः यमस्य स्वरूपभूतधर्मराज-व्यामोहनार्थप्रवृत्तिश्चेश्वराज्ञाया अप्रतिहतत्वात् । ‘भीषास्माद्वायुः पवते । भीषोदेति सूर्यः । भीषादिन्द्रश्चाग्निश्च । मृत्युर्धावति पञ्चमः’ । इत्यादिश्रुत्यादिभिर्देवानामतिपरतन्त्रत्वाद्भग-वदाज्ञया मनुष्यलोके स्वांशभूतानां तेषां यशोरूपस्वयशःसिद्ध्यर्थं च तत्प्रवृत्तिसम्भवात् । धर्मराजादेः सुषुप्त्यादिवत्तन्नियामकेश्वरेणैव तदंशसम्बन्ध्यन्तःकरणवृत्त्याद्यजननात् व्यामोहनम् । विदुराद्यंशसन्निधौ तज्जननात्तदव्यामोहनमित्यादिकं युक्तम् । कदाचिदंशिगतात्यल्पसुखाद्यनु- सन्धानाभावोंशस्येत्ययं विशेषः ईशाचिन्त्यशक्तिनिमित्तक एव । ‘विशेषस्तु कश्चिदीश्वरकृतो भेवत्’ इत्युक्तत्वात् ।

न च भास्कामतेऽप्यनयैव रीत्या वक्ष्यमाणसुखाद्यनुसन्धानापादनपरिहारः सम्भवतीति तन्मतदूषणं न सम्भवतीति वाच्यम् । उक्तार्थस्य दृढतरप्रमाणसिद्धत्वे युक्त्यगोचरत्वे चाचिन्त्यशक्त्या तदङ्गीक्रियते ।

यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि’ ।

इति भाष्योदाहृतस्मृतेः । अपवादविशेषात् क्कचित्तथात्वेऽपि सर्वत्र तथाङ्गीकारे लोकव्यपवहारमात्रोच्छेदापत्तेः । इत्थं चेश्वरस्य सर्वज्ञस्य जीवैक्ये तदीयसुखाद्यनुसन्धानस्य तत्समवेतत्वेन तत्प्रत्यक्षमवर्जनीयम् । अन्यथा तस्याज्ञत्वप्रसङ्गः । शुद्धचैतन्यस्यैवांशभेदेन दुःखित्वादेर्मायाशक्त्याऽङ्गीकारे हस्तपादाद्यवच्छेदेन दुःखानुभवितृजीववद्ब्रह्मणो नित्यदुःस्वि-त्वापत्त्या तद्भावस्य न मुक्तित्वम् । अनुसन्धानस्यैव चेतनैक्ये मुख्यप्रमाणतया तद्रहितस्यैक्यमित्यस्य पारिभाषिकत्वमात्रम् । जीवेन दोषिणा सहैकीभूतस्येशस्या-चिन्त्यशक्तिस्तु दूरोत्सारिता । शुद्धेऽपि चैतन्ये स्वयं भेदं सम्पाद्य दुःखादिदाने मायायामेव स्वातन्त्र्यापातेनेश्वरेऽनवधिकैश्वर्यादिगुणप्रतिपादकानन्तश्रुतिस्मृतिविरोधेन वेदानां पूर्वोप-पादितमहातात्पर्यविरोधेन चाभेदश्रुतीनां ‘अंशो नानाव्यपदेशात्’ इत्यादिसूत्राणामर्थान्तर-प्रदर्शनादिना च जीवानां स्वरूपांशत्वस्य परस्परस्वरूपेणैक्यस्य च ‘अत एवोपमा’ इत्यादिव्याख्यानपरानुव्याख्यानसुधादौ निराकृतत्वेन तन्मतस्याप्रामाणिकतया तत्र लोक-दर्शनानुसारिदोषस्याभिहितत्वात् ।

किञ्च ‘अंशस्यार्जुनादेरंशिनिष्ठाशेषानुसन्धानं, यत्किञ्चिदत्यल्पानुसन्धानाभावस्त्वी-शाचिन्त्यशक्त्या, अंशिनस्त्वंशगताशेषानुसन्धानं वर्तते’ इत्येतत्प्रमेयं न प्रत्यक्षानुमानगम्यम् । अपि तु सर्वप्रसिद्धवाक्यविशेषैः निश्चेतुं शक्यम् । आचार्योदाहृतवाक्यविशेर्षैस्तन्निश्चये तैरेव जीवानामीश्वरस्य च परस्परभेदादि सिद्ध्यतीत्युपजीव्यविरोधात्तदवष्टम्भेन प्रत्यवस्थान-मयुक्तम् । लोकदृष्ट्यनुसरणेनैक्यव्यवस्थाङ्गीकारे तु लोके चेतनैक्ये वर्तमानसुखाद्यनुनसन्धानं न कुत्रापि दृष्टमिति ‘न हि क्वचिद्दृष्टं’ इत्यस्यार्थः । अत एव दृष्टपदप्रयोगः । उक्तार्थस्य निर्विवादत्वद्योतकहिशब्दप्रयोगश्चेति ज्ञेयम् ।

नन्वत्र स्वरूपैक्ये तदीयसुखाद्यनुसन्धानं स्यादित्यापादनमूलभूतव्याप्तौ चेतनत्वे सतीति व्याप्यकोटौ वक्तव्यम् । अन्यथा घटादौ व्याप्यवति तद्धटितव्यापकाप्रसिद्ध्या व्यभिचारापत्तेः । तथा च यत्र यन्निरूपितस्वरूपैक्यवत्वे सति चेतनत्वं तत्र तन्निष्ठवर्त-मानसुखाद्यनुसन्धातृत्वमिति व्याप्तिः पर्यवसिता । चैत्रशब्दाभिलाप्यैतत्पिण्डगतचित्स्व-रूपैक्यमेतद्भोक्तृत्वाश्रयपिण्डगतचैतन्यस्यास्ति तत्र स्वीयतया तन्निष्ठवर्तमानसुखादिप्रत्यक्ष-रूपमनुसन्धानं चास्तीति व्याप्त्युपपत्तिः ।

ननु च यौवनपिण्डगतचेतनैक्यं वार्धकपिण्डगतचेतने तत्र यौवनावच्छिन्ने आधुनिक-दशारूपवर्तमानकालावच्छिन्नसुखादिघटितापाद्याप्रसिद्ध्या व्यभिचारः । ‘तदुपलक्षितचेतने वर्तमानसुखप्रसिद्धिसत्वान्न व्यभिचारः, व्यापकशरीरे तथैव निवेशः’ इत्युक्तौ च जन्मान्तरा-वच्छिन्नात्मानमादाय व्यभिचारपरिहारोऽप्येवमेव सम्भवतीति वर्तमानत्वनिवेशनमप्रयोजनमेव । यो येनैकीभूतचेतनः स तत्सुखानुसन्धानवानित्यस्य कुत्रापि व्यभिचाराभावात् । सामान्यतो वर्तमानत्वस्याव्यावर्तकत्वाच्चेति चेन्न ।

यतः कालाघटितस्यापाद्यत्वे पक्ष आपाद्यव्यतिरेकनिर्णयानुपपत्तिः । कालान्तरीणानु-सन्धानसत्वेऽपि इदानीं तदभावसम्भवेन प्रतियोगिव्यधिकरणापाद्यव्यतिरेकनिर्णयासम्भवात् आपाद्यकोटौ वर्तमानत्वनिवेशः । वर्तमानसुखाद्यनुसन्धनाभावश्च तात्कालिकेनाभावानु-मापकलिङ्गवाक्यस्वानुभवादिबलेन सिद्धः । तथा चापादककोटौ कालानिवेशे आपाद्यकोटौ कालनिवेशोऽव्यावर्तकः स्यात् । अतो यत्कालीनयन्निरूपितस्वरूपैक्यवत्वे सति चेतनत्वं यत्र तत्र तत्कालीनतदीयसुखस्य स्वीयतयानुसन्धातृत्वमिति व्याप्तिमङ्गीकृत्येदानीं स्वरूपैक्येणेदानीं सुखाद्यनुसन्धानमापादनीयम् । न च यत्काले चैत्रस्य सुखादिकं किमपि नोत्पन्नं तत्कालघटितसुखाद्यभावे तद्धटितापाद्यप्रसिद्ध्या व्यभिचार इति वाच्यम् । सुषुप्तिमूर्च्छादावपि सुखदुःखादिप्रत्यक्षसद्भावेन तादृशकालास्यैवाभावेनोक्तदोषानवकाशात् । सुषुप्तावात्मनि सुखाद्यभावादात्मस्वरूपस्य सुखज्ञानादिरूपत्वात्तद्रीत्या व्यभिचार इति यद्युच्यते तदा, ‘यत्कालिकयत्सुखाश्रयस्वरूपैक्यवत्वं यत्र तत्र स्वकीयतया तत्कालिकत-त्सुखाद्यनुसन्धातृत्वमिति रीत्या वाच्यम् । अस्मन्मते आत्मनः सुखाश्रयत्वाभावेन मतद्वयानुगमाभावेऽपि क्षत्यभावात् । अनुगमस्यापि कथञ्चित्कर्तुं शक्यत्वाच्च ।

न च तत्कालीनसुखानुसन्धानरूपापाद्यस्य व्यतिरेकेण तत्कालीनस्वरूपैक्यरूपापाद-कस्याभावसिद्धावपि जीवेशयोः स्वरूपैक्यसामान्याभावासिद्ध्योक्ततर्कवैफल्वमिति वाच्यम् । परेण स्वरूपैक्यस्य स्वाभाविकत्वेन सार्वत्रिकत्वं, सर्वेषूपाधिकृतभेदसत्वाद्यावदुपाधिसत्वं तावत्पर्यन्तं तत्कार्यप्रतिबन्ध इत्यङ्गीकृतत्वेन किञ्चित्कालं स्वरूपैक्यस्याभावसिद्ध्याऽपि परमतस्य निरासेन तर्कावैफल्यात् । ‘न हि भिन्नमभिन्नतां गच्छद्दृष्टम्’ इति न्यायेन स्वपक्षस्यापि सिद्धेः । न चैवं कालविशेषस्य सार्थक्योपपादनेऽपि टिप्पण्यां व्यभिचारवा-रणार्थमापाद्यकोटौ तद्धिशेषणमित्युक्तत्वात्तदसङ्गतिर्दुर्वारैवेति वाच्यम् । उक्तरीत्याऽपाद्यकोटौ कालविशेषस्यावश्यकत्वेन तन्निर्वाहकव्याप्तिशरीरे उक्तरीत्या कालनिवेशस्यावश्यकत्वे नैयायि-कादिरीत्या सुखाद्यनवच्छेदककालस्यापादककोटौ ग्रहणे तादृशापादकवति तत्कालघटि-तापाद्याप्रसिद्धिरूपव्यभिचारनिरासार्थमापादकघटककालवृत्तित्वरूपं वर्तमानत्वं सुखादावा-पाद्यकोटिनिविष्टे विशेषणमुपात्तम् । तेन नैयायिकादिरीत्या पूर्वप्रदर्शितपरिष्कारे पर्यवसानमित्यत्र टिप्पणीकृतां तात्पर्यात् । टिप्पण्यामननुसन्धानादिति पञ्चम्यन्तस्योक्त-रीत्यापादककोटौ कालनिवेशस्यावश्यकत्वद्वारा परम्परयैव व्यभिचारे हेतुत्वं बोध्यम् ।

नन्वथापि टिप्पण्यामुक्तमयुक्तमेव । अत्रेश्वरमेव पक्षीकृत्य स्वरूपैक्यरूपापादकेन जीवसुखदुःखाद्यनुसन्धानमापाद्यते । तत्र कालघटनया परिष्कारे प्रयोजनाभावः । ईश्वरे ‘निरनिष्टो निरवद्यः’ इत्याद्यागमेनैवापद्यव्यतिरेकस्य प्रतियोगिव्यधिकरणस्य निर्णीतत्वात् । अन्यथा कालविशेषघटितापाद्यव्यतिरेकस्य प्रत्यक्षागम्य ईश्वरे निर्णयाभावापत्तेः । तथा च व्याप्तावपि कालनिवेशात् प्रयोजनाभावेन तद्वाक्यासङ्गतिदार्ढ्यादिति चेन्न । यतो यद्यपि मुक्तत्वहेत्वप्रयोजकतानिरासप्रस्तावे पूर्वग्रन्थसन्दर्भानुसारादुत्तरमूलानुगुण्याय चांशिन ईश्वर-स्यैवापादनविषयत्वं कण्ठत उक्तम् । तथापि चैत्रमैत्रादिरूपांशानामपि स्वरूपैक्ये परस्परदुःखाद्यनुसन्धानाभावापादनमपि मूलटीकयोरभिप्रेतम् । अन्यथा इदानीं तेषामपक्षी-करणे परः सुखाद्यनुसन्धानरूपापाद्यरहितत्वेन निश्चितचैत्रमैत्रादिषु स्वरूपैक्यरूपापादकस्य निश्चितं सन्धिग्घं वा व्यभिचारं यदि उद्भावयेत् तदा निरुत्तरत्वापत्तेः । अत एवोपाधिखण्डनटीकायामैदम्पर्येण भास्करपक्षनिरासार्थं प्रवृत्तत्वादंशिनोंऽशानां च परस्पर-सुखाद्यनुसन्धानापत्तिद्वयं कण्ठत एवाभिघाय हस्तपादादिगतांशानामपि परस्परसुखाद्यनु-सन्धानमुपपाद्य परोक्तव्यभिचार उद्धृतः । इह त्वंशिन एव विश्लिष्ट एव हस्तपादाद्युपाधिकृतभेदसद्भावेऽपि सर्वांशसम्बन्धिज्ञानाद्यनुसन्धानोपपादनार्थमुदाहृतभारत-वाक्येन हस्तपादादिवृत्त्यंशानां परस्परानुसन्धानलाभेन शङ्काग्रन्थे परोक्तव्यभिचारनिरासज्ञानं शिष्याणां सुलभमिति न कण्ठतस्तत्प्रकारो दर्शितः । इत्थं चात्र मैत्रादीन् पक्षीकृत्यापादने उक्तरीत्यापाद्यव्यतिरेकनिश्चयलाभाय कालादिनिवेश आवश्यकः ।

न चैवं तर्हि उपाधिखण्डनटीकाया असङ्गतत्वापत्तिः । तत्र कालमनिवेश्यैवापाद्या-पादकशरीरस्य स्फुटमभिघानात्तत्र भवदुक्तदूषणप्रसक्तेरिति वाच्यम् । इदानीं चैत्रमैत्रादिषु परस्परानुसन्धानाभावस्य यथायथमनुमानादिसिद्धत्वे कालान्तरे तद्भावशङ्का निर्मूलं नोत्पत्तिमर्हति प्रेक्षावतामिति कालविशेषाघटितापाद्यव्यतिरेकनिर्णयः सुलभ इत्याशयेनोपाधि-खण्डनटीकायाः प्रवृत्तिः । इह पुनः कालान्तरेऽप्यनुभवानारूढमप्यनुसन्धानमङ्गी-कृत्याऽग्रहेऽपि आपाद्यव्यतिरेकनिर्णयसम्पादनपूर्वकमापत्त्यर्थं तुष्यत्विति न्यायेनापाद्यकोटौ कालनिवेशनं कृतमित्याशयेन तट्टीका प्रवृत्तेत्युभयोरविरोधः । भोक्त्रापत्तेरित्यघिकरणे एकीभवन्तीति च्विप्रत्ययास्वरस्यमभ्युपेत्य प्रकृतिभूतैकपदार्थमात्रस्वारस्यमवलम्ब्य प्रवृत्तपूर्व-पक्षोपपादनार्थं ‘न ह्यन्यस्यान्यभावो युज्यते’ इति भाष्ये युक्त्युपन्यासेऽपि च्विप्रत्यय-स्वारस्यमङ्गीकृत्य प्रकृतिभूतैकपदस्य स्थानैक्यादिरूपामुख्यार्थत्वोपपादनार्थमनुव्याख्याने ‘नान्यदन्यत्वमापन्नं कचिद्दृष्टं’ इति सैव युक्तिरुपन्यस्ता । तत्र यथाऽभिप्रायभेदेनाविरोधः तद्वदिहापीत्याशयेन टिप्पणीप्रवृतेर्न कोऽपि दोष इति सुधियो विभावयन्तु ।

।। उपाधेर्भेदजनकत्वनिरासः ।।

।। नोपाधिभेदादिति ।। नेत्येव छेदः ।। प्रयोजकमिति ।। सुखादिरूपविषय-मात्रसाहित्येनानुसन्धानसामग्रीरूपतया तद्व्याप्यं व्यापकं चेत्यर्थः ।। उपाधिकृतभेदे सतीति ।। परमतमङ्गीकृत्यैवमुक्तिः ।। अंशिनो जीवस्य हृदयस्थानवृत्तित्वमंशानां हस्तादिस्थितत्व-मित्युपाधिभेदादंशिन्यंशिभेद उपाधिकृतो वर्तत इति परेणाङ्गीकार्यम् । अन्यथा स्थानरूपोपाधिभेदसत्वेऽप्यंशिन्यंशभेदाभावेऽन्यत्रापि तत्सिद्धिर्न स्यादतः परमते तस्याव-श्यकत्वम् । स्वमते तूपाधीनां भेदकताया एव कृत्स्नैकदेविकल्पपूर्वकदूषणेन निरस्तत्वात् । उपाघेर्भेदव्यञ्जकताया एवाभ्युपगतत्वात् । न चैतदपि कथं सम्भवति ? असम्बद्धत्वेन गृह्यमाणोपाधेर्भेदव्यञ्जकत्वेऽतिप्रसङ्गात् । सम्बद्धत्वेन गृह्यमाणस्यैव व्यञ्जकत्वे एकदेशत्वं तद्धटकैकभागभिन्नभागत्वं भेदघटितम् । तथा च भेदज्ञानानन्तरं तद्भटितैकदेशज्ञानं तत्सम्बद्धत्वेन ज्ञानानन्तरं भेदस्य प्रत्यक्षमित्यन्योन्याश्रयः । सर्वदेशसम्बद्धत्वज्ञानस्य तु न मेदव्यञ्जकत्वं स्वशून्यभागस्यैवाभावेन मेदप्रतियोगिग्रहणानुपपत्तेरिति वाच्यम् । उपाधिसम्बन्धज्ञानं विनाऽपि स्वरूपभूततद्भागनिष्ठभेदप्रत्यक्षं जायत एव सुज्ञानामज्ञानां च । तत्र सुज्ञास्तदानीमेव भेदकधर्मादिकं स्फुटं ज्ञात्वा व्यवहरन्ति । अज्ञानां व्यवहारप्रयोजकस्फुटतरज्ञानं तु एकदेशत्वेनागृह्यमाणो यो वास्तवैकदेशस्तत्सम्बद्धत्वेनोपा-धिज्ञानेन सम्पाद्यत इत्यनुपपत्त्यभावात् । कारकत्वपक्षे तु उपाधिनैव भेदकल्पनया एकदेशस्य निष्पादनीयतया स्यादेवानुपपत्तिः ।

किञ्चोपाधिना कल्प्यमानो भेदो यस्मिन् पटे सम्बन्धः तस्मादेव तत्र भेदो जायते उतैकदेशे एकदेशान्तराद्भेदः ? पटान्तरभेदस्य स्वतः सिद्धत्वेनोपाधिजन्यत्वाप्रसक्तेः । नाद्यः पट एव पटादत्यन्तभेदजनने द्वौ भागाविति स्थाने द्वौ पटाविति प्रतीतिव्यवहारयोः प्रसङ्गः । तत्पटेन भिन्नाभिन्नपटान्तरजननं त्वनुभवविरुद्धम् । चैत्रो दण्डीतिवत् पटः पटीत्यप्रतीतेः । तथात्वे उपाधिना वस्त्वन्तरस्यैव दण्डादिरूपविशेषणेनेव जननेन भेदजनकत्वोक्त्यसङ्गतिश्च । न द्वितीयः । भागयोस्त्वप्रत्यक्षे वस्तुत अभावेन भागे भेदोत्पत्तेरप्रसक्तेः । एकदेशयोरेव जनने भेदजनकत्वोक्त्ययोगः । उपाधेर्यद्भागेन सम्बद्धत्वं तद्भागोत्पत्त्ययोगश्च । उपाध्यभावास्य जनकत्वे उपाधिसम्बन्धपूर्वमेव तज्जननप्रसङ्गः । अखण्डे प्रथमत उपाधितदभावयोः सम्बन्धायोगश्च । पटैकदेशवदेव जीवानामपि स्वरूपत एव कल्पितत्वप्राप्त्या बन्धमोक्ष-भागित्वाभावापत्तिः । औपाधिकस्वरूपनाशस्यैव मोक्षत्वे ब्रह्मसम्बद्धस्वात्मकनाशेच्छया प्रवृत्तिरित्यापातेन प्रेक्षावतः श्रवणदौ प्रवृत्त्यभावापत्तेः । स्वनाशेच्छया मूर्खस्यापि प्रर्वृत्तेरभावात् । स्वनाशे स्वास्वरूपभूतब्रह्मणि दुःखापगमो भवतीति धीः स्वप्रयोजनानु-सन्धानानुरूपा प्रवर्तिकेति तु न श्रद्धेयम् । तथात्वे ब्रह्मण इदानीं दुःखित्वापत्त्या नित्यमुक्तत्वादिप्रातिपदिकानां ‘य आत्माऽपहतपाप्मा, अदुःखमसुखं, निरनिष्टो निरवद्यः’ इत्यादिश्रुतीनामप्रामाण्यापत्तेः । महता प्रयत्नेन स्वनाशे सम्पादितेऽपि मूर्खाणां बहूनामुपलम्भेऽपि जगदनाद्यनन्तत्वबोधकश्रुत्यनुरोधेन कदाऽपि ब्रह्मणि निर्दुःखत्वासम्प्रति-पत्त्या तज्ज्ञानेन प्रवृतेः सुतरामयोगश्चेत्यास्तां विस्तरः ।

यत्त्वत्र शास्त्रारम्भसमर्थनाख्यग्रन्थेऽर्वाचीनेनोक्तं ‘‘कर्माधीनभोगाश्रयत्वरूपबन्ध आत्य-न्तिकलयरूपमोक्षश्च विशिष्ट एवेति न बन्धमोक्षयोर्ब्रह्मण्यापत्तिः । एवमुपाघेर्भेदकत्वा-भावेऽत्र पटो रक्तो नात्र पटो रक्त इति प्रतीतिविरोधः । एकस्मिन् भावाभावयोर्विरोधात् । अत एकस्मिन्नंशाः स्वाभाविका भवद्भिरङ्गीकृताः । नचांशभेदेनैवोपपत्तौ उपाघिकृत-भेदकल्पना वृथेति साम्प्रतम् । अत्र पटो रक्तो नात्रेति पट एव रक्तत्वतदभावावगाह्यनु-भवविरेधात् । अंशानामेव तादृशप्रतीतिगोचरत्वेंऽशसमुदायातिरिक्तांशस्वीकारवैयर्थ्याच्च । अधिकं तत्वरत्नपरीक्षायामनुसन्धेयम् । एवञ्चोक्तरीत्या पटभेदावश्यकत्वात् द्वौ पटाविति प्रतीतिप्रसङ्गपरिहारावावयोस्तुल्यौ ।

किञ्च दण्डकुण्डलसम्बन्धाद्विशिष्टोत्पत्तिरिति पक्षेऽपि ‘अयं कुण्डली, अयं दण्डी, दण्डिकुण्डलिनौ द्वौ’ इति प्रतीत्यापत्तिः कथं वारणीया ? न हि स्वरसतो लोकानां तादृशप्रतीतिरस्ति । परीक्षाकरणे तु तुल्यम् । तस्मादनुभवैकपक्षपाते विशिष्टांशादिकं नोपादेयम् । युक्तयनुभवयोरनुसरणे तु सांशता पटस्यापि दुर्वारा । एवं चानादिब्रह्मांशो जीवः । अंशांशिनोर्भेद औपाधिकः । उपाध्यपगमे भेदस्यात्यन्तसमुच्छेदादंशिनाऽत्यन्त-मभिन्नोऽवतिष्ठत इत्येवांशो भास्करानुमतो निरपवाद एव । भेदोपाध्योः पारमार्थिकत्वमनिर्वाच्यत्वं वेत्यन्यदेतत्’’ इति ।

तदप्येतेनैव निरस्तम् । अनादिकर्ममूलकभोगाश्रयस्यानादेस्तन्निष्ठभेदस्य चौपाधिक-त्वोक्तेर्वाचोमात्रत्वात् । विलक्षणप्रयोज्यप्रयोजकभावस्याप्रामाणिकत्वात् । ब्रह्मणि मुक्तीच्छया स्वरूपलयप्रवृत्त्यभावस्येदानीमुपापादितत्वेन ब्रह्मण्येव बन्धमोक्षापादनस्य दुष्परिहरत्वात् । ‘अत्र पटो रक्तो, नात्र पटो रक्तः’ इत्यादिप्रतीत्युपपत्त्यादेरवच्छेदकतानिरासावसरे कृतत्वेनास्माकमनुभवविरोधपरिहारात् । प्रत्युत पटद्वयस्य तादृशानुभवगोचरत्वे ‘अत्र भागेऽयं रक्तो न भागान्तरे’ इत्येकस्यैव वस्तुनस्तादृशानुभवविषयत्वावगाहिसाक्ष्यनुभवविरोध एव वरस्य । उपाधिना भेदजननेऽपि स्वाभाविकाभेदनाशेन भेदोत्पत्त्यङ्गीकारस्त्वयुक्तः । स्वभावनाशे स्वरूपनाशप्रसङ्गेन भेदोत्पत्त्यधिकरणाभावेन तदुत्पत्तेरयोगात् । तन्नाशेऽपि स्वरूपसत्वे तस्य स्वाभावत्वानुप-पत्तिः । स्वाभाविकाभेदस्याविनाशेनैवावस्थाने एकस्मिन् भावाभावयोः सत्वस्यावर्जनीयतया विरोधोच्छेदो दुर्वार एव ।

यद्व्यक्त्याश्रयीमूतं यद्वस्तु तद्वस्त्ववृत्तित्वं तद्वस्तुभेदाभावरूपस्य तद्व्यक्त्यभावस्येति विरोधपरिकल्पने सर्वेष्वपि वस्तुषु सर्वसन्ततपवनपरमाण्वादिसंयोगतदभावसम्बन्धाधीनखभेदस्य सार्वकालीनस्यावर्जनीयतया विरोधस्यैवाप्रसिद्धिः । यद्भागे वर्तते यः तद्भागे तदभावो नास्तीत्यपि न सत् । महापटस्य योऽर्धभागास्तन्मध्ये एव कस्मिश्चिद्रक्तस्य कस्मिश्चित्तदभावस्य सत्वेन यद्भागपदेन महार्धरूपभागमादाय व्यभिचारस्य दुर्वारत्वात् । भेदाभावनिवेशस्तु निराकृत एव । स्वाभाविकाभेदस्याविनाशेन भेदोत्पत्त्यङ्गीकारे भेदाभेदयोरेव विरोधोच्छेदप्रसङ्गः । सर्वस्य ब्रह्मपरिणामत्वेन ब्रह्मरूपतामते स्वाभाविकभेद-स्याप्रसिद्ध्या भेदे स्वाभाविकत्वं निवेश्य विरोधकल्पनस्यायोगात् । स्वाभाविकाभेदनाशेन भेदस्योपाधिना जननेऽयमेक इति पटैक्यानुभवविरोधः । खण्डपटद्वयवदल्पपरिमाणोपेत-पटद्वयस्यैव महापटनाशेनोत्पत्त्यङ्गीकारप्रसङ्गः । तथैवात्मनाशप्रसङ्गश्च ।

अंशिस्वीकारवैयर्थ्यापादनं त्वयुक्तमेव । अयमेकः पटः इमौ च तस्य भागाविति प्रतीत्यतिरिक्तसाधकस्य तवाप्यभावात् । तस्य मन्मते साम्यात् । अंशभेदस्य स्वाभाविक-त्वौपाधिकत्वविषय एवावयोर्विवादात् । एतदपि खण्डनं तु तव तत्वरत्नपरीक्षानिरासावसर एव भविष्यति । एवं चेत्यनेनोक्तमुपपन्नम् । पटद्वयोत्पत्तेरावश्यकताया निरस्तत्वेन तवेव मम द्वौ पटाविति प्रतीत्यापादनस्याभावात् । दण्डिकुण्डल्यादिरूपपरिणामस्थले एकचैत्राभिन्नत्वेन ग्रहणसामग्य्रा प्रतिबन्धेन अयमेकोऽयमेक इति स्फुटप्रत्यक्षरूपापेक्षाबुद्ध्यभावेन द्वित्वलौकि-कप्रत्यक्षं न जायते मिश्रितनीरक्षीरयोरिव । दण्डी नष्टः कुण्डली चोत्पन्न इत्यादिविमर्शेन जायमानभेदज्ञानमूलकद्वित्वप्रमा तु जायत इत्यादिरीत्यनुसरणमावयोस्तुल्यम् । तथापि प्रकृते तद्वैम्योपपादनं कृतमेव ।

यदप्युपाधेर्भेदव्यञ्जकत्वपक्षे कृत्स्नैकदेशविकल्पकदूषणाभिधानेन पक्षद्वयसाम्योपपादंन तत् व्यञ्जकत्वपक्षे दोषस्य परिहृतत्वात् स्वाभाविकघटांशस्य स्वाभाविकगगनाद्यंशेन सम्बन्धाङ्गी-कारेऽनुभवविरोधपरिहारात् घटांशगगनांशयोः सम्बन्धेऽपि गगनं घटसंयुक्तमित्यादि-प्रतीतिव्यवहाराणामंशांशिनोरैक्येन निर्वाहात् अवच्छेदकताखण्डनावसर एवोपपादितत्वादनु-पादेयमेव ।

यदपि परेणाभिहितं ‘‘इदमत्र चिन्तनीयम् । ‘भेदस्योपाधिजन्यत्वेऽतुल्यपरिमाणगगन-देशभिन्नभिन्नदेशकालीनानन्तघटाद्यवच्छिन्नाकाशादीनामनन्तानां कल्पने गौरवम् । उपाधि-व्यङ्ग्यत्वे तु तत्रैकस्यैव देशस्याभ्युपगमाल्लाघवम्’ इति । अत्रेदमनुसन्धेयम् । घटसंयोगादि-रूपागन्तुकविशेषणविशिष्टस्याकाशस्य शुद्धाकाशादन्यस्याभ्युपगमो विशिष्टातिरिक्तवादि-नामावश्यकः । एवं च ततोतिरिक्तघटाकाशानभ्युपगमान्न गौरवावकाशः’’ इति ।

तन्न । विशेषणसम्बन्धेन विशिष्टोत्पत्तौ विशिष्टानां परस्परभेदे विशेषणभेदाभेदे चावयो-र्विवादभावेन तत्रास्माभिर्दूषणानभिधानात् । किन्त्वेकस्यैव वस्तुनो नानाविशेषण-सम्बन्धैर्जायमानपरिणामविशेषाणां भेदलौकिकप्रत्यक्षस्यानुभवविरुद्धतया पटांशानामय-मस्माद्भिन्न इति लैकिकप्रत्यक्षे भासमानो भेदः केवलस्वरूपयोरेव भेदः उपाधिजन्यो व्यङ्ग्यो वा वाच्यः । न च विशिष्टभेद एवांशभेदपदार्थो वाच्यः । तथात्वे घटविशिष्टगगनं पटविशिष्टभिन्नमिति प्रतीतेः अयं भागोऽस्माद्भागाद्भिन्न इति प्रतीतेर्वैलक्षण्यस्य सर्वानुभवसिद्धस्यापलापापत्तेः । एकस्मिन् भागे प्रभाद्वयसम्बन्धाद्विशिष्टद्वयोत्पत्तेस्त-योर्भेदस्याप्यबाधितत्वेनैकांश एवायमस्माद्भिन्न इति विषयीकुर्वत्प्रतीतिव्यवहारयोः प्रमाण्या-पाताच्च । तत्र जन्यत्वपक्षे उक्तगौरवस्य युक्तत्वात् । अत एव ‘भास्करमतेऽपि दण्डकुण्डलादिनानाविशेषणैरिवैकस्मिन्नेव नानाविशिष्टोत्पत्तिः’ इत्यसत् । उपाधिकृतभेदेन पटादिभागानामिव जीवानामप्युपाधिकृतभेदेन परस्परभिन्नानामेव ब्रह्मांशत्वमिति तत्सिद्धान्त-भङ्गाच्च । दण्डकुण्डलिनोश्चैत्रांशत्वेन कुत्राप्यव्यवहारात् । दण्डिनि जायमानवृश्चिक-दंशाद्यधीनदुःखादेः केवल एव लोकानुभवेन कुण्डलिन्यपि तादृशदुःखादेर्व्यवहारानुभवयोः सत्वेन चैत्रदुःखादेः शुद्धब्रह्मणि मैत्रादौ च प्रसक्त्यापत्तेः ।

न च प्रमाणान्तरविरुद्धविशिष्टधर्माणामेव केवलेऽभ्युपगमः । अन्यथा दण्ड्युत्पन्न इतिवत् चैत्र उत्पन्न इति प्रत्ययापत्तेः । तथा च तत्तदन्तःकरणविशिष्टनिष्ठधर्माणां कथं शुद्धस्व-रूपेऽन्तः करणान्तरविशिष्टरूपे चैत्रे चापादनमिति वाच्यम् । यतो विशेष्यमात्रे प्रतीत्यविषया विशिष्टमात्रे प्रतीयमाना अनित्यत्वादिधर्मा विशेषणतत्संसर्गनिष्ठतया प्रतीयमाना एव नियमतो भवन्ति । अत एव विशिष्टातिरिक्तानङ्गीकर्तृमते स्वर्गी ध्वस्त इत्यादिप्रतीतीनां स्वर्गे तत्सबन्धे वा ध्वंसप्रतियोगित्वावगाहित्वं स्वीक्रियते । चैत्रनिष्ठगमनादीनामेव रूपविशिष्टश्चैत्रो गच्छतीत्यादिप्रतीतिविषयत्वं तस्य केवलमात्रवृत्तित्वात् । दीर्घत्वादिमत्यपि सत्वात् दीर्घो गच्छतीत्यपि प्रतीतिः । एवं चान्तःकरणस्य दुःखोपादनत्वेऽपि दुःखानुभवितृत्वरूपभोक्तृत्वं केवलचिन्निष्ठमेव वाच्यम् । अन्यथाऽन्तःकरणस्य विशेषणीभूतजडस्यापि दुःखानुभवितृ-त्वापत्तेः । इष्टापत्तौ च जडस्य भोक्तृत्वस्यावश्यकत्वे चेतनस्य बन्धमोक्षयोरप्यभावप्रसङ्गात् ।

अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः’ ।

इति श्रुतिविरोधापत्तेः । तथा च दुःखानुभवितृत्वाज्ञत्वादिकेवलधर्माणां सर्वान्तः । करणविशिष्टकेवलसाधारणतया सर्वेषां सर्वदुःखादिभोगप्रसक्तिः । निर्दुःखचेतनावस्थानानुप-पत्तिर्दुर्वारैवेत्युपाधिसम्बन्धाद्व्रह्मस्वरूप एव भेदसम्पादनाच्छुद्धा एव परस्परमत्यन्तभिन्नाश्चेतना दुःखानुभविनः संसरन्ति ततो न दुःखादिसाङ्कर्यमित्येवाङ्गीकार्यम् ।

यत्तु ‘‘निरनिष्टो निरवद्य इत्यादिश्रुतिवेद्येश्वररूपो नित्यमुक्तचेतन इत्येतन्मतनिष्कर्षः’’ इति । तत्रापि चोपाधेर्भेधकत्वं न युक्तमेव । सोपाधिकभेदसत्वेऽपि स्वाभाविकैक्यबलादीश्वर-स्यांशानां च परस्परं सुखदुःखानुसन्धानापत्त्यादिसिद्धान्तोक्तदूषणं युक्ततरमेव ।

यत्तु ‘‘अन्तःकरणोपाधिकृतभेदाभावसहितं स्वरूपैक्यं तत्सुखदुःखानुसन्धानव्याप्यम्’’ योगिनामन्तःकरणस्य योगप्रभावासदितनानाशरीरेष्वेकस्यैव सत्वात्तत्र परस्परसुखाद्यनु-सन्धानम् । चैत्रमैत्रादीनामन्तःकरणभेदान्न सुखादिसाङ्कर्यम् । न च योगिनां शरीरभेदेऽन्तःकरणानामपि भेद एवेति वाच्यम् । तादृशशरीरसमसङ्ख्याकान्तःकरणा-नामनादितस्तज्जीवसम्बन्धित्वे युगपन्नानान्तःकरणेषु सुखदुःखनानाज्ञानादीनामुत्पत्ति-प्रसङ्गात् । अत्रैव जायत इत्यत्र नियामकानुपलम्भात् । सर्वानुभवविरुद्धत्वेनेष्टापत्त्ययोगात् । अप्रामाणिकानेकान्तःकरणकल्पनागौरवाद्यापाताच्च । अन्तःकरणानां योगप्रभावेणैव सृष्ट्यङ्गी-कारे निरवयवसृष्ट्ययोगात् पृथिव्यादिपरमाणूनामिवान्तःकरणपरमाणूनामभावेन पार्थिवपर-माण्वादिभिर्जातस्यान्तःकरणरूपद्रव्यान्तरत्वायोगात् । पार्थिवादीनामेव किञ्चित्पदार्थानां  सुखदुःखोपादनत्वापत्त्यान्तःकरणाख्यातिरिक्तपदार्थस्यैवासिद्धिप्रसङ्गात् । अतोऽनेकशरीरे-ष्वेकमेवान्तःकरणं योगप्रभावेन विपुलीकृत्य क्रीडतीत्येव स्वीकारो युक्त इति नोक्तसुखादीनां साङ्कर्यापादनं युक्तम् । न च प्रतिसुप्त्यन्तःकरणविलयेन विभिन्नानामेवान्तः-करणानामुत्पत्त्यङ्गीकाराच्चैत्रस्यापि पूर्वापरदिवससम्बन्धिनोऽन्तःकरणभेदेन भिन्नत्वाच्चैत्रमैत्र-योरिव पूर्वदिवसीयमुखादिस्मर्तृत्वानुपपत्तिरुत्तरदिवस्थस्येति वाच्यम् । सूक्ष्मावस्था-पन्नान्तःकरणस्य पूर्वापरदिवसेष्वेकस्यैवानुगातत्वात् तत्कृतभेदाभावस्यैवानुसन्धाने प्रयोज-कत्वाङ्गीकारात्’’ इति ।

तदप्यसत् । तादृशसूक्षमावस्थापन्नान्तःकरणस्य सर्वशरीरव्यापित्वायोगात् । व्यापित्वे वा युगपत्सर्वेन्द्रियसम्बन्धात् सर्वज्ञानानां यौगपद्यापातेन च शरीरैकदेश एव तत्सत्वावश्यकत्वे भागान्तरस्थात्मनि अन्तःकरणरूपोपाध्यसम्बद्धे अन्तःकरणकृतभेदस्य सत्वादन्तःकरण-भागावच्छिन्नसुखाद्यनुसन्धानाभावापत्तेः । इष्टापत्तौ पादलग्नकण्टकोद्धरणार्थं हस्तादिप्रसरणा-नुपपत्तिः । समस्तांशिन्तयन्तःकरणसम्बन्धेन तत्रापि तत्कृतभेदस्यावश्यकत्वात् । न चैकान्तःकरणावच्छिन्ननिष्ठोऽपरान्तःकरणावच्छिन्नभेदो यस्तदभावसहितस्वरूपैक्यमेवानु- सन्धानप्रयोजकमिति वाच्यम् । तथात्वे ईशस्यान्तःकरणादिविधुरत्वेन जीवसुखदुःखादि-भोक्तृत्वस्य, चैत्रसम्बन्धिहस्तादिगतस्यान्तःकरणानवच्छिन्नांशस्य मैत्रीयसुखादिभोक्तृत्वस्य चापत्तेर्दुर्वारत्वात् ।

ज्ञानशक्त्यवच्छिन्नान्तःकरणस्य शरीरव्यापित्वाभावान्न ज्ञानयौगपद्यदि । क्रियाशक्त्य-वच्छिन्नस्य तथात्वात्सर्वानुसन्धानम्’ इत्यसत् । अन्तःकरणस्य शरीरसमपरिमाणत्वाङ्गीकारे गजादिशरीरस्य जीवस्य पिपीलिकाशरीरप्राप्तावन्तःकरणान्तरापत्त्या तदुपाधिकजीवस्य पूर्वशरीरस्थजीवात् अत्यन्तभेदापत्त्या तत्कर्माद्यनुभवानुपपत्तेः । किं च चैत्रहस्तपादादि-गतांशानां स्वरूपैक्यवत्वेनोभयसम्मतानां परस्परसुखदुःखादिभोक्तृत्वमावयोः समम् । स्वरूपैक्ये सत्यन्तःकरणकृतभेदबलात् परस्परसुखदुःखाद्यनुसन्धानप्रतिबन्धनं न कुत्रापि लोकव्यवहारविषयः । उक्तदूषणवारणार्थमेव प्रकृते त्वत्कल्पनन्त्वप्रामाणिकमेव । अन्यथा यत्किञ्चित्प्रमेयसिद्धये, यत्र दूषणमुच्यते तदन्यस्थल एवायं नियमः इति प्रतिवादिना वक्तुं शक्यत्वेन तव तन्मतनिराकरणाभावापातेन स्वसिद्धान्तव्यवस्थापनानुपपत्तिप्रसङ्गात् । प्रमेयस्य दृढतरप्रमाणप्रमितत्वे तत्स्थापनोपयुक्तकल्पनायुक्तेति ।

प्रकृते औतश्रुतीनामन्तरङ्गानुपपत्तिप्रबलप्रमाणविरोघादिनाऽन्यार्थतायाः, प्रतीयमानार्थ-तात्पर्याभावस्य चान्यत्राऽचार्यैरुपपादितत्वेनाद्वैतस्य प्रमितत्वं नास्तीत्याशयेनैवोक्ताति-प्रसङ्गोक्तेः । तत्रोत्प्रेक्षितपरकीयदूषणाभासस्वमतोपपत्त्यादिनिरासोऽन्यत्रास्मत्कृतोऽनुसन्धेयः। ग्रन्थगौरवभयादन्तरङ्गानुपपत्त्यादिकमिह न प्रपञ्च्यते ।

किञ्च योगितां चक्षुरादीन्द्रियाणां भेदः अन्तःकरणमात्रस्याभेद इत्यत्र विरोषप्रमाणा-भावात् चक्षुराद्युपाधिकृतभेदाभावस्यानुसन्धानप्रयोजकत्वमन्तःकरणकृतभेदाभावस्य वा प्रयोजकत्वमित्यत्र विनिगमकाभावेन लाघवात् स्वरूपैक्यस्यैव प्रयोजकत्वादुक्तापत्तिर्दुर्वारैव ।

यत्त्वत्र परेणोक्तं ‘‘किमिदं प्रयोजकत्वम् ? न तावत्कारणत्वम् । इष्टापत्तेः । तावन्मात्रेण त्वदिष्टार्थासिद्ध्याऽर्थान्तराच्च । अत एव च न व्यापकत्वम् । नापि व्याप्यत्वम् । स्वरूपैक्यशालिनोर्विशिष्टयोर्विरुद्धधर्माश्रयत्ववत् उक्तानुसन्घानतदभावयोरुपपत्त्याऽनुकुल-तर्काभावेन तदसिद्धेः । लघोरिव गुरोरपि व्याप्यतायामविवादेन लाघवमात्रेण स्वरूपैक्ये सत्युपाधिसंश्लेषस्य प्रयोजकताया निरसितुमशक्यत्वाच्च । एतेनापूर्वव्यवस्थाऽपि व्याख्याता । अन्तःकरणसूक्ष्मावस्थारूपसंस्कारात्मकत्वेन प्रतिनियतत्वव्यवस्थोपपत्तेः’ इति ।

तन्न । स्वरूपैक्यस्य सुखदुःखादिरूपविषयमात्रसाहित्येनानुसन्धानसामग्रीरूपत्वेन कारणत्वात्सुखाद्युत्पत्तिसहितस्वरूपैक्यरूपकारणबलेन सुखाद्यनुसन्धानापादनसम्भवे त्वदिष्टा-पत्त्ययोगान्मदिष्टसिद्धेश्च कारणत्वरूपप्रयोजकत्वाङ्गीकारे क्षतिविरहात् । व्याप्यत्वरूपं वा प्रयोजकत्वमस्तु । निश्चिताव्यभिचारकस्वरूपैक्यत्वमात्रस्य व्याप्यतावच्छेदकत्वसम्भवे उपाधिसंश्लेषघटितोक्तरूपे नीलधूमत्वादाविव व्याप्यतावच्छेदकत्वाकल्पनात् । उपाघिसंश्लेषस्य व्याप्यत्वे घर्मिभेदादवैयर्थ्यमित्यस्याप्ययुक्ततैव । परशरीरप्रवेशस्थले तन्मात्रस्य व्यभिच-रितत्वात् । एकान्तःकरणवत्वरूपसंश्लेषस्य व्याप्यत्वेऽपि स्वरूपैक्यस्यापि व्याप्यत्वानपायेन तेनोक्ताऽपादनस्य दुष्परिहरत्वात् । विशिष्टयोर्मिन्नत्वेन तयोः स्वरूपैक्यज्ञानभूलकोक्तशङ्काया अनुत्थितेश्च । विशिष्टशुद्धयोश्च भेदाभेदयोरेव सत्वेन स्वरूपेणात्यन्ताभेदरूपस्वरूपैक्या-प्रसक्तेः । उपाधिसंश्लेषसहितस्वरूपैक्यस्य व्याप्यत्वाङ्गीकारेऽप्युक्तशङ्काया दुरुच्छेदात् । विशेषानुसन्धानेन तत्परिहाराय ममपि साम्यात् । पुण्यपापादेरन्तःकरणात्मकत्वेन तत्सूक्ष्मा-वस्थायाः संस्कारत्वेन तदात्मकत्वेन पुण्यपापादीनां प्रतिनियतत्वव्यवस्थायाः अन्तःकरण-रूपोपाधीनामपि, भेदसिद्धेः प्राक् निरंशब्रह्मसम्बद्धानामस्येदमिति व्यवस्थितत्वाभावेना-सम्भवाच्चेत्यन्यत्र विस्तरः ।

इदं तु तत्वम् । ‘भास्करस्याप्येकमेवाद्वितीयमिति श्रुतेः स्वाभाविकाभेदवद्द्वितीय-वस्तुराहित्यमित्यर्थः । अन्यथा प्रामाण्याभावापत्तेः । इत्थं च जीवानामुपाद्यधीनभेदवत्वेन भेदवत्वरूपांशत्वं वा उपाधिविशिष्टरूपांशत्वं वा कामं तन्मात्रमस्तु । तत्रोपाधीनां ब्रह्ममात्रत्वं वा तदन्यत्वं वा ? नाद्यः । तन्मात्रस्य तत्सत्वासत्वयोरयोगेन भेदकत्वविशेषण-त्वयोरनुपपत्तेः । अन्यथा ब्रह्मस्वरूपाणामेवानन्त्यापत्तेः । ब्रह्मस्वरूपमात्रोपाधेर्निवृत्त्ययोगेन मोक्षाभावापाताच्च । न द्वितीयः । उपाधेर्ब्रह्मणो भेदस्यानौपाधिकत्वेऽद्वैतहान्यापत्तेः । तत्राप्यौपाधिकभेदपरम्पराकल्पनेनानवस्थापत्तेः । अनादित्वेनोत्पत्त्यभावादनवस्था न दोष इति चेतर्हि सर्वेषामनादित एव ब्रह्मभिन्नतयावस्थितत्वेन भेदस्य बलात् स्वाभाविकत्वापातेनाद्वितीयश्रुत्यप्रामाण्यापत्तिः । सर्वं खल्विदं ब्रह्मेति श्रुत्यप्रमाण्यापत्तिश्च । ज्ञानेन निवृत्तावपि तेषामनादीनां ब्रह्मकारणकत्वाभाववतां ब्रह्ममात्रतारूपविनाशा-सम्प्रतिपत्तेः । न चानादितो भिन्नाभिन्ना एव ते । तन्मते कारणे कार्यात्यन्तभेदः कार्ये च कारणभेद इति व्यवस्थयैव भेदामेदयोः स्वीकृतत्वेनानादितो भिन्नतया स्थितानामनादीनां ब्रह्माभेदे बीजाभावात् । एकमेवाद्वितीयमिति श्रुतावेवकारेण सर्वथा स्वाभाविकभेदस्याभेद-सहितस्यापि निषेघलाभेन तदप्रामाण्यापत्तेर्दुर्वारत्वाच्च । उक्तोपाधिपरम्पराया अप्रामाणिक-त्वेनानवस्थाया दोषत्वाच्च । उपाधीनां ब्रह्मपरिणामरूपतया सादित्वे तत्कृतभेदविशिष्टस्य तद्विशिष्टस्य च सादित्वात् संसारसादिदोषापत्तेर्दुर्वारत्वम् । न हि त्वन्मत इव दुर्घटत्वस्य भूषणत्वं तैरङ्गीकृतम् । जगतः सत्यत्वाभ्युपगमात् । तस्मात् सत्योपाधीनां भेदकत्वस्यैवोक्ति- सहत्वाभावात् अन्तःकरणरूपोपाधिकृतभेदाश्रयणेनानुसन्धानापत्तिपरिहारादिकमतीवानुप पन्नम्’इति ।

अनुसन्धानापत्त्यादिदूषणमपि तन्मत एवाभिहितम् । येषां भेदस्योपाघेश्च मिथ्यात्वं तेषां सर्वमिथ्यात्वात् काल्पनिकेन भेदेन काल्पनिकी व्यवस्था घटेतापि । सत्योपाघिकृत-सत्यभेदवादेऽनुसन्धानापत्त्यादिकं भवेदेवेति टीकाकारैरन्यत्रोक्तत्वात् । तथा चौपाधिकभेद उक्तदूषणपरिहाराय पारमार्थिकत्वानिर्वचनीयत्वयोरन्यतरनिर्घारणाभावोक्तिरयुक्तैवेति सुघियो विदाङ्कुर्वन्तु ।

भारतवचनमात्रस्य विशेषाभावे हेतुत्वायोगाच्छेषं पूरयति । विश्लिष्टोपाधिकृतेत्यादिना ।। विशेषपदं धृत्वा तदर्थप्रतियोगिनमनुवदति ।। हस्तपादादीत्युदाहरणादिति ।। विशेषपदार्थं प्रकटयति ।। अननुसन्धानलक्षण इति ।।