विषयाऽश्रयं चेदज्ञानं

आत्मज्ञानस्यात्माविषयकत्वे तेनात्माज्ञानानिवृत्त्यापादनम्

विषयाऽश्रयं चेदज्ञानं

श्रीमज्जयतीर्थटीका

किञ्च अस्तु वा आत्माज्ञानम् । तथापि न वेदान्तवाक्यजनित-विज्ञानस्याऽत्मज्ञानत्वं सम्भवति । तस्यानात्मविषयत्वेन तन्निवर्तकत्वायोगात् । यद्विषयं हि यद्विज्ञानं तदेव तदज्ञानं निवर्तयदुपलब्धम् ।

द्वैतद्युमणि:

।। किञ्चेति ।। अनात्मविषयत्वेन शुद्धात्माविषयकत्वेन ।

आत्माविषयकस्याऽत्मज्ञानस्याऽत्माज्ञाननिवर्तकत्वे घटज्ञानस्यापि तन्निवर्तकत्वाऽपादनम्