विश्वं सत्यं..

अनृतादिशब्दानां प्रपञ्चानिर्वाच्यत्वबोधकत्वाभावे प्रपञ्चसत्यत्वस्य प्रमितत्वरूपकारणोक्तिः

श्रीमज्जयतीर्थटीका

कस्मादेवमनृतत्वाद्युक्तेरन्यार्थवर्णनम् । ब्रह्मवत्सत्यत्वेन प्रमितत्वादित्याह

मूलं

विश्वं सत्यं ... ... ... ... ।

प्रमितमिति शेषः । न च सत्यत्वेपि परमात्मनोऽस्याविशेषश्शङ्कनीयः । एतत्सत्ताया अपि तदधीनत्वादित्याह

मूलं

.......वशे विष्णोः........।

तदधीनसत्ताकमपि तेन नोत्साद्यत इत्याह

मूलं

... ... ... ... नित्वमेव ... ... ।

न च तथात्वे भागे प्रत्यक्षादिविरोधश्शङ्कनीय इत्याह

मूलं

... ... ... ... प्रवाहतः ।।

प्रवाहतो नित्यत्वेपि नावान्तरवैचित्र्यमित्याह

मूलं

न क्वाप्यनीदृशं विश्वं ... ... ... ।

क्वापि काले । तथात्वेऽपि न प्रलयाद्यागमविरोधश्शङ्कनीय इत्याह

मूलं

... ... ... ... तत्तत्कालानुसारतः ।

यस्मिन्काले यादृशेन भवितव्यं तथाभावस्य न व्यत्यास इत्युक्तं भवति । यदि तर्हित्थम्भूतं जगत् कथं केचिद्वैपरीत्येनाहुरित्यत आह

मूलं

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।।

त आसुराः ... ... ... ... ।

अत्र ‘विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः’ इत्यस्यासत्यमनीश्वरम-प्रतिष्ठमिति विपरीतोक्तिः । आसुरा इति मिथ्याज्ञानित्वे हेतुः । किमर्थं ते तथाहुरित्यत आह

मूलं

... ... स्वयं नष्टा जगतः क्षयकारिणः । इत्यादिव्यासस्मृतौ ।

द्वैतद्युमणि:

न्यायप्रदर्शनपूर्वकं व्याख्यानार्थं स्मृतेः प्रवृत्तत्वात्तल्लाभायाह ।। प्रमितमितीति ।। अविशेष इति ।। तथा च तस्योपनिषत्सत्यस्य सत्यमिति वचनविरोधप्रसङ्गः स्यात्तत्परि-हारायोक्तवचनमवान्तरसत्यत्वपरमेवेति भावः ।। तदधीनत्वादिति ।। इत्थं च सत्यस्य सत्यताप्रदमिति श्रुत्यर्थः ।

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।।’

इति स्मृत्यनुगृहीतत्वेनास्यैवार्थस्य प्रामाणिकत्वादितरस्य त्वौत्प्रेक्षिकत्वादिति भावः ।। न तेनोत्साद्यत इति ।। स्वरूपसत्त्वापहारो न क्रियत इत्यर्थः । न सन्ति यदुपेक्षयेति वाक्यस्यार्थवादत्वपरिहाराय कारणकार्यादिसमस्तरूपैः प्रपञ्चोच्छेदो वक्तव्यः । अन्यथा पूर्वभागस्याप्यर्थवादत्वप्राप्त्या तदुक्तरीत्या भवदभिप्रेतः श्रुत्यर्थोऽपि न स्यादिति शङ्ककभावान्न निर्दलशङ्कानिराकारकमिदमिति ज्ञातव्यम् । मूले नित्यमेवेति सर्वथा सत्त्वापहार-रूपबाध्यत्वरहितमेवेत्यर्थः । न सन्ति यदुपेक्षयेति भगवच्छक्तेर्दुर्घटकारित्वतात्पर्यकम् ।। भाग इति ।। लोकव्यवहारगोचर इत्यर्थः ।। प्रत्यक्षादीति ।। चक्षुरादिनाशोऽनुमानसिद्ध इत्याशये-नादीति ।। शङ्कनीय इति ।। घटादिरूपेणासत्त्वस्यानुभवसिद्धत्वात्कारणरूपेणापि सत्ताकल्पने मानाभावात्सर्वात्मना स्वरूपोच्छेद एवेति शङ्काभावः । मूले प्रवाहतः इत्यनेन कारण-स्वरूपस्यापि बाधे जगत्प्रवाहोच्छेदापत्त्या ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते’ इति श्रुति-विरोधापत्त्या कारणोच्छेदो न युक्त इति युक्तिः सूचिता भवतीत्याशयः । नन्विदानीं जातस्य वसिष्ठादेरुत्तरकल्पे सत्तायाः भवदनङ्गीकारादनाद्यनन्तमिति श्रुतिरुपचरितार्थैवावश्यं वक्तव्येति न तदनुरोधेन कारणसत्ता कल्पनीयेत्याशयेनाशङ्क्य निषेधति ।। प्रवाहत इति ।। नित्यत्वेऽपि नित्यत्वाङ्गीकारपक्षेऽपि । अवान्तरवैचित्र्यं उत्तरकल्पे वसिष्ठाद्यसत्त्वं भवदङ्गीकृतमित्यर्थः । तथा चानाद्यनन्तमिति श्रुतिरमुख्या न तत्वपरेति हृदयम् । मूले अनीदृशं वसिष्ठादिरहित-मित्यर्थः । तथा च वसिष्ठाद्यसत्त्वमसिद्धमिति न तदनुरोधेन श्रुतिरुपचरितार्थेति भावः ।। प्रलयादीति ।। महदादीनां प्रलये नाशाद्वसिष्ठादीनामपि मुक्तत्वात्तदभाव इत्याद्यर्थक-श्रुतीत्यर्थः ।। तथाभावस्य न व्यत्यास इति ।। तादृशविश्वभवनस्येत्यर्थः । तथा चैतदी-दृगिति श्रुतौ जगदन्तरस्य तत्सादृश्यमेवोच्यते । तच्च महदादिकान्तरं वसिष्ठाद्यन्तरं चादा-योपपद्यत एवेति न श्रुतिरुपचरितार्था । निरुपादानोत्पत्त्यभावात् पुनस्तत्सजातीयोत्पत्त्याद्यर्थं च कारणादिसत्ता आवश्यकीति भावः ।। केचिद्वैपरीत्येनेति ।। तद्वाक्यानामप्यागमत्वा-विशेषेण प्रामाण्यात्तद्विरुद्धभवदुदाहृतश्रुतीनामनिर्णायकत्वं वा तस्य व्याख्यानरूपतया प्राबल्ये तदनुरोधेन नेयत्वं वेति भावः ।। अप्रतिष्ठमिति ।। ज्ञानोच्छेद्यमित्यर्थः । तथा च प्रवाहतो नित्यत्वविरुद्धार्थकत्वलाभः । ननु य एवमाहुस्ते असुरा इति तत्स्वरूपकथनेऽपि तद्वाक्यप्रामाण्यभावे पूर्वोक्तदोषो न परिहार्यत इत्यत आह ।। आसुरा इति ।। असुराणां मिथ्याज्ञानित्वं प्रसिद्धमेवेति तदुक्त्या मिथ्याज्ञानमूलकत्वात्तद्वाक्याप्रामाण्यमुपपादितमेव भवति । मिथ्याज्ञानिन इत्युक्तौ तु तत्रापि कारणशङ्का स्यादेवेति मूलकारणमेवोक्तमिति भावः । ननु परप्रयोजनं विना तदुक्तेः प्रयोजनान्तराभावात् तत्साफल्यस्य ज्ञानद्वारैव वक्तव्यतया मन्वादिवाक्यवत्प्रामाण्यमेवेत्याशयेन पृच्छति ।। किमर्थमिति ।। मूले स्वयं नष्टाः स्वभावतो ज्ञानादिगुणविरुद्धधर्मवन्तः । जगतः क्षयकारिणः मिथ्याज्ञानजननद्वारा तमो-रूपार्थसम्पादका इत्यर्थः ।

अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिः ।

इत्याद्युक्तेः । तथा च प्रयोजनभ्रमेण तैस्तथाभिधानेऽपि वस्तुतो निष्प्रयोजनत्वान्न तद्वाक्यप्रामाण्यमिति भावः ।

एतेन ‘सत्यत्वे परमात्मना अविशेष इत्यादिशङ्कानिरासस्य विश्वसत्यताव्यवस्थापनेऽ-नुपयुक्तत्वम् । अस्यापादनपरतया तन्निरासकतया कथञ्चिद्वशे विष्णोरित्यंशसार्थक्येऽपि तदुत्तरभागस्य प्रकृतेऽनुपयोग एव । प्रसङ्गात् स्मृतौ तदुक्तिसम्भवेऽपि मूले तदुदाहरण-मनुपयुक्तमेव । उपयोगसत्त्वे तट्टीकाप्ययुक्ता । तथा व्याख्यानाकरणात्’ इति चोद्यानवकाशः ।

यदत्र केनचित्प्रलपितम् । यत्तु

अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च ।

अचिन्त्यं तत एवैतदतर्क्याज्ञेयमेव च ।।

ऋ गताविति धातोस्तु पूर्वावगतवत्सदा ।

स्थितेर्ब्रह्मर्तमित्युक्तमनृतं परिणामतः ।।

प्रकृतिप्राकृतं प्रोक्तमसत्तदशुभत्वतः ।

असतां बुद्धिगम्यत्वादसत्यमिति चोच्यते ।।

नियमेन बहिश्चित्तास्ते सन्तो ब्रह्मणि स्थिताः ।

विश्वं सत्यं वशे निष्टोर्नित्यमेव प्रवाहतः ।।

न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः ।।

इति व्यासस्मृतिबलात्पुराणादौ क्वचिज्जगति प्रयुक्तानामसदनृतानिर्वाच्यादिशब्दा-नामन्यार्थतया तादृशस्मृतिबलादपि जगतो नानिर्वाच्यत्वम् । जगदसत्यत्ववादिनाम-सुरत्वोक्तेश्चेति । तदयुक्तम् ।

न सती नासती माया माया नैवोभयात्मिका ।

अनिर्वाच्या ... ... ... ... ।

इति बृहन्नारदीये प्रत्युक्तस्यानिर्वाच्यशब्दस्याद्भुतत्वादनिर्वाच्यतापरत्वे न सतीत्यादि-पूर्वार्धेन १तस्य सत्त्वादि निषेधासङ्गतेः । तथा च मायाशब्दितजडप्रकृतेरनिर्वाच्यत्वावगतौ कथं जगतस्तद्वारणीयम् ।

एवं ऋ गतावित्यनुशिष्टाद्धातोनिष्ठायां निष्पन्नस्य ऋतशब्दस्य पूर्वावस्थितज्ञान-विषयार्थकत्वे कथं परिणामितामात्रेण प्रकृतेः सत्त्वाभावः । तस्यानाद्यनन्तत्वाभ्युपगमात् । सादित्वेऽपि पूर्वपूर्वतनज्ञानविषयत्वे किं बाधकम् । यदि च भावनिष्ठाप्रत्ययस्तथापि ज्ञानरूपत्वाभावमात्रेण प्रकृत्यादेरनृतपदवाच्यत्वोपपत्तौ पूर्वावगतत्वाभिधानं तल्लाभाय निष्ठा-प्रत्यस्य भूतार्थकत्वानुसरणं चायुक्तम् । न च मनोवृत्तिरूपज्ञानव्यावृत्त्यर्थं तदिति वाच्यम् । भूतत्वाभिधानमात्रेण तद्व्यावृत्तेः । अनादित्वस्य निष्ठाऽवाच्यत्वात् ब्रह्मरूपज्ञाने उक्तभूतत्वा-भावाच्च । यत्तु विशेषानुक्त्या अनादितोऽवगतमित्युक्तं भवतीति । तदसत् । शब्दप्रयोग-स्यैवावधितया भानस्य व्युत्पत्तिसिद्धतया विशेषानुक्त्यसिद्धेः । यत्काले हि क्तः प्रयुज्यते तदधिकरणक्षणवृत्तिध्वंसप्रतियोग्युत्पत्तिकत्वस्यैव तदर्थत्वात् । तथापि तदेवर्तमित्यादिस्थले जीवज्ञानव्यवच्छेदानुपपत्तेः । तथा च यथाकथञ्चिद्विवक्षितलाभो न मुख्यया वृत्त्येति स्थिते अविद्यादौ प्रयुक्तानामनृतादिपदानां रूढित्यागे हेत्वभावान्नैतद्युक्तम् । ब्रह्मणि प्रयुक्तस्य ऋतशब्दस्य क्वचिद्रूढित्यागो न दोषाय । अन्यथा ‘ऋतं सत्यं परं ब्रह्म’ ‘तदेवर्तं तदु सत्यमाहुः’ इत्यादौ सत्यादिपदानां पौनरुक्त्यापातात् । वस्तुतस्तु ‘यो होताऽसावध्वर्युः’ इत्यादाविव प्रथमपदानुरोधन द्वितीयस्यैवार्थान्तरकल्पना युक्ता । एतेन परिणामादनृतत्वं प्रकृत्यादीनामिति निरस्तम् । एवं

यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवनन्दन ।

तदैषोऽहं भवानन्यो वक्तुमेवमपीष्यते ।।

यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।

तदा हि को भवान् कोहमित्येतद्विफलं वचः ।।

त्वं राजा शिबिका चेयं वयं वाहाः पुरस्सराः ।

अयं च भवतो लोको न सदेतन्नृपोच्यते ।।

इत्यत्रासच्छब्दस्य परिणामिपरत्वे देहशिबिकादीनां परिणामित्वेऽपि ततो विलक्षणत्वेन सर्वानुभवसिद्धत्वेन त्वदभिमतजीवस्यैवाहंशब्दवाच्यस्यैव सत्त्वेनाहमस्मीति वक्तुं शक्यतया तादृशवचनवैफल्योक्तेरसङ्गत्यापत्तेः । मन्मते देहासत्त्वादहमस्मीति वक्तुमशक्यत्वादहङ्कारस्य चापि तादृशत्वान्निरुपाधिकात्मतत्त्वस्य चानहङ्कारत्वात्स्रष्टुस्तवाप्यस्तीति सदृशमात्रस्य सन्धिग्धत्वात्सोहमस्तीति निर्देशायोग्यत्वं स्पष्टमेव । कर्तृत्वाद्युपलक्षितं शुद्धचैतन्यं तु सर्वानुगतमितवव्यावृत्तत्वमर्थविषयकप्रश्नप्रतिवचनविषयो न भवतीति त्वंपदेनातिशुद्धचैतन्य-विवक्षायां यद्यन्योस्तीत्यादिकमपि त्वया कथमुपपादनीयम् । मत्त इत्यत्रास्मच्छब्देन जीवपरिग्रहे तस्मादन्यस्य परमात्मनः सत्त्वेन तन्निषेधायोगात् । शास्त्रदृष्ट्यान्तर्यामिपरिग्रहे स्वान्तर्याम्यपेक्षयोत्कृष्टस्यान्यस्याभावेऽपि स्वस्यायमहमित्युपदेशे किं बाधकम् ।

एतेन सच्छब्दस्य शुभवाचितामभ्युपेत्य प्रकृत्यादीनामसत्पदप्रतिपाद्यत्वोपपादनमपि निरस्तम् । तस्यात्यन्तमसङ्गतत्वात् ।

वृक्षाद्दारु ततश्चेयं शिबिका तदधिष्ठिता ।

वृक्षसञ्ज्ञा क्व याता स्यात् दारुसञ्ज्ञाऽथ वा नृप ।।

इत्युपक्रम्य

एवं छत्रशलाकानां पृथग्भावं विमृश्यतः ।

क्व यातं छत्रमित्येष न्यायस्त्वयि तथा मयि ।।’

इत्यादिना कारणव्यतिरेकेण कार्यसत्तां निराकुर्वतः तस्य हेतूपपादकोत्तरसन्दर्भेण विरोधात् । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य अपागादग्ने-रग्नित्वं त्रीणि रूपाणीत्येव सत्यं’ इति श्रुत्युक्तरीत्यैवात्र भगवता पराशरेणोपबृंहितमिति नानुमेयश्रुतिमूलत्वमेतस्य । परिणामविक्रियाशून्यस्य परमार्थोपपादनं च परिणामित्वादिना परिच्छिन्नत्वप्राप्त्या देहादेरसत्त्वोपपादनाय चासत्त्वं परिणामित्वं असत्पदार्थ इति बोधनाय। प्रसिद्ध्यतिक्रमे हेत्वभावात् । अनेकार्थताया अन्याय्यत्वाच्च ।

एवमसद्बुद्धिगम्यत्वाज्जगतो असत्त्ववचनमित्यप्ययुक्तम् । लक्षणाद्यापत्तेः । उक्तरीत्या सन्दर्भविरोधाच्चेति । एवं

भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपं कुयोगिनः ।

ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।।

अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसम्प्लवे ।

ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् ।।

ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ।

इत्यादिस्मृतयो ह्यनिर्वाच्यतां जगतोऽनुगृह्णन्तीत्यन्यत्र विस्तरः ।

एवमुपपत्तिरहितत्वान्न्यायानुगृहीतश्रुतितन्मूलकस्मृतिकोटिविरुद्धत्वात् धातोरिति धातु-व्याख्यानपरनिर्देशात् ‘अनृतं परिणामतः प्रकृतिप्राकृतं प्रोक्तम्’ इत्येकस्मिन्पद्ये विवक्षितार्थ-निबन्धनाशक्तेः पूर्वावगतवत्सदेत्यत्र सदा स्थितिरुक्ता भवतीति विवक्षितार्थमनुक्त्वा अवगत-वदित्यनुपयुक्तवति निर्देशात् परमानन्दरूपत्वेन ब्रह्मणः सत्पदार्थनिर्वाहकशुभत्वानुक्त्या प्रक्रमभङ्गान्न्यूनतापत्तेश्च एवमसतां बुद्धिगम्यत्वादित्यादावप्युक्तदोषात् पुनरस्य सत्पदस्याभि-धानेन पौनरुक्त्यापादाच्चैतानि वचनानि श्रीकृष्णद्वैपायनप्रणयनच्छायारहितानि मध्वकुकवि-कल्पितान्येवेत्युक्तार्थे न्यायतया आगमतया च न निर्णायकानि इति ।

तत्तुच्छम् । ‘न सत्तन्नासदुच्यते’ इत्युदाहृतश्रुतौ ब्रह्मपदस्य प्रकृत्याख्यतमउलक्षकत्वस्य टीकोक्तस्य समर्थितत्वेन न सतीत्यादिना पृथिव्यादिशुद्धपञ्चमहाभूतभेदस्य नोभयात्मकेत्य-नेनोपलक्षणपरेण नानाभूतविकृतभौतिकभेदस्यानिर्वाच्यपदार्थभूतसम्यङि्नरुक्तिगोचरत्वाभावे तन्निर्वाह्याद्भुतत्वे वा हेतुत्वेन पूर्वार्ध उक्तत्वेन तद्वचनस्योक्तबाधकत्वायोगात्प्रत्युतानुगुण्यस्यैव सत्त्वाच्च । न च नपुंसकलिङ्गसदसत्पदे भूतवाचिनीति वाच्यम् । मूर्तं सदिति नपुंसकान्तो-पादानस्यातन्त्रत्वेन प्रातिपदिकमात्रस्य शक्तिप्रदर्शनपरत्वात् । अन्यथा न सन् न चासन्निति पुल्लिङ्गान्तसदसत्पदघटितवाक्यस्य ब्रह्मणि गतिप्रदर्शकत्वाभावापत्तेः । प्रत्युत तवैवेदं वचन-मननुगुणम् । यतो न सतीत्यत्र सच्छब्दस्य परमार्थपरत्वं नासतीत्यत्रासच्छब्दस्य परमार्थ-भिन्नपरत्वमेव वाच्यम् । तथा च सद्भिन्ने सद्भेदावच्छिन्नप्रतियोगिताकभेदबोधतात्पर्यकवाक्यं व्याहत्या बोधमेव न जनयेत् ।

नन्वसत्पदं सत्तादात्म्याभाववत्परं कालसम्बन्धाभाववत्परं वेति चेत् । तथात्वे स्वारसिकलक्षणाप्रसङ्गात् । न हि सत्पदं सत्प्रतियोगिकत्वोपलक्षिततादात्म्यवन्मुख्यवाचकम् । तस्य शक्यतावच्छेदकत्वे गौरवात् । तत्पर्यायसत्यशब्दस्यापि तथात्वापातेन सत्यं ज्ञान-मित्यादौ सदेव सोम्येत्यादौ तयोर्मुख्यार्थत्वानुरोधेनोक्ततादात्म्यार्थकत्वप्रप्त्या तेन जगत इव ब्रह्मणोऽपि पारमार्थिकत्वस्यासिद्धिप्रसङ्गाच्च । एतेन कालसम्बद्धार्थकत्वमपि निरस्तम् । न चाबाध्यार्थकत्वमपि तस्याङ्गीक्रियत इति वाच्यम् । अनेकार्थताया अन्याय्यात्वात् । पुनरुक्तब्रह्मवाक्येन तत्सत्यत्वासिद्धिप्रसङ्गश्च । विनिगमकाभावेन निर्णायकाभावात् । एवं अलीकस्य शाब्दप्रतीतिविषयत्वाभावस्य त्वया व्यवस्थापितत्वेन सत्तादात्म्याभाववत्त्वेन कालसम्बन्धाभाववत्त्वेन चासत्पदाबोध्यत्वात् व्यधिकरणप्रकारबोधजनकताया एवोक्त-वाक्यस्याश्रयणीयतया नदीतीरे पञ्च फलानीतिवाक्यवत् स्फुटमप्रामाण्यप्रसङ्गश्च । न सतीति भागस्य सत्तादात्म्यवतीत्यर्थाङ्गीकारे स्वाभिप्रायनिर्वाहायैवास्य जघन्यलक्षणाप्रसक्तिः । तथात्वे सत्यं ज्ञानमित्यादेरपि शून्यवाद्यभिप्रायानुसारेण ब्रह्मासत्त्वलाक्षणिकत्वापत्तिः ।

किञ्च भवत्पक्षे नैवोभयात्मिकेत्यस्य सर्वथाऽसङ्गतिः । सदसदुभयात्मकवस्तुन एवा-प्रसिद्धतया तदात्मकत्वाप्रसक्त्या तद्भेदकथनायोगात् । न च घटादिकं देशकालव्यवस्थया सदसदुभयात्मकं प्रसिद्धमिति वाच्यम् । पूर्वं सदसदादिपदेन परमार्थसत्तदन्ययोरेव प्रसक्त्याऽत्रोभयपदेन किञ्चित्कालदेशसम्बन्धिकिञ्चिद्देशकालासम्बन्धिरूपसदसदुभयस्य प्रसक्त्यभावेन ग्रहणायोगात् । नञ्समभिव्याहारेण सत्सामान्यभेदस्यैव लाभेन सदसदुभय-भेदस्यापि लाभेन पौनरुक्त्यापाताच्च । स्वोक्तस्य सङ्कुचितार्थकत्वभ्रमनिरासाय तदुक्तिरिति तु न सत् । सत्पदस्य शुद्धसदादिलाक्षणिकत्वं विना तथार्थबोधकत्वायोगेन व्युत्पन्नानां लक्षणा-ग्रहे बीजाभावात् । अव्युत्पन्नानां तु नैवोभयात्मिकेत्युक्तावपि उभयपदस्य यत्किञ्चिदुभय-लाक्षणिकत्वग्रहसम्भवेन तद्भ्रान्तिनिरासोपायाभावात् ।

एवं किन्तु अनिर्वाच्येत्यस्य सदसद्विलक्षणार्थकत्वे पूर्वार्धेन पौनरुक्त्यम् । यदि निर्वक्तुमशक्येत्यर्थः तदा मिथ्यात्वादिना निर्वक्तव्यत्वात् सर्वरूपैर्निर्वक्तुमशक्यत्वेन सद-सत्त्वाभ्यामित्यस्याध्याहारप्रसङ्गः । मन्मते निरित्यनेनैव सम्यक्त्वलाभः । अपि च पुनर्माया-पदं भवन्मते व्यर्थम् । अनुयोगिसमर्पणस्य एकेनैव सिद्धेः । नञ्भेदात्पुनस्तदुक्तिरिति न वाच्यम् । तथात्वे नञ्त्रयसत्त्वेन तृतीयमायापदप्रयोगप्रसङ्गः । अर्धजरतीयापपत्तेः । नैवोभयात्मिकेत्यत्रैवकारस्याधिक्याच्च । न चैतद्दोषद्वयं भवतोऽपि समानमिति वाच्यम् । माया न सती स्वतः कार्यरूपा न भवति शुभसम्पादकतया शुभरूपा च न भवति । नासती कारणरूपा च न भवति बन्धकतयाऽशुभरूपा च न भवति । किं तु मायाना मायो-पपदादन्तर्णीतणिजर्थादनतेः कर्तरि क्विपि मायान् मायाप्रवर्तको हरिः । तज्जलानित्यत्र जलानितिशब्दवदयं शब्दः । तेन श्रीहरिणैव कारणरूपा भवति परिणतत्वेन कार्यरूपा च भवति । एवं केषाञ्चित्सत्त्वगुणप्रचुरदेहादिसम्पादकताद्वारा मोक्षोपयोगित्वाच्छुभरूपा केषाञ्चि-न्मिथ्याज्ञानप्रापकशरीरारम्भकतया नित्यनिरयप्रापकतयाऽशुभरूपा । अत एवानिर्वाच्या एवमेवेति व्यवस्थासहितत्वेन वक्तुमशक्येत्यर्थान्तरेप्यस्य वाक्यस्य तात्पर्याभ्युपगमेन सर्वस्यापि सार्थक्यात् । न च वाक्यभेददोषः । योजनाभेदेनार्थद्वयबोधकत्वेन तस्य भूषणत्वात् । अत एव महाभाष्येऽग्निपरापि चत्वाति शृृङ्गेति ऋक् शब्दशास्त्रप्रशंसापरत्वेनापि व्याख्याता । न च स्वतः पदाध्याहारदोषः । तैत्तरीयारण्यकेपि पठिते ‘अन्धो मणि-मविन्दत’ इति वाक्येन्धादिपदानि यथा स्वतश्चक्षुरङ्गुलिहीनादिपराणि । मणिमविन्दत आवयत् असश्चतेत्यादिपदसमभिव्याहारात् तद्वदुभयात्मकत्वबोधकपदसमभिव्याहारात्ता-दृशार्थस्य निरूढव्यवहारसिद्धत्वात् । न चोदक्षरता । व्यक्ताव्यक्तत्वाभ्यां सदसत्पदयोः कार्यकारणवाचकताया आकरे उक्तत्वात् शुभाशुभवाचकतायाश्च सर्वसिद्धत्वात् । न च मायायाः सदसदुभयात्मकत्वमप्रामाणिकम् ।

सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः । इति भागवते

अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः ।

प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मिका ।।

इति विष्णुपुराणे चोभयात्मकत्वोक्तेः । तस्मान्मायाया अनिर्वाच्यत्वं न सतीत्यादि-वाक्येनोच्यत इत्येतदसङ्गतमेव ।

वस्तुतस्तु अयं श्लोको नारदीये नोपलभ्यते एव । परन्तु स्कान्द वचनम् । तत्रापि किं त्वनिर्वाच्येति नोत्तरार्धादिभागः ।

अनिर्वाच्या यया सर्वभेदाभासव्यवस्थितिः ।

इत्युत्तरार्धपाठ इति केचित् । तत्रानिर्वाच्येत्येतावत्पर्यन्तमुक्तार्थम् । ययेत्यस्य भिद्यन्त इति भेदाः परस्परभिन्नाः आभासाः आ सम्यक् प्रकाश्यन्ते प्रमाविषयीभूताः घटादि-पदार्थास्तेषां व्यवस्थितिरुत्पत्त्यादिव्यवस्थितिर्यन्मूलेत्यर्थः । पराभिमतार्थे अनाभास-भेदाप्रसिद्ध्याऽऽभासेति व्यर्थम् । मन्मते प्रमितत्वेन सत्यत्वात्तदुत्पत्तौ कारणापेक्षा आवश्यकीति ज्ञापनं तत्प्रयोजनम् ।

मायापदस्य भगवत्प्रज्ञापरत्वेनैव पूर्वार्धयोजनायां भेदस्याभासः सम्यक् ज्ञानं प्रमेति यावत् । तस्या व्यवस्थितिः विशेषेणावस्थानं मुक्तावपि स्थितिरित्यर्थः । भेदरक्षकत्वेन विषयाबाधनिर्वाहकत्वादिति व्याख्येयम् । ‘परमेश्वरेण ज्ञातत्वाद्रक्षितत्वाच्च तद्द्वैतं न स्यात् भ्रान्तिकल्पितमित्यर्थः’ इति मायामात्रपदस्य भगवत्पादैर्व्याख्यातत्वादिति ध्येयम् । भेदबुद्धिप्रदायिनीति पाठेप्ययमेवार्थः । प्रेत्युपसर्गबलान्मुक्तावपि भेदधीप्रापकत्वं पारमेश्वर-प्रज्ञाया उच्यत इत्याद्यवधेयम् ।

यदपि ‘ऋतपदेन पूर्वकालिकज्ञानविषयतामात्रलाभात् न तेन जडादिव्यावृत्तिलाभः’ इति ‘यथाकथञ्चिदेव तल्लाभे न मुख्यवृत्तिः’ इति । तदप्यसत् ।

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।

ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ।।

इति विष्णुपुराणोक्तवासुदेवपदप्रवृत्तिनिमित्तवासकर्तृत्ववासाधिकरणत्वस्य गतिकर्मत्व-रूपदेवपदार्थतावच्छेदकस्य च घटादावपि सत्त्वेन पूर्वोक्तानन्तपदार्थतावच्छेदकनाशराहित्यस्य जीवादिसाधारण्येन पयोधरत्वादेर्घटादिसाधारण्येन च घटादावपि वासुदेवानन्तपयोधरादि-पदप्रयोगप्रसङ्गात् । न च

वर्णागमो वर्णविपर्ययश्च तथा परौ वर्णविकारनाशौ ।

धातोस्तसर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।

इत्युक्तेः धातोर्निरतिशयतया सम्बन्धात्सर्वभूतेषु स्वातन्त्रयेण नियामकतया वासकर्तरि सर्वभूतानां निरतिशयाधारभूते धातोरित्यस्योपलक्षणत्वेनानन्तपदार्थतावच्छेदकस्य गुणघटितत्वे अत्यन्तातिशयलाभात्तादृशगुणाकरे हरौ वासुदेवानन्तादिशब्दानां मुख्यवृत्तिः सर्वजीवन-प्रदपयोधारके मेघ एव तच्छब्दस्य मुख्यवृत्तिरिति वाच्यम् । तर्हि ऋतशब्दस्यापि पूर्वोक्तरीत्या ब्रह्ममात्रमुख्यवृत्तौ कुतस्ते प्रद्वेषः । ऋतशब्दस्य भावनिष्ठान्तत्वमभ्युपेत्य यद्दूषणदानं तत्पूर्वावगतवदिति ज्ञानविषय एव बहुशः प्रयुज्यमानावगतशब्दघटितमूलविरोधेन शङ्कितुमशक्यत्वादनुक्तोपालम्भनरूपत्वाच्चायुक्तमिति स्फुटमेव । यत्तु विशेषानुक्त्यानादित इत्यारभ्य तदर्थत्वादित्यन्तं तत्तुच्छम् । विशेषानुक्त्येत्यस्य पूर्वोक्तार्थकत्वेन त्वद्भ्रान्ति-गोचरार्थदूषणस्याकिञ्चित्करत्वात् । यदपि तथा च यथाकथञ्चिदित्यारभ्य पौनरुक्त्यापाता-दित्यन्तं तदप्यसङ्गतम् । ऋतशब्दस्य मुख्यवृत्तेरेवोपपादितत्वेन यथाकथञ्चिद्विवक्षितार्थ-लाभाभावात् । अविद्यादौ प्रयुक्तानृतादिपदानां रूढित्याग इत्यप्यसत् । अविद्यादावेव त्वदुक्तमिथ्यात्वं विहाय परिणामित्वादिना स्मृत्युक्तरूढेर्बलवत्त्वात् । प्रकृतिप्राकृतं प्रोक्तमिति प्रशब्देन बलवद्विद्वद्र्ढेः प्रदर्शितत्वात् । ऋतं सत्यं परं ब्रह्मेत्यादौ ऋतशब्दस्योक्तार्थत्वेन ब्रह्मशब्दस्येव तत्र मुख्यवृत्तेरेव सत्त्वेनामुख्यवृत्त्यनाश्रयणात् । ऋतं च सत्यं चाभीद्धात्, ऋतं च स्वाध्यायप्रवचने च, सत्यं च स्वाध्यायप्रवचने च इत्यादौ शतशो ऋतसत्यादिपदा-नामन्यत्रापि प्रयोगेण ऋतपदस्य परमार्थरूढिरित्यस्यासिद्धेश्च । कोशादीपामपि बहुप्रयोगानु-सारित्वात् । एतेन वस्तुत इत्यापि परास्तम् । स्वत एव तयोरर्थभेदसत्त्वात् । कृष्णलं स्रपयेदिति विध्युद्देशगतस्यापि धातोः प्रथमं प्राप्तस्यापि सुवर्णकृष्णलमिति चरमवाक्यानु-सारेणोष्णीकरणरूपामुख्यार्थताया अङ्गीकृतत्वेन त्वदुक्तनियमासिद्धेश्च ।

एतेनैतेनेत्यादि निरस्तमित्यन्तं निरस्तम् । यदपि एवमित्यादि विष्णुपुराणादि-वचनोदाहरणपूर्वकं दूषणं तदपि न लग्नम् । इत्यत्रासच्छब्दस्येत्यस्यासङ्गतेः । एतच्छ्लोक-द्वयेऽसच्छब्दाभावात् । अन्यत्र यत्र कुत्रचिद्विद्यमानस्यासच्छब्दस्यैव परिणामिपरत्वस्य प्रकृत-पुराणवाक्यासङ्गतौ बीजत्वाभावात् । अनृतपदस्यैव परिणामिपरताया १उक्तत्वेना-परिणामिपरताया अनुक्तत्वाच्च । अनृतपदस्य परिणामिपरत्वेऽसच्छब्दस्यापि तत्पर्यायस्य तथात्वरूपाशुभत्वावच्छिन्नपरत्वं प्राप्तमेव । तथा च जगति प्रयुक्तानृतासदादिपदानां परिणाम्यादिपरत्वे जगतः असत्त्वासिद्ध्या वक्ष्यमाणासङ्गतिरिति क्लेशेन कथञ्चिदेतदुक्ति-सम्बन्धेऽपि जगतः सत्यत्वेनैतद्विष्णुपुराणवाक्यासङ्गतिः । तथा हि, विष्णुपुराणे द्वितीयांशस्थत्रयोदशाध्यायस्थमिदं वाक्यम् । तत्र पूर्वसन्दर्भे भरतरूपावधूतं प्रति राज्ञोक्तमुपहासपूर्वकं ‘युवा पीवा दृश्यसे । अतः किमध्वगमनमात्रेण श्रान्तोसि’ इति । तदुत्तरत्वेन भरतेनोक्तं ‘न मयि श्रान्तत्वादिकं पीनत्वादिकं वास्ति’ इति । स्वस्मिन् शरीराभिमानाभावविवक्षयाऽवधूतोक्तमबुध्वा लोकदर्शनमनुसरता राज्ञा ‘प्रत्यक्षं दृश्यसे’ इत्यादिग्रन्थेन तदुक्तेः प्रत्यक्षबाधेऽभिहिते, आत्मनः शरीरान्यत्वाच्छरीरे उपलभ्यमानधर्माणां पीवरत्वादीनामात्मनि प्रत्यक्षसिद्धत्वाभिधानं तवासङ्गतमितिभावेन ‘प्रत्यक्षं भवता भूप’ इत्यादिश्लोकैः पादोपरि जङ्घादिस्थितिक्रमेण शरीरोपर्येव विकारादिस्थितिं आत्मनश्च स्वभावतः प्रकृतिविलक्षणत्वं गुणत्रयानात्मकत्वं च प्रदर्श्य तदभिमानाभावात्स्वस्य श्रान्त्य-भावोऽपि दर्शितः ‘पराशर उवाच’ इत्यन्तैः श्लोकैः । तत्प्रकरणे एते श्लोकाः

कर्मवश्या गुणाश्चैते सत्वाद्याः पृथिवीपते ।

अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ।।

आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।

प्रवृद्ध्यपचयौ नास्य एकस्यास्तिलजन्तुषु ।।

यदा नोपचयस्तस्य न चैवापचयो नृप ।

तदा पीवानसीति त्वं कया युक्त्या त्वयेरितम् ।। इति ।

तेषापयं भावः । प्रथमश्लोपे सर्वप्राणिनां कर्मबद्धत्वेऽभिहिते शङ्का भवति । तर्हि ‘एको देवः सर्वभूतेषु गूढः’ ‘न कर्मणा वर्धते नो कनीयान्’ इत्यादिश्रुतिविरोधः । सर्वत्र विद्य-मानात्मन एकत्वकर्माबद्धत्वश्रवणादित्यत आह ।। आत्मेति ।। आत्मा परमात्मा । तच्छब्दस्य तत्रैव मुख्यत्वात् । आत्मा स्वामी वा सर्वजीवनियामकत्वेन हृदयस्थित इत्यर्थः। अखिलजन्तुष्वित्यनेन जीवानां नियम्यतया ग्रहणात् सर्वजीवेषु एकस्य जीवस्य नियामकतया स्थित्ययोगात् प्रकृतिपरत्वलिङ्गाच्च अत्रात्मपदं परमात्मपरमेव । न चाखिलजन्तुष्वित्यस्य सप्राणदेहेष्वित्यर्थो युक्तः । पूर्वश्लेके तत्पदेन जीवानामेव कर्मबद्धत्वलिङ्गेन प्रकान्तत्वा-त्तत्परित्यागे प्रकृतहानापत्तेः । जन्तुशब्दस्य प्राणभृत्स्वेव प्रयोगेण प्रकृते तत्परित्यागे प्रसिद्धार्थत्यागापत्तेश्च । तथा च शङ्कितश्रुतयः परमात्मपरा इति भावः ।। यदेति ।। तस्य तत्प्रतिबिम्बभूतस्य जीवस्य यदा यस्मात् नोपचयः नैवापचयः स्वरूपत उपचयापचयाभाव इत्यर्थः ।

अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ ।

तदेव सुमहत्तेजः करोतीशो विमुक्तिगम् ।।

इति वचनेन मुक्तौ स्वरूपोन्नाहस्य विद्यमानत्वेन संसारे तदभावः । अपचयस्य तु सर्वथा तदभाव इत्याशयेन न चैवापचय इत्युक्तम् । नित्यः सर्वगतस्थाणुरित्यादेर्नित्यसर्वगतेश्वर-प्रतिबिम्बत्वेन जीवविषयत्वेन गीताभाष्ये व्याख्यानात् एवमुत्तरत्र ‘भृत्यश्चाहं प्रतिबिम्बेन सोऽस्मि’ इत्यादिश्रुत्युदाहरणेन प्रतिबिम्बत्वस्य दर्शितत्वाच्च तस्येत्यस्योक्तव्याख्यानं नावमत्यर्हम् । युक्ताश्च बिम्बधर्माः प्रतिबिम्बे सति चाविरोधे इत्यनेन द्वितीयाध्याये गीताभाष्य एव प्रमाणान्तराविरुद्धबिम्बधर्माणां प्रतिबिम्बे उपपादितत्वात् । ईश्वर-प्रतिबिम्बत्वयुक्त्या स्वरूपतो वृद्ध्याद्यभावोपपादनाय प्रतिबिम्बरूपाभेदबोधकतत्पदेन जीव-निर्देशः कृतः । ‘यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि’ इत्यादौ वेदे, लोके ‘हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः’ इत्यत्र, एवं ‘ये पूर्वभुक्ताः शालयः तानेवेदानीं भोक्ष्ये’ इत्यादौ पूर्वोक्तार्थसादृश्यरूपाभेदमात्रतात्पर्येण तच्छब्दप्रयोगसत्त्वात्प्रतिबिम्बस्यापि सादृश्यगर्भितत्वान्न लोकवेदातिक्रम इत्यवधेयम् ।

आत्मेत्येतच्छ्लोकस्य जीवपरत्वेन योजनायां अखिलजन्तुषु स्वकीयकर्मनिर्मितनाना-देहेषु एकस्य एकरूपस्य शरीरपरिमाणादिरहितस्येत्यर्थः । शरीरपरिमाणत्वेऽनित्यत्वापत्त्या पूर्वार्जितकर्मभोगाद्यभावप्रसङ्गेन कृतहानाकृताभ्यागमप्रसङ्गसूचनाय पूर्वश्लोके अविद्यासञ्चितं कर्मेत्याद्युक्तम् । शिष्टं सुगममिति ।

ततो राजा अयं ज्ञानीति मत्वा तत्प्रसादेच्छया तत्पादग्रहणपूर्वकं ‘त्वं कृत्रिमवेषेण सञ्चरसि । त्वदागमनकारणमपि न जानामि । अतस्त्वत्स्वरूपाज्ञानप्रयुक्तमदपराधं क्षमस्व’ इत्याशयेन

कथ्यतां को भवानत्र जाल्मरूपधरस्थित ।।’

इत्यादिग्रन्थेन पप्रच्छ । तस्मिन् राज्ञि करुणया अर्थविशेषबोधौपयिकजिज्ञासाजननाय प्रश्नद्वयोत्तरं स्फुटमेवेत्यभिधाय मदीयाकृत्रिमरूपं त्वदाद्यकृत्रिमरूपापेक्षया यद्यपि व्यावृत्तं तथापि १तादृशधर्मव्यावर्तकधर्मवत्त्वेनेदानीं त्वां प्रति मया निरूपयितुमशक्यम् । मया निरूपणे कृतेऽपि तवानुत्पन्नज्ञानत्वेन त्वद्बुद्धावनारोहात् । यत्त्वस्वाभाविकमात्मन्यपराय-त्तस्वामित्वाभिमानेन भासमानं तन्निश्चयस्त्विदानीं त्वया ज्ञातरूपनिश्चयतुल्यत्वादनावश्यक इत्याशयेन ‘कोहमित्येद्वक्तुं भूप न शक्यते’ इति मुनिरुक्तवानित्येतमर्थं ‘ब्राह्मण उवाच’ इत्यादिनोक्तम् । तदनन्तरं यो धर्मो व्यावर्तकतया वर्तते तद्वत्तया प्रतिपादने किं बाधकम् । अनृतवादित्वाभावात् । सोहमित्यादिशब्दोच्चारणस्यापि दोषत्वाभावादित्यभिप्रेत्य शरीरा-त्मनोः स्पष्टविवेकग्रहशून्येन राज्ञा ‘योस्ति सोहम्’ इत्यादिनाऽभिहिते स्वाभिप्रायमाविष्कर्तुं शरीरेन्द्रियादितादात्म्यमात्मनो निराकृत्य बहिस्त्वया परिदृश्यमानसर्वधर्मानात्मीया अतस्तद्वत्तया निरूपणं न कर्तव्यमित्युक्तम् ।

पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ।

ततोऽहमिति कुत्रैतां सञ्ज्ञां राजन् करोम्यहम् ।।

इत्यन्तेन । अहंशब्दप्रवृत्तिनिमित्ताहेयत्वस्यैतेषु कथञ्चिदप्यभावात्तच्छब्देनैतद्विशिष्टमत्स्व-रूपप्रतिपादनमयुक्तमिति भावः । तदुत्तरत्र ‘यद्यन्योस्ति’ इत्यादयः श्लोकास्तेषामियं गमनिका । तर्हि विष्टिग्रहणवेलायां यादृशजात्यादिमत्त्वेन भवान् ज्ञातः तज्जातीयजीवापेक्षया तव वैलक्षण्यमात्मसम्बन्धिस्वाभाविकधर्मैरेव निरूपयेत्यभिप्रायवन्तं प्रत्याह ।

यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम ।

तदैषोहमहं चान्यो वक्तुमेवमपीष्यते ।।

यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।

तदा हि को भवान्सोहमित्येतद्विफलं वचः ।।’

अस्थाद्गोरन्य इत्यादाविवान्यपदं सजातीयान्यपरम् । तथा चैवमपि शरीरधर्मेण निरूप-यितुमशक्यत्वेऽपि मत्तोन्यः परापरदर्शित्वादिना मत्सजातीयः मत्तः परो ज्ञानादिनोत्तमोऽपि वा । अथ वा मत्तोन्यः परावरदर्शित्वेन लोकश्रेष्ठो यद्यस्ति निकटे तदाहमेष एतादृशः स्वाभाविकधर्मोपेतः अयं चान्यः अन्यधर्मोपेत इति वक्तुमिष्यते तथेच्छा भवति । तज्ञ्ज्ञानस्य तस्य सद्भावेऽपि मद्वाक्यश्रवणादिना हर्षादिसम्भवात् । तत्संवादेन मद्वाक्ये त्वादृशानां प्रामाण्यनिश्चयोदयसम्भवाच्च । यदा समस्तदेहेषु समीपस्थितत्वदादिसर्वदेहेषु पुमान् जीवः जात्येकवचनम् । एकः एकविधः आत्मानात्मविवेकज्ञानशून्यत्वरूपैकधर्मोपेत इति यावत् । तदा को भवानिति त्वत्प्रश्नवाक्यं सोहमित्येतदुत्तरवाक्यं च विफलमेव । उत्तरवाक्यस्य निश्चितप्रामाण्यार्थकबोधानुपधायकत्वेन वैफल्ये प्रश्नवाक्यस्य वैफल्यं सहजत एव प्राप्तमिति भावः। सोहमित्यस्य जीवान्तरव्यावृत्तौ तादृशस्वाभाविकधर्मविशिष्टोहमित्यर्थः।

अथ वा यद्यन्योस्तीत्यादेरियं गमनिका । ननु तर्हि शरीरतादात्म्यमात्मनि नास्ति तर्हि शरीररूपोपाधिकृतभेदेनैवात्मनि भेदस्तवाभिसंहितः किं । नेत्याह ।। यद्यन्य इति ।। परः परदेहे प्रतीयमानः अन्यः स्वभावतोन्यः । यद्वा परोऽन्यः मुख्यभेदविशिष्टः । स्वाभाविकत्वस्यैव मुख्यत्वात् । तल्लाभः परो धार्मिक इत्यादौ धर्मे पारम्यलाभात् । तदे-त्यादेरुक्त एवार्थः । विफलत्वं प्रश्नोत्तरयोः प्रमाया अनिर्वाहकतया बोध्यम् ।

अथ वा पूर्वग्रन्थे ब्राह्मण उवाचेत्यनन्तरं

श्रूयतां कोहमित्येतद्वक्तुं भूप न शक्यते’ ।

इति श्लोकः श्रूयते । यद्यपि तत्र यो भवान् तत्कथ्यतामिति राजप्रश्नं प्रति सोऽहमित्य-स्यैवोत्तरत्वेन तादृशानुपूर्व्या अशक्यता वक्तव्या । न तु कोऽहमित्यानुपूर्व्याः । तस्याः किंशब्दघटितत्वेन प्रश्नरूपत्वात् । तथापि किंशब्दः छान्दसत्वात्तच्छब्दार्थः । एवमुत्तरत्रापि

यत्त्वेतद्भवता प्रोक्तं कोऽहमित्येतदात्मनः ।

वक्तुं न शक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ।।

योस्ति सोऽहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।

आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विज ।।

इति राजसम्बन्धिवाक्यघटकानुवाद्यभागस्य किंशब्दस्याप्ययमेवार्थः । अत एव सोऽह-मिति राज्ञा तद्विवरणमेव कृतम् । इतरव्यावर्तकधर्मवत्तया मत्स्वरूपप्रतिपादनमशक्यमिति भावः ।

यद्वा कोऽहमित्यस्याहं को वा कीदृशव्यावर्तकधर्माद्युपेतो वा इति हेतोरेतदिदं विविच्य वक्तुं न शक्यते । मत्स्वरूपस्यैव परमेश्वरेण प्रकृत्यादिभिर्बद्धत्वेन मया सम्यग्गृहीतुमशक्य-त्वादिति भावः । तथा च व्याख्यानद्वयेऽपि स्वस्वरूपस्य सम्यगज्ञानात्सम्यग्वक्तुमशक्यत्वं फलितम् । सम्यक् तदभिप्रायं ज्ञातुकामेन राज्ञा अभिहितं यो धर्मोऽनुभवसिद्धो वर्तते तत्पुरस्कारेण सोहमिति वक्तव्यम् । न ह्यहंशब्दप्रयोग एव दोषः । अतः कथमेतदित्याशयेन योऽस्ति सोऽहमित्याद्यभिहितम् । ततः ‘ब्राह्मण उवाच

शब्दोऽहमिति दोषाय नात्मन्येष तथैव तत् ।

अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।।

जिह्वा ब्रवीत्यहमिति दन्तौष्ठं तालुकं नृप ।

एते नार्हयतः सर्वे वाङ्निष्पादनहेतवः ।।

किंहेतुभिर्वदत्येषा वागेवाहमिति स्वयम् ।

तथापि वाङ्नाहमेतद्वक्तुमित्थं न युज्यते ।।

पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ।

ततोऽहमिति कुत्रैतां सञ्ज्ञां राजन्करोम्यहम् ।।

यद्यन्योऽस्ति परः कोऽपि ... ... ... ।

इत्यादिसमग्राध्यायो भरतवाक्यरूपः । तस्यायमभिप्रायः । अनुभवसिद्धा धर्माः शरीरात्मविवेकस्य स्फुटतरज्ञानाभावेन कृष्णोऽहमिति व्यवहारविषयीभूताः केचन शरीरधर्माः अहं कर्तेत्यादिप्रतीतिसिद्धाः शरीरादिकं प्रति स्वातन्त्र्यापरायत्तकर्तृत्वादयस्ते सर्वेऽपि न मदीयाः । ये मदसाधारणा न ते इदानीं मदनुभवसिद्धाः परमेश्वरशक्त्या आवृतत्वात् । अतः कथं तत्पुरस्कारेण वक्ष्यामीति । अत एव त्वं राजा शिबिकेत्यादिसमस्तोत्तरप्रबन्धेन राजत्व-भृत्यत्वादिनिखिलधर्माणां स्वभावत आत्मीयत्वाभावं सविस्तरमुपपाद्याध्यायान्ते तदुपसंहरति ।

एवं व्यवस्थिते तत्वे मयाहमिति भाषितम् ।

पृथक्करणनिष्पाद्यं शक्यते नृप ते कथम् ।। इति ।

तथा चेत्थं योजना । अनात्मनि परमात्मभिन्ने जीवे आत्मविज्ञानं परमात्मधर्मज्ञानं । एवमनात्मनि जडे शरीरादौ आत्मविज्ञानं । शब्दो वा तत्प्रतिपादकशब्दो वा । भ्रान्तिलक्षणः भ्रान्तेर्लक्षणं यत्र सः । शब्देऽपि ज्ञानद्वारा भ्रान्तिलक्षणमन्यथावगाहित्वं वर्तत एव । तत्र शरीरतदिन्द्रियादीनां आत्मभिन्नत्वं सयुक्तिकमुपपाद्य तत्राहंशब्दार्थत्वाभावमाह ।। जिह्वेत्यादि ।। एतेऽहं अहंशब्दार्थाः न भवन्तीत्यर्थः । वागेव यदि स्वयमहमिति यदि वाक् मुख्यतया अहंशब्दार्थभूता कर्त्री । तदा किंहेतुभिर्वदति किंकरणैर्वदति । अस्या एव कर्तृत्वे कारणान्तराभावादिति भावः । तथापि एवं भेदसत्वेऽपि वाङ्नाहमेतदित्थं वक्तुं न युज्यते न शक्यते । स्फुटतरभेदज्ञानस्य सर्वसाधारण्येनाभावादिति भावः । एवं शरीरधर्मवति आत्मत्वनिरूपणं अहंपदेन कर्तुं न शक्यमित्युपपाद्य स्वातन्त्र्येण कर्तृत्वादिविशिष्टतया प्रतीयमानस्य तादृशधर्मविशिष्टस्याहंपदार्थत्वं त्वया निरूपणीयमित्याशङ्क्य तेषां परमात्म-धर्माणां जीवे भ्रान्त्या प्रतीयमानत्वेऽपि तद्विशिष्टस्य नाहंपदबोध्यजीवाभेद इत्याशयेन शरीरे नियामकतया जीवातिरिक्तः किमर्थमसावङ्गीकार्य इत्यतो विपक्षे बाधकमुखेन तं साधयति ।। यदीति ।। एवमपि शरीरादिभिन्नस्य जीवस्य शरीराधिष्ठातृत्वेऽपि । अन्यः जीवाद्विलक्षणः । मत्तः इत्युपलक्षणं अस्मदाद्यपेक्षया । परः प्रेरणास्वातन्त्र्यादिना उत्तमः । कोऽपि इदानीं भवदादिभिरनिर्धारितस्वरूपो यद्यस्ति तदा तदैवैषोऽहं अयं चान्य इति वक्तुमिष्यते । सर्ववचनानां साक्षात्परंपरया वा परमात्मज्ञानोपयोगितया साफल्येन ज्ञानिनां तत्रे- च्छोदेतीत्यर्थः । यदा समस्तदेहेषु एकः पुमान् प्रधानपुरुषः परमात्मा अव्यवस्थितः नियामकतया न स्थितस्तदा परतन्त्रस्वरूपज्ञानमात्रेणैतावत्कालमनुत्पन्नस्योत्तरोत्पत्तौ बीजा-भावात् परतन्त्रस्य ज्ञातस्य फलदाने सामर्थ्याभावात्को भवानिति त्वदीयप्रश्नवाक्यस्य सोऽहमिति मदीयोत्तरवाक्यस्य परमफलापर्यवसायित्वेन वैयर्थ्यमेवेति भावः ।

अथ वा सर्वनियामकस्य स्वतन्त्रस्य सत्त्वे

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।।

नित्यं नित्यात्मना यतो नियामयति’ इत्यादिप्रमाणानुसारेण तन्नियततया सर्वव्यवस्था-सम्भवात् लक्षणविशेषणवत्तया स्वस्वरूपान्यस्वरूपप्रतिपादकवचनानां प्रामाण्यसम्भवात्तथा वक्तुमिच्छा स्यात् । अन्यथा ‘अनवस्थितेरसम्भवाच्च’ इति न्यायेन कस्यापि नियामकत्वा-भावापातेन सर्वव्यवस्थाया असिद्ध्या सर्वस्याऽकस्मिकत्वापत्त्या इतरव्यावर्तकस्वस्वरूप-लक्षणप्रश्नप्रतिवचनादिप्रमात्मकफलानिर्वाहकमेव स्यात् । कथितव्यावर्तकधर्मस्य कालान्तरे अकस्माद्व्यावृत्तिप्रतियोगिन्यपि सम्भवेन व्यावृत्तेरपि नाशादिसम्भवेन तादृशवचनप्रामाण्या-निर्वाहादिति भावः । अस्तु कश्चन परमात्मा तथापि मम राजत्वादिवत्स्वशरीरादिस्वामित्वं स्वनिष्ठमपरायत्तमेव कुतो न स्यादित्याशङ्क्य तदप्यस्वाभाविकमेवेत्याह ।

त्वं राजा शिबिका चेयं वयं वाहाः पुरःसराः ।

अयं तु भवतो लोको न सदेतन्नृपोच्यते ।। इति ।

सद्भावे साधुभावे च’ इति वचनात् सत् स्वाभाविकत्वेन सम्यक् न भवतीत्यर्थः । तदेवोपपादयति

वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठिता ।

क्व वृक्षसञ्ज्ञा याता स्याद्दारुसञ्ज्ञाऽथ वा नृप ।।

वृक्षारूढो महाराजो नायं वदति ते जनः ।

न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ।।

शिबिका दारुसङ्घातो रचनास्थितिसम्भवः ।

अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ।।

एवं छत्रपताकानां पृथग्भावो विमृश्यताम् ।

क्व यांत छत्रमित्येव न्यायस्त्वयि तथा मयि ।।

पुमांस्त्री गौरयं वाजी कुञ्जरो विहगस्तरुः ।

देहेषु लोकसञ्ज्ञेयं विज्ञेया कर्महेतुषु ।।

पुमान्न देवो न नरो न पशुर्न च पादपः ।

शरीराकृतिभेदास्तु य एते कर्मयोनयः ।।

वस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।

तथान्यच्च नृपेत्थं तु न सत्सङ्कल्पनामयम् ।।

यत्तु कालान्तरेणापि नान्यसञ्ज्ञामुपैति वै ।

परिणामादिसम्भूतं तद्वस्तु नृप तच्च किम् ।।

त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः ।

पत्न््नयाः पतिः पिता सूनोः त्वां भूप वदाम्यहम् ।। इत्यादि ।

क्व याता स्यात् शिबिकावस्थायामिति शेषः । कुतो वृक्षादिसञ्ज्ञापगम इत्यतः शिबिकास्थिते त्वयि वृक्षारूढ इति दारुस्थित इति व्यवहाराभावादित्याह ।। वृक्षेति ।। ते त्वां ते तव जन इति वा सम्बन्धः । रचनास्थितिसंस्थितः रचनास्थित्या निर्माणाधीन-संस्थानविशेषादिना सत्तावानित्यर्थः । सम्भव इति पाठेऽप्ययमेवार्थः । एष न्यायः शिबिकादिव्यवहारतदभावयोर्नियामकीभूतागन्तुकत्वन्यायः । त्वयि मयि राजशरीरावच्छिन्ने वाहकशरीरावच्छिन्ने । तादृशशरीराणामस्वाभाविकत्वोपपादनाय कर्मयोनय इति । कर्म-निमित्तका इत्यर्थः । पूर्वोक्तार्थानुवादपूर्वकमेतन्न्यायमन्यत्रातिदिशति ।। वस्त्विति ।। सङ्कल्पनामयं सङ्कल्पना सम्यक् स्वानुकूला या कृतिः तन्मयं तत्प्रचुरं तत्प्रधानकमेवेत्यर्थः । ननु न सदिति असत्वं प्रतिज्ञाय तद्धेतुत्वेन कल्पनामयत्वोक्तिर्न युक्ता । असतः कृत्य-नधीनत्वात्प्रत्यक्षबाधाच्चेत्यतः स्वाभिप्रायमाविष्करोति ।। यत्त्विति ।। तद्वस्तु वस्तुशब्दवाच्यं हे नृप तत् तादृशपराधीनविशेषादिविक्रियारहितम् । किं आक्षेपे । ईश्वरातिरिक्तं न किमपीत्यर्थः । असत्पदार्थनिरूपणाय तत्प्रतियोगिबोधकतद्धटकसत्पदप्रयोगे कर्तव्ये तत्पर्यायवस्तुपदप्रयोगेण परिणामादिरहितमेव मुख्यत्वात्परमार्थपदसत्पदऋतपदवस्तुपदादि-व्यवहारालम्बनम् । तदन्यत्तु परिमाणादिमत्त्वेनामुख्यत्वादसदनृतावस्त्वादिपदेन व्यवह्रियते इति रीत्या पुराणादावनृतत्वाद्युक्तेर्गतिस्सूचिता । जीवे इदानीं प्रतीयमानास्सर्वे धर्मा अव्यवस्थितत्वाद्देहानुबन्धिन एवेत्याह ।। त्वं राजेति ।।

एवं च त्वदुदाहृतविष्णुपुराणं नैतद्व्यासस्मृतिविरुद्धार्थकम् । प्रत्युत तदनुकूलमेवेत्ये-तदवष्टम्भेन त्वद्दूषणमयुक्तमेव । प्रत्युत तवैव परान्यपदयोरन्यतरवैयर्थ्यम् । मन्मते समस्त-वाक्ययोजनाया दर्शितत्वेन कस्यापि वैयर्थ्यासङ्गत्यभावयोः स्फुटत्वात् । सर्वस्य मिथ्या-त्वात्मैकत्वाभिप्रायक एव चेदयं सन्दर्भस्तदा जगतो मिथ्यात्वमुपपाद्यात्मैकत्वं निरूपणीयम् । जिह्वादीनां शरीरादीनामहमर्थातिरिक्तत्वोपपादनस्य पूर्वसन्दर्भकृतस्य शरीरादीनां कर्महेतु-त्वादिनोत्तरसन्दर्भकृतस्यास्वाभाविकत्वोपपादनस्य क्वोपयोगः । न हि शरीरादिवैलक्षण्यमात्रेण आत्मन एकत्वं तेषां मिथ्यात्वं वा सिद्ध्यति । लोकायतातिरिक्तसमयिनां तदङ्गीकारा-भावप्रसङ्गात् । अपि चाहमर्थस्यापि त्वन्मते अनात्मत्वेन तद्वैलक्षण्यस्य शरीरे उपपादनेऽपि स्वाभिमतात्मवैलक्षण्यासिद्धेः । आत्मनि अहमर्थवैलक्षण्यस्यावश्यं वक्तव्यस्यानुक्त्याऽ-सङ्गतिश्च । एतदध्यायोपसंहारवाक्ये

एवं व्यवस्थिते तत्वे मयाहमिति भाषितुम् ।

पृथक्करणनिष्पाद्यं शक्यते नृप ते कथम् ।।

इत्यत्र शरीरात्मादीनां सर्वेषां तत्वत्वमुक्त्वा आत्मसम्बन्धिप्रातिस्विकस्वाभाविक-धर्माणामशक्यज्ञानत्वेनैवाहमित्याद्युक्त्यशक्यतायाः स्फुटप्रतिभासादैक्यमूलकत्वाप्रतिभासाच्च । तथात्वे पृथक्करणेति पुरुषव्यापारस्य तत्र निष्पादनहेतुत्वोक्त्यसङ्गतिः । पृथक्करणेऽपि त्वदभिमतनिरुपाधिकात्मतत्वस्य त्वदुक्तरीत्यैव निर्देशायोग्यत्वस्यापरिहारात् । अपि च त्वदुक्तरीत्या अहमित्यादिवचनवैफल्ये ‘अहं ब्रह्मास्मि’ ‘तद्योहं सोऽसौ’ ‘यो सौ सोऽहं’ ‘तत्त्वमसि’ इत्यादीनामुपदेशानां वैयर्थ्यापत्तिः । तेषां सार्थक्ये तद्रीत्यापि सम्भवेनाहमादि-शब्दघटितोपदेशस्यानर्थक्यकथनासङ्गतिः । न चानया वाचोभङ्ग्या जगन्मिथ्यात्वोपपादन-पूर्वकमात्मैकत्वमेव सिद्ध्यतीत्याशयेनैवमुक्तिरिति वाच्यम् । उक्तोक्त्या तदलाभस्य दर्शितत्वात् ।

अपि चाख्यात्तस्य तादात्म्यार्थकत्वस्य त्वद्गुरुणोक्तत्वात्तेनैवासत्त्वावरणाज्ञानाभावापिहित चैतन्यस्य सत्तारूपतया असधात्वर्थतायाः जडत्वहेतुसमर्थने उक्तत्वेन तादृशसत्तातादात्म्यस्य मिथ्याभूतवस्तुन्येन सम्भवेनाहङ्कारादावस्मीत्यादिनिर्देशायोग्यत्वकथनस्यासङ्गतत्वात् । आत्मान्यमिथ्यात्वस्यैवाहमस्मीति निर्देशायोगबीजत्वप्राप्त्या तदनुक्त्या चैतन्यैक्यकथनस्या-सङ्गतत्वाच्च । अभेदस्य भास्कररीत्याऽपि सम्भवात् । अत्र कारणव्यतिरेकेण कार्यासत्त्व-मुच्यत इत्यसङ्गतम् । शिबिकावस्थायां वृक्षावस्थाद्यपगमप्रयुक्ततत्सञ्ज्ञापगमोक्त्या कार्य-व्यतिरेकेणैव कारणाभावस्य लाभात् । यदपि यदग्नेरित्यादि तदपि वाचारम्भणश्रुति-व्याख्यावसरे उक्तश्रुतेरप्यर्थप्रकटनेन निराकरिष्यामः । परिणामविक्रियाशून्येत्याद्यसङ्गतम् । परिणामविक्रियाशून्यत्वस्य पारमार्थिकत्वोपपादकत्वे शशविषाणादिरूपासतोऽपि तथात्वा-पातात् । सस्वरूपत्वस्यापि नियामकत्वे स्वरूपवत्वरूपतत्सम्बन्धात्मकविक्रियाया अवर्जनीय तया विक्रियाशून्यत्वानुपपत्तिः । यदपि प्रसिद्ध्यतिक्रम इत्यादि तदपि मन्ददन्धनम् । बाधके सत्यर्थान्तरानुसरणस्य न्याय्यत्वात् । जगत्सत्यताग्राहकप्रमाणानामेव बाधकत्वात् । अन्यथा ब्रह्मणः सदसद्विलक्षणत्वबोधकपूर्वोदाहृतवाक्येष्वपि सदसच्छब्दयोरर्थान्तराभावप्रसङ्गात् । लक्षणासन्दर्भविरोधौ न स्त एवेति तद्व्याख्यान एव प्रदर्शितम् ।

यदप्येवमित्यादिना विष्णुपुराणगतस्थानान्तरगतवाक्यानि स्वोपयोगितयोदाहृत्य जगतोऽ-निर्वचनीयत्वकथनं तदप्यसङ्गतम् । तत्र पूर्ववाक्यानि

परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते ।

तवैष महिमा येन व्याप्तमेतच्चराचरम् ।।

इत्यादीनि । तत्र धरण्यामुद्धृतायां मुनिभिर्वराहरूपस्य हरेः स्तुतिः क्रियते । तद्घटकै-तद्वाक्ये परमार्थ इत्यस्योत्तमोर्थस्त्वमेवेत्यर्थः । तदुपपादकतया तवैष महिमेत्युक्तेः । न हि चराचरव्याप्तमाहात्म्यं अबाध्यत्वस्योपपादकम् । निष्क्रियस्य तस्य माहात्म्यादेरयोगात् । न चैतत्तस्यानुपपादकमेव तूष्णीं कथितमिति वक्तुं युक्तम् । त्वमेव परमार्थो नान्यः इत्युक्तौ कुत इत्याकाङ्क्षाया आवश्यकत्वेन तदर्थत्वेनैतस्याप्रवृत्तौ न्यूनतापातात् । तथा च माहात्म्यस्य चराचरव्याप्तत्वेऽपि न निरुपचरितोत्तमत्वं युक्तम् । येन नान्योस्तीति निषेधः सङ्गच्छेत् । तदप्यन्यवत्पाञ्चभौतिकदेहग्रहणपरित्यागादिनेतरयोगिजनसाधारण्यात् । न चैतत्स्वरूपमेव । तस्यादृश्यत्वेनापरिच्छिन्नत्वेन द्दग्विषयत्वधरण्युद्धरणरूपक्रियाद्ययोगादित्या-शङ्ग्य निषेधति ।। यदेतदिति ।।

यदेतद्दृश्यते मूर्तं रूपं ज्ञानात्मनस्तव ।

भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ।। इति ।

आत्मशब्दो देहवाची । ज्ञानात्मकदेहवतस्तव मूर्तं धरण्युद्धरणादिक्रियाविशिष्टं रूपं दृश्यते प्रत्यक्षविषयीक्रियते । एतद्रूपमयोगिनः भगवति मनोयोगतत्साध्यदिव्यचक्षुरादि-रहिताः । कुयोगिन इति पाठे कुत्सितज्ञानादिविशिष्टाः अयोग्या इत्यर्थः । भ्रान्तिज्ञानेन ज्ञायते अनेनेति करणव्युत्पत्त्या भ्रान्तिजनकचक्षुरादिना जगद्रूपं पञ्चभूतात्मकमिति यावत् । पश्यन्ति । साक्षात्कुर्वन्ति जानन्ति वा । ज्ञानेनेत्यस्य यथाश्रुतार्थकत्वे विषयीकुर्वन्तीत्यर्थः। नन्वस्यावतारस्य को विशेषः । अन्येषां कृष्णऋषभादीनां देहत्यागदेहहननादिना भौतिकदेह-वत्त्वस्यैवावगमादित्यत आह ।। ज्ञानेति ।। अखिलं समस्तभगवन्मूलरूपावतारादिदेहादिकं ज्ञानस्वरूपमेव । अबुद्धयः सम्यग्ज्ञानरहितास्तु अर्थस्वरूपं पञ्चमहाभूतादिरूपात्मकं यज्जगत् तदात्मकं पश्यन्तो जानन्तो मोहसमुदाये परिभ्रमन्ते । न च

भवतो यत्परं रूपं तन्न जानाति कश्चन ।

अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः ।।

इत्यादिना धरणीकृतस्तोत्रे परशब्देन देवतागम्यत्वागम्यत्वादिना मूलावताररूपवैलक्षण्य-स्यावगमात्तस्य च लीलागृहीतभौतिकाभौतिकदेहवत्त्वेनैव निर्वाह्यत्वात्कथं सर्वरूपाणां ज्ञानात्मकत्वमित्यत आह ।। ये त्विति ।। परमेश्वरेत्यचिन्त्यशक्तिरूपैश्वर्योक्तिः । विदेः विचारार्थत्वात् तु शब्दस्य विशेषार्थत्वात् । ये भगवतः पूर्वोक्ताचिन्त्यशक्तित्वादिधर्मानु-सन्धानपूर्वकविशेषविचारवन्तस्ते अखिलं त्वद्रूपं ज्ञानात्मकमेव पश्यन्ति निश्चयेनैव पश्यन्ति । उक्तवाक्यं तु विशेषविचाररहितानामेव भ्रामकम् । देवपूज्यरूपप्रलयकालवृत्तिसर्वभक्षण-कर्तृरूपयोरचिन्त्यशक्तिविशेषबलादेव देवगम्यत्वागम्यत्वोपपत्तेः । कुत एतदित्यतस्तेऽखिलं जगदित्युक्तम् । ये त्विति यच्छब्दयोगात्ते इत्यस्य स्वतो लब्धत्वादत्रत्यं युष्मच्छब्द-षष्ठ्येकवचनम् । तुशब्दो हेत्वर्थकोऽपि । यस्मादखिलं जगत् ते त्वत्सकाशादुत्पन्नं तस्मादित्यर्थः ।

अयं भावः । अवताररूपेषु लोकपालनाद्यर्थं मूलरूपेण शरीरादिरहितेन कर्तुमशक्यत्वा-ल्लीलया शरीरग्रहणं कार्यम् । मूलरूपस्य तदशक्तौ प्रथमतो जगदुत्पत्त्यनुपपत्तेः । न च तदर्थमपि शरीरग्रहणमिति वाच्यम् । शरीरञ्च प्रवृत्त्याद्यर्थमेवाङ्गीकार्यम् । तथा तच्छरीरग्राहक-प्रवृत्त्यादिनिर्वाहार्थमन्यशरीरापेक्षायामनवस्था । आदिसृष्टावनुपपत्तिश्च । अतस्तन्निर्वाहाया-चिन्त्यशक्त्याद्यभ्युपगमे आवश्यके तेनैव प्रमाणप्रमितसर्वनिर्वाहसम्भवाद्व्यर्थं इतरयोगिन इव शरीरान्तरादिग्रहणमवताररूपेष्विति ।

यद्वा कुतः अवताररूपाणां भौतिकत्वज्ञानस्य भ्रमत्वमुच्यत इत्यतो ज्ञानिप्रत्यक्षस्य विचारपूर्वकस्य बाधकत्वादित्याशयेनाह ।। ये त्विति ।। अर्थस्तु पूर्ववदेव ।

यद्वा अज्ञानिदर्शनमुक्त्वा ज्ञानिनां भगवत्स्वरूपज्ञानप्रकारमाह ।। ये त्विति ।। ते इत्येतत्प्रथमैव । ये शुद्धचेतसोऽत एव ज्ञानविदो ज्ञानत्मकभगत्स्वरूपवेत्तारस्ते पुरुषा अखिलं जगत् ज्ञानात्मकं त्वद्रूपं त्वदावासस्थानं त्वज्जन्यं पश्यन्तीत्यर्थः । कार्यकारणयोरभेदव्यपदेश आयुर्वै घृतमित्यादौ दृष्टः । एतदुत्तरक्रोशे या गङ्गा सवै भवद्गम्यो ग्राम इति गङ्गातटस्थग्राम- तात्पर्येणाधाराधेययोरप्यभेदव्यपदेशो दृष्टः । न च मुख्यार्थपरित्यागेनोक्तगौणार्थादरणस्या-युक्तता इति । चिज्जडयोर्मुख्यतादात्म्यस्य बाधितत्वेन आरोपाधिष्ठानतया कथञ्चि-त्तादात्म्यस्य वा बाधायां सामानाधिकरण्यस्य वा परेणापि वक्तव्यतया तस्याप्यमुख्यत्वात् । न च तर्हि भवदुक्तार्थग्रहणे किं विनिगमकमिति वाच्यम् । देवा ऊचुः

नमो नमस्ते विश्वेश त्वं ब्रह्मा त्वं पिनाकधृक् ।

इन्द्रस्त्वमग्निः पवनो वरुणः सविता यमः ।।

वसवो मरुतः साध्या विश्वेदेवगणो भवान् ।

योऽयं तवागतो देव समीपं देवतागणः ।।

स त्वमेव जगत्स्रष्टा यतः सर्वगतो भवान् ।

इति वाक्येन, स्थानान्तरस्थितेन

सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् ।

सर्वं त्वत्तस्ततस्तत्त्वं नमः सर्वात्मने नमः ।।

सर्वात्मकस्त्वं देवेश सर्वभूतस्थितो यतः ।

कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम् ।।

इति वाक्येन अत्रैवोत्तरत्र सर्वकारणत्वसर्वस्थितत्वादिना सर्वात्मकत्वोक्तिगत्युक्तेः । न च सर्वकारणत्वतत्स्थितिभ्यां वास्तवसर्वात्मकत्वमेवोच्यते । न तु तदुक्तेर्गतिरुच्यते । तथा प्रतीत्यभावादिति वाच्यम् । कार्यकारणयोः कथञ्चित्तदुक्तिसम्भवेऽपि आधाराधेययो-स्तादात्म्यस्यादृष्टत्वेन तथाभिप्रायस्य वक्तुमशक्यत्वात् । स्थितेरपि तादात्म्यसम्बन्धेन सम्बद्धत्वरूपत्वे तस्यैव सर्वात्मकत्वेन स्वस्मिन् स्वस्य हेतुत्वायोगाच्च ।

यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।

सर्वान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते ।।

एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ।

इत्यादिस्मृत्यानुगुण्याच्चोक्तार्थस्यैव युक्तत्वाच्च । भवदुदाहृतवाक्ये जगद्ब्रह्मतादात्म्य-प्रतिपादनद्वारा कारणब्रह्मव्यतिरेकेण जगदसत्यतातात्पर्ये यदेतद्दृश्यते मूर्तमित्यत्र मूर्तपदेन जगद्ग्रहणे तस्य जगद्रूपताज्ञानस्य भ्रान्तित्वकथनासङ्गतिः । ब्रह्मग्रहणे तवेत्युक्तस्वस्वरूप-सम्बन्धित्वमूर्तत्वदृश्यत्वानामनुपपत्तिः । निरुपाधिके तदनुपपत्तेः । सोपाधिकस्य कथञ्चिद्ग्रहणे तस्यापि दृश्यत्वादिना मिथ्यात्वेन जगदन्तःपातितया तज्ज्ञानस्य भ्रान्तित्वकथनासङ्गतिः । न च मन्मते शुद्धान्यविषयकं सर्वं ज्ञानं भ्रम एवेति नेदं बाधकमिति वाच्यम् । तर्हि ये त्वित्यादिना ब्रह्मणो निखिलात्मकत्वज्ञानस्यापि तथात्वेन तत्स्तवानुपपत्तेः । अखण्डार्थ-विषयज्ञानतात्पर्यकं तदित्यप्यसत् । पूर्वस्यापि तथात्वेन तन्निन्दानुपपत्तेः । अश्रुतकल्पना-पत्तेश्च । तस्मात्तत्रोक्तरीत्याऽवताररूपस्यैव प्रसक्तौ वक्तव्यायामुत्तरत्र जगद्ब्रह्मणोस्तादात्म्य-कथनं कथमुपपन्नम् । तवैष महिमा येनेत्यनेन जडाजडात्मकनिखिलप्रपञ्चस्य ब्रह्मशक्त्युप-जीवकत्वरूपतन्महिमाव्याप्तत्त्वोक्त्या जगद्ब्रह्मणोर्भेदस्यैवोपपादितत्वाच्च । ज्ञानस्वरूपस्यापि जगतः अर्थस्वरूपस्यापि सत्त्वेन तज्ज्ञानस्य भ्रमत्वायोगेन ज्ञानस्वरूपमित्यादिवाक्यार्था-सङ्गतिश्च । अर्थपदं परमार्थपरमिति तु न सत् । ज्ञानस्यैव परमार्थत्वेन तत्स्वरूपत्वे परमार्थस्वरूपत्वानपायात् । न च ज्ञानस्वरूपमित्यनेन ज्ञानात्मके ब्रह्मणि आरोपिततया तादात्म्यमुच्यते । अर्थस्वरूपमित्यनेन तु स्वरूपतः परमार्थत्वं निषिद्ध्यत इति युक्तम् । एकवाक्यस्थस्वरूपपदद्वयस्य विना प्रमाणं लक्षणादिनाऽर्थद्वयकल्पनापत्तेः । अर्थपदस्य परमार्थवाचित्वाभावात्तस्यापि लक्षणापत्तिः । एवमत्रार्थपदस्य परमार्थवाचित्वे पूर्वत्र विद्यमाने

आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।

प्रणम्य सर्वभूतस्थमच्यतं पुरुषोत्तमम् ।।

ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।

तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ।।

इति पराशरकृतप्रणतिश्लोके एतत्सजातीये अर्थपदस्य परमार्थपरत्वाभावापातेन ज्ञान-स्वरूपब्रह्मणोऽपि मिथ्यात्वापत्त्या शून्यवादापातः । न च परमार्थत इति पूर्ववाक्यविरोधान्न तथा वक्तुं शक्यमिति वाच्यम् । तर्ह्यत्रापि ज्ञानस्वरूपमिति पूर्ववाक्यविरोधान्न त्वदुक्तार्थो-पपत्तिः । तादात्म्यार्थकतया पूर्ववाक्यं सावकाशमिति चेत् तर्ह्यत्रापि भ्रान्तिकल्पितेतरार्थेषु मुख्यार्थत्वेन दोषाभावोक्तिपरतया पूर्ववाक्यसावकाशत्वं किं पाणिपिहितम् । तस्मा-त्त्वन्मतप्रतिपादकत्वमस्य वाक्यस्य नास्तीति कुतो जगतोऽनिर्वचनीयतानुग्राहकत्वम् ।

विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ।

एवमेवमिदं विश्वं न भेदि सकलं जगत् ।।

वासुदेवाभिधानस्व स्वरूपं परमात्मनः ।

इत्यत्र विज्ञानं ज्ञानात्मकं ब्रह्म उत्तमोऽर्थः । तत्र द्वैतिनः मूलरूपावताररूपादिषु सामर्थ्यवैलक्षण्यादिग्रहवन्त इत्यर्थः । इदं विश्वं न भेदि परमात्मविश्लेषविधुरम् । सकलं जगत् स्वरूपं स्वं स्वातन्त्र्योपेतं स्वात्मकं रूपं स्वरूपं यत्र तादृशं तदधिष्ठानमित्यर्थः ।

सितनीलादिभेदेन यथैकं दृश्यते नभः ।

भ्रान्तिदढष्टिभिरात्माऽपि तथैकः सन् पृथक् पृथक् ।।

इत्यत्र आत्मा परमात्मा पृथक् स्थानभेदेन नाना ।

एकः समस्तं यदिहास्ति किञ्चित्तदुच्यते नास्ति परं ततोन्यत् ।

सोहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ।।

इत्यत्र एकः सर्वोत्तमः । परं उत्कृष्टम् । कुत इत्यतः सर्वान्तर्यामित्वादित्याह ।। सोह-मित्यादि ।। एतदात्मस्वरूपं एतज्जीवजातान्तर्यामि । भेदमोहं परमात्मरूपेषु भेदभ्रमं कस्यचित्परमात्माधिष्ठितत्वं कस्यचिन्नेति वैलक्षण्यभ्रमं जगतः परमात्मविश्लेषभ्रमं वेत्यर्थः । एवं

मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोणुः ।

जनैस्स्वकर्मस्तिमितात्मदृष्टिभिः संदृश्यते ब्रूहि किमत्र तत्वम् ।।

इत्यत्र स्वकर्मस्तिमितात्मदृष्टिभिः स्वकर्मप्रतिबद्धपरमात्मग्रहवद्भिरित्यर्थः। संदृश्यते समित्युपसर्गमहिम्ना मुख्यत्वेन दृश्यते । तत्वं स्थितम् । कुत इत्यत अस्थिरत्व-स्यानुभाविकत्वादित्याह ।। महीत्यादि ।। अस्य वाक्यस्य मिथ्यात्वपरत्वे ज्ञानोच्छेद्यत्वमेव दर्शनीयम् । न त्वैकैकापगमे एकैकस्य स्थितिः । एवमुदाहृतवाक्येषु स्वपरपक्षसाधकबाधका-न्यूह्यानि । ग्रन्थगौरवभयान्नेह प्रपञ्च्यते । एवमन्यान्यपि वाक्यानि योज्यानीत्यलम् ।

इत्थं च न कुत्रापि त्वद्विस्तरस्यावकाशः । एवमित्युपसंहारवाक्यं टीकाव्याख्यानेनैव सर्वदोषाणामुद्धृतत्वाद्दूषितमेव । प्रत्युत स्वोदाहृतबृहन्नारदीयवाक्येषु लाक्षणिकनिर्देशोप-युक्तार्थानुक्त्यानुपयुक्तार्थोक्त्यादीनां त्वद्रीत्या व्याख्यानपक्षे दर्शितत्वान्मुक्तोपसृप्यव्यपदेशा-दानन्दमयोभ्यासादित्यादौ लाक्षणिकनिर्देशस्य त्वयाऽप्यङ्गीकृतत्वात्तद्बलात्कृष्णद्वैपायना-प्रणीतत्वाचार्यकल्पित्वोक्तिस्त्वन्मौर्ख्यस्य एवाविपालगोपालं ज्ञापिका । मध्वकुकवीत्युक्तेस्तु तमसि तद्भटकर्तृकस्वजिह्वाच्छेद एव तव फलं भवतीति सर्वं चतुरस्रम् ।