वेदवेदानुसारेषु..
वेदवेदानुसारिप्रमाणानां श्रुत्यादिप्रमाणान्तरविरोधे सर्वथा हेयत्वाभावः
श्रीमज्जयतीर्थटीका
यथा प्रमाणविरुद्धानां युक्तीनामविषयवृत्तित्वेन व्याप्तिशून्यत्वेन चाभासत्वा-त्सर्वथा हेयत्वं किं तथा वचनानामपीत्यपेक्षायामाह–
मूलं
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।
इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।। इति व्यासस्मृतिः ।
वेदमनुसरन्तीति वेदानुसाराणि वेदवेदानुसारेषु प्रबलप्रमाणविरोधे सति तेषां विरुद्धमर्थं परित्यज्याविरुद्धोऽर्थः कल्पनीयः । न तु सर्वथा हेयानि । वेदवेदानुसारीतराणि प्रमाणविरुद्धानि चेत्प्रलम्भभ्रमजान्यतरत्वेन सर्वथाऽप्रमाणानीति ज्ञातव्यानि ।
ननु शब्दस्तावज्ज्ञानकरणम् । प्रमायाश्च ज्ञानकरणमात्राधीनत्वमङ्गीकृतम् । तस्मादितरप्रमाणानामन्यार्थकल्पनैवोचितेति चेत् सत्यम् । तथापि स्वतः प्रामाण्य-स्यैत्सर्गिकत्वेन दोषादप्रामाण्यस्यापि जननात् । प्रकृतवचनानि च विप्रलम्भादि-मूलानीत्यप्रमाणान्येव । अत एवेतराण्यप्रमाणानीति वक्तव्ये तदुपपादनाय प्रलम्भ-भ्रमजानीत्युक्तम् । प्रलम्भादिमूलत्वं च प्रबलप्रमाणविरोधानुमेयम् । अत एव विरुद्धा-नीत्युक्तम् । तर्हि वेदादिषु तत्कल्प्यं स्यादिति चेत् । अपौरुषेयत्वादिबाधकाभावे सत्येवमेव तत् । अत एव वेदवेदानुसारेष्वित्युक्तम् । अन्यार्थकल्पनाप्रकारश्च लेशतो दर्शयिष्यते ।