सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते

प्रकरणान्ते प्रतिपादितगुणगणविशिष्टभगवन्नमनम्

श्रीमज्जयतीर्थटीका

एवं यद्गुणगणविशिष्टं भगवन्तमनेन प्रकरणेन प्रतिपादितवानाचार्यस्तादृशमेव स्तुवन् प्रकरणान्तेऽपि नमस्करोति ।

मूलं

सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते ।

नमो नारायणायार्यवृन्दवन्दितपद्द्वय ।।

इति श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितः तत्त्वोद्योतः समाप्तः ।

।। श्रीकृष्णार्पणमस्तु ।।

चिच्चेत्यपतित्वोपपादनम् ।। सत्येति मुक्तामुक्तोत्तमायेति च ।। आर्येत्यादि तु नारायणस्यैव नमस्कार्यत्वोपपादनार्थम् । इत्यशेषमतिमङ्गलम् ।

द्वैतद्युमणि:

।। तादृशमेव स्तुवन्निति ।। सर्वोत्कर्षतादृशधर्मबोधानुकूलशब्दमुच्चरन्नित्यर्थः । तथा चैतद्ग्रन्थे परमतनिराकरणस्योक्तविशेषणसिध्द्युपयोगित्वान्न वैयर्थ्यप्रयुक्तानुपादेयत्व-शङ्काऽस्य ग्रन्थस्येति सूचितम् ।