सदिति प्रतीयमानत्वात्
प्रत्यक्षस्य अनुमानादिबाध्यत्वशङ्का
सदिति प्रतीयमानत्वात्
श्रीमज्जयतीर्थटीका
नन्वस्तु प्रत्यक्षं प्रपञ्चसत्तागोचरम् । तथाप्यनुमानागमाभ्यामेव बाध्यताम् । तयोर्निरवकाशत्वात् । न हि व्याप्तिपक्षधर्मतावदनुमानं शक्यते स्वविषयात् प्रच्यावयितुम् । नाप्यागमोऽपौरुषेत्वात् । उपक्रमादिभिरेवावगततात्पर्यत्वाच्च । प्रत्यक्षं तु सम्भावित-दोषमप्रमाणमपि भवितुं युक्तम् ।
न चोपजीव्योपजीवकत्वन्यायविरोधः । अभिसर्पणाद्यभावलिङ्गेन नायं सर्प इत्याद्याप्त- वाक्येन चोपजीवकेनापि निरवकाशेन सावकाशस्योपजीव्यस्यापि सर्पभ्रमस्य बाधदर्शनात् । तत्रेदन्तामात्रमुपजीव्य प्रवर्तनाददोष इति चेत् तर्हि प्रकृतेऽपि तथास्त्वित्यत आह–
द्वैतद्युमणि:
निरवकाशत्वात् अप्रामाण्यप्रयोजकदोषाशून्यत्वेन प्रमाणतया निश्चितत्वा-दित्यर्थः ।। न्यायविरोध इति ।। तद्रूपयुक्तिविरोधः प्रत्यक्षप्रामाण्यस्यानुमानागमप्रामाण्यस्य चेत्यर्थः । उपजीव्यविरुद्धार्थे उपजीवकमप्रमाणमिति व्याप्तेरपि बलवत्त्वादिति भावः । व्यभिचाराद्व्याप्तिरेव नास्तीत्याह ।। अभिसर्पणाद्यभावलिङ्गेनेति ।। उपजीवकेनापीति ।। सर्पभेदरूपसाध्योपस्थितिं प्रति प्रतियोगिज्ञानसमर्पकतयेदंपदार्थरूपोद्देश्यसमर्पकतया चानु-मानागमौ प्रति प्रत्यक्षमुपजीव्यम् । एतावुपजीवकाविति भावः । अनुमाने निरवकाशत्वं व्याप्तिपक्षधर्मतोपेतत्वम् । आगमे त्वाप्तवाक्यत्वादिना दोषशून्यत्वम् । उभयत्राप्रामाण्य-प्रयोजकदोषशून्यत्वेन निश्चितत्वं निरवकाशत्वम् । तेन रूपेणानिश्चितत्वं सावकाशत्वं बोध्यम् ।। इदन्तामात्रेति ।। केचित्तु मात्रपदेन सर्परूपप्रतियोग्यंशस्य तत्तादात्म्यस्य रज्जु-निष्ठस्य च पराभिप्रेतमुपजीव्यत्वं व्यवच्छिन्दन्ति ।। अदोष इति ।। उपजीव्योप-जीवकप्राबल्यदौर्बल्यन्यायस्य न पूर्वोक्तव्यभिचार इत्यर्थः । अयं भावः । यज्ज्ञानं यज्ज्ञान-कारणं तज्ज्ञानविषयीभूतार्थविरुद्धार्थावगाहिकार्यज्ञानस्य न प्रामाण्यमिति न नियमः । भवदुक्तस्थल एव व्यभिचारात् । नापि यद्रूपावच्छिन्नविषयतानिरूपितयन्निष्ठविषयत्वा-वच्छिन्नकारणतानिरूपितकार्यतावच्छेदिका या विषयता सा तस्मिन् तद्विपरीतार्थावगाहिता- घटितप्रमात्वघटिका न भवतीति वा व्याप्तिः । वह्न्यभाववद्ध्रदकालीनपर्वतपक्षकवह्न्यनुमिते-र्व्याप्तिशरीरे वह्निना ह्रदावगाहिपरापर्शादप्युत्पन्नतया तत्रत्यविषयतायां तस्मिंस्तदभावबुद्धिं प्रति तस्मिंस्तदारोपस्य कारणतामते अभावप्रमीयविषयतायां व्यभिचारात् । किन्तु यादृशविषयिताघटितधर्मावच्छिन्नजनकताकयादृशज्ञाननिष्ठप्रामाण्यं प्रति जनकतावच्छेदकी-भूतयादृशविषयिताघटितप्रामाण्यं स्वावच्छिन्नोपाधेयत्वसम्बन्धेन व्यापकं तादृशविषयिता-निरूपकविशिष्टार्थस्तद्रूपावच्छिन्नं प्रत्युपजीव्य इत्युच्यते तद्विपरीतार्थविषयकत्वांशे प्रामाण्या-भाववत्तादृशं ज्ञानमिति व्याप्तिरभिमता । अनुमितिनिष्ठप्रामाण्यं प्रति पक्षतावच्छेदकविशिष्ट-विषयताघटितप्रामाण्यं व्यापकम् । उक्तसम्बन्धेन लिङ्गोपधानमते तु व्याप्तिविशिष्ट-हेतुमत्ताघटितमपि प्रामाण्यं व्यापकम् । परामर्शस्याप्रामाण्येऽनुमितौ पक्षांशे विशिष्टलिङ्गाव-गाहित्वांशे प्रामाण्यस्य दुर्लभत्वापत्तेः । तथा च तादृशानुमितौ जनकतावच्छेदकीभूत-परामर्शीयविषतानिरूपकविशिष्टार्थविपरीतार्थे प्रामाण्याभावोऽपि वर्तत एव ।
ननु पर्वतत्वेन ह्रदावगाहिपरामर्शात्पर्वतत्वेन ह्रदावगाहिन्यनुमितिर्जायते । तत्र वास्तव-वह्नेरेव भानाद्वह्नित्वघटितप्रामाण्यं वर्तते । एवं वह्नित्वेनान्यावगाहिपरामर्शात् तदंशे भ्रमात्मकं पर्वतांशे प्रमात्मकमप्यनुमितिस्वरूपं जायते । तथा च धूमादिविषयिताघटितधर्मावच्छिन्न-जनकताकधूमपरामर्शोत्तरानुमितित्वावच्छिन्नं प्रति पर्वतत्वादिघटितमनेन क्रमेण धूमत्व-वह्नित्वादिघटितं वा किमपि प्रामाण्यं व्यापकमुक्तसम्बन्धेन न भवति । एवमेवोक्तरीत्या भ्रम-प्रमोभयात्मके रक्तदण्डवान् पुरुष इत्यादौ प्रत्यक्षे शाब्दबोधे च तत्तत्कारणीभूतग्रहनिष्ठतत्त- द्धर्मघटितप्रामाण्यस्योक्तसम्बन्धेन व्यापकताभङ्गान्न कुत्रापीयं व्याप्तिरुपपादयितुं शक्येति चेन्न ।
व्याप्यकोटौ १प्रामाण्यस्य भ्रमभिन्नत्वस्य विवक्षितत्वात् । पूर्वोक्तानुमितीनां किञ्चिदंशे भ्रमत्वात् । शुद्धप्रमात्मकानुमितौ कारणनिष्ठं प्रामाण्यं उक्तसम्बन्धेन वर्तत एवेति न व्यापकताभङ्गः । न चैवमपि कूटलिङ्गाद्दैवाज्जायमानयथार्थानुमितौ भ्रमभिन्नत्वसत्त्वेऽपि कारणज्ञानवृत्तिप्रामाण्यस्योक्तसम्बन्धेनाभावाद्व्यभिचार इति वाच्यम् । लिङ्गभेदेन कारणता-भेदात्तादृशज्ञानाव्यवहितोत्तरानुमितित्वं प्रति लिङ्गव्याप्त्यादिविषयताघटितप्रामाण्यस्य व्यापकत्वाभावेऽपि पक्षतावच्छेदकसाध्यतावच्छेदकादिविशिष्टविषयकत्वघटितप्रामाण्यस्य व्यापकत्वानपायेन तदादायैवोपपादनसम्भवात् । लिङ्गोपधानमतेऽनुमितौ विशिष्टलिङ्ग-भाननैयत्येन कूटलिङ्गजन्यानुमितौ भ्रमभिन्नत्वाभावाच्च । लिङ्गानुपधानमते यादृच्छिक-संवादिभिन्नत्वस्य व्याप्यकोटौ निवेशनीयत्वात् ।
यद्वा ज्ञाने दोषाप्रयोज्यत्वमेव भ्रमभिन्नत्वं विहाय निवेश्यते । स्वसमानाधिकरणा-भावप्रतियोग्यवच्छिन्नविषयताप्रयोजकत्वप्रमानुकूलशक्तिविघटकत्वज्ञानानुकूलसहजशक्त्यति-रिक्तशक्त्याधायकत्वादिना केनचिद्रूपेणानुगतीकृत्य दोषा निवेश्याः । यादृच्छिकसंवादिस्थले कूटपरामर्शादिरूपदोषनिष्ठप्रमाविघटनशक्तेस्तत्तत्कालतददृष्टतत्तद्विषयविशेषविषयकत्वादिरूपयदृच्छाबलेन कुण्ठीभावाङ्गीकारेण प्रमोत्पत्तावपि तत्रान्यत्र तज्जातीयस्थलान्तरानुरोधेन क्लृप्तप्रमाया विद्यमानत्वात्तेषां दोषत्वात् तत्प्रयोज्यत्वस्य तत्प्रयोज्यानुमितौ सत्त्वान्न तस्य व्याप्यकोटौ निवेशः । तथा च दोषाप्रयोज्ययादृशरूपावच्छिन्नज्ञानत्वं जन्यज्ञानत्वं वा प्रति स्वविशिष्टोपधेयतासम्बन्धेन यादृशरूपावच्छिन्नविषयताघटितप्रामाण्यं व्यापकं तद्रूपविशिष्ट-मुपजीव्यं तद्विरोध्यर्थविषयताघटितप्रमात्वाभावस्तादृशज्ञानत्वस्य व्यापक इति पर्यवसितम् । प्रतियोग्यारोपस्याभावप्रमां प्रति हेतुत्वेऽपि अधिकरणांशे प्रतियोगिप्रकारकत्वघटितप्रामाण्या-प्रसिद्ध्या तस्योक्तसम्बन्धेन तादृशाभावप्रमात्वं प्रत्यव्यापकत्वान्न व्यभिचारः कल्पद्वयस्य । अत्रोपजीव्यत्वशरीरे व्यापकत्वानिवेशे घटवद्भूतलादिरूपसमूहालम्बनरूपपरामर्शजन्यानु-मितौ घटत्वावच्छिन्नघटितोक्तप्रामाण्यस्योक्तसम्बन्धेन सत्त्वात्तद्रूपावच्छिन्नस्य तादृशानु-मित्युपजीव्यत्वव्यवहारापत्तिः। अतो व्यापकत्वनिवेशः । तथा चेदंत्वावच्छिन्ने सर्प-भेदावगाहिनि भ्रमभिन्ने दोषाजन्ये वा ज्ञानसामान्ये इदंत्वघटितप्रामाण्यविशिष्टस्य ज्ञानस्य धर्मितावच्छेदकनिर्णयविधया पूर्वं सत्त्वात्तद्रूपावच्छिन्नस्योपजीव्यत्वम् । तद्विरुद्धार्थघटित-प्रामाण्याभावोऽप्युत्तरतादृशज्ञानेषु वर्तते । इदंपदार्थे सर्पतादात्म्यघटितप्रामाण्यस्याप्रसिद्ध्या सर्पभेदावगाहिज्ञानत्वं प्रत्यव्यापकत्वान्न तस्योपजीव्यत्वमिति तद्विरुद्धार्थे प्रामाण्येऽपि न क्षतिः । सर्पत्वप्रकारकप्रामाण्यमपि न व्यापकम् । सर्पत्वभ्रमोत्तरमपि सर्पत्वप्रकारक-ज्ञानमात्रात्सर्पभेदावगाहिप्रमोत्पत्तेः । अतस्तस्याप्यनुपजीव्यत्वम् । इत्थं चेदंत्वमात्र-मुपजीव्येत्युक्तिर्युक्ता । अन्यथा मात्रार्थबाधापत्तेः ।
ननु सर्पत्वप्रकारकभ्रमोत्तरं कथं सर्पमेदप्रमोत्पत्तिः । प्रतियोगितावच्छेदकप्रकारकज्ञाने सर्पत्वेन भासमानस्यैवात्र भेदांशे प्रतियोगितया भानात् । वास्तवस्य लौकिकसन्निकर्ष-विधुरत्वाज्ज्ञानसन्निकर्षस्यापि तत्राभावादिति चेन्न । भ्रमजनकतया सर्पत्वेन सर्पस्मृते-रावश्यकतया भ्रमोत्तरपरीक्षादिदशायामपि तद्विषयकोद्बुद्धसंस्कारादेः सत्त्वाङ्गीकारेण तद्बला-देव वास्तवसर्पस्य भेदांशे प्रतियोगितया भानसम्भवात् । तर्हि सर्पत्वविशिष्टस्याप्युक्तोप-जीव्यत्वसत्त्वान्मात्रपदेन तद्व्यावर्तनमयुक्तमिति न वाच्यम् । भ्रमाविषयेषु मध्ये इदन्त्व-विशिष्टमात्रमुपजीव्येति हि तत्पदार्थः । वास्तवसर्पस्य भ्रमाविषयत्वेन तदव्यावर्तनात् ।
यद्वा यद्रूपावच्छेद्यत्वविशिष्टविषयता अनाहार्यज्ञानीययादृशविषयताघटितधर्मावच्छिन्नं प्रति जनकतावच्छेदिका तादृशविषयताघटितधर्मावच्छिन्नं प्रति तद्रूपावच्छिन्नमुपजीव्य-मित्युच्यते । तद्रूपविशिष्टार्थविरुद्धविषयकत्वघटितप्रामाण्यमुपजीवकस्य नास्तीति नियमः । प्रतियोग्यारोपस्याभावबुद्धिकारणत्वेऽपि तादृशज्ञानस्याऽहार्यत्वनियमात्तादृशप्रतियोगिरूप-रूपविशिष्टस्याप्रसिद्ध्या च न तस्योपजीव्यत्वप्रसक्त्याऽभावप्रमायां व्यभिचारः । एवञ्च प्रतियोगिज्ञानमुद्रया सर्पज्ञानस्य कारणत्वेऽपि तस्य सर्पत्वप्रकारताशालिज्ञानत्वेनैव कारण-तया तदवच्छेद्यत्वविशिष्टविषयतायास्तादृशानुमितिशाब्दबोधादिजनकतावच्छेदककोट्य-प्रवेशान्न तदवच्छिन्नस्योपजीव्यत्वम् । इदन्त्वावच्छिन्नविषयताघटितरूपेण परामर्शयोग्यता-ज्ञानादेः कारणत्वात्तदवच्छिन्नस्योपजीव्यत्वम् । यद्यपि सर्पत्वावच्छेद्यत्वविशिष्ट१विषयाऽपि परामर्शयोग्यताज्ञानादिनिष्ठजनकतावच्छेदककोटिप्रविष्टत्वात्तदवच्छिन्नस्याप्युपजीव्यत्वं दुर्वारं तथापि विषयतायाः प्रतियोगितासम्बन्धानवच्छिन्नरूपाया मुख्यविशेष्यतारूपाया वा विवक्षणान्न दोषः ।
।। तर्हि प्रकृतेऽपीति ।। उक्तरीत्या निष्कर्षकरणेन व्यभिचारोद्धारे नास्माकं काचित् क्षतिः । घटत्वादिविशिष्टविषयताया एव परामर्शयोग्यताज्ञानादिनिष्ठजनकतावच्छेदकतया सत्ताविषयतायास्तत्रानिवेशात् उक्तपरामर्शादीनां घटादिसत्ताविषयकत्वनियमाभावेन तद्घटित- प्रामाण्यस्य पूर्वोक्तसम्बन्धेन प्रमानुमितित्वव्यापकत्वाद्यभावाच्च न तस्योपजीव्यत्वम् । अतस्तद्विरुद्धार्थे मिथ्यात्वबोधकानुमानागमानां न तत्र प्रामाण्याभाव इति भावः इत्याहुः ।
वस्तुतो मात्रपदमुक्ततादात्म्यमात्रव्यवच्छेदकम् । यदंशे प्रमाणभूतयज्ज्ञानं प्रति यस्य ज्ञानस्य यद्विषयकत्वेन कारणता तदर्थस्य तदसत्त्वापादकाभाव इति नियमः । भ्रमस्य च धर्मिज्ञानविधयेदंविषयकज्ञानत्वेन प्रतियोगिज्ञानमुद्रया सर्पज्ञानत्वेनेदंपदार्थे सर्पभेदज्ञानं प्रति कारणत्वम् । तादृशसर्पभेदः सामान्यतो न सर्पपदार्थस्य इदंपदार्थस्य चासत्त्वापादकः । किन्तु तदुभयतादात्म्यस्यैव । तद्विषयकज्ञानत्वेन तु न कारणत्वमिति भावः । मिथ्यात्वानुमानं प्रत्यपि घटादिरूपजगद्विषयकपरामर्शत्वेनैव कारणत्वम् । न तु तदंशे पारमार्थिकत्वरूपसत्त्वविषयकत्वेन । अतो जगति पारमार्थिकत्वरूपसत्त्वसंसर्गसत्त्वापादनेऽपि न क्षतिः प्रकृतनियमस्येत्याह ।। तर्हीति ।। इति व्याख्यानं रमणीयम् ।
यद्यपि घटत्वादिधर्मविशिष्टमुपजीव्यानुमानागमप्रवृत्तावप्युपजीव्यविरोधो दुर्वारः । घटादीनां मिथ्यात्वे घटत्वादिधर्मवैशिष्ट्याद्ययोगात् । तथापि शशविषाणादिपक्षकमिथ्या-त्वानुमितेर्यथा शशविषाणादिस्वरूपमात्रज्ञानादुत्पत्तिः । प्रामाण्यं च धर्मधर्मिसम्बन्धेषु सर्वत्र मिथ्यात्वावगाहित्वात् । तद्वत् प्रकृतेऽपि घटत्वादीनां सद्धर्मत्वानङ्गीकारादित्यभिप्रायः ।