न चात्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम्

आत्मनो दृश्यत्वाभावे बाधकोक्तिः

श्रीमज्जयतीर्थटीका

विपक्षे बाधकञ्चाह–

मूलं

न चात्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम्

तज्ज्ञानत्वेनाभिमतस्येति शेषः । भवतीति वक्ष्यमाणेन सम्बन्धः । प्रकृतत्वात् दृश्यत्वमिति वक्तव्ये दृक्कर्मत्वमिति दृश्यत्वव्याख्यानमतिप्रसङ्गस्फुटीकरणार्थम् ।

तदयमर्थः । यद्यात्मनो दृश्यत्वं न स्यात् तदा वेदान्तवाक्यजनितविज्ञानस्यात्मज्ञानत्वं न स्यात् । दृशिं प्रति कर्मत्वं हि दृश्यत्वम् । अत्मकर्मकं ज्ञानमेवात्मज्ञानम् । तथा च आत्मनो दृश्यत्वाभावे कथमात्मज्ञानं सम्भवेत् । अकर्मणः कर्मतया ज्ञानव्यावर्तकत्वे व्याघातात् ।

द्वैतद्युमणि:

।। दृशं प्रति कर्मत्वं हि दृश्यत्वमिति ।। यत्प्रत्ययस्य कर्मत्वार्थकत्वादिति भावः ।। आत्मकर्मकमेव चेति ।। प्रकारान्तराणां निरसिष्यमाणत्वादिति भावः ।। आत्मज्ञानमिति ।। मुक्तिहेतुत्वेन त्वदभिमतमात्मज्ञानमित्यर्थः ।