विषयाऽश्रयं चेदज्ञानं ..
अज्ञानस्य विषयाश्रितत्वाभावसाधकानुमानस्य सत्प्रतिपक्षत्वशङ्का तन्निरासश्च
श्रीमज्जयतीर्थटीका
ननु यथा तमो विषयसम्बद्धमेव सत् ज्ञानप्रतिबन्धकमुपलभ्यते । प्रकाश-स्थेनान्धकारस्थितघटस्यानुपलभ्यमानत्वात् । अन्धकारस्थेनापि प्रकाशस्थितस्योपलब्धेः । तथा ज्ञानप्रतिबन्धकेन अज्ञानेनापि विषयाश्रितेन भवितुं युक्तमिति विषयाश्रितत्वेप्यज्ञानस्य प्रमाणमस्ति ।
न चैवमचेतनाश्रयाज्ञानमङ्गीकुर्वतो मायावादिनोऽपसिद्धान्तापत्तिः । शुक्त्याद्यवच्छिन्न-चैतन्याऽश्रयतोररीकरणात् ।
अवश्यञ्चैतदेवम् । शुक्त्याद्यवच्छिन्नचैतन्याश्रयं खल्वज्ञानं तद्रूपमाच्छाद्य रजतादि-रूपान्तरोपादानं भवितुं युक्तम् ।
एवं तर्हि ज्ञानस्यापि प्रकाशवद्विषयसन्निकर्षेणैवाज्ञाननिवर्तकत्वप्रसङ्ग इति चेत् । नेदमनिष्टम् । प्रकाशस्वभावं सावयवमन्तःकरणमदृष्टेन्द्रियादिसहकृतं ध्रुवादिविषयपर्यन्तं दीर्घप्रभाकारेण परिणमत इत्यङ्गीकारात् । अत एव न ह्यज्ञानस्य घटाश्रयत्वमिति दृष्टान्तोपि प्रत्यूढः । घटाज्ञानस्यापि तदाऽश्रयत्वप्रसङ्गश्चेति ।
तदिदमसत् । अनुमानस्य तर्कपराहतत्वात् । तथा हि, यदेतद्धटे पाषाणत्वाद्यारोप-निमित्तमज्ञानं तद्घटयाथात्म्यज्ञानेन निवर्तत न वा । नेति पक्षे भ्रान्तेरनुच्छेदप्रसङ्गः । प्रथमपक्षेऽतिप्रसङ्गमाह–
मूलं
विषयाऽश्रयं चेदज्ञानं निवर्तते तर्ह्ये केन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् ।
यद्यज्ञानं घटादिविषयाश्रयं तद्याथात्म्यज्ञानेन निवर्तत इत्यङ्गीक्रियते तर्ह्येकस्मिन्घटे बहूनां पाषाणत्वादिना विप्रतिपन्नानामेकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् । तज्ज्ञानेनाविद्याया निवृत्तत्वात् । इन्द्रियसन्निकर्षादिसामग्रीसद्भावाच्च । न ह्यालोकेन तमसि निवृत्ते समनस्केन्द्रियसन्निकृष्टोऽपि घटः केनचिद्दृश्यते केनचिन्नेति युज्यते ।
अज्ञानबहुत्वान्नैवमिति चेत् तर्ह्येकस्मिन्नज्ञाने निवृत्तेप्यज्ञानान्तरसद्भावान्न केनापि घटो विज्ञायेत । प्रतिपुरुषनियतानि तानीति चेन्न । अदृष्टकल्पनाप्रसङ्गात् । अज्ञानस्य विषयाश्रयत्वादेवं कल्पनेऽन्योन्याश्रयता स्यात् । विषयाच्छादनं तु नयनपटलादिवत् प्रतिपुरुषमाश्रितैरेवाज्ञानैर्युक्तम् । आरोप्यासत्त्वस्य प्रतिपादितत्वात् न तदुपादानापेक्षास्ति । तदेवं न ज्ञातव्यपरब्रह्माश्रयमज्ञानं युक्तमिति नात्माऽश्रयाज्ञाननिवर्तकत्वेन वेदान्तवाक्य-जनितविज्ञानस्यात्मज्ञानत्वसिद्धिः ।
द्वैतद्युमणि:
।। उररीकरणादिति ।। तद्विषयताऽपि तादात्म्यरूपा शुक्त्यवच्छिन्न-चैतन्यस्यैव । शुक्तित्वविशिष्टस्य तन्निरूपिताव्याप्यवृत्तितानिर्वाहिकावच्छेदकतैवेति ज्ञेयम् । ननु ‘पुरोवर्तिनं तत्वतो न जानामि’ इति प्रत्ययेन जीवचैतन्यस्यैवाज्ञानाश्रयत्वावगाहनात् कथं शुक्त्यवच्छिन्नचिदाश्रितत्वमित्याशङ्क्य तत्प्रतीतौ जीवनिष्ठपरमतसिद्धज्ञानप्रागभाव-स्थानाभिषिक्ताज्ञानावगाहित्वेऽपि शुक्त्याद्यवच्छिन्नचैतन्ये रजतादिरूपकार्योत्पत्त्यनुरोधेन तदुपादानतया तत्राज्ञानकल्पनमावश्यकमित्याह ।। अवश्यमिति ।। आच्छाद्येति ।। दोषसाहित्येनाच्छाद्येत्यर्थः । दोषाश्च क्वचित्पुरुषनिष्ठा रागादयो विषयनिष्ठसादृश्यादयश्च ।। एवं तर्हीति ।। अज्ञानान्धकारयोः साम्यमादृत्य विषयसम्बद्धस्यैवाज्ञानस्यावरकत्वे ।। प्रकाशस्वभावमिति ।। वृत्तेरज्ञाननिवर्तकत्वसामर्थ्यबोधनायेदम् । सावयवमिति परिणाम-विशेषसम्भवोपपादनाय ।
तथा च देहस्थान्तःकरणभागोहङ्काराख्यः कर्तेत्युच्यते । तत्प्रतिबिम्बितं तदवच्छिन्नं वा जीवचैतन्यं प्रमातृ । देहविषयमध्यभागस्थपरिणामो वृत्तिर्दण्डाकारा ज्ञानरूपक्रिया । तत्प्रति-बिम्बितं तदवच्छिन्नं वा चैतन्यं प्रमाणम् । विषयव्यापकस्तद्भागो विषयस्य ज्ञानकर्मत्व-सम्पादकमभिव्यक्तियोग्यत्वमित्युच्यते । तत्प्रतिबिम्बितं तदवच्छिन्नं वा चैतन्यं प्रमितिः । प्रमेयं त्वज्ञातं ब्रह्मचैतन्यं विषयगतम् । तदेव ज्ञातं सत्फलम् । फलं नाम भग्नावरणा चित् तत्सम्बन्धश्च ।
मतान्तरे तु विषयाकारवृत्तिप्रतिबिम्बितमधिष्ठानचैतन्यमनधिष्ठानभूतसर्वगतजीवचैतन्यं वा ज्ञानम् । तत्तादात्म्यं घटे तद्विषयतारूपम् । अथ वा वृत्तिसम्बन्धेन भग्नावरणाधिष्ठानचिदेव ज्ञानम् । तत्तादात्म्यं विषये विद्यमानं तद्विषयत्वरूपम् । प्रथमकल्पे आध्यासिकसम्बन्ध-स्याधिष्ठानप्रतियोगिकस्याध्यस्तनिष्ठस्य विषयप्रकाशाप्रयोजकतयाऽनुपयुक्तता स्यात् । अन्तःकरणपरिणामभूतवृत्त्यवच्छिन्नचैतन्यतादात्म्यस्यैव वृत्तिप्रतिबिम्बितचैतन्य१तादात्म्य-स्यैवोत्पत्तिसम्भवेन विषयापरोक्षसम्भवात् । तथा चाध्यस्तत्वं विनाऽपि दृश्यत्वोपपत्ता-वनुमानमप्रयोजकं स्यादिति द्वितीयकल्पादरः । ‘तमेव भान्तमनुभाति सर्वम्’ इति श्रुत्यानुकूल्यात् । तत्राधिष्ठानभूतस्वप्रकाशचैतन्यतादात्म्यरूपानुसरणस्यैव विषयप्रकाश-हेतुत्वोक्तेः परम्परया हेतुत्वस्यागतिकागतित्वात् वृत्त्यवच्छिन्नचित्तादात्म्यविशिष्टविषया-धिष्ठानचैतन्यमेव फलमित्युच्यते । वृत्त्यवच्छिन्नचैतन्यतादात्म्येन भग्नावरणा चित् ज्ञान-मित्युच्यत इत्यपि केचित् ।
वृत्तौ ज्ञायतेऽनयेति करणव्युत्पत्त्या ज्ञानपदं प्रवर्तते । वृत्तीनां तु जडेषु आकाराख्य-विषयता । न तु तादात्म्यरूपा । सा च चैतन्य एव । पूर्णानन्दावरकाज्ञानाभिभावकवृत्तेः पूर्वानन्दे तादात्म्यरूपविषयतायाः क्लृप्तत्वात् । जडेष्वाकाराख्यविषयतानङ्गीकारे रूपाद्याकार- वृत्तिसंश्लेषस्य रसादावपि सत्त्वात्तद्भानापत्तेः तादृशाकाराख्यविषयता अङ्गीकरणीया । तन्मात्राङ्गीकारे परोक्षवृत्त्याऽपि रूपादिभानापत्तेः संश्लेषाङ्गीकारोऽपि । अत्र जीवचैतन्यं सर्वतादात्म्यापन्नत्वेन सर्वगता याऽविद्या २तत्प्रतिबिम्बरूपं भूतं तदुपहितरूपं वा । उभयथाप्यविद्याकृतपरिच्छेदराहित्यात्सर्वगतम् ।
तत्रापि जीवो जगदुपादानमनुपादानं चेति पक्षद्वयम् । तत्र जीवस्य जगदुपादानत्वपक्षे घटादिविषयैः सह तत्प्रकाशकजीवचैतन्यस्य तादात्म्याख्योपरागस्य सर्वदा सत्त्वात्सर्वदा तद्भानवारणाय घटाद्यवच्छेदेनावृतत्वं मनआद्यवच्छेदेनानावृतत्वम् । अत एव मनस्तद्गत-सुखादेः स्वसत्ताकाले नियमेन भानं मनःपरिणामभूतधर्मादेर्मनोवच्छिन्नब्रह्मचैतन्यादेः आवृतत्वं स्वीक्रियते । एतन्मते आवरणभङ्गार्थमेव वृत्तिः । जीवस्य जगदनुपादानत्वे स्वप्रतिबिम्बाश्रयाविद्यासम्बन्धित्वरूपसम्बन्धस्य सर्वत्र सर्वदा सत्त्वात्सर्वदा भानापत्तेर्वारणाय तत्सम्बन्धस्य भासकत्वाप्रयोजकत्वात् घटादिभानार्थमसङ्गस्य तस्योपरागार्था वृत्तिः । एतन्मते स्वप्रतिबिम्बाधारवृत्तिविषयत्वमेव घटादौ भासकम् । अन्तःकरणसुखदुःखादीनां स्वच्छत्वेन तत्र जीवचैतन्यस्य प्रतिबिम्बनात् स्वप्रतिबिम्बाधारत्वमेव मुख्यं भासकम् । १सर्वदाऽस्तीति सर्वदा तद्भानम् । मनस्त्वसुखत्वादीनां चित्प्रतिबि(म्बेऽ)म्बानौपयिकं स्वच्छत्वं स्वीक्रियते । सर्वदा तद्भानस्यानुभवसिद्धत्वात् । स्वप्रतिबिम्बाधारत्ववत्तदाश्रय-तादात्म्यादेरपि भासकत्वाभ्युपगमाद्वा मनस्त्वादीनां भानोपपत्तिः । न चैवं मनआदि-तादात्म्यवद्धर्मब्रह्मादीनां भानापत्तिः । तेषामावृतत्वाभ्युपगमात् । ब्रह्म न जानामीत्यनु-भवबलेन पक्षद्वयेऽपि तत्रावरणस्यावश्यकत्वात् । एवं च घटादिबहिर्विषये उपरागार्था । ब्रह्मणि त्वावरणभङ्गार्था वृत्तिः । एतन्मते अधिष्ठानभूतब्रह्मचैतन्ये अज्ञानरूपावरणस्य घटाद्यवच्छेदेनानङ्गीकारे प्रामाण्यशरीरनिविष्टाज्ञातज्ञापकत्वं चक्षुरादीनां न स्यात् । तन्निवृत्त्यनङ्गीकरे आव्रियमाणत्वेन विषयप्रकाशानुपपत्तिः । अत उपरागपक्षेप्यावरणभङ्ग आवश्यकः । न च ब्रह्मावरणाज्ञानभङ्गे तदानीं मोक्षप्रसङ्गः । विषयचैतन्यसम्बन्धस्य तदानीमज्ञानविषयतानवच्छेदकत्वाङ्गीकारेणैव तदुपपत्तेः । धर्मादौ तु गुरुत्वादाविवा-परोक्षाख्यवृत्तिनिरूपिताकाराख्यविषयताया अभावान्न तत्रावरणनिवृत्तिः । अतो न तद्भानम् । किन्तु परोक्षवृत्त्या सत्त्वावरणाज्ञाननिवृत्तिमात्रेण तत्रास्तीति व्यवहारः । ब्रह्मणस्तु ‘यत्साक्षादपरोक्षाद्ब्रह्म’ इति श्रुतेस्तस्यापरोक्ष२स्वभावात्तद्विषयिणी शब्दादि-जन्यापि वृत्तिरपरोक्षरूपैवेति तया तत्रावरणभङ्गः । मनोवच्छिन्नचैतन्यस्य जीवत्वे स्वत एव सम्बन्धशून्यत्वात् घटाद्यधिष्ठानब्रह्मचैतन्यतादात्म्याभिव्यक्तत्वसिद्धये वृत्त्यपेक्षा । मनसो हि वृत्त्यात्मना विषयदेशप्राप्तौ तद्देशावच्छिन्नचैतन्यस्यापि मनोवच्छेदप्राप्त्या मनोवच्छेदा-नवच्छेदप्रयुक्तभेदस्यापगमात् । न च रूपादिभानवेलायां रसादेरपि भानं स्यात् । उक्तरीत्या तदधिष्ठानचैतन्यस्याप्यभेदाभिव्यक्तेरिति वाच्यम् । रसे वृत्तिनिरूपिताकाराख्यविषयताया अनङ्गीकारात् । तस्या अपि भासकत्वाभ्युपगमेनोक्तानुपपत्तिविरहादिति तन्मतप्रकारोऽनु-सन्धेयः ।
एतन्मतेऽपि जीवचैतन्यस्य वृत्त्यादिद्वारैकलोलीभावापन्नतया विषयोपरागार्थमुक्तरीत्या ब्रह्मण्यावरणभङ्गार्थं च वृत्त्यपेक्षा । अत एव विषयसम्बद्धतया ज्ञानस्याज्ञाननिवर्तकत्वप्रसङ्गे कृते नेदमनिष्टमिति इष्टापत्तिमभिधाय तदुपपादनाय ‘परिणाम्याज्ञानं निवर्तयतीत्यङ्गीकारात्’ इति वक्तव्ये परिणमत इत्यंशपर्यन्तमेव परमतोपन्यासः कृतः । अन्यथा सर्वमतेऽज्ञान-निवृत्तिमात्रफलकत्वस्य वृत्तेः प्राप्त्योपरागपक्षास्फोरणप्रसङ्गात् । न चैवमुत्तरमूलोक्त-दूषणानामुपरागपक्षेऽप्रसरात्तदवतारिकाग्रन्थे तदनिरसनीयमतान्तरसङ्ग्रहोऽकिञ्चित्कर इति वाच्यम् । तन्मूलपरमतात्पर्यविषयीभूतादृष्टकल्पनादिरूपदोषस्य तत्पक्षेऽपि प्रसरेण परस्य सर्वांशेऽप्यप्रामाणिकवादित्वस्य स्फोरणाय मतांन्तरसूचनस्योचितत्वात् । अत एव १ज्ञानस्य विषयीभूतघटावच्छिन्नचिदाश्रितत्वव्यवस्थापनादेव ।। दृष्टान्तोपीति ।। ब्रह्मज्ञानं न स्वविषयाश्रितमज्ञानत्वाद्धटाज्ञानवदिति पूर्वाभिप्रेतानुमानदृष्टान्त इत्यर्थः ।। प्रत्यूढ इति ।। साध्यवैकल्यादिति भावः । प्रसङ्गस्तदनुमानानुग्राहकतया अन्यथेत्यनेन पूर्वोक्तस्तर्कः । चशब्दात्प्रत्यूढ इत्यनुकृष्यते । इष्टापादनदोषेणेति भावः ।
।। अनुमानस्येति ।। घटयाथात्म्यज्ञानविरोध्यज्ञानं प्रकाशसमानदेशं प्रकाशविरोधित्वा-त्तमोवदिति विषयाश्रितत्वव्यवस्थापकानुमानस्येत्यर्थः । इत्थं च पूर्वमूले घटाज्ञानस्य दृष्टान्ततोक्तिर्लोकव्यवहारमनुरुद्ध्य परमताच्छादनेनैवेति नायुक्ततेति ज्ञेयम् । विषयत्वस्य केवलान्वयित्वेनात्मनोऽपि विषयत्वात्सामान्यतस्तन्निराकरणं न घटत इत्यतस्तज्ज्ञानविषयी-भूतघटादिपरत्वमाश्रित्य विवृणोति ।। यदीति ।। घटादीति ।। सर्वत्र तत्तदवच्छिन्नचिदेव ग्राह्या । घटादीत्युक्तिस्तु ‘अज्ञातो घटः’ इति व्यवहारानुसारेण । परमते ‘अज्ञातो घटः’ इति वाक्ये अज्ञात इत्यस्याज्ञानविषयतावच्छेदक इति वा तदीयाकाराख्यविषयतावानिति वा अर्थः । चैतन्ये तु तादात्म्यरूपैव विषयतेति ध्येयम् । विप्रतिपन्नानां भ्रान्तानाम् । निर्धारणे षष्ठी । ननु चैत्रेण ज्ञाते घटे मैत्रेणाज्ञातत्वव्यवहारो न भावरूपाज्ञानमवलम्बते । येन चैत्रज्ञानेनाविद्याया नष्टत्वात्कथं मैत्रेणाज्ञातत्वमिति व्यवहारः स्यादिति पर्यनुयोगः स्यात् । किन्तु तत्सम्बन्धिज्ञानविषयत्वाभावम् । अतो नातिप्रसङ्ग इत्यत आह ।। इन्द्रियेति ।। चैत्रमैत्रादीनामेकदैवेन्द्रियसन्निकर्षादिसामग्रीदशायां २तज्ज्ञानविघटनपूर्वकं सर्वेषां भ्रम-स्योत्पन्नत्वे एकयैवाविद्यया सर्वेषां तद्विघटना वाच्या । स चैका यदि चैत्रज्ञानेन निवृत्ता मैत्रस्य तद्विघटने बीजाभावेन तज्ज्ञानोत्पत्तेरावश्यकतया तदाभावविषयकत्वमपि न युज्यत इति भावः ।। न केनापीति ।। एकेन ज्ञातस्येत्यनेन एकज्ञानविषयत्वविशिष्टापराज्ञान-विषयत्वाभाव एवाऽपाद्यः । स च विशिष्टाभाव एकज्ञानविषयत्वरूपविशेषणविशिष्टे अपरा-ज्ञानविषयत्वरूपविशेष्यस्यैवाभावरूपः । तादृशविशेष्यवन्निष्ठश्चैकज्ञानविषयत्वरूपविशेषणा-भाव एव । एवं च विशेषाभावकूटबलात्सामान्याभाव एवाऽपादितो भवतीति भावः । एवं च ‘विषयाश्रितं चेत्’ इत्यनेनैकाज्ञानबह्वज्ञानपक्षयोरुभयोरपि सङ्गृहीतत्वादुक्तरीत्या दूषणस्यापि पक्षद्वयेप्युक्तत्वलाभान्न बह्वज्ञानपक्षदूषणानुक्तिप्रयुक्ता मूलस्य न्यूनतेति ध्येयम् । ।। प्रतिपुरुषनियतानीति ।। तत्तत्पुरुषनिरूपितान्यज्ञानानि तत्तत्पुरुषान्तःकरणवृत्तिभि-र्नाश्यन्तेऽतो नोक्तापत्तिरिति भावः ।। अदृष्टेति ।। तमसो विषयाश्रितत्वेन ज्ञानप्रतिबन्धकत्वं दृष्ट्वा प्रकृते अज्ञानस्य तथाभावं कल्पयतस्तवेत्यादिः । प्रतिपुरुषनियततमसामदर्शनादिति भावः । नन्वज्ञानस्य विषयाऽश्रितत्वं यावता निर्वहति तत्सर्वमन्यथानुपपत्तिसिद्धमेवेत्यत आह ।। अज्ञानस्येति ।। उक्तबाधकपरिहारं विना विषयाश्रितत्वस्यैवासिद्धेरन्योन्याश्रय इति भावः । ननु तमोदृष्टान्तक१पूर्वोक्तानुमानेन ज्ञानस्य विषयाऽश्रितत्वस्यासिद्धत्वाद्बाधकपरिहार उक्तरीत्या क्रियते । पक्षदृष्टान्तयोः साध्यसाधनोभयवत्त्वेन साम्यमात्रमपेक्षितम् । न तु सर्वात्मना । कुत्राप्यसम्भवात् । एवं चोक्तबाधकपरिहारायाज्ञानस्य प्रतिपुरुषनियतत्वाङ्गीकारे न काप्यनुपपत्तिरित्यत आह ।। विषयाच्छादनं त्विति ।। विषयभानप्रतिबन्ध इत्यर्थः ।। युक्तमिति ।। दृष्टान्तदार्ष्टान्तिकयोर्बाधकपरिहारोपयुक्तप्रतिपुरुषसम्बद्धत्वेनाप्यानुगुण्यादिति भावः । तथा च तत्प्रकाशविरोधित्वं तज्ज्ञानविरोधित्वं वा विषयाश्रितत्वेन न व्याप्तम् । पटलादौ व्यभिचारात् । तथा चोक्तहेतुभिः विषयाऽश्रितत्वस्यासिद्धत्वात् प्रत्युत दृष्टानुसारेण पटलाऽदिवत्पुरुषाऽश्रितत्वस्यैव युक्तत्वाद्विषयाश्रितत्वपक्षे उक्तबाधकं सुस्थिरमेवेति भावः । ननु मास्तु तमोदृष्टान्तकानुमानेन विषयाऽश्रितत्वसिद्धिः । शुक्त्यादौ भासमानरजताऽदि-कार्यस्य भावकार्यत्वेनोपादानसापेक्षत्वाद्भिन्नदेशस्थयोरुपादानोपादेयभावायोगात्तत्राज्ञानमवश्यं सिद्ध्यतीत्यत आह ।। आरोप्येति ।। अर्थापत्तिनिरासप्रस्ताव इत्यर्थः । अज्ञानस्य विषयाऽश्रितत्वप्रतिक्षेपं प्रकृतोपयोगपूर्वकमुपसंहरति ।। तदेवमिति ।।
अत्र वदन्ति, प्रतिपुरुषनियतान्यज्ञानानि नानैव । न चैवमदृष्टकल्पनाप्रसङ्गः । एकैक-ज्ञानव्यक्तेरेकैकप्रागभावस्य त्वयाऽभ्युपगतत्वेन मन्मते तत्तद्व्यक्तीनामेव तत्पुरुषनियताज्ञान-रूपत्वाङ्गीकारात् । न चैवमभावानामावरकत्वं कथमिति शङ्क्यम् । भावस्यापि कथमिति पर्यनुयोगस्य साम्यात् । स्वप्रागभावध्वंसस्वध्वंसप्रागभावादिरूपान्धकारादेरावरणत्वदर्शनात् । तस्याभावरूपत्वमते सुतरां तथा । अन्धकारेणेदमावृतमिति १प्रतीतेस्तन्मतेऽप्यावरणत्व-मपरिहार्यम् । न चैवं ‘घटं न जानामि, न साक्षात्करोमि’ इत्यनुभवेनात्मनिष्ठतया प्रतीय-मानानामज्ञानानां कथं विषयाऽवरणत्वमिति वाच्यम् । जीवस्य सर्वगतस्यैव जगदुपादानत्व-पक्षे घटावच्छेदेन स्वनिष्ठाज्ञानस्यैवा२न्तःकरणसामानाधिकरण्यभानसम्भवात् । ‘घटे ममा-ज्ञानम्’ इति घटाद्यवच्छेदेन स्वसम्बन्ध्यज्ञानस्य भानाच्च । जीवस्य जगदनुपादानत्वपक्षेऽपि घटावच्छेदेन चिदाश्रिताज्ञानस्याऽपि ‘एतत्तत्वं मम न भाति’ ‘एतत्तत्वमहं न जानामि इति प्रतीतिबलात्साक्षिभास्यत्वाङ्गीकारात् । चिदैक्यस्यैव तन्त्रताभ्युपगमेन मनआद्यवच्छेदकृत-भेदस्य तदभानप्रयोजकत्वानङ्गीकारात् । अनुभवानुसारित्वात्कल्पनायाः ।
न चान्यदीयाज्ञानस्याप्यन्यस्य भानापत्तिश्चिदैक्यमात्रस्य तन्त्रत्वे । न चेष्टापत्तिः । ‘चैत्र एतत्तत्वं जानाति न वा’ इत्यादिसंशयानुपत्तेरिति वाच्यम् । तत्तन्मनोवच्छिन्नचिन्नि-रूपितत्वस्याज्ञाननिष्ठस्य तं तं प्रति भाने प्रयोजकत्वाभ्युपगमेनान्यदीयाज्ञानस्यान्यं प्रति भानाऽपादानासम्भवात् । चैत्रीयापेक्षाबुद्धिजन्यद्वित्वस्य घटपटोभयसमवेतस्य मैत्रीयचक्षुः-संयुक्तसमवायाश्रयस्यापि मैत्रप्रत्यक्षाविषयत्ववत् प्रकृते उपपत्तेः ।
न चैवं घटोऽस्तीति परोक्षज्ञानेन घटावरणमज्ञानं निवर्तते न वा । नेति पक्षे घटोऽ-स्तीति व्यवहारानुपपत्तिः । तस्यावृतत्वात् । आद्ये घटो भातीति व्यवहारापत्तिः । घटावरकाज्ञानस्य गतत्वादिति वाच्यम् । यतोऽज्ञाने वैजात्यद्वयम् । एकं प्रमामात्रनाश्यता-वच्छेदकम् । अपरं साक्षात्कारमात्रनाश्यतावच्छेदकम् । प्रथमवैजात्याश्रयनिवृत्तिविशिष्टा चिदस्तित्वं सत्तेत्युच्यते । तत्सम्बन्धात्तादात्म्यरूपाद्धटोस्तीति व्यवहारः । द्वितीय-वैजात्याश्रयनिवृत्तिविशिष्टा चिदस्तित्वभानप्रकाशादिपदैर्व्यवह्रियते । तत्तादात्म्यरूप-सम्बन्धात् ३घटोस्ति भातीत्यादिव्यवहारः ।
न चैवं परोक्षज्ञाननिवर्त्यं घटाज्ञानं कथं भवेत् । परोक्षस्थले वृत्तेर्बहिर्निर्गमनाभावेन तस्याहङ्कारावच्छिन्नचिदाश्रितत्वादज्ञानस्य घटावच्छिन्नचिदाश्रितत्वात् । अन्यथा परोक्ष-भ्रमस्यान्यथाख्यातित्वमनभ्युपगम्यानिर्वचनीयख्यातित्वपक्षे तदवच्छेदेनानिर्वचनीयोत्पत्त्यनु-पपत्तेरिति वाच्यम् । परोक्षवृत्तेः जडनिष्ठाकाराख्यविषयताघटितसम्बन्धेन ‘परोक्षवृत्तीनामपि पर्वतं वह्निमत्त्वेनानुमिनोमि इत्यादीनां पर्वतानुयोगित्ववह्निप्रतियोगित्वविशिष्टसंसर्गावच्छेदेन चिद्विषयकत्वमेव’ इति अनिर्वचनीयवादार्थे ब्रह्मानन्देन व्यवस्थापितत्वेन चिति साक्षान्निष्ठ-विषयतासम्बन्धेन वाऽज्ञानसमानाधिकरणायास्तन्निवर्तकत्वाभ्युपगमात् ।
यद्वा द्विविधं ह्यज्ञानम् । परोक्षनिवर्तकमहङ्कारावच्छिन्नचैतन्यरूपजीवाश्रितमसत्त्वा-पादकाज्ञानमुच्यते । अपरमपरोक्षप्रतीत्या निवर्तमानमभानापादकमसत्त्वापादकं चाज्ञान-मुच्यते । अतो न कोऽपि दोषः ।
एतत्पक्षेऽस्य घटाकारापरोक्षवृत्तिकालेऽपि तं प्रति घटस्याऽवृतत्वप्रसङ्गः । तस्यैवोत्तर-काले तदभाननिर्वाहायाङ्गीकार्यस्याज्ञानस्येदानीमपि सत्त्वात् । एतद्वृत्त्यैव तन्नाशे पुनरुत्तर-काले घटस्याऽवृतत्वायोगः । अत एतद्दोषपरिहाराय स्वप्रागभावरूपस्यैकस्याज्ञानस्य नाशः। तत्समानविषयकाणामज्ञानान्तराणामभिभव एव । अभिभवो नाम घटरूपविषयस्य चिन्निष्ठ-तत्सम्बन्धस्य वा तत्काले तत्पुरुषीयाविद्याविषयतावच्छेदकत्वाभाव इति समाधानम् ।
प्रागभावानङ्गीकारे अज्ञानान्तरस्य क्लृप्ततत्तद्वृत्तिप्रागभावातिरिक्तस्य कल्पनागौरवरूप-बाधकाभावादेकपुरुषीयं सर्वविषयकमज्ञानमेकमेव । तस्य यदाकारा वृत्तिर्जायते तद्विषय-सम्बन्धस्य चिन्निष्ठस्य तत्पुरुषीयाज्ञानविषयतावच्छेदकत्वानङ्गीकारादन्यदीयाज्ञानविषयता-वच्छेदकत्वाङ्गीकाराच्च तत्पुरुषं इति भानमन्यं प्रति अभानमिति व्यवस्थोपपत्तेः ।
मूलाविद्यापरिणततत्तन्मनोवच्छिन्ना जीवाः । सर्वेषामप्येकैवाविद्या आवरणमिति पक्षे वृत्तिरविद्याभिभाविका । न तु नाशिका । एकस्य घटज्ञाने सर्वेषां मोक्षप्रसङ्गात् । अभिभावकत्वं च स्वकाले तद्विषयचित्सम्बन्धस्य नाज्ञानविषयतानवच्छेदकत्वापादकत्वम् । तत्पुरुषस्य वृत्तिकाले अन्यपुरुषस्यापि भानापत्तेः । न च पुरुषान्तरीयाहङ्कारावच्छिन्नचितो वृत्तिद्वारकोपरागाभावादेवाभानम् । तत्सत्त्वे त्विष्टापत्तिरिति वाच्यम् । एकस्य शुक्ति-सन्निकृष्टेन्द्रियेण भ्रमोऽपरस्य प्रमा च युगपद्भवतो यत्र तत्रान्यदीयेदमाकारवृत्त्या तत्साक्षि-चैतन्यतादात्म्यापन्नेदमधिष्ठानचैतन्यविषयसम्बन्धस्यान्यदीयप्रमानुरोधादज्ञानविषयतानवच्छेदकत्वे अन्यस्य भ्रमानुपपत्तिप्रसङ्गेन तत्रेष्टापत्तेरयोगात् । न हि तत्र शुक्तित्वावच्छिन्नचैतन्यस्य साक्षिचैतन्यतादात्म्याभावादुपराग एव नास्तीति वक्तुं शक्यम् । तथात्वे रूपाद्याकार-चाक्षुषादिकाले रसादेरपि साक्षिचैतन्येन भानवारणायाकाराख्यविषयताया अपि भानप्रयोज-कत्वस्य पूर्वोक्तस्यायुक्ततापत्तेः । तावताप्यन्यदीयप्रमानुरोधाच्छुक्तित्वचित्सम्बन्धावच्छेदेना-ज्ञानाभावेनोपादानानुपपत्त्या भ्रमानुत्पत्तेर्दुर्वारत्वाच्च । तत्राप्युक्तरीत्या साक्षिसम्बन्ध एव नास्तीति वक्तुं शक्यत्वात् । तस्मात्तत्पुरुषीयवृत्त्यनवच्छेदकत्वविशिष्टयदज्ञानविषयतावच्छेद-कत्वं तदभावविशिष्टचित्सम्बन्ध एव विषये तत्पुरुषस्य भानम् । अज्ञानविषयतावच्छेदकत्वं यस्मिन्विषयचैतन्यसम्बन्धे तस्मिन्नेव वृत्त्यवच्छेदकत्वाङ्गीकारात् वृत्तिकाले विशिष्टाभाव-निर्वाहः । सुखादिविषयचैतन्यसम्बन्धे अज्ञानविषयतावच्छेदकत्वरूपविशेष्याभावादेव विशिष्टाभावः । अतः सुखादौ घटादौ चोक्तविशिष्टाभाववच्चैतन्यसम्बन्धवत्त्वरूपमेक-विधमेवापरोक्ष्यम् । प्रवृत्त्यादिकार्यं प्रति तद्विषयकापरोक्षज्ञानस्य जनकतावच्छेदककोटावपि तादृशविशिष्टाभावस्तद्व्यक्तित्वेन निवेश्यः । अतो न गौरवम् । परोक्षवृत्तेरपि चिद्विषयत्वस्य पूर्वमुक्तत्वाद्विषयतासम्बन्धघटितसामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकतादृशवृत्त्यभावविशिष्टं यदज्ञानं तदभाववच्चैतन्यसम्बन्धस्यैवास्तित्वादिरूपताङ्गीकाराद्गुरुत्वादिकमस्तीति व्यवहारः । असत्त्वापादकाज्ञानस्यान्तःकरणावच्छेदेनैव चैतन्याश्रितत्वे स्वोपादानान्तःकरणावच्छिन्नत्व-सम्बन्धावच्छिन्नवृत्त्यभावं निवेश्यैवोक्तरीतिरूह्या । वस्तुतः अन्तःकरणावच्छिन्नचिता सह विषयाधिष्ठानचित एकत्वात् तत्तादात्म्यस्य विषये सत्त्वेन चिद्रूपज्ञानविषयत्वनिर्वाहेण गुरु-त्वादिकं जानामीति व्यवहारः सङ्गच्छते ।
यदि चेदमाकारवृत्तिस्थले शुक्तित्वसम्बन्धावच्छिन्नचैतन्यस्य साक्ष्युपराग एव नास्ती-त्यभ्युपगम्यते तदा पूर्वस्य युगपदुभयोः १भ्रमप्रमोभयस्थले दोषस्याभावादेकाज्ञानपक्षेऽपि यथायथं वृत्तिकालेऽधिष्ठानविषयसम्बन्धस्याज्ञानविषयतानवच्छेदकत्वपक्षो वस्तुतस्त्वि-त्यादिनाऽनिर्वचनीयवादार्थे ब्रह्मानन्देनोक्तः सम्यगेव । अज्ञानैक्यपक्षे उक्तकल्पद्वयं अज्ञानस्य कटवत्सङ्कोच इति प्राचीनैर्व्यवह्रियते । वृत्त्यभावस्थाने वृत्त्यव्यवहितपूर्वकालाभाव- निवेशघटितपूर्वोक्तरीतिर्वा तादृशाव्यवहितपूर्वकाल एव विषयचित्सम्बन्धस्य ज्ञानविषय-तात्वाभावो वाऽङ्गीकार्यः । अयं पक्षो भीरुभटवदपसरणमज्ञानस्येति प्राचीनैर्व्यवह्रियते । एवं च सर्वेष्वपि पक्षेषु ‘एकेन ज्ञातघटस्य’ इत्यादिमूलोक्तदूषणाभावः । अज्ञानस्थानीय-तत्तत्प्रागभावानां त्वयाप्यङ्गीकारात् पक्षान्तरेष्वप्युक्तरीत्या गौरवाद्यभावात्सर्वमिदमयुक्तमेवेति ।
तदेतत्सर्वं ‘अदृष्टकल्पनाप्रसङ्गात्’ इत्यनेनैव निरस्तम् । तथा हि, तत्तज्ज्ञान-प्रागभावानां विषयावरकत्वं नाम तत्तज्ज्ञानप्रतिबन्धकत्वमेव वक्तव्यम् । अन्यस्यासम्भवात् । तच्च अदृष्टचरम् । तत्प्रागभावस्य तदुत्पत्तौ सामग्रीरूपस्य तत्प्रतिबन्धकत्वायोगात् । प्रतिबन्धकनाशोत्तरमेव कार्योत्पत्तेरावश्यकतया तन्नाशोत्तरं जायमानवृत्तेस्तन्निवर्तकत्व-मसङ्गतम् । २नन्वावरकत्वं न प्रतिबन्धकत्वम् । किन्तु तदभावव्याप्यत्वमेव तदिति वाच्यम् । एवमपि वृत्तिरूपप्रतियोगिन एव तन्नाशत्वेन तन्नाशकत्वोक्त्ययोगः । प्रतियोगिनः स्वद्वितीयक्षणे प्रागभावनाशकत्वपक्षस्य भावाभावयोर्युगपदेकत्रावस्थानाङ्गीकारस्य व्याहतत्वेन नाशान्तरकल्पनागौरवेण च हेयत्वात् । तत्तद्वृत्तिप्रागभावानां वृत्त्युत्पत्तेः प्राक् जीवब्रह्मो-पादानादिनिखिलपक्षेप्यावश्यकतया वृत्त्या तन्निवृत्तेः सर्वत्रावश्यकतया जीवस्य जग-दुपादानत्वे घटादीनां जीवं प्रत्यावृतत्वं ब्रह्मोपादानत्वपक्षेऽनावृतत्वमिति त्वद्विभागायोगः । सर्वासामपि वृत्तीनां स्वप्रागभावनाशकत्वेन धारावहनस्थलेऽपि द्वितीयादिवृत्तीनामप्यज्ञात-ज्ञापकत्वानपायेन प्रामाण्यस्य सुस्थिरत्वात् ‘तासामप्रामाण्यं वा अज्ञातकालविशेषाव-गाहितया प्रामाण्यं वा । तावत्कालस्थायिनी एकैव वृत्तिरङ्गीक्रियते । वृत्तिभेदाभावान्न द्वितीयादिवृत्तिप्रमाण्यचिन्ता’ इत्यादीनां त्वत्पूर्वतनवाक्यानां त्वद्वाक्यानां चासङ्ग-तत्वापत्तिश्च । अनुवादस्थलेऽप्युक्तरीत्या अज्ञातज्ञापकत्वप्राप्त्यानुवादकत्वादिव्यववस्था-योगश्च । किञ्च तद्वृत्त्यभावसमकालीनवायुसंयोगादिप्रागभावानामपि विनिगमनाविरहा-दावरकत्वापत्तिः । न चेष्टापत्तिः । तस्य तदाभावव्याप्यत्वरूपत्वमात्रत्वादिति वाच्यम् । तर्हि तदवच्छिन्नचैतन्यस्यापि ज्ञानरूपत्वापरिहारेण वृत्तिष्विव संयोगादिष्वप्यविशेषेण ज्ञानपद-व्यवहारापत्तेः । ज्ञायतेऽनेनेति व्युत्पत्तेस्तत्रापि साम्यात् । एतेन ‘चिन्निष्ठतत्तद्व्यवहारानुकूल- शक्तिविघटकत्वमेवावरकत्वम् । चितः सर्वज्ञप्तिरूपत्वेन सर्वव्यवहारानुकूलशक्तेरावश्यकतया तद्बलात्सर्वव्यवहारापत्तिवारणाय तद्विघटकतया २वारणकल्पनमावश्यकं जीवोपादानत्वपक्षे । ब्रह्मोपादानत्वपक्षे जीवचैतन्यस्य घटादितादात्म्यरूपतद्विषयकज्ञप्तिरूपत्वाभावेन तद्व्यव-हारानुकूलशक्तेरभावेन तद्विघटकत्वाभावेन तत्स्थलीयवृत्तिप्रागभावानां न जीवं प्रत्यावरकत्व-मिति जीवब्रह्मोपादानत्वपक्षयोरावृतत्वानावृतत्वरूपविभागानुपपत्तिरूपो न पूर्वोक्तदोषः’ इति प्रत्युक्तम् । जीवोपादानत्वपक्षेऽपि तत्तद्वृत्तिप्रागभावानामिव तत्तत्संयोगविभागप्रागभावा-नामप्यावरकत्वापत्त्यादिपूर्वोक्तदोषापरिहारात् । न चात्मन्यज्ञानकल्पनापक्षेऽपि वृत्ति-प्रागभावातिरिक्ताज्ञानकल्पने मानाभावेन वृत्तिप्रागभावादेरेव विषयावरकत्वे प्रसक्ते तत्रापि वायुसंयोगाद्यभावमादाय विनिगमकाभावस्तवापि तुल्य इति वाच्यम् । यतो मन्मते घटमहं न जानामीत्यात्मनिष्ठतयाऽनुभूयमानः घटादेर्विशेषरूपेण यज्ज्ञानं तत्प्रागभावादिरेव । प्रतियोग्यनधिकरणे तदभावस्य सर्वसम्मतत्वात् । तस्य विषयावरकत्वादिकमधिकं किमपि न कल्प्यते । वृत्तिरूपकारणाभावादेव प्रवृत्तिव्यवहारादिकार्यानुदयात् । सर्वस्य सामान्यरूपेण साक्षिगोचरत्वेऽपि विशेषरूपेण तदविषयकत्वात्तेन रूपेण व्यवहारे तदाकारवृत्तेः कारणी-भूताया आवश्यकत्वात् । रजतादिभ्रमस्यापि दोषरूपावश्यकप्रतिबन्धकेन १शक्तित्वाग्रहे सति सम्भवात् । त्वया तु तादृशाभावानामावरकत्वमधिकमननुभवसिद्धं विषयावच्छिन्नचिदाश्रित-त्वादिकं कल्पनीयम् । तत्र वृत्तिप्रागभावानां वायुसंयोगादिप्रागभावानां वाऽऽवरकत्वमित्यत्र विनिगमकाभावो दुर्वार एव ।
न च वृत्तीनां तत्समकालिकवायुसंयोगादिव्यक्तीनां वा व्यवहारादिकारणत्वमित्यत्र विनिगमकाभावस्तवापि समान इति वाच्यम् । तवापि मते वृत्तेर्यत्र कार्ये उपयोगस्तत्कार्यं प्रत्येव तत्कालीनवायुसंयोगादिकमादाय विनिगमकाभावस्य सत्त्वेन तादृशदोषस्योभय-समत्वात् । वृत्तेः पूर्वं परतोपि वा विद्यमानसंयोगादीनां वृत्तिकार्यकारित्वे वृत्तेः पूर्वं परतो वा वृत्तिकार्यं स्यात् । नियमेन तदन्यूनानधिककालिकसंयोगादीनां सर्वत्र सत्त्वे माना-भावेनानुभवसिद्धा वृत्तिरेव कार्याविशेषं प्रति कारणमास्थीयते चेत्समं ममापि । वृत्तेरिव संयोगादेर्विषयविषयिभावसम्बन्धस्य घटादिना सहाभावेन घटादिव्यवहारकारणत्वस्य दुष्कल्प्यत्वात् । घटज्ञानान्मम प्रवृत्त्यादिर्जात इति सर्वानुभवस्यैव वृत्तिकारणत्वे सत्त्वाच्च । न च वृत्तिप्रागभावादीनां घटादिविषयकव्यवहाराद्यभावव्याप्यत्वमावरकत्वम् । नातोऽन्य-दधिकम् । तच्च सर्वसिद्धमिति किंकृतं गौरवं विनिगमकाभावो वा मन्मत इति वाच्यम् । तर्हि तस्य भावरूपाज्ञानत्वावरकत्वादिकं साङ्केतिकं स्यात् । तच्च नास्माकमनिष्टम् । परन्तु तस्य न जानाम्यहमित्यन्तःकरणावच्छिन्नचिन्निष्ठतया प्रतीयमानस्य विषयावच्छिन्नचिन्निष्ठत्वस्य तत्प्रकारोपपादकपरम्परायाश्च कल्पनमप्रामाणिकपरम्परारूपं भवतोऽतिरिच्यते ।
येषां मते शुक्तितत्वं न जानामीति २प्रत्यक्षासिद्धमज्ञानमतिरिक्तम् । विषयावरक-मतिरिक्तमावरणविक्षेपरूपकार्यलिङ्गकमिति ते आवश्यकवृत्त्यभावादिनैव शुक्तित्वाभान-व्यवहारासद्रजतभानसम्भवेनैतदतिरिक्तावरणविक्षेपयोरप्रामाणिकतया तल्लिङ्गकत्वाभावेना-प्रामाणिकत्वादज्ञानद्वयकल्पने गौरवाच्च परास्ताः ।
एतेन वृत्त्यभावविशिष्टं यदज्ञानविषयतावच्छेदकत्वं तदभाववच्चित्सम्बन्ध एवास्तित्व-भानादिः । वृत्त्यभावकाले अज्ञानस्य तद्विषयकव्यवहाराभावव्याप्यत्वमेवाज्ञानस्य ज्ञान-प्रतिबन्धकत्वमित्यपि परास्तम् । वृत्तिकाले तस्य भानव्यवहारादिकं वर्तते । नो चेन्नास्तीति तस्यानन्यथासिद्धान्वयव्यतिरेकसत्त्वे तद्विषयकत्वेनैव घटादौ भानव्यवहारस्य जानामीति प्रत्ययविषयताया वृत्तेरेव सम्भवे तद्व्यतिरिक्ताप्रामाणिकोक्तविशिष्टाभावघटितभानपदार्थादे-स्तादृशसम्बन्धप्रतियोगिचितो ज्ञानत्वकल्पनायाश्चाप्रामाणिकत्वात् । न च सुखदुःख-वृत्त्यादिज्ञानविषयकवृत्तेरनङ्गीकारेण चित एव तद्विषयकज्ञानस्वरूपत्वावश्यकतया तत्सम्बन्धस्यैव भानपदार्थत्वावश्यकतयोक्तविशिष्टाभावं निवेश्य तस्यानुगमः क्रियत इति वाच्यम् । अनुभवानुसारेणैव सुखाद्यवच्छेदेन जीवचैतन्यस्यानावृतत्वं धर्माद्यवच्छेदेना-वृतत्वमिति कल्पनावत् प्रत्यक्षानुमित्यादिवृत्तीनामप्यमुख्यतया ज्ञानपदव्यवहृतिगोचर-ताङ्गीकारवत् वृत्तिचितोरुभयोरपि बाह्याभ्यन्तरविषयभेदेन मुख्यतो ज्ञानरूपत्वसम्भवे विशिष्टाभावघटितस्य ज्ञानपदार्थत्वकल्पने बीजाभावात् उभयत्र ज्ञानत्वजातिस्वीकारौ-चित्यात् । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति श्रुतिस्तु सूर्यादीनां परमात्मप्रकाशाधीनप्रकाशाश्रयत्वपरतया तद्भाष्यादौ व्याख्यातेति न तदनुरोधेन घटादि-विषयकसाक्षात्कारादीनामात्मस्वरूपतासिद्धिः ।
वृत्त्यव्यवहितपूर्वकाल एव विषयचित्सम्बन्धस्याज्ञानविषयतानवच्छेदकत्वे तत्काल एव विषयभानस्यावश्यकतया प्रवृत्त्यादिकार्यनिर्वाहे वृत्त्यभ्युपगमस्यैव निर्बीजत्वापातेन यत्काले विषयप्रकाशो जायते तत्कालावच्छिन्नचित एव ज्ञानत्वोररीकरणापातात् । एवं वृत्तिकाले विषयचित्सम्बन्धस्याज्ञानविषयतावच्छेदकत्वाभावाङ्गीकारे तादृशावच्छेदकत्वस्याव्याप्यवृत्तिता- निर्वाहाय कालविशेषेषु तत्तदभावावच्छेदकत्वादिस्वीकारे महागौरवमित्येषा दिक् ।
किं चैकत्र भावाभावयोः सत्त्वनिर्वाहकविलक्षणावच्छेदकत्वमेवाप्रामाणिकम् । कुतस्तद-वष्टम्भेनोक्तपूर्वोपदर्शितरीतीनामवकाशः । ननु कुतोऽप्रामाणिकत्वम् । ‘मूले वृक्षः कपि-संयोगी नाग्रे’ इत्यबाधितप्रत्यक्षेण मूलाग्रयोः संयोगतदभावावच्छेदकत्वविषयीकरणादिति चेन्न । ‘वृक्षस्य मूले संयोगो नाग्रे’ इति प्रतीत्यन्तरानुरोधेन मूलाग्रनिष्ठसंयोग-तदभावविषयत्वात्तत्प्रतीतेः । वृक्षादिरूपधर्मिण्येव संयोगतदभावभानाङ्गीकारे ग्रामे चैत्र-बुभुत्सया अस्मिन् ग्रामे चैत्रोऽस्ति न वेति पृष्टे तद्ग्रामे चैत्रस्य सत्त्वे ‘तद्ग्रामे चैत्रोऽस्तीति वादिनो यथार्थवक्तृत्वं नास्ति’ इति वादिनोऽनृतवक्तृत्वं सर्वसम्मतं न स्यात् । गृहान्तरा-वच्छेदेन चैत्राभावस्यैव त्वन्मते सत्त्वेन तस्यानृतवादित्वस्योपपादयितुमशक्यत्वात् । न च नञ्समभिव्याहारस्थलेऽनवच्छिन्नविशेषणतैव संसर्गतया भासते । तादृशविशेषणतासंसर्गेण चैत्राभावस्य चैत्रवति ग्रामे असत्त्वात्तद्वाक्यस्याप्रामाण्यं युक्तमिति वाच्यम् । अग्रे वृक्षो न संयोगीत्यत्रानुपपत्तिप्रसङ्गात् । अनवच्छिन्नविशेषणतायां अग्रावच्छिन्नत्वस्यायोगात् । न चावच्छेदकबोधकासमभिव्याहृतनञ्समभिव्याहारस्थले एवानवच्छिन्नविशेषणतासंसर्गभान-नियम इति वाच्यम् । व्युत्पत्तिद्वयकल्पने गौरवात् । अवच्छेदकताख्यवस्तुन एवालीक-तावादिनं प्रत्युक्तरीत्या व्यवस्थाकथनस्यायोगाच्च । ‘अत्र वृक्षे कपिसंयोगाभावो नास्ति । संयोग एव वर्तते’ इति विश्वजनीनव्यवहारस्याप्रामाण्यापत्तिः । १अवच्छेदकपदासमभि-व्याहृतत्वेनोक्तनञा संयोगाभावाभावात्मकसंयोगस्यानवच्छिन्नसम्बन्धेनैव भानापत्त्या तस्य त्वन्मते बाधितत्वात् । न च तादृशवाक्यस्याप्रामाण्यमिष्टमेवेति वाच्यम् । लोकानां तथा अनुभवाभावेन त्वदभ्युपगममात्रस्याप्रयोजकत्वात् । न च मूले वृक्षः संयोगी नाग्र इति वाक्येन वृक्षे संयोगतदभावावेव बोध्येते तदभिलाप्यप्रतीतेस्तु मूलाग्रनिष्ठसंयोगतदभाव-विषयकत्वमित्ययुक्तम् । शब्दस्य तादृशार्थे पारिभाषिकत्वापत्तेरिति वाच्यम् । ‘द्रव्ये संयोगाभावो द्रव्यत्वसमानाधिकरणो गुणे संयोगाभावो न द्रव्यत्वसमानाधिकरणः’ इति वाक्यस्य संयोगाभावनिष्ठं द्रव्यत्वसामानाधिकरण्यं द्रव्यनिरूपितं न गुणनिरूपितमित्यर्थे ‘द्रव्ये संयोगाभावः प्रतियोगिसमनाधिकरणो गुणे संयोगाभावः प्रतियोग्यसमानाधिकरणः’ इति वाक्यस्य संयोगाभावनिष्ठं संयोगसामानाधिकरण्यं द्रव्यनिरूपितं न गुणनिरूपित-मित्यर्थे, शशशृृङ्गं नास्तीत्यादिवाक्यानां शशे शृृङ्गाभाव इत्याद्यर्थे, प्रकृतवाक्यस्यैव भेदबोधसमर्थस्यात्यन्ताभावरूपार्थे पारिभाषिकत्वस्यैव परैरभ्युपगतत्वेन मयापि तथाभ्युपगमे बाधकाभावात् । भावाभावयोः सामानाधिकरण्यस्य तन्निर्वाहकावच्छेदकान्तरादिकल्पनात् उक्तरीत्यनुसरणस्यैव युक्तत्वात् ।
वस्तुतो मूले वृक्षः कपिसंयोगीति वाक्ये सप्तम्यर्थमूलनिष्ठत्वं संयोग एवान्वेति । एवं नाग्र इत्यत्रापि सप्तम्यर्थो भाव एवान्वेति । तथा च मूलनिष्ठसंयोगसम्बन्धी वृक्षोऽग्र-निष्ठतदभावसम्बन्धी चेति बोधः । सम्बन्धश्च तद्धटितपरम्परैव । तथा च नोक्तवाक्यस्य पारिभाषिकताप्रसक्तिः ।
न च संयोगस्य मूलनिष्ठत्वे वृक्षस्य तदाश्रयत्वानुपपत्त्या वृक्षः संयोगीति प्रतीति-व्यवहारयोरप्रामाण्यापत्तिः । एवमग्रस्यैव संयोगाभावाश्रयत्वे वृक्षस्य तदनाश्रयत्वेन संयोग-तदभाववद्विलक्षणत्वेन वृक्षस्यानिर्वचनीयता च स्यात् । यदि च वेदान्तनये अंशांशिनोर-भेदात् मूलस्य कपिसंयोगाश्रयत्वे तदभिन्नवृक्षस्यापि संयोगाश्रयत्वं ब्रूषे तर्ह्यग्रस्य संयोगा-भावाश्रयत्वे तदभिन्नवृक्षस्य संयोगाभावाश्रयत्वस्यापि प्राप्त्यैकस्मिन् भावाभावोभयसत्ता-निर्वाहायावच्छेदकभेदाश्रयणं युक्तमेवेति वाच्यम् । वृक्षो न संयोगीति वृक्षे न कपिसंयोग इति प्रमायास्त्वन्मतेऽपि विरहेण वृक्षस्याग्राभिन्नत्वेऽपि संयोगाभावाधिकरणत्वानङ्गीकारात् वृक्षः संयोगीति प्रमायाः सर्वसिद्धत्वेन संयोगाधिकरणत्वाभ्युपगमात् ।
न हि तदाश्रयाभेदमात्रं तदधिकरणतायां प्रयोजकम् । किन्तु तेन सह निर्विशेषा-त्यन्ताभेदमात्रम् । मूलाग्रादीनां वृक्षेण सह भेदाभेदस्यैव सत्त्वात् अग्रस्य वृक्षाभेदसत्त्वेऽपि न तन्निष्ठसंयोगाभाववत्त्वम् । तदभेदमात्रस्य तन्निष्ठधर्मवत्तायां नियामकत्वे परेषामपि व्यवहारे भट्टमतमनुसरतां मूलाग्राद्यभेदस्य भेदसहितस्य वृक्षे अङ्गीकृतत्वेन वृक्षरूपावयविनोऽप्यग्रत्व-मूलत्वाधिकरणत्वप्राप्त्या वृक्षो मूलमग्रं चेति प्रतीत्यापत्तिः । एवं दण्डविशिष्टचैत्रयोर्भेदा-भेदेऽपि दण्डरूपविशेषणनाशाद्दण्डविशिष्ट१नाशोत्पत्तिव्यवहारवत् चैत्रस्यापि नाश-व्यवहारापत्तिः । ‘सत्त्वोपहितब्रह्मणः शुद्धेन सह तादात्म्यात् सत्त्वादिधर्माणां शुद्धे-प्यङ्गीकारः । तन्निष्ठमिथ्यात्वानित्यत्वादिधर्माणां तु नाङ्गीकारः । तेषां ब्रह्मणि प्रतीति-व्यवहारयोरभावात्’ इति परैर्बहुशः औतचन्द्रिकादावुपपादयद्भिरभेदमात्रं अप्रयोजकीकृत्य प्रमाणमात्रस्य शरणीकृतत्वात् । अत्रापि तथैवोपपत्तिः ।
नैयायिकं प्रत्युक्तरीत्योपपादनासम्भवेऽपि अन्यदेव वक्तव्यम् । तथा हि, मूले वृक्षः कपिसंयोगीति प्रतीत्यनुसारेण मूलावच्छेदेन वृक्षवृत्तिसंयोगाङ्गीकारे वृक्षस्य मूले संयोग इति प्रतीत्यनुरोधान्मूले संयोगान्तरमभ्युपेयम् । तस्यैव मूलनिष्ठत्वे १मूले मूले कपिसंयोग इति प्रतीत्यापत्तिः । वृक्षवृत्तित्वेन मूलावच्छेद्यत्वं न तु मूलवृत्तित्वेनेत्यभ्युपगमे संयोगनिष्ठ-वृक्षवृत्तित्वादेस्तन्निष्ठमूलावच्छेद्यत्वं प्रत्यवच्छेदकत्वादिकमप्रामाणिकं कल्पनीयम् । मूला-वच्छेद्यत्वाभावस्यापि संयोगे मूलवृत्तित्वावच्छेदेनेदानीमङ्गीकृततया संयोगे मूलावच्छेद्यत्वा-भावतात्पर्येण न मूले वृक्षः संयोगीति व्यवहारापत्तिश्च । वृक्षवृत्तित्वस्य संयोगांशेऽप्रकारतया नञर्थाभावावच्छेदकत्वेन भानस्य वक्तुमशक्यतया तदंशस्य बाधितत्वेन तद्वाक्याप्रामाण्यस्य वक्तुमशक्यत्वात् ।
ननु वृक्षवृत्तिसंयोगान्मूले प्रतीयमानः संयोगो भिन्न एवेति मम सिद्ध एव । मूल-कपिसंयोगरूपकारणाकारणसंयोगाद्वृक्षकपिसंयोगरूपा२कार्यकारणसंयोगस्य मयोत्पत्त्यङ्गी-कारात्तत्र किं बाधकमिति चेत् । श्रुणु । मूलस्यापि त्वन्मते नानाभागानां तत्कारणी-भूतावयवरूपाणामङ्गीकृतत्वेन मूलेऽप्येतद्भागे संयोग इति प्रतीत्यनुरोधात् मूले एतद्भागा-वच्छिन्नः संयोगः मूलस्य तद्भागे संयोग इति प्रतीत्यनुरोधात् मूलनिष्ठसंयोगादन्यस्तद्भागे संयोगोऽङ्गीकर्तव्यः । एवं क्रमेण सूक्ष्मसूक्ष्मतरद्व्यणुकत्र्यणुकादिपदार्थसंयोगानां सूक्ष्मेषु वृक्षभागेषूत्पत्तिः स्यात् । तथा च तेषां परस्परकार्यकारणभावापन्नत्वे वृक्षस्य सूक्ष्मावयवेषु संयोगोत्पत्तिक्रमेण वृक्षे संयोगोत्पत्तिप्राप्त्या तस्य प्रहरादिकालविलम्बितत्वप्राप्त्या वृक्षे कपि-पातानन्तरं प्रहरादिविलम्बेन कपिसंयोगप्रत्ययप्रसङ्गः । कपितदवयवक्रियाभिर्युगपदेव सर्व-संयोगोत्पत्त्यङ्गीकारे सर्वत्रापि कारणकार्यादिनिष्ठसंयोगानां पदार्थान्तरक्रियाभिः स्वक्रियाभि-र्वोत्पत्तिसम्भवेन संयोगजसंयोगप्रक्रियाभ्युपगमस्य निर्मूलत्वापत्तिः । पक्षद्वयेऽपि वृक्षतन्मूल-तदवयवेष्वपि प्रतीयमानसंयोगैक्यानुभवविरोधः । यो वृक्षे संयोगः स एव तन्मूले इति सार्व-लौकिकप्रतीतेः । अन्यथा संयोगबहुत्वप्रत्ययप्रसङ्गतत्प्रतिबन्धकादिकल्पने अप्रामाणिक-कल्पनया गौरवम् । न च घटपटसंयोगस्थले त्वयापि घटपटयोः पृथक्संयोगद्वैविध्य-मङ्गीकृतमिति तत्र संयोगद्वयप्रतीत्यापत्तिर्यया रीत्या वार्यते तयैव रीत्या मयाऽपि उक्तापत्ति-र्वार्यत इति वाच्यम् । ‘घटः पटेन संयुक्तः’ ‘पटो घटेन संयुक्तः’ इति संयोगद्वैविध्यस्यैव स्फुटं प्रतीयमानत्वेन तद्वारणवर्त्मन एव ममानभिमतत्वात् । न च ‘घटः पटेन द्वित्ववान्’ ‘पटश्च घटेन द्वित्ववान्’ इति प्रत्ययानुरोधात् घटपटयोः पृथक् द्वित्वद्वयं स्यादिति वाच्यम् । ‘इमौ द्वौ’ इतिवत् ‘अयं द्वौ’ इति प्रत्ययाभावेन द्वित्वस्यैकमात्रवृत्तित्वाभावस्यैव सिद्धौ घटप्रयोज्यद्वित्वनिरूपिताधिकरणताया एव पटे भानाङ्गीकारात् । तत्र स्वविषयकापेक्षा-बुद्धिद्वारा जन्यत्वरूपतत्प्रयोज्यत्वस्यैव तृतीयार्थत्वात् । अन्यथा संयोगस्येव द्वित्वस्यापि सप्रतियोगिकत्वादिसिद्ध्यापत्तेः द्वित्वप्रतीतेः संयोगप्रतीतिवैलक्षण्यस्य सर्वैरभ्युपगतत्वात् । तस्माद्वृक्षमूलरूपांशयोरभेदेन वृक्षे संयोगवत्त्वं ‘वृक्षः संयोगी’ इति प्रत्ययानुरोधात् स्वीक्रियते । वृक्षो न संयोगीत्येवं प्रमाभावात् वृक्षे संयोगाभावो न स्वीक्रियत इत्येव स्वीकर्तव्यं भवतापीति ।
न च मूलस्य वृक्षावयवत्वेन तत्कारणस्य कथं वृक्षाभेद इति वाच्यम् । कारणाति-रिक्तांशाङ्गीकारस्य तव बलादापत्तेः । तथा हि, यत्रैकेनैव शतव्याममहातन्तुना केन-चित्कुशलेन पटो निर्मितः तत्र पटासमवायिकारणं तादृशतन्त्वंशानां परस्परसंयोग एव वाच्यः । तादृशांशानां तादृशतन्तुरूपावयविसमवायिकारणत्वे तादृशतन्तुरूपद्रव्यान्तरस्य समवायेनाधिकरणे पटरूपद्रव्यान्तरस्योत्पत्त्ययोगः । द्रव्यत्वावच्छिन्नं प्रति समवायसम्बन्धा-वच्छिन्नद्रव्यत्वावच्छिन्नाभावस्य कारणत्वात् । तथा चावयवातिरिक्तोंश आवश्यक इति ।
वस्तुतस्तु कार्यकारणभावापन्नत्वेन नैयायिकाभिमतमृत्पिण्डघटादीनामभेद एव । न तु आत्यन्तिकभेदः । अंशास्तु हस्तवितस्त्यादयोऽनुभवसिद्धा एवेत्याकरे व्यवस्थापितम् । उक्तरीतिमनादृत्य सप्तम्यन्तोल्लेख्यप्रतीतिबलादवच्छेदकाभ्युपगमे परमाणुद्वयसंयोगस्या-वच्छेदकासिद्धिः स्यात् । तस्य निरवयवत्वेनावयवेष्ववच्छेदकत्वावगाहिप्रमानुदयात् । न च ‘परमाणौ प्राच्यां परमाण्वन्तरसंयोगः’ इति प्रत्ययानुरोधात्प्राच्यादेरेवावच्छेदकत्वमिति वाच्यम् । अवच्छेद्याधिकरणासम्बद्धस्यावच्छेदकत्वेऽतिप्रसक्तेस्तत्सम्बद्धस्यैवावच्छेदकत्वे वक्तव्ये प्राचीदिक्पदार्थभूतमूर्तविशेषपरमाण्वोः सम्बन्धस्यैवानिरूपणात् । न च दिक्कृत-विशेषणतैव तादृशः सम्बन्ध इति वाच्यम् । दिक्कृतविशेषणतायाः नैयायिकैरेव निराकृतत्वात् ।
तदङ्गीकर्तृनयेऽपि अस्या अवच्छेदकतायाः संयोगसमवायादिना स्वासम्बद्धनिष्ठाया दिक्कृतविशेषणतासम्बन्धावच्छिन्नायाः कालिकविशेषणतासम्बन्धावच्छिन्नाया इव विलक्षणत्वापत्त्या देशविधया कालविधया चावच्छेदकतेति अवच्छेदकताद्वयस्यैव स्वीकारानु-पपत्तिः । किञ्च परमाणोरियं प्राचीति व्यवस्थैव न घटते । स्वसंयुक्तदेशापेक्षयोदयगिरि-सन्निहितमूर्तस्यैव प्राचीपदार्थतया परमाणाववच्छेदकदौर्लभ्येन संयोगानुपपत्तौ उक्तप्राचीत्व-स्यैव तदीयस्यायोगात् ।
ननु ‘वृक्षे प्राच्यां कपिसंयोगः’ इति प्रत्ययस्य कथं भवन्मत उपपत्तिः । एकस्मिन् संयोगे प्राचीवृक्षोभयनिष्ठत्वस्य भवन्मतेऽपि बाधितत्वात् । प्राच्यास्त्वन्मते महादि-ङि्नरूपितस्वाभाविकांशभूतायाः वृक्षाभिन्नत्वाभावात् वृक्षनिष्ठसंयोगे प्राच्यवच्छिन्नत्वस्य त्वयानङ्गीकारात् । मैवम् । प्राच्यामिति वृक्षे इत्यनेनान्वितम् । तथा च प्राचीवृत्तित्वविशिष्टे वृक्षे वा वृक्षसम्बद्धत्वविशिष्टप्राच्यां वा कपिसंयोगो भासते । ‘प्राच्यवच्छिन्नवृक्षे संयोगः’ ‘वृक्षावच्छिन्नप्राच्यां च संयोगः’ इति वाक्यार्थसमानविषयकत्वानुभवानुरोधात् वृक्षप्राच्यादेः किञ्चिन्निष्ठावच्छेदकत्वानिरूपकत्वेन तत्रावच्छिन्नपदस्य विशिष्टार्थत्वात् । ‘प्रतीच्यां वृक्षे प्रतीच्यवच्छिन्ने वा वृक्षे कपिसंयोगः’ इति प्रतीत्यभावस्तु विशिष्टे इतरान्वयस्थले तद्विशेष-णेऽपि तज्ज्ञानस्य सर्वसम्मतत्वेन प्रतीचीरूपविशेषणांशे कपिसंयोगस्य बाधितत्वादुपपद्यते । न चैवं ‘प्राच्यां वृक्षे कपिसंयोगः’ इत्यस्याप्यनुपपत्तिः । वृक्षनिष्ठकपिसंयोगस्य प्राचीनिष्ठ-संयोगादन्यत्वेन वृक्षान्वयिनः संयोगस्य प्राच्यनन्वितत्वादिति वाच्यम् । ‘सपुत्रश्चैत्रो गतः’ ‘रूपविशिष्टो घटोऽनित्यः’ इत्यत्र विशिष्टान्वयस्थले चैत्रतत्पुत्रनिष्ठगमनकर्तृत्वयोः रूप-घटनिष्ठध्वंसप्रतियोगित्वरूपानित्यत्वयोश्च भिन्नत्वेन तत्राप्यप्रामाण्यापत्त्या तदन्वयिता-वच्छेदकधर्मावच्छिन्नस्य तद्विशेषणान्वयित्वस्यैव विशिष्टे तदन्वयपदार्थत्वेनोक्तस्थले तस्या-बाधितत्वात् । प्रतीच्युपलक्षितवृक्षे कपिसंयोगप्रत्ययव्यवहारौ तवापीष्टौ । एतावतैवोपपत्तौ ‘प्रतीच्यां वृक्षे संयोगः’ इत्यादेरप्रामाण्योपपादनाय प्रतीच्यवच्छेद्यत्वस्य संयोगे भाना-भ्युपगमेन तदप्रामाण्योपपादनमकिञ्चित्करम् ।
नन्वेवं ‘प्रतीच्यां न वृक्षे संयोगः’ इति प्रतीतिव्यवहारयोरप्रामाण्यभिया वृक्षे प्रतीच्य-वच्छेदेन संयोगाभावः अवश्यमभ्युपेय इति विलक्षणावच्छेदकतासिद्धिरिति चेन्न । प्रतीची-रूपविशेषणांश एव संयोगाभावभानाभ्युपगमात् । ‘गुणान्यत्वविशिष्टसत्ता न गुणे’ ‘रूप-विशिष्टघटे न द्रव्यत्वं किं तु केवले’ ‘शिखी नष्टः’ इत्यादिवत् । अन्यथा रूपावच्छेदेन घटे द्रव्यत्वाभावस्य सत्तायां गुणान्यत्वावच्छेदेन गुणवृत्तित्वाभावस्य चैत्रे जीवति शिखावच्छेदेन नाशप्रतियोगित्वादीनां स्वीकारापत्तिः । तत्र विशेषणांश एव तद्भानाभ्युपगमेन सर्वोपपत्तौ विशेष्यीभूतघटादावपि द्रव्यत्वाभावादिसम्बन्धकल्पने गौरवं चेदत्रापि तथैवास्तु । विशेषणांशे तत्सत्तायास्तत्रेवात्रापि क्लृप्तत्वात् ।
विशिष्टस्य विशेष्याद्भिन्नाभिन्नस्य स्वीकारे तु प्रतीचीवृत्तित्वविशिष्टवृक्षाख्ये वस्तुनि कपिसंयोगाभावाङ्गीकारान्न काचित्क्षतिः । मूलाग्रयोर्वृक्षांशत्वेऽपि प्रत्येकांशैर्वृक्षस्य भेदस्यापि सत्त्वेन तस्य मूलादिभिराधाराधेयभावादिसम्बन्धाभ्युपगमे ‘मूले वृक्षः संयोगी नाग्रे’ इत्यादावपि ‘प्राच्यां वृक्षः संयोगी न प्रतीच्याम्’ इत्यादावुक्तरीतिरेवानुसन्धेया । ‘इदानीं गोष्ठे गौर्न मन्दुरायाम्’ इत्यत्राप्येतत्कालवृत्तित्वविशिष्टगोव्यक्तेः गोष्ठवृत्तित्वं मन्दुराऽवृत्तित्वं वा गोष्ठवृत्तित्वविशिष्टगवस्यैतत्कालवृत्तित्वं मन्दुरावृत्तित्वविशिष्टगवस्यैतत्कालावृत्तित्वं वा प्रतीयते । न त्वेतत्काले गोष्ठावच्छेदेन गौर्मन्दुरावच्छेदेन तदभावाश्च । उक्तरीत्यैवो-पपत्तावप्रामाणिकावच्छेदकताभानाङ्गीकारायोगात् । ‘इदानीं गोष्ठे गौर्न तदानीम्’ इत्यत्रापि गोष्ठ एव कालविशेषावच्छेदेन गोतदभावौ न प्रतीयेते । देशवृत्तित्वविशिष्टगवस्य काले कालवृत्तित्वविशिष्टगवस्य देशे वा निषेधभानस्य प्रतीत्यन्तरानुरोधेन क्लृप्तस्यैवाभ्युपगमेन निर्वाहे एकस्मिन्नेव तत्तदभावभानस्याप्रामाणिकत्वात् । ‘अग्रे वृक्षो न कपिसंयोगी’ इत्यादौ अग्रादिसम्बन्धविशिष्टवृक्षादिसम्बद्धसंयोगादीनामप्रामाणिकानामेवाभावभानाभ्युपगमे तु वृक्षे प्रतीयमानसंयोगादन्यस्यासत एव अभावप्रतियोगितया भानेन नैकस्मिन् तत्तदभावौ सेत्स्यतः । न च प्रतियोग्यधिकरणे तद्ध्वंसप्रागभावयोरङ्गीकारात्तेषां विरोधशान्तयेऽ-वच्छेदककालभेदोऽभ्युपेयस्त्वयापीति वाच्यम् । तयोः प्रतियोगिना सह कालिकविरोध-स्यैवाभ्युपगतत्वेन दैशिकविरोधानङ्गीकारात् । अप्रामाणिकप्रतियोगिकस्यैवात्यन्ताभाव-स्याङ्गीकारपक्षे तत्रापि दैशिकविरोधवार्ताभावात् । एवमव्याकृताकाशांशानामपि परस्पर-मभेदपक्षेऽपि सविशेषाभेदस्य अंशिनापि सह तादृशाभेदस्यैव सत्त्वेन प्रतियोगितद-भावादिसत्त्वादौ १सर्वापि पूर्वोक्तरीतिरनुसन्धेया । न च सप्तम्या अवच्छेदकतार्थकत्वस्य ‘वीणायां शब्दः’ इत्यादौ दृष्टत्वात्तदनुरोधेन ‘मूले वृक्षः संयोगी’ इत्यादौ अवच्छेदकता-बोधो युक्त इति वाच्यम् । मन्मते कारणगुणानां कार्यसङ्क्रमाङ्गीकारेण वीणायामपि पृथिव्यात्मिकायां शब्दाधिकरणत्वाक्षतेस्तत्र सप्तम्या अवच्छेदकतार्थकत्वाभावात् । अवच्छेदकताख्यपदार्थ एव नास्तीति वादिनः सप्तम्यास्तदर्थत्वस्याक्लृप्तत्वाच्च । एतज्जातीया-वच्छेदकतायाः सप्तमीसमभिव्याहारस्थले बोधाङ्गीकारे
‘लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ।
नीलः खुरविषाणाभ्यां स मेध्यः पशुरुच्यते ।।’
इत्यत्र सप्तम्या अवच्छेदकतार्थकत्वे रूपस्याप्यव्याप्यवृत्तित्वापत्त्या चित्ररूपाङ्गीकार-वैयर्थ्यापत्तेः । एवम्
‘अकृशं कुचयोः कृशं वलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे ।
अधरेऽरुणमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् ।।’
इत्यादौ सप्तम्या अवच्छेकत्वार्थकत्वाङ्गीकारे अपार्थकत्वापत्तिः । अकृशत्वविस्तृत-त्वादीनां कुचादिनिष्ठबह्ववयवसमवेतत्वादिरूपाणां परिमाणविशेषरूपाणां वा कुचाद्य-वच्छिन्नत्वायोगात् । न हि शरीरस्य कार्श्यं पौष्ट्यं वा वलग्नकुचाद्यवच्छिन्नं युक्तम् । एकस्यावयवस्य कृशत्वे पुष्टत्वे शरीरं कृशं पुष्टमिति व्यवहारापत्तेः । न च भूयसामवयवानां संयोग एव पौष्ट्यम् । अल्पीयसामवयवानां संयोग एव कार्श्यम् । तेषां किञ्चिदवच्छिन्नत्वं युक्तमिति वाच्यम् । तेषां तदवयवनिष्ठानां तावदवयवसमेतकुचवलग्नाद्यवच्छेदेन शरीर-वृत्तित्वायोगात् । तस्मात् मुखरूपावयवनिष्ठपाण्डुरत्वादीनां कुचरूपावयवनिष्ठाकार्श्यादीनां तद्घटितपरम्परासम्बन्धेनाधिकरणता तादृशवाक्याद्बोध्यत इत्येव वक्तव्यम् । तथा च ‘मूले वृक्षः कपिसंयोगी’ इत्यस्यापि तदविशेषात्कुतोऽवच्छेदकत्वार्थकत्वे प्रत्याशा सप्तम्याः तदभिलाप्यप्रत्यक्षस्याप्यवच्छेदकत्वाव१गाहित्वम् । किञ्च भावाभावयोरेकस्थितिनिर्वाहिका-वच्छेदकतायाः सप्तमीबोध्यत्वे घटपटोभयनिष्ठद्वित्वाभावस्य प्रत्येकवृत्त्येकत्वावच्छेदेनो-भयत्वस्य २द्वित्वान्तरावच्छेदेन त्वदङ्गीकृतत्वात् ‘घटपटयोर्द्वित्वे द्वित्वं घटे’ ‘एकत्वे न द्वित्वम्’ इति प्रतीतिव्यवहारयोरापत्तिः । न च सा अव्याप्यवृत्तितानिर्वाहिकाप्येतद-वच्छेदकताविजातीयैव सा न सप्तमीवाच्या । किन्त्वधिकरणे विशेषणतयैव भासमानं द्वित्वादिकं संसर्गतयैव भासत इति वाच्यम् । द्वित्वाधिकरणे घटे द्वित्वाभावस्यैवा-प्रामाणिकतया तन्निर्वाहायावच्छेदकताभानादिकल्पनायोगात् । न च ‘इमौ द्वौ न त्वेकः’ इत्यादिप्रतीतिरेव प्रत्येकं द्वित्वाद्यभावसत्त्वसाधिकेति वाच्यम् । तत्र द्वित्वत्रित्वादावेकमात्र-वृत्तित्वादेरभावबोधनात् । अभिलापकवाक्येऽप्येकादिपदानां सावधारणत्वात् । अन्यथा ‘रूपघटौ न गुणौ न द्रव्ये किन्त्वेक एव’ इत्यादिव्यवहारतन्मूलप्रतीत्यनुरोधात् रूपघटो-भयत्वावच्छेदेन रूपे गुणत्वाभावः घटे द्रव्यत्वाभावोऽपि सिद्ध्येत् । अविशेषात् ।
यदि च रूपघटोभयनिरूपितवृत्तित्वाभावस्य द्रव्यत्वे गुणत्वे क्लृप्तस्यैव भानाभ्युपगम-सम्भवे रूपादौ उभयत्वाद्यवच्छेदेन तदभावसम्बन्धकल्पने गौरवम् । केवलान्वयिभिन्न-व्याप्यवृत्तिधर्ममात्रविलोपापत्तिश्च । अतस्तादृशवाक्यमुक्तार्थे पारिभाषिकम्, तद्बोधो वा कथञ्चिदुपपाद्यः, तन्मूलभूतप्रतीतिरपि न द्रव्यत्वाद्यभावविषयिणी, किन्तु द्रव्यत्वादावुभय-वृत्तित्वाभावविषयिणीति मन्यसे तत्सर्वं प्रकृतेऽप्यविशिष्टम् । प्रत्येकैकमात्रवृत्तित्वाभावस्य द्वित्वादौ क्लृप्तत्वात् । रूपे न गुणत्वमिति प्रतीत्यभाववद्घटे द्वित्वं नास्तीति प्रतीत्य-भावस्यापि तुल्यत्वात् ।
एवं ‘हस्ते मे सुखं, पादे मे दुःखम्’ इत्यत्रापि देहात्मतादात्म्यभ्रमाङ्गीकर्तृपक्षे देहांश-स्यैव हस्तादेरात्मांशत्वग्रहस्यावर्जनीयतया ‘मूले वृक्षः संयोगी’ इत्यत्रेवोपपत्तिरूह्या । तदनङ्गीकारेऽपि सुखदुःखादिसाधनीभूतपदार्थसम्बन्धतज्जन्यविकृतिविशेषादीनां हस्तादिभाग-निष्ठत्वावगाहितया तत्प्रतीत्युपपत्तिः । सिद्धान्ते अणोरपि जीवस्यांशेन शरीरव्याप्तत्वा-दन्तःकरणपरिणामभूतसुखदुःखादीनां तत्तदंशेन साक्षात्कारात्तादृशप्रतीत्युपपत्तिः । हस्त-निष्ठत्वस्यांशेष्वेव भानात् । एवं ‘घटे इदं ज्ञानं घटत्वप्रकारकं न घटत्वे’ इत्यत्रापि घटविशेष्यतानिरूपितत्वं घटत्वप्रकारतायां भासते । न तु घटावच्छेदेन घटत्वप्रकारकत्वम् । अन्यथा ‘इदं ज्ञानं घटत्वांशे घटविशेष्यकं घटविषयकम्’ इत्यादिप्रतीतेरवारणीयतया घटविशेष्यकत्वघटविषयकत्वादेर्घटत्वप्रकारकत्वावच्छेद्यत्वसिद्ध्यापत्त्या तस्याप्यव्याप्य-वृत्तित्वापत्तेः । तस्मान्न कुत्राप्यव्याप्यवृत्तित्वनिर्वाहकविलक्षणावच्छेदकतासत्त्वे मानं तन्निर्वाह्यमव्याप्यवृत्तित्वं चेति स्थितम् ।
न चैवमपि कार्यकारणादीनां भेदाभेदयोस्त्वयाऽङ्गीकृतत्वादवच्छेदकभेदं विना विरुद्धयो-स्तयोः कथमेकत्र स्थितिरिति वाच्यम् । भेदाभेदवादिभिस्तयोर्वियोधस्यैवानङ्गीकारेणैका-वच्छेदेनैव तयोर्वृत्तेरङ्गीकारात्तत्रावच्छेदककल्पनस्याकिञ्चित्करत्वात् । अत्यन्तभेदस्यैवाभेदा-सामानाधिकरण्यरूपविरोधस्याङ्गीकृतत्वात् । अत्यन्तभेदसामानाधिकरण्यासहिष्णोरप्यभेदस्य तज्जातीयभेदविशेषसामानाधिकरण्यं तु सिद्धान्ते विशेषशक्त्योपपाद्यते । अन्यैः रीत्यन्तरेणे-त्यन्यदेतत् । यथा विशेषस्य पराभिमतावच्छेदकतावैलक्षण्यं तथा विशेषनिरूपण एव वक्ष्यामः । एवं पराभिमतः प्रतियोगिताकारणत्वाधारत्वादिनिरूपितावच्छेदकताख्यविलक्षण-पदार्थो धर्मसम्बन्धानिष्ठोऽप्रामाणिक एव ।
ननु कथं प्रमाणाभावः । घटो नास्तीति प्रतीत्या घटत्वे प्रतियोगितावच्छेदकत्वाव-गाहनात् । तत्र घटप्रतियोगिकत्वेनैवाभावभानाङ्गीकारे घटवति भूतलेऽपि घटो नास्तीति प्रतीतिव्यवहारयोरापातात् । न च घटत्वादेः प्रतियोगिताच्छेदकत्वसत्त्वेऽपि कदाचिद्घट-प्रतियोगिकत्वमात्रेण तादृशाभावभाने तत्तात्पर्यकव्यवहारे बाधकाभावात् तादृशवाक्य-प्रामाण्यादाविष्टापत्तौ व्यर्थोऽवच्छेदकत्वाभ्युपगमः । न हि तद्व्यवहारे तत्प्रतीतौ वा तत्र विद्यमानं सर्वं भासत एवेति नियमः । तथात्वे घटादिरूपाद्यविषयकव्यवहारस्य तत्परिमाण-विशेषाद्यविषयकस्य सम्मुग्धज्ञानस्य चाभावापत्तेरिति वाच्यम् । नञभिलाप्यप्रतीतितद्घटित-व्यवहारयोः प्रतियोग्यंशे यादृशधर्मः प्रकारतया भासते तद्धर्मावच्छिन्नप्रतियोगिताकत्वेनैवा-भावावगाहित्वनियमाङ्गीकारेणोक्तदोषाभावात् । मैवम् । उक्तनियमाङ्गीकारेऽपि नीलघटवति विद्यमानरक्तघटत्वावच्छिन्नप्रतियोगिताकाभावस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाव्याहत्या पूर्वोक्तातिप्रसङ्गतादवस्थ्यात् । रक्तत्वघटत्वोभयपर्याप्ताया अप्यवच्छेदकताया घटत्वपर्याप्त-त्वाक्षत्या घटत्वपर्याप्तावच्छेदकता भासते इत्युक्तावप्यनिस्तारात् । घटत्वनिष्ठरक्तत्व-निष्ठावच्छेदकत्वयोरनवच्छिन्नत्वावच्छिन्नत्वरूपविरुद्धधर्मशालिनोर्भिन्नतया प्रत्येकमेव पर्याप्त-त्वेन घटत्वमात्रपर्याप्तावच्छेदकतेत्युक्तावप्यनिस्तारात् ।
न च तत्प्रतियोगितानिरूपितावच्छेदकतात्वेनान्यापि पर्याप्तिर्घटत्वरक्तत्वोभयनिष्ठा स्वीक्रियते । तादृशपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपकप्रतियोगिता संसर्गतया रक्तघटो नास्तीत्यादौ भासते । घटो नास्तीत्यादौ स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिता-निरूपकपर्याप्त्यनुयोगितावच्छेदकघटत्वनिष्ठैकत्वकप्रतियोगितात्वेन वोक्ता या विलक्षणा पर्याप्तिस्तत्प्रतियोग्यवच्छेदकताकप्रतियोगितात्वेन वा संसर्गतया भासते । रक्तघटाभावे उक्तविलक्षणपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपकप्रतियोगितासम्बन्धेन घटस्याभावान्न नील-घटादिमति भूतले रक्तघटाभावावगाहित्वेन घटो नास्तीत्यादिप्रतीतिव्यवहारयोः प्रामाण्यमिति वाच्यम् । घटाभावस्थले या तत्प्रतियोगितानिरूपितावच्छेदकता तन्निष्ठतद्व्यक्तित्वा-वच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यपेक्षया विलक्षणायास्तत्प्रतियोगितानिरूपितावच्छेदकता-त्वाख्येन तन्निष्ठतद्व्यक्तित्वसमनियतधर्मेणावच्छिन्नप्रतियोगिताकपर्याप्तेः सत्त्वे मानाभावेन घटाभावादौ तद्घटितसम्बन्धस्याप्यप्रसिद्ध्या तद्भानायोगात् ।
न च प्रतियोगितैव निरूपितत्वसम्बन्धेन स्वावच्छेदकतासु विद्यमाना तन्निष्ठ-पर्याप्तिप्रतियोगितां प्रत्यवच्छेदिका स्वीक्रियते । सा च स्वनिरूपितावच्छेदकतानां नानात्वे तासामनुगमिका । यत्र स्वनिरूपितावच्छेदकता एकत्रैव वर्तते तत्र तादृशावच्छेदकतानिष्ठ-तद्व्यक्तित्वात्मिकैवेति तदन्यतद्व्यक्तित्वस्य तत्र सत्त्वे मानाभावात् तदभावनिरूपिता या प्रतियोगिता निरूपितत्वसम्बन्धेन तद्विशिष्टत्वावच्छिन्नप्रतियोगिकपर्याप्तिरेव तादृशपर्याप्ति-त्वेनाभावबुद्धिनिष्ठनञ्समभिव्याहारविशिष्टवाक्यविशेषजन्यतावच्छेदककोटौ घटादिबुद्धि-प्रतिबन्धकतावच्छेदककोटौ च निवेश्यते । अनुगतव्यवहारोऽपि तथैव सङ्गच्छत इति वाच्यम् । घटाभावादिस्थलीयप्रतियोगितावच्छेदकताव्यक्तेः ‘तद्व्यक्तिर्घटत्वमात्रे वर्तते’ इति प्रतीतौ भानं वर्तते । तत्र भासमानं तद्व्यक्तित्वं वस्त्वन्तरावगाहिप्रतीतौ यादृशरीत्या तदीय-तद्व्यक्तित्वं भासते तथैव भासत इत्यभ्युपेयम् । तदपेक्षयैतत्प्रतीतौ तद्व्यक्तित्वभानांशे वैलक्षण्यस्यानुभवविरुद्धत्वात् । तथा च यदि तद्व्यक्तित्वं सर्वत्राखण्डो धर्मः स्वरूपसम्बन्धेन भासते तत्रापि तथैव । यदि नाखण्डो धर्मः तत्स्वीकारे मानाभावः । किन्तु स्वयमेन स्वांशे तादात्म्येन स्वरूपतो भासमानं सत्तद्व्यक्तित्वमिति व्यवह्रियते इतरव्यावर्तकमपि भवती-त्युच्यते प्रकृतेऽपि तथैवेति निरूपितत्वसम्बन्धेन विद्यमानायाः तत्प्रतियोगिताव्यक्तेः कथमवच्छेदकतानिष्ठतद्व्यक्तित्वात्मकता ।
किञ्च सा प्रतियोगिताव्यक्तिः संसर्गनिष्ठावच्छेदकतायामपि निरूपितत्वसम्बन्धेन वर्तते इति उभयनिष्ठा कथमेकमात्रवृत्तितद्व्यक्तित्वरूपा भवेत् । अपि च सा प्रतियोगिताव्यक्तिः निरूपितत्वसम्बन्धेन वर्तते तदवच्छेदकतायाम् । तन्निरूपिता घटत्वनिष्ठाधारता निरूपकतया वर्तते । तदवच्छेदकतानिष्ठं यद्घटत्वनिरूपितमाधेयत्वं स्वरूपसम्बन्धेन विद्यमानं भवति । तथा च विनिगमनाविरहात् त्रयाणामपि तद्व्यक्तित्वरूपत्वापत्त्या तद्व्यक्तित्वे तदवगाहिप्रतीतीनामपि वैलक्षण्यं अनुभवविरुद्धं स्यात् । स्याच्च तत्तदवच्छिन्नप्रतियोगिकपर्याप्तीनां वैलक्षण्यं तत्तद्घटितप्रतिबन्धकतावच्छेदकादिरूपबाहुल्यप्रयुक्तं प्रतिबन्धकत्वादीनामपि बहुत्वम् ।
अथ मास्तु घटाभावीयप्रतियोगितावच्छेदकतायास्तत्प्रतियोगितानिरूपितावच्छेदकतात्वेन विलक्षणा पर्याप्तिः । १तन्निष्ठतद्व्यक्तित्वावच्छिन्नप्रतियोगिकैव । सा च घटत्वमात्रे पर्याप्ता । न चैवं घटाभावनिश्चयनिष्ठघटवत्ताबुद्धिप्रतिबन्धकतावच्छेदकादिकोटौ घटत्वमात्रपर्याप्ता-वच्छेदकत्वेन तन्निवेशेऽपि पूर्वोक्तरीत्या रक्तघटाभावादिबुद्धिव्यावर्तनानुपपत्तिरिति वाच्यम् । तादृशपर्याप्तेरेव तद्व्यक्तित्वेन विलक्षणपर्याप्तित्वेन वा निवेशेन सामञ्जस्यात् । रक्तघटा-भावादिनिश्चयस्थले पूर्वक्षणविशिष्टरक्तघटाभावादिनिश्चयव्यावृत्तये रक्तत्वघटत्वोभयनिष्ठं यद्द्वित्वं तदवच्छिन्नानुयोगिकपर्याप्तिकावच्छेदकतात्वेन ।
यद्यपि तत्तद्घटनिष्ठं रक्तत्वं भिन्नं तत्तद्घटितोभयत्वं भिन्नं तत्तदवच्छिन्नानुयोगिक-पर्याप्तयोऽपि भिन्नाः तथापि रक्तत्वघटत्वोभयत्वावच्छिन्नानुयोगिकपर्याप्तित्वाख्यानुगतरूपेण तासां निवेशात् न तदननुगमनिबन्धनो दोषः । नानाधर्माणामवच्छेदकत्वस्थलेऽवच्छेदक-त्वानां तद्व्यक्तित्वावच्छिन्नप्रतियोगिकपर्याप्तयोऽन्याः । तत्प्रतियोगितानिरूपिता-वच्छेदकतात्वरूपाऽनुगतधर्मावच्छिन्नपर्याप्तिश्चापरा । पूर्वक्षणवृत्तित्वविशिष्टरक्तघटाभावादि-स्थले तु अवच्छेदकत्वानां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिकपर्याप्तिः तत्तद्रक्तत्वघटत्वतत्त-द्वैशिष्ट्यादौ । तत्प्रतियोगितानिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिकपर्याप्तिस्तु तत्त-द्रक्तत्वघटत्वतत्तद्वैशिष्ट्यरूपत्रित्वावच्छिन्ने । न तु घटत्वरक्तत्वोभयत्वावच्छिन्नानुयोगिक-पर्याप्त्यन्तरम् । मध्यपतितपर्याप्तौ मानाभावात् । तथा च रक्तत्वघटत्वोभयत्वावच्छिन्न-प्रतियोगिकपर्याप्तिकावच्छेदकत्वत्वेन निवेशे पूर्वक्षणवृत्तित्वविशिष्टरक्तघटाभावादिव्यावृतिः सम्भवत्येव ।
न चैवं शुद्धवह्निसाध्यकव्याप्तेर्महानसीयवह्निसाध्यकस्थलीयव्याप्तेश्चैकेन साध्याभाववद-वृत्तित्वमित्यादिशब्देन बोधनानुपपत्तिः । तस्य साध्यतावच्छेदकपर्याप्तावच्छेदकताका-भावघटितार्थकत्वे महानसीयवह्न्यभावाद्यव्यावर्तनाद्दोषः । साध्यतावच्छेदकतात्वावच्छिन्न-प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकावच्छिन्नानुयोगिकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपक-प्रतियोगिताकाभावघटितार्थकत्वे वह्न्यादिस्थले अप्रसिद्धिः । प्रतियोगितावच्छेदकताया इव वह्नित्वनिष्ठसाध्यतावच्छेदकताव्यक्तेस्तद्व्यक्तित्वेनैव पर्याप्ततया साध्यतावच्छेदकतात्वेनापर्याप्ते-रिति वाच्यम् । शब्दानुगमस्याकिञ्चित्करत्वेनानादर्तव्यत्वादतो न कोऽपि दोष इति चेन्मैवम् । घटाभावादिनिश्चयस्य तादृशपर्याप्तितावच्छेदकताकाभावनिश्चयत्वेन प्रतिबन्धकत्वे प्रमेयत्वादिना तन्निश्चयस्य प्रतिबन्धकत्वापत्तेः घटाभावत्वादिना पटाभावादिनिश्चयस्या-प्रतिबन्धकत्वापत्तेश्च तादृशपर्याप्त्यादिघटितरूपावच्छिन्नविषयकनिश्चयत्वेन प्रतिबन्धकत्वादौ वक्तव्ये तत्र तत्तत्पर्याप्त्यसाधारणीभूततादृशरक्तत्वघटत्वोभयत्वावच्छिन्नानुयोगित्वादिधर्म-स्फुरणाभावेन रक्तघटो नास्तीत्यादिबुद्धेस्तद्वत्ताधीविरोधित्वाभावापातात् । रक्तत्व-घटत्वोभयोरेवोपस्थितत्वेन तन्निष्ठोभयत्वादेरस्फुरणात् । न च संसर्गघटकतया भाने न पूर्वं तदुपस्थित्यपेक्षेति वाच्यम् । एवमपि रक्तत्वादौ प्रत्येकं पर्याप्तीनां तन्निष्ठैकत्वावच्छिन्नानु-योगिकानां तावत्साधारणोभयत्वावच्छिन्नापरपर्याप्तेस्तद्भानस्य तादृशप्रतीतावप्रामाणिकस्य कल्पनया महागौरवेण प्रतिबन्धकतावच्छेदकादिधर्मनिर्वाहापेक्षया तादृशप्रतियोगिता-व्यक्तावेवावच्छेदकतानिरूपकत्वाद्यनिबन्धनं स्वाभाविकं वैलक्षण्यमभ्युपगम्य सर्वस्य निर्वोढुं शक्यत्वेनावच्छेदकत्वादेरप्रामाणिकत्वात् ।
किञ्च रक्तघटाभावादिप्रतियोगितानिरूपितावच्छेदकता संयोगसंसर्गादिष्वपि वर्तत इति तत्साधारणं तत्प्रतियोगितानिरूपितावच्छेदकतात्वं कथं तदवृत्त्युभयत्वावच्छिन्नानुयोगिक-पर्याप्तिप्रतियोगितावच्छेदकं भवेत् । न चावच्छेदकतात्वव्याप्यं धर्मविधयाऽवच्छेदकतात्वाख्यं संसर्गविधया अवच्छेदकतात्वाख्यं च धर्मद्वयम् । तत्र तत्प्रतियोगितानिरूपितत्वा-विशिष्टाद्यधर्म एव तादृशपर्याप्त्यवच्छेदकः । अतो न दोष इति वाच्यम् । एवमपि तत्त-द्रक्तत्वघटत्वोभयत्वावच्छिन्नपर्याप्तीनां भिन्नतया तत्तत्प्रतियोगितानामपि तत्तन्निरूपितानां तत्तदवच्छेदकतानिष्ठानां भिन्नतया तत्तदतिप्रसक्तोक्तधर्मस्य तदवच्छेदकत्वायोगात् । न च रक्तत्वघटत्वोभयत्वावच्छिन्नानुयोगिकपर्याप्तिप्रतियोगितात्वेन तासामनुगमनान्न तदवच्छिन्नं प्रत्यतिप्रसक्तत्वमिति वाच्यम् । तादृशानुगमकधर्मस्य सम्बन्धान्तरावच्छिन्नरक्तघटाभावादि-प्रतियोगितावच्छेदकतापर्याप्तिप्रतियोगितास्वपि सत्त्वेनातिप्रसक्तत्वेन तत्प्रतियोगिता-निरूपितत्वघटितोक्तधर्मं प्रत्यवच्छेद्यतावच्छेदकत्वायोगात् ।
न च यावन्त्योऽवच्छेद्या भवन्ति तावन्निष्ठान्यतमत्वमेव तदनुगमकमस्त्विति वाच्यम् । तावन्निष्ठतत्तज्ज्ञानविषयत्वादीनामनन्तानामपि विनिगमनाविरहेणावच्छेद्यतावच्छेदकत्वादि-स्वीकारापत्त्याऽप्रामाणिकमहागौरवापत्तेः । न चातिप्रसक्तानामप्युक्तधर्माणां पर्याप्तिरूप-संसर्गप्रतियोगितावच्छेदकत्वादि स्वीक्रियते । द्रव्यत्वसत्त्वादेर्घटादिसंयोगादिप्रतियोगिता-वच्छेदकत्वादिवदिति वाच्यम् । दृष्टान्तस्यैवासम्मतेः । अभावघटयोरपि प्रतियोगितायाः संसर्गतया कार्यकारणयोस्तत्वयोः संसर्गतया तत्राप्यतिप्रसक्तन्यूनधर्माणामप्यविशेषेणा-वच्छेदकत्वापत्त्या अवच्छेदकानवच्छेदकभेदस्यैवासिद्धिप्रसङ्गात् । न ह्यत्र विनिगमकं मानमस्ति । नाप्यवच्छेदकतात्वं तद्व्याप्यमुक्तधर्मद्वयं तादृशपर्याप्त्यादिकं च प्रामाणिकम् । येन तन्निर्वाहायैव सर्वमेतत्कल्पनार्हं स्यात् । न च ‘शुद्धवह्नित्वं न महानसीय-वह्न्यभावीयप्रतियोगितावच्छेदकम् । किन्तु वह्न्यभावीयप्रतियोगितावच्छेदकम् । वह्नित्वं धर्मविधया प्रतियोगितावच्छेदकम् । संयोगस्तु संसर्गविधयाऽवच्छेदकः’ इत्यादिप्रतीत-यस्तत्प्रमाणानीति वाच्यम् ।
लोके कस्याप्येतादृशप्रतीतेरभावात् । अन्यथा घटपटादिस्वरूपेष्विवावच्छेदकत्वस्वरूपे विवादस्यैवाभावप्रसङ्गात् । नैयायिकशास्त्रवासनाविजृंभितान्तःकरणानां स्वबुद्धिमात्र-परिकल्पितप्रतीतिस्त्वकिञ्चित्करी । अन्यथा भट्टमतसिद्धप्रत्यक्षानुरोधेन ज्ञाततायास्तस्याः घटत्वप्रकारकत्वादेः सिद्धिप्रसङ्गात् । केवलमभावप्रतीतीनां वैलक्षण्यनिर्वाहायैतत्कल्पना तूभयसिद्धप्रतियोगितास्वेव वैलक्षण्यसिद्ध्यन्यथासिद्धैव । धर्मिकल्पनात इत्यादिन्यायात् ।
किं चैकत्वप्रागभावविशिष्टघटस्य संयोगेन योऽभावस्तस्य केवलान्वयित्वम् । संयोगेन तद्विशिष्टाधिकरणस्याप्रसिद्धेः । आद्यक्षण एवैकत्वप्रागभावस्य सत्त्वेन तदा घटस्य निर्गुण-तया संयोगाप्रतियोगित्वात् । तदुपलक्षितस्य तु संयोगेनाभावो व्यतिरेकी । घटविरोधितयो-र्वैलक्षण्यं तु नावच्छेदकवैलक्षण्यात् । उभयत्रैकत्वप्रागभावस्यैकस्यैवावच्छेदकत्वात् । किन्तु प्रथमस्य प्रतियोगिता विशिष्टे पर्याप्ता । द्वितीयस्य तु प्रतियोगिता एकत्वप्रागभावावच्छिन्ना शुद्धे पर्याप्तेति प्रतियोगितानिष्ठवैलक्षण्यमेव तत्रान्ततः शरणीकरणीयमिति सर्वत्रापि प्रतियोगितानिष्ठवैलक्षण्यमाश्रित्य घटो नास्तीत्यादिवाक्यकार्यतावच्छेदकं तादृशविलक्षण-प्रतियोगिताविषयकबुद्धित्वमित्यादरेणैव रक्तघटवति घटो नास्तीत्यादेः प्रामाण्यवारण-सम्भवादन्तर्गड्ववच्छेदकत्वमप्रामाणिकमेव ।
तर्कालङ्कारादयस्तु महानसीयवह्न्यभावादिस्थले महानसीयत्वनिष्ठावच्छेदकता महानसीयत्वत्वस्वरूपसम्बन्धाभ्यामवच्छिन्ना । वह्नित्वनिष्ठा पुनः समवायावच्छिन्नाऽ-नवच्छिन्ना च । अतो नोभयत्रैकावच्छेदकता व्यासज्यवृत्तिः । अतः प्रत्येकमेव तयोः पर्याप्तिः । तत्प्रतियोगितानिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिके व्यासज्यवृत्तिपर्याप्त्यन्तरे मानाभावः । न च ‘वह्नित्वं न महानसीयवह्न्यभावीयप्रतियोगितावच्छेदकम्’ इति प्रतीत्यनु-पपत्तिः । तादृशपर्याप्त्यन्तरस्वीकारे तु तत्प्रतियोगितानिरूपितावच्छेदकतात्वावच्छिन्नस्य तेन सम्बन्धेन व्यासज्यवृत्तित्वात् प्रत्येकं तदवच्छिन्नभेदस्य सत्त्वात्तत्प्रतीत्युपपत्तिरिति वाच्यम् । लौकिकानां तादृशप्रतीत्यसिद्धेः ।
अथैवं सति मण्यभावादेर्दाहादिकं प्रति कारणतावच्छेदकनिरुक्त्ययोगः । मणित्व-पर्याप्त्यवच्छेदकताकप्रतियोगिताकाभावत्वस्य क्षणविशेषविशिष्टमण्यभावसाधारण्यात् । न च मणित्वेतरानवच्छिन्ना सती मणित्वनिष्ठानवच्छिन्नावच्छेदकताकप्रतियोगिता या तन्निरूपका-भावत्वमेव तथास्त्विति वाच्यम् । उक्तप्रतियोगितायां क्षणविशेषवृत्तित्वावच्छिन्नत्व-सत्त्वेऽप्यवच्छिन्नत्वघटोभयाभावादेः सत्त्वेन तदवारणात् । तत्राप्युक्तरीत्या विशेषणान्तरदाने तत्परम्परयाऽनवस्थया तद्घटितधर्मस्य दुर्ग्रहत्वापत्तेः ।
न चानुयोगितासम्बन्धेन मणित्वविशिष्टमेवावच्छेदकमस्तु । यादृशानुयोगिता-निरूपकतावच्छेदकतापरिसमाप्तिर्मणित्व एव तादृशानुयोगिताश्रयाभाव एव मणित्वविशिष्टे वर्तत इत्युक्तविशिष्टमण्यभावव्यावृत्तिरिति वाच्यम् । प्रमेयत्वविशिष्टवह्निविषयकज्ञाने विषयतया वह्नेरिव विशिष्टमणिप्रतियोगिकेप्यभावेऽनुयोगितया मणिसत्त्वे बाधकाभावा-द्विशिष्टमण्यभावाव्यावृत्तिः । एवं कारणतावच्छेदकत्वेनाभिमतस्याकारणसाधारण्यग्रहे तद-वच्छिन्ने कारणत्वस्य दुर्ग्राह्यत्वापत्तिवारणाय मणेरनुयोगिताविशेषणाभावान्तराद्व्यावृत्तत्वज्ञानं वाच्यम् । तत्रानुयोगिताविशेषेपरिचयो यदि मणित्वपरिसमाप्तावच्छेदकताकनिरूपकताकत्वेन तदा मणित्वे स्ववृत्तित्वप्रतियोगिताकाभावरूपपरिसमाप्तत्वस्योभयाभावमादायाव्यावर्त-कत्वेनानवस्थयाऽनुयोगिताविशेषपरिचयो दुर्घटः ।
ननु मणित्वान्यधर्मनिरूपितानि यानि यान्यवच्छेद्यत्वानि तत्तन्निष्ठतत्तद्व्यक्तित्वा-वच्छिन्नाभावकूटवत्प्रतियोगितात्वेन तत्परिचयो भवति । उक्तकूटमध्ये अवच्छेद्यत्वनिष्ठ-तद्व्यक्तित्वमात्रावच्छिन्नाभावस्यापि पतितत्वात् । मणित्वान्यधर्मावच्छिन्ना प्रतियोगिता न तादृशकूटवतीति न तद्व्यावृत्तिः । मणित्वान्यत्वं मणित्वप्रतियोगिताकभेद एव । घटो न घटपटोभयमित्यत्रैकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगिताकोभयत्वात्यन्ताभाव-भानस्यैवोपगमेन व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्य तदाश्रयप्रतियोगिन्येतन्मतेऽनङ्गीकारान्न तादृशभेदमादाय स्वस्यापि स्वान्यत्वप्रसक्त्या तद्वारकविशेषेणानवस्थेति चेन्न । अभावानां प्रतियोगिज्ञानं विना प्रत्यक्षायोगात् उक्तानन्तप्रतियोगितावच्छेदकानामसर्वज्ञदुर्ज्ञेयत्वेन तादृशाभावकूटवत्तया मणिप्रतियोगितापरिचयो दुर्घट एवेति चेन्न । मणिरत्र नास्तीति व्यवहारानुकूला या प्रतीतिस्तद्विषयीभूतवैलक्षण्यवत्त्वेन तादृशानुयोगितापरिचयसम्भवा-दित्याहुः ।
तन्मतेऽवच्छेदकत्वादिभानमन्तरापि तन्निष्ठवैलक्षण्यभानावश्यकत्वे तस्य स्वत एवानु-योगितायाः सम्भवेन तन्निर्वाहायावच्छेदकत्वादिकल्पनायाः अप्रामाणिकत्वस्य स्फुटत्वा-त्तदप्ययुक्तमेव ।
ननु घटो नास्तीति बुद्धेर्विशिष्टवैशिष्ट्यावगाहित्वमपरित्याज्यमेव । तदुपलक्षितावगाहित्वे घटत्वनिर्विकल्पकोत्तरमपि तदापत्तेः । तद्विशिष्टवैशिष्ट्यावगाहित्वं च तदवच्छिन्न-प्रतियोगिताकत्वविशिष्टसंसर्गावगाहित्वमेव वक्तव्यम् । अन्यथा तदुपलक्षितज्ञानादस्य वैलक्षण्यानुपपत्तेः । अवच्छेदकताख्यविषयताकृतवैलक्षण्याङ्गीकारे साकारवादापत्तेः । तथा च घटत्वविशिष्टवैशिष्ट्यावगाहित्वानुरोधेन घटत्वावच्छिन्नप्रतियोगिताभानमावश्यकमित्य-वच्छेदकत्वस्य प्रत्यक्षेणैव सिद्धिरिति चेन्न । संयोगप्रतियोगितावच्छेदकत्वादिजातीय-स्यावच्छेदकत्वस्य भाने तस्यातिप्रसक्तादिसाधारणतया रक्तघटाभावप्रतियोगितावच्छेदकताया घटत्वादावबाधितत्वेन तत्तात्पर्यकस्य नीलघटवति घटो नास्तीत्यादेर्घटरूपमुख्यार्थक-घटपदघटितवाक्यस्य प्रामाण्यापत्तिः । तद्विजातीयाभावप्रतियोगितावच्छेदकताभानं तु नोक्त-युक्त्या सिद्ध्यति ।
किञ्च द्रव्यवान् प्रमेयवान् सद्वान् दण्डवानित्यादिप्रतीतीनामप्युभयविधानां सत्त्वात्तत्र विशिष्टवैशिष्ट्यावगाहित्वानुरोधेन तत्तद्धर्मावच्छिन्नप्रतियोगिकत्वादीनां संयोगे स्वीकारे महागौरवम् । न च द्रव्यत्वादिविशिष्टवैशिष्ट्यावगाहिप्रतीतेर्भ्रमत्वमेवास्तु । येन तत्प्रामाण्यानुरोधेन द्रव्यत्वादिरूपयावद्द्रव्यभाविधर्मावच्छिन्नप्रतियोगिताकत्वं संयोगस्य सिद्ध्येत् । किन्तु यादृशधर्मो यत्र कादाचित्कस्तदुपलक्षितावगाहिप्रतीतेः सर्वदा प्रामाण्यं तद्विशिष्टवैशिष्ट्यावगाहिप्रतीतेः कदाचिदेवेत्यनुभवानुरोधात् ‘यदा यत्र यो धर्मो वर्तते तद्धर्माश्रयप्रतियोगिकः स सम्बन्धस्तद्धर्मावच्छिन्नप्रतियोगिताकः’ इति स्वीक्रियत इति वाच्यम् । तथा सति यत्र भूतले रक्तघटो दृढतया स्थापितस्तदा रक्तत्वविशिष्टवैशिष्ट्याव-गाहिप्रमानुरोधात्तादृशसंयोगव्यक्तेः रक्तत्वावच्छिन्नप्रतियोगिकत्वावश्यकत्वे तत्स्थले तथैव घटसत्तादशायामेव पाकेन रक्तनाशेन रूपान्तरोत्पत्तिस्तदा रक्तत्वविशिष्टवैशिष्ट्यावगाहि-प्रत्यक्षादेः उक्तजातीयस्य परमाण्ववगाह्यनुमित्यादेश्च प्रामाण्यापत्तेः । न च तद्घटनिष्ठसंयोग-प्रतियोगितायां तद्धर्मावच्छिन्नत्वं तदा न स्वीक्रियते तस्याव्याप्यवृत्तित्वाभ्युपगमादिति वाच्यम् । तस्य कालिकाव्याप्यवृत्तित्वे मानाभावात् । तावताऽपि तद्धर्मावच्छिन्न-प्रतियोगिताकत्वस्य तत्संयोगे कदाचिद्विद्यमानत्वेन विषयाबाधात् तदातनप्रतीतेः प्रामाण्या-पत्तेरपरिहारात् । न च तादृशप्रतीतौ विशिष्टसम्बन्धपर्याप्तावच्छेदकताकविलक्षणाधिकरणतैव भासते । सा तु घटे रक्तत्वनाशदशायां नश्यतीति वाच्यम् । घटस्य तत्रैव विद्यमान-त्वेनाधिकरणतोत्पत्तिनाशयोरयोगात् । एतदपेक्षया रक्तत्वविशिष्टघटनाशरूपान्तरविशिष्ट-घटोत्पत्ती परिकल्प्यैव सर्वनिर्वाहस्यावश्यकत्वेनातिरिक्तविशिष्टाङ्गीकारस्यैवोचितत्वात् । विलक्षणाधिकरणतायाः तन्निरूपकत्वावच्छेदकत्वादीनां संसर्गविशेषघटकपदार्थेषु तदवच्छेद-कत्वादिपर्याप्त्यादिकल्पनस्यातिगुरुत्वाच्च ।
न च विशिष्टोत्पत्त्युपगमेऽपि तदधिकरणत्वान्तरं तवाप्यावश्यकमिति वाच्यम् । शुद्धप्रतियोगिकसंयोगस्यैव तदभिन्नविशिष्टसंसर्गतया भानाङ्गीकारेणातिरिक्ताधि-करणतानभ्युपगमात् । रक्तघटरूपविशिष्टनाशकाले सम्बन्धसत्त्वेऽपि तद्रूपविशेषणाभावादेव न तत्प्रकारकप्रत्ययः । समवायस्य नित्यत्वेऽपि रक्तनाशदशायां रक्तो घट इति प्रत्यया-भाववत् विशिष्टस्यानङ्गीकारेऽपि विशेष्ये यत्कालसम्बन्धं या प्रतीतिर्विषयीकरोति तया विशेषणेऽपि तत्कालसम्बन्धावगाहने सा तद्विशिष्टवैशिष्ट्यावगाहिनी प्रतीतिरित्युच्यते । तदनवगाहने सोपलक्षितप्रतीतिः । तस्य बाधितत्वाबाधितत्वाभ्यामेव तादृशविशिष्ट-प्रतीतिप्रामाण्याप्रामाण्ये । क्वचिद्यद्विशेषणस्य यत्र विशेष्ये भानं तद्विशेषणविशेषणस्यापि तत्र विशेष्ये भाने तद्विशिष्टवैष्टि्यबुद्धिरुच्यते । यथा सपुत्रस्य गमनं रूपविशिष्टस्य नाश इत्यादौ । विशेषणविशेषणस्य स्वविशेष्यीभूतविशेषणस्य स्वविशेष्ये येन सम्बन्धेन भानं तेनैव सम्बन्धेन स्वस्यापि तद्विशेष्ये भानमित्यपि न नियमः । किन्तु तात्पर्याद्यनुरोधा-दन्येनापि । यथा धनविशिष्टस्य सुखमित्यादौ सुखे आधारतया विशेषणीभूतचैत्रविशेषणं धनं सुखे प्रयोज्यतासम्बन्धेनैव भासते । एवं विशिष्टवैशिष्ट्यस्थलेऽपि रीतिरूह्या ‘दण्डी कुण्डली सपुत्रो गतः’ ‘धनवान् सुखी’ इत्यादौ । इत्थं च ययोः समानकालिकत्वं तयोरेवावच्छेद्यावच्छेदकभावस्त्वयाप्यतिप्रसङ्गवारणायाभ्युपगत इति आवश्यकतद्भानादिना सर्वनिर्वाहे किमवच्छेद्यावच्छेदकभावतद्भानाद्याग्रहव्यसनेन । अप्रामाणिकत्वाद्गौरवाच्च ।
तर्हि घटो नास्तीत्यभावबुद्धेः कीदृशं विशिष्टवैशिष्ट्यावगाहित्वमिति चेत् । कीदृशमपि नास्तीति वदामः । तर्हि घटत्वनिर्विकल्पकानन्तरं तत्प्रतीत्याद्यापादनं त्विष्टापत्त्यादिनाऽ-प्रामाणिकप्रतियोगिकात्यन्ताभावविचार एव निरस्तम् । अत्यन्ताभावप्रतियोगिनोऽप्रामाणिक- तया तत्र भासमानधर्मस्याप्यलीकतया तस्यावच्छेदकत्वं दूरपराहतम् । असतः अवच्छेद-कत्वाङ्गीकारे बीजाभावात् । तस्माद्धर्मविधयाऽवच्छेदकत्वमसिद्धमेव । एवं संसर्गविधयाप्य-भावप्रतियोगितावच्छेदकत्वमसिद्धम् ।
न चैवं सति घटवत्ताबुद्धिं प्रति घटाभावनिश्चयस्य प्रतिबन्धकत्वे कल्पनीये न तावद्घटा-भावनिश्चयत्वं प्रतिबन्धकतावच्छेदकम् । संयोगेन घटवत्ताबुद्धिं प्रति समवायेन घटो नास्तीति निश्चयस्य विरोधितापत्तेः । न हि संयोगसम्बन्धावच्छिन्नत्वेनाभिमता या विलक्षणा प्रतियोगिता वस्तुतः तन्निरूपकाभावनिश्चयत्वेन प्रतिबन्धकत्वं विचारास्पदम् । समवाया-वच्छिन्नप्रतियोगिताकत्वेनाभिमताभावत्वेन संयोगावच्छिन्नप्रतियोगिताकत्वेनाभिमताभावधियो विरोधित्वापत्तेः । अतः प्रतियोगितायां संयोगावच्छिन्नत्वावगाहित्वेन प्रतिबन्धकत्वावश्य-कत्वानुरोधेन प्रतिबन्धकज्ञाने संयोगाद्यवच्छिन्नत्वावगाहित्वं तस्य प्रमात्वानुरोधेन तादृशा-वच्छेदकत्वादीनामपि सिद्धिरिति वाच्यम् । संयुक्तप्रतियोगिकत्वविशिष्टसंयोगेन घटाभाव-वानिति बुद्धेः संयुक्तप्रतियोगिकसंयोगरूपपरम्परासम्बन्धेन घटाभाववानिति बुद्धेश्च संयोगेन
घटवत्ताबुद्धिप्रतिबन्धकत्वापत्तिपरिहाराय संयोगपर्याप्तावच्छेदकतानिवेशावश्यकत्वे पूर्वोक्तरीत्या पर्याप्तौ प्रतियोगितायां संसर्गविधयाऽवच्छेदकतायां च वैलक्षण्याद्युपगमे तादृशप्रतियोगिता-वृत्तिवैलक्षण्याद्यवगाहित्वेनाभावधियां विरोधित्वादिकल्पनौचित्येनावच्छेदकताया असिद्धेः ।
न च संयोगसम्बन्धावच्छिन्नत्वेन प्रतियोगित्वानवगाहने संयोगेन घटो नास्तीत्या-कारकत्वानुपपत्तिरिति वाच्यम् । भूतलानुयोगिकसंयोगप्रतियोगिकत्वविशिष्टघटादेरेव तत्रा-भावप्रतियोगितया भानेन तदभिलापकवाक्ये संयोगेनेत्युल्लेखोपपत्तेः । प्रत्युत त्वन्मत एवानु-पपत्तिः । संयोगावच्छिन्नप्रतियोगिताया एव प्रतियोग्यभावयोः संसर्गतया भानेन संयोगस्य संसर्गतावच्छेदकघटकस्य तृतीयान्तशब्देनोल्लेखे बीजाभावात् । अन्यथाऽवच्छिन्नत्वेन घटो नास्तीत्यभिलापापत्तेः । अभिलापकवाक्ये संयोगेनेति तृतीयार्थावच्छिन्नत्वस्यान्वयानु-पपत्तिश्च । अभावे घटे च अवच्छिन्नत्वस्य बाधात् । प्रतियोगितायाश्च पदानुपस्थितत्वात् । न च तृतीयार्थोऽवच्छिन्नप्रतियोगिताकत्वं प्रकृत्यर्थसंयोगान्वितमभावेऽन्वेति । घटादेरेव संयोगावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयबोध१तात्पर्यकं ग्राहकं वा संयोगेनेति तृतीयान्तपदमिति वाच्यम् । संयोगेन भूतले घटो नास्ति भूतलसंयुक्तत्वेन घटो नास्तीति प्रतीत्यास्तुल्यकार्यकारित्वतुल्यविषयकत्वानुभवेन तृतीयाया वैशिष्ट्यार्थकत्वस्यैव युक्तत्वात् । किञ्च अवच्छिन्नत्वावच्छेदकत्वादौ प्रमाणं नास्तीति वादिनं प्रत्यवच्छिन्नप्रतियोगित्वादे-स्तृतीयार्थत्वाङ्गीकारेणोक्तसमाधानासङ्गतिः । तृतीयाया वैशिष्ट्यार्थकत्वतात्पर्येण संयोगा-वच्छिन्नप्रतियोगितानिरूपितानुयोगितया भूतले घटो नास्तीति व्यवहारस्य तज्जन्यधियः संयोगेन घटवत्ताधीविरोधित्वस्य चापत्तिश्च । नञादिसमभिव्याहृतसम्बन्धवाचि-पदोत्तर१तृतीयावच्छिन्नप्रतियोगिकत्वादौ निरूढलक्षणेत्यादिकल्पनस्य सम्बन्धस्य अभाव-प्रतियोगितावच्छेदत्वसिद्ध्युत्तरकालिकत्वात् ।
अपि चाभावप्रतियोगितायाः वृत्त्यनियामकसम्बन्धावच्छिन्नत्वानङ्गीकर्तृप्राचीननये ‘अस्मिन्नज्ञाने विषयतया घटो नास्मिन् ज्ञाने’ इत्यादिव्यवहारतन्मूलप्रतीत्योर्घटनिरूपित-विषयित्वाभाव एव ज्ञानादौ भासत इत्युपेयम् । तथा च त्वदुक्तनियमस्य व्यभिचारः । तथैव संयोगेन घटो नास्तीत्यादौ उपपत्तिसम्भवे सम्बन्धस्याभावप्रतियोगितावच्छेदकत्वादि-भानकल्पनमयुक्तम् । न च संयोगेन घटो नास्तीत्यादौ घटसंयोगाभावस्य भानाङ्गीकारे संयोगेन घटवत्यपि संयोगेन घटो नास्तीति प्रतीत्यापत्तिः । घटसंयोगस्य समवायेन सत्त्वेऽपि सम्बन्धान्तरेण तदभावस्यापि सत्त्वादिति वाच्यम् । विषयितयाऽत्र घटो नास्तीत्यादौ उक्तानुयोगस्य तुल्यत्वात् । अथ तत्र घटनिरूपितविषयित्वस्य स्वरूप-सम्बन्धावच्छिन्नाभाव एव प्रत्याय्यत इति चेदत्रापि संयोगस्य वस्तुतः समवायावच्छिन्न-प्रतियोगिकत्वेन भवदभिमता या अभावव्यक्तिः सैव बोध्यत इत्यस्तु । तेनैव सामञ्जस्यात् । सम्बन्धस्य सम्बन्धान्तरकल्पनेऽनवस्थाप्रसङ्गेन कस्यचित्स्वरूपादेरन्ततः सम्बन्धानङ्गीकारेण विशिष्टबुद्धौ सम्बन्धमनपेक्ष्यैव स्वाभाविकधर्मधर्मिभावभानस्य वक्तव्यत्वात् । तादृश-स्वरूपादिसम्बन्धो नास्तीत्यादिप्रतीतिसिद्धव्यतिरेक्यभावस्य सम्बन्धावच्छिन्नप्रतियोगिता-कत्वस्य वक्तुमशक्यत्वाच्च । न च संयोगेन घटो नास्तीति धीर्यदि संयोगविशिष्टघटाभावं विषयीकुर्यात्तर्हि संयोगेन घटवत्ताबुद्धिं न विरुन्ध्यात् । नीलघटाभावग्रहस्येव विशेषाभाव-ग्रहत्वादिति वाच्यम् । संयोगेन घटो नास्तीति धियः संयोगविशिष्टघटाभावविषयिण्याः घटसंयोगाभावविषयकत्वेन घटसंयोगो नास्तीति बुद्धिवत् तद्विरोधित्वानपायात् । संयोगेन रूपं नास्तीति बुद्धेः रूपसंयोगाभावविषयकत्वे असत्प्रतियोगिकाभाववादे न किञ्चिदपि बाधकम् । तस्मान्नव्यमतेऽन्योन्याभावप्रागभावादीनामिवात्यन्ताभावप्रतियोगितापि संसर्गा-नवच्छिन्नैवेति दिक् ।
कारणताकार्यताद्यवच्छेदकत्वादिकमप्येतादृशमेव । मानाभावात् । न च दण्डः कारणं घटः कार्यमिति बुद्धिः प्रमा । प्रमेयदण्डो वा तद्व्यक्तिर्वा घटकारणमिति धीरप्रमेति तावदविवादम् । तत्र दण्डत्वतद्व्यक्तित्वादि सामानाधिकरण्यमात्रं यदि कारणतायां विषयीभवति तदा प्रामाण्याप्रामाण्यव्यवस्था न घटत इति विशिष्टे वैशिष्ट्यमिति मर्यादयैव कारणताद्यवगाहिप्रत्यक्षं जायते । तत्र विशेष्यतावच्छेदकीभूतदण्डत्वप्रमेयदण्डत्वाद्यवच्छेद्यत्वं भासते । अतो दण्डत्वाद्यवच्छेद्यत्वसत्त्वात्प्रमेयदण्डत्वाद्यवच्छेद्यत्वासत्त्वादुक्तबुद्ध्योः प्रामाण्याप्रामाण्ये घटेते इत्यवश्यं वाच्यम् । अतः कथं मानाभाव इति वाच्यम् । प्रमेयदण्डस्तद्व्यक्तिर्वा घटकारणमिति बुद्धेरप्रमात्वस्यैवासिद्धेः । ज्योतिष्टोमेन स्वर्गकामो यजेत वृष्टिकामः कारीर्या यजेतेत्यादौ ज्योतिष्टोमत्वस्वर्गत्वादिधर्माणां कारणताकार्यता-वच्छेदकत्वबोधने बाधेन श्रुत्यप्रामाण्यापत्त्या कारणत्वादिग्राहकप्रमाणानां कारणत्वाद्या-श्रयत्वेन प्रतीयमानपदार्थांशे प्रकारीभूतधर्मेषु कारणतावच्छेदकत्वावगाहित्वनियमस्य त्वया वक्तुमशक्यत्वेन प्रमेयदण्डस्तद्व्यक्तिर्वा घटकारणमित्यादिप्रतीतिप्रामाण्यस्येष्टत्वात् । अत एवैतद्व्यक्तिरपि घटकारणम् । अत एनं सम्पादयामीति ज्ञानात् प्रवर्तमाना न भ्रान्ता भवन्तीति सर्वसम्मतम् ।
न च स्वर्गादिपदं ज्योतिष्टोमादिजन्यविजातीयस्वर्गादिपरम् । १तदवच्छिन्ननिरूपित-कारणतावच्छेदकत्वस्य ज्योतिष्टोमत्वादौ बोधने व्यभिचाराभावान्न किञ्चिद्बाधकम् । अथवा इष्टसाधनत्वरूपविध्यर्थशरीरे संसर्गघटकतया स्वर्गादिनिष्ठं वैजात्यं भासतेऽतः पूर्वं तदनुपस्थितावपि न दोषः । अतः कारणत्वादिग्राहकप्रमाणानामवच्छेदकत्वावगाहित्व-नियमस्य न व्यभिचार इति वाच्यम् । स्वर्गादेरप्रत्यक्षत्वेऽपि वृष्ट्यादेः प्रत्यक्षसिद्धत्वेन तत्रोक्तवैजात्यादेरनुपलम्भबाधितत्वात् संसर्गघटकतया वैजात्यभानस्याप्रामाणिकत्वात् पूर्वमनुपस्थितत्वेन तद्रूपावच्छिन्ने शक्यसम्बन्धरूपलक्षणाग्रहायोगाद्विधौ लक्षणापातेन च तत्पक्षस्यापि दुष्टत्वात् तृणारणिमणिजन्यवह्न्यादौ तत्तज्जन्यतावच्छेदकवैजात्यस्यानुप-लम्भाच्चोक्तनियमानुरोधेनैवाप्रामाणिककल्पनस्यान्योन्याश्रयादिदुष्टत्वात् । तृणारणिमणयो वह्निकारणानीति प्रमाणवाक्ये वह्निपदस्य नानावैजात्यावच्छिन्नोपस्थापकत्वे कारणपदस्य वा नानावैजात्यघटितसंसर्गघटितनानाकारणत्वावच्छिन्नोपस्थापकत्वेऽनुभवविरुद्धानेकार्थकल्पनाप्रसङ्गश्च । तस्मात्कारणत्वादिकं समभिव्याहृतधर्मव्यापकत्वादिनैव भासते तत्सामानाधिकरण्यमात्रेण वा भासते इत्येवोपेयम् । न चैवं द्रव्यं घटकारणं द्रव्यं दण्हकार्यमिति प्रतीतिप्रामाण्यापत्तिस्तथा व्यवहारापत्तिश्चेति वाच्यम् । तद्धर्मोपलक्षिते तदवगाहिप्रतीतीनां तादृशप्रतीतिपरवाक्य-प्रामाण्यादीनां तवापि इष्टत्वेन मयापि तथा वक्तुं शक्यत्वात् । प्रत्यक्षस्थले तु यद्धर्मावच्छिन्नयोरन्यव्यतिरेक१ग्रहात् प्रत्यक्षतद्धर्मयोः कार्यताकारणतानतिरिक्तवृत्तित्व-रूपमवच्छेदकत्वमवगाहते । तृणादिस्थले त्वन्यतमत्ववह्नित्वादिनैव तथा ग्रहः । न तु २वह्नित्वव्याप्यवैजात्येन रूपेण । तादृशवैजात्यस्य प्रथमं प्रत्यक्षेणाग्रहस्योक्तत्वात् । नन्वेवं किं घटकारणमिति प्रश्ने द्रव्यं घटकारणमिति वक्तुरश्रद्धेयवचनत्वं दण्डो घटकारणमिति वक्तुः सम्बद्धभाषित्वं कुतः । दण्डत्वद्रव्यत्वयोः साम्यादिति चेन्न । अकारणे प्रवृत्त्यभाव-पूर्वककारणमात्रप्रवृत्तिनिर्वाहकबोधार्थं पृष्टत्वेन वक्त्रा तादृशबोधो निर्वाह्यः । स च कारणत्वादिसमनियतधर्मस्य वाऽनतिरिक्तवृत्तिधर्मस्य वा बोधेन निर्वाह्य इति तादृशार्थतात्पर्ये द्रव्यं घटकारणमित्यादेरप्रामाण्यमेव । संसर्गविधया भासमानसमनियतत्वादेर्बाधितत्वात् । तदविवक्षायां तादृशं वाक्यमपि प्रमाणम् । प्रमेयदण्डो घटकारणमिति वक्ता न प्रयुङ्क्ते । वाक्यसामान्ये प्रयोजनं विनाऽधिक्यस्य दोषत्वात् । ज्ञानं तु प्रमैव । तस्मात्कारणता-कार्यतावच्छेदकत्वाद्यनङ्गीकारे कस्याप्यनुपपत्तेरभावाद्धर्मविधया संसर्गविधया चावच्छेदकत्वं अप्रामाणिकमेव ।
आधारताधेयतावच्छेदकत्वमप्यप्रामाणिकम् । सर्वत्र तद्धर्मोपलक्षितस्यैवाधारताऽ-धेयत्वादिभानेऽतिप्रसङ्गविरहात् । गुणो गुणकर्मान्यत्वविशिष्टसत्तावानिति प्रतीतेरप्रामाण्यस्य गुणान्यत्वादिरूपविशेषणस्य गुणेऽपि साक्षात्सम्बन्धेन भानस्य विशिष्टवैशिष्ट्यावगाहिता-पदार्थत्वे तद्बाधेनैव निर्वाहात् । अन्यविधस्योपलक्षिततत्प्रतीतित्वेन प्रमात्वस्येष्टत्वात् ।
ननु संयोगादिसंसर्गस्याधारतावच्छेदकत्वानङ्गीकारे संयोगेन घटवद्भूतलमिति वाक्यस्थले तृतीयार्थो नावच्छिन्नत्वम् । किं त्वभेद एव । अन्यस्यायोगात् । स च मतुबर्थे अन्वेतीति वाच्यम् । तत्र मतुबर्थो यदि सम्बन्धातिरिक्ताधारता तदा बाधः । यदि सम्बन्धत्वेन संयोग एव तदा घटो भूतलवानिति व्यवहारः स्यात् । परस्परमुभयोः संयुक्तत्वात् । अवच्छेदकत्वादेरङ्गीकारे तृतीयार्थावच्छिन्नत्वं मतुबर्थाधारतायामन्वेतीति न बाधादिप्रसक्तिः । अतोऽवच्छेदकत्वसिद्धिरिति चेन्न । भूतले घटस्य संयोगात् भूतलं घटवत् घटश्च भूतले वर्तते इत्यबाधितोभयसिद्धप्रतीत्या संयोगादेराधारत्वादिकं प्रति प्रयोजकत्वस्य सिद्धत्वेन तृतीयायाः तदर्थत्वेनैवोपपत्तेः ।
ननु भूतलघटयोः संयोगसाम्ये भूतल एवाधारता कुत इति चेत् । एतद्दोषस्य तवापि साम्येन वस्तुस्वभावस्यैव शरणीकरणीयत्वात् । वस्तुतस्तु संयोगस्थले पदार्थद्वययोर्न संयोग-मात्रेणाधाराधेयभावव्यवहारः । ये पत्रे दृढतया संश्लिष्टे ते यदोभयेऽपि ऋजुतया भूसंबद्धे भवतः तदा परस्परमाधाराधेयव्यवहारो न जायते । तयोरेव परस्परमूर्ध्वाधरीभावेन पर्यायेण स्थापने परस्परमाधाराधेयप्रत्ययः पर्यायेण जायते । तत्र संयोगस्य नियताधारतानियामकत्वे दशात्रयेप्येकस्यैव नियताधारताप्रत्ययः स्यात् । संयोगस्यैकस्यैव दशात्रयेप्यनष्टतया स्थितत्वात् । तथाच संयोगस्थले यदा यस्य यदूर्ध्वदेशसंयोगस्तदा तस्य आधेयत्वं अधोदेशसम्बद्धस्याश्रयत्वं प्रतीयते इत्येव वक्तव्यम् । इत्थं च तदधोदेशसंयुक्तत्व-मात्रस्याधारत्वरूपत्वे तदसंयुक्तनिष्ठतन्मात्रस्याप्याधारत्वापत्त्या तादृशपदार्थे तदाधारत्व-व्यवहारवारणाय तत्संयुक्तनिष्ठतदधोदेशसंयोग एव तदाधारत्वं वाच्यम् । तत्र संयोगान्तरं प्रति संयोगान्तरस्यावच्छेदकत्वे बीजाभावः । विशिष्टसत्तां प्रति विशेषणस्य निर्वाहकतया संयोगपदोत्तरतृतीयाया निमित्तत्वार्थकत्वमेव युक्तम् । एवमाधेयत्वबोधकस्थलेऽपि ।
यद्वा संयोगपदस्य समभिव्याहृतघटसंयोगाद्यर्थकतया तद्घटितत्वमुक्तरीत्याऽऽधार-त्वाद्यन्वययोग्यतृतीयार्थः । घटरूपादिस्थले अभावभूतलादिस्थले वा नैतादृश आधाराधेय-भावः । अतः संसर्गानिबन्धन एव विलक्षणो धर्मिधर्मभावोऽनुभवसिद्धत्वात्प्रातीतिक इति सम्बन्धानिबन्धनत्वादवस्तुकृत इत्यप्युच्यते । विषयितया घटवज्ज्ञानमित्यादौ तु परेषां मतेऽपि मतुबर्थसम्बन्ध्येकदेशे सम्बन्धे तृतीयार्थाभेदान्वयः सम्मत एव । तेषां वृत्त्य-नियामकत्वेनाधारताद्यनवच्छेदकत्वाङ्गीकारात् । समवायकालिकसम्बन्धादयस्तु स्वरूपत एवाप्रामाणिकाः । अनयोः संयोगो वर्तते इदानीमुत्पन्नो नष्ट इत्यादिप्रत्ययवदनयोः समवायो वर्तते कालिको वर्तत इति सार्वजनीनप्रतीतेरभावात् । तत्सत्त्वे सूत्रकारीयानवस्थादूषणस्य मूलक्षत्यभावेनासङ्गतत्वापत्तेः । मतविशेषावलम्बिनां तादृशप्रतीतेरतिप्रसङ्गेनासाधकत्वात् । घटे रूपमिह रूपमिदानीं रूपमभावो वेत्यादिका तु परस्परविलक्षणधर्मधर्मिभावावेवावगाहते । विशिष्टबुद्धिसामान्यस्य संसर्गविषयकत्वनियमासिद्धेर्धर्मधर्मिभावविषयकत्वमात्रनियमेनैव समूहालम्बनवैलक्षण्यसिद्धेस्तयोरुभयसम्मतत्वाच्च ।
एतेनाभावाभिधेयत्वादिस्थले तत्तत्स्वरूपाणां संसर्गत्वकल्पनमप्यपास्तम् । उक्तरीत्यैव सम्भवे तत्कल्पनस्य निर्बीजत्वात् । प्रकारस्वरूपे वा विशेष्यस्वरूपे वा तत्तद्वृत्तिधर्मान्तरेष्वेव वा तत्कल्पनमित्यत्र विनिगमकाभावेनातिरिक्तसम्बन्धस्यैव संयोगादेरिवाङ्गीकारापत्तेः । यदि च प्रत्यक्षबाधान्न तत्सिद्धिस्तर्हि तत्तत्स्वरूपाणां स्वप्रतियोगित्वानुयोगित्वादिकं किमनुभव-सिद्धम् ।
यस्तु ‘अभावभूतलादीनां रूपघटादीनां तादात्म्यं संसर्गतया भासते’ इति । तत्तुच्छम् । तथात्वे सूत्रकारीयानवस्थादूषणस्यात्रापि प्रसरेण समवायपरित्यागे बीजाभावप्रसङ्गात् । न चात्राप्यनवस्थादूषणं वर्तत एव । तेन तादृशसंसर्गाणां मिथ्यात्वं दिद्ध्यत्येव । व्यवहार-दशायां तेषां संसर्गत्वमिति वाच्यम् । समवायेऽपि तथा वक्तुं शक्यत्वेन समवायदूषणेन नैयायिकमतासामञ्जस्यप्रदर्शनानुपपत्तेः । तस्मादुपलक्षणतया सूत्रमेतेषां सर्वेषामनुभवाना-रूढानां निराकरणपरमेवेति वक्तव्यम् ।
ननु तादात्म्यं रूपघटयोः सिद्धान्तसिद्धं कथमपलप्यत इति चेत्सत्यम् । तादात्म्यं यदि भेदाभेदौ तदा तयोरनुभवसिद्धत्वेऽपि संसर्गतया भानमप्रामाणिकम् । यदि तदुभयनिबन्धनं सम्बन्धान्तरं तस्याप्रामाणिकत्वमित्यभिप्रायात् ।
एतेन ‘संयोगसम्बन्धस्थले घटसंयोगस्य घटेऽपि सत्त्वात्तद्घटस्तटवानिति प्रतीतिवारणाय घटाभेदस्य घटेऽपि सत्त्वात् घटो घट इति वाक्यप्रामाण्यवारणाय च प्रकारीभूतव्यक्तिभेद-सामानाधिकरण्यविशिष्टसंयोगाभेदादेः संसर्गतया भानमावश्यकम्’ इत्यपास्तम् । तद्घटे स्वनिरूपितोर्ध्वाधरीभावाभावेन स्वस्मिन् स्वप्रतियोगिकसंयोगानङ्गीकारेण च प्रथमस्थले दोषाभावात् । द्वितीयस्थले कीदृशमप्रामाण्यम् । अबोधकत्वं विपरीतबोधकत्वं वा । नाद्यः । भेदस्य सम्बन्धघटकतायास्तद्वाक्यस्याबोधकत्वे प्रयोजकत्वप्रकारानिरूपणात् । योग्यता-विरहसम्पादकतया तत्रोपयोग इति चेत् । अयोग्यवाक्यादपि शाब्ददर्शनेन कलहस्थले बाधग्रहेऽपि शाब्दस्याङ्गीकृतत्वेन च तस्याबोधकत्वाप्रयोजकत्वात् । न द्वितीयः । घटो घट इति वक्तरि सिद्धार्थकत्वेनाज्ञातज्ञापकत्वाभावस्यैव सर्वाभिमतत्वेन जरद्गवादिवाक्यवद्विपरीत-बोधकत्वस्य सर्वानुभवविरुद्धत्वात् । तस्माद्भेदस्य संसर्गतया भाने न किञ्चित्साधकम् । नीलो घट इत्यादौ वाक्यार्थत्वानुभवादैक्यमात्रं तथास्तु । संयोगैक्यादेः संसर्गत्वेऽपि कुतो न सूत्रोक्तानवस्थेति चेत् । तयोरनुभवसिद्धत्वेन संसर्गत्वेऽपि सर्वत्र विशिष्टबुद्धिमात्रे संसर्गविषयकत्वनियममभ्युपगम्य रूपादिबुद्ध्यनुरोधादननुभवसिद्धसम्बन्धरूपसमवायकल्पने तद्विशिष्टबुद्धितद्विशिष्टबुद्ध्यनुरोधेन सम्बन्धपरम्पराकल्पनयाऽनवस्थायाः सूत्रकृताऽभि-हितत्वात् । न च रूपादिप्रतीतौ धर्मधर्मिभावभानाभ्युपगमे तदीयधर्मिधर्मभावपरम्परयाऽ-नवस्था कुतो न प्रसरतीति वाच्यम् । घटाधारतावान् तदाधारतावानित्यादिप्रतीतीनां सम्बन्धविशेषतदवच्छिन्नाधारतास्वीकारिभिर्नैयायिकैरनवस्थापरिहारस्य यथा निर्वाहः क्रियते मया तथा कर्तुं शक्यत्वात् । एकेनैव विषयेण तथाविधनानाव्यवहारोत्पत्तिनिर्वाहस्या-प्रामाणिकप्रतियोगिकात्यन्ताभावविचारेऽभिहितत्वाच्च । तस्मात्समवायादेरप्रामाणिकत्वा-त्संयोगादेस्त्वनवच्छेदकत्वान्न कस्यापि संसर्गस्याधारताद्यवच्छेदकत्वमिति स्थितम् ।
नन्वेवमवच्छेदकत्वस्वरूपनिराकरणे भाष्यगीताभाष्यादौ ‘यथा कालः पूर्व इत्यव-च्छेद्योऽवच्छेदकश्च भवति’ ‘कर्तृशब्दश्च कालावच्छेदेऽपि प्रसिद्धः’ इति च व्यवहारस्या-प्रामाण्यापत्तिरिति चेन्न । तेषामर्थान्तरस्य टीकायामेवोक्तत्वेन तद्वाक्यस्य नैयायिकाभिमता-वच्छेदकत्वार्थकत्वाभावात् । चन्द्रिकाभावबोधकृतां स्वग्रन्थेषु क्वचित्तथा व्यवहारस्तु प्रायः पररीत्यैव । बहूनां व्युत्पन्नत्वात्तान् प्रति व्यवहारसौकर्याय पररीतिमाश्रित्यैवा-नैकान्तिकत्वादिव्यवहारवत् । अन्यथाऽवच्छेदकत्वादिपदार्थाभ्युपगमे विशेषनिरूपणे वक्ष्यमाणरीत्या विशेषासिद्धिप्रसङ्गात् । प्रकारताधर्मितावच्छेदकत्वादिपदवाच्यास्तु विषयता-विशेषा अनुव्यवसायसिद्धा इति न तत्र विवादः । तस्मादवच्छेदकत्वादीनामप्रामाणिकत्वा-त्तन्निर्वाह्या सर्वापि त्वत्प्रक्रियाऽप्रामाणिक्येवेति स्थितम् ।