न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः

अनिर्वचनीयत्वसाधकत्वेनाभिमतार्थापत्तेर्व्याप्त्यभावोपपादनम्

न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः

श्रीमज्जयतीर्थटीका

अथ वाऽत्यन्तासतो नरविषाणादेरपि तत्पदात्प्रतीतिसम्भवेनासन्न प्रतीयत इति व्याप्त्यभावाच्छुक्तिरजतादेरत्यन्तासत्त्वेनैवोपपत्तेः तथा अन्यथाविज्ञातस्य सम्यग्विज्ञान-गोचरत्वस्य बाध्यत्वस्य सतश्चिदानन्दात्मनोऽपि सम्भवेन सन्न बाध्यत इति व्याप्त्य-भावादम्बरादेस्सत्त्वेनैवोपपत्तेर्नार्थापत्त्याऽनिर्वचनीयतासिद्धिरिति व्याख्येयम् ।

द्वैतद्युमणि:

तस्याः पृथक्प्रामाण्यमङ्गीकृत्याप्येतद्दूषणपरत्वं मूलस्याह ।। अथ वेति ।। तत्पदादिति ।। नरविषाणमिति पदादित्यर्थः । तस्यापि सुबन्तत्वरूपपदत्वमस्त्येव । समासशक्तिपक्षे शक्तिमत्त्वरूपपदत्वमपि । एतच्चाग्रे विवेचयिष्यते । यद्वा तत्पदादित्यस्य तदितिपदादित्यर्थः । तस्य च सर्वनामत्वान्नरविषाणबोधकत्वमक्षतमेवेति भावः । यद्यपि ज्ञाननिवर्त्यत्वादिरूपमेव बाध्यत्वं पराभिमतं तथापि तद्वक्ष्यमाणरीत्या जगत्यसिद्धम् । अर्थापत्तिश्च जगतोऽप्यनिर्वचनीयत्वसाधकत्वेन पराभिमता । अतस्तत्साधारणमेव बाद्यत्वं निर्वाच्यम् । तच्चान्यथाविज्ञातस्येत्यादिरूपमेवेति सिद्धवत्कृत्याऽह ।। तथेति ।। चिदात्मन इति ।। क्षणिकत्वादिना गृहीतस्य स्थिरत्वादिना ग्रहविषयतायाः सत्त्वादित्यर्थः ।। अम्ब-रादेरिति ।। आगमनिराकरणावसरे अद्भुतत्वादनिर्वाच्यमित्यादिना जगत्सामान्यानिर्वचनीयत्व बोधकवाक्यगत्युक्त्या जगत्सामान्यस्यापि प्रसक्तत्वेनार्थापत्तिशङ्कापि तत्सामान्यविषयिण्ये-वोचितेत्याशयेन मूलकारैस्तत्सामान्यमेव प्रस्तावितम् । अत एव ‘ न च बाध्यं जगत्’ इति वक्ष्यते । अतस्तदनुसारेणाम्बरादेरित्युक्तम् ।