न च भावाभावविलक्षणं क्वचिदागमो वक्ति..
सदसद्वैलक्षण्ये निरवकाशागमप्रमाणाभावनिरूपणम्
श्रीमज्जयतीर्थटीका
अस्त्वागमस्तर्ह्यनिर्वचनीयार्थे मानमिति चेत् । स किं सदसद्विलक्षणमेतदिति निरवकाशतया विवक्षितार्थस्य प्रतिपादको भवेत् । उतानिर्वचनीयमेतदित्यादिरूपः । नाद्योऽनुपलम्भादित्याह
मूलं
न च भावाभावविलक्षणं क्वचिदागमो वक्ति
चशब्दः प्रमाणान्तरनिराकरणसमुच्चये । क्वचित् प्रदेशे । निरवकाशागमपक्ष-निराकरणसूचनायानिर्वचनीयमिति लक्ष्यप्रक्रमं विहाय भावाभावविलक्षणमिति १लक्षणा-नुवादः कृतः । तर्हि सदसद्विलक्षणमिति वक्तव्यम् । तस्यैवानिर्वचनीयलक्षणत्वेन परैरङ्गी-कृतत्वात् । मैवम् । यतोऽत्र न भावाभावशब्दौ २रूढ्या विधिनिषेधयोरभिधायकौ । किं तु योगेन सदसत्परौ । विधिनिषेधपरत्वेऽपि केनापि प्रकारेण निर्वक्तुमशक्यमनिर्वचनीयम् । सदसद्विलक्षणत्वं तूपलक्षणत्वेनोच्यत इति परैरङ्गीकृतत्वाददोषः । अत एव ‘उभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितम्’ इति भिन्नाभिन्नविलक्षणत्वेनानिर्वचनीयत्वं वक्ष्यति । प्रसिद्धातिक्रमस्तूत्तरार्थः । तच्च दर्शयिष्यामः ।
द्वैतद्युमणि:
।। क्वचित्प्रदेश इति ।। कस्यामपि शाखायामित्यर्थः । ननु न चानिर्वचनीये किञ्चिन्मानमिति लक्ष्यस्यैव प्रक्रान्तत्वादिदानीं तथैव वक्तव्यम् । न च भावाभावविलक्षण-मिति लक्षणोक्तिपूर्वकनिर्देशे किं बीजमित्यतस्तद्व्यञ्जयन्नाह ।। निरवकाशेति ।। योगेनेति ।। भवतीति भावः सन् । स न भवतीत्यभावोऽसन्नित्यर्थः ।। विधिनिषेधपरत्वेऽपीति ।। ननु विधिनिषेधपरत्वे भावरूपाभावरूपतत्वद्वयविलक्षणत्वमेवोक्तं स्यात् । तच्चासत्यतिव्याप्तत्वात् कथमनिर्वचनीयलक्षणत्वेनाभिमतम् । किञ्चास्यापि लक्षणस्य पूर्वमेव प्रक्रान्ततायाः पूर्वोक्त-रीत्याऽऽवश्यकत्वे तस्यासत्येव सत्त्वेन न तस्याप्रसिद्धविशेषणत्वव्याहत्यादीति । मैवम् । निषेधपदस्य प्रकृते भावभिन्नपरत्वेन भावतद्भिन्नोभयवैलक्षण्यस्यासत्यप्ययोगेन पूर्वोक्ताप्रसिद्ध-विशेषणत्वादिसङ्गतेः । न च ‘भावाभावशब्दौ रूढ्या न विधिनिषेधपरौ’ इति पूर्वनिषिद्धार्थ-स्यैवैतद्वाक्यार्थत्वेनाङ्गीकारः सूच्यते । न हीदं निषेधपदस्य भावभिन्नार्थत्वे युज्यते । मौलाभावपदस्य योगेन भावभिन्नपरत्वेऽपि तत्र रूढेरभावादिति वाच्यम् । अत्रानुवादे रूढ्येत्यंशं विहाय विधिनिषेधपरत्वेऽपीत्युक्तिस्वारस्यादेवाव्यवहितपूर्ववाक्यप्रक्रान्तयोग-मात्राङ्गीकारपूर्वकं रूढेरविवक्षितत्वलाभेनोक्तबाधकानवकाशात् ।। परैरङ्गीकृतत्वादिति ।। अत एवानिर्वचनीयवादार्थे ब्रह्मानन्देनाभिहितं ‘न चाज्ञानस्य प्रागमावरूपत्वे भावाभाव-विलक्षणत्वचैतन्यविषयकत्वादिसिद्धान्तव्याघात इति वाच्यम् । परेषामज्ञानस्य भावस्यापि ध्वंसप्रागभावत्वसविषयत्वादिवत् भावाभावविलक्षणत्वसविषयत्वादिसत्त्वेऽपि प्रागभावत्वा-विरोधात्’ इति । एवमद्वैतसिद्धौ सत्त्वासत्त्वे समानाधिकरणाभावप्रतियोगिनीत्यनुमानस्याऽ-भासनिरासप्रस्तावे ‘नित्यानित्यत्वकल्पितत्वाकल्पितत्वादिकमपि पक्षीकृत्यैवं साध्यमनुमेयं स्यादित्याशङ्क्यानिर्वचनीयवादिनस्स्वेष्टत्वादित्यादिना तां शङ्कां निराकृत्य ‘न हि स्वरूपतः कल्पितस्य किञ्चिदपि रूपं वास्तवम्’ इत्याद्यभिधानं सङ्गच्छते । अन्यथा तस्यापसिद्धान्तः स्यात् । एवं विवरणेऽपि अविद्यानिवृत्त्यभावसाधकपूर्वपक्षिहेतोरनादित्वस्य प्रागभावे व्यभिचारवारणाय भावत्वे सतीति तेनानादित्वविशेषणे दत्ते ‘अनिर्वचनीयत्वादज्ञानस्य’ इत्याभिहितं भावाभावविलक्षणत्वरूपानिर्वचनीयत्ववत्त्वादसिद्धं भावत्वविशेषणमित्याशयेन अन्यथा तदुक्तिस्तत्रानुपयुक्ता स्यात् । एवमुत्तरत्रापि ‘अभाववैलक्षण्यादात्मवदज्ञानस्या-निवृत्तिरिति चेन्न । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात्’ इति । तत्र सत्पदं भावपरमेव । अन्यथा घटादिकं विहाय प्रागभावपर्यन्तं दृष्टान्तानुसरणवैयर्थ्यापत्तेः । भावपदं विहाय सत्पदोपादानं लक्षणवाक्यघटकसत्पदं भावपरं विकल्पेन भवतीति सूचनायेति स्वर-सतोऽवगम्यत इति ध्येयम् । अदोषः अनुक्तोपालम्भरूपदोषाभावः । पराभिप्रेतमिदमित्ये-तदाचार्यस्यापि सम्मतम् । अतो नेदं द्वितीयव्याख्यानं तदनभिमतमित्याशयेनाह ।। अत एवेति ।। प्रसिद्धेति ।। तन्मते प्रचुरव्यवहारविषयकल्पातिक्रम इत्यर्थः ।। उत्तरार्थ इति ।। नासदासीदिति श्रुतेरेतत्कल्पे किञ्चित्स्वारस्यस्य पररीतिमादाय सम्भवेन तदादाय स्वकीयोत्तर ग्रन्थोत्थितौ किञ्चित्सदलपक्षनिराकरणरूपमुत्तरवाक्यस्य पौष्ट्यं तत्सम्पादक इत्यर्थः ।