अनित्यदेशकालसम्बन्धित्वस्य..

तत्त्वमस्यादिवाक्यानामखण्डार्थतासाधकानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्

श्रीमज्जयतीर्थटीका

द्वितीयं दृष्टान्तं दूषयति

मूलं

अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात् न सोऽयं देवदत्त इत्याद्युपमा च

इत्यादिवाक्यमुपमा तत्त्वमस्यादिवाक्यस्याखण्डार्थतायामिति शेषः । तदेतद्देश-कालसम्बन्धित्वं हि स इत्यादिपदवाच्योऽर्थः । तच्चास्त्येव देवदत्तादौ प्रमितमिति वाच्यार्थसम्भवान्न सोऽयं देवदत्त इत्यादिवाक्यं लक्षणया देवदत्तादिस्वरूपमात्रपरम् । अतो नैतद्दृष्टान्तेन तत्त्वमस्यादिवाक्यानामखण्डार्थतासिद्धिः ।

द्वैतद्युमणि:

इत्याद्युपमा चेत्यत्र इत्यादि उपमा चेति छेदमभिप्रेत्य व्याचष्टे ।। इत्यादि-वाक्यमिति ।। अस्त्येवेति ।। पूर्वकाल इति शेषः । तथा च तदाश्रयत्वं न देवदत्ते बाधितमिति भावः ।