न चैकजीवाज्ञानपरिकल्पिताः..

एकजीववादे अनुपपत्तिसमर्थनम्

न चैकजीवाज्ञानपरिकल्पिताः

द्वैतद्युमणि:

यत्तु केनाचित्प्रलपितं ‘‘एकजीववादे तु न काऽप्यनुपपत्तिः । नन्वेकस्य जीवत्वे तस्य भेदनिष्ठत्वात्तत्राग्रहो वर्धेत । तथा च नैव कदाप्यद्वैतनिश्चयो भवेत् । तथा चानिर्मोक्षप्रपञ्च-परमार्थत्वाद्यापत्तिः । इति चेन्न । यथा जीवे स्वातन्त्र्यभिमानस्यानादित्वेऽपि सत्परिपाक-वशाद्भगवदनुग्रहादिना तन्निवृत्तिरेवमनादिभवसञ्चितभेदवासनस्यापि पुंसः समाराधित-परमपुरुषस्य तदनुग्रहात्तन्निवृत्तिसम्भवात् । मोक्षश्रुतिप्रामाण्याच्च । न च शुकवामदेवादि-मुक्तिपरा अर्थवादा एवेति वाच्यम् । यतोऽर्थवादोऽपि पुरुषस्य प्रवृत्त्यङ्गतयोपयुज्यते । असति च पुरुषार्थे क्वास्योपयोग इति त्वमेव सुचिरं भावय । न चैकजीववादे प्रमाणाभावः । ‘मायां तु प्रकृतिं विद्यात्’ इत्यादिश्रुतप्रकृत्यैक्ये लाघवानुसन्धानेनोपाध्यैक्ये ‘तदुपहितैक-जीवो जीवेशावाभासेन करेति’ इति श्रुत्युपोद्बलितन्यायेन तत्सिद्धेः । यत्तु ‘एतावन्तं कालं कस्याप्यमुक्तौ मुक्तावनाश्वासादग्रेऽपि मुक्तिर्न स्यात्’ इति तदप्ययुक्तम् । बहुजीववादेऽप्ये-तावन्तं कालममुक्तस्यास्य कथमग्रे मुक्तिः स्यादिति दोषसाम्यादनाश्वासहेतोस्तुल्यत्वात् । प्रमाणबलात्तन्निरासश्च प्रकृतेप्यक्षतः’’ इति ।

तन्न । औतसिद्धितट्टीकोक्तनिखिलस्यापि टीकाव्याख्यानावसर एव निरस्तत्वेन तदेकदेशोक्तेरस्याप्यनवशिष्टत्वात् । परन्त्वेकजीववादस्य निरीश्वरत्वेनेशजीवरूपचेतनद्वय-प्रतिपादिकायाः श्रुतेः एतन्मतविरोधित्वेन चिन्तनीयगतिकाया एतन्मतोपोद्बलकत्वो-त्कीर्तनमयुक्तम् । एवं श्रवणादिरूपस्य मुक्तिसाधनत्वेन विहितस्य अनुष्ठानवत्स्वपि सर्वेषु कस्यापि मुक्तेरनुत्पन्नत्वात्तत्कारणत्वादावविश्वास इत्यभिहिते, एतावत्कालमीश्वरेच्छोपो-द्बलितकर्मबद्धानामननुष्ठितसाधनानां मुक्त्यभावस्याविश्वासहेतुत्वाभावेनाविश्वाससाम्यापादन-स्यासङ्गतत्वं च ।

अपि च तेनैतावद्ग्रन्थपर्यन्तमविच्छेदेन स्वमतज्ञानसिद्धये स्वमतरीतिमेवोक्त्वा पूर्वोक्त-भास्करमतनिरासकमूलटीकादूषणाभासरूपं स्वग्रन्थमिदानीमेवानूदितस्वग्रन्थाव्यवहितोत्तर- मुपनिबध्य स्वग्रन्थः समापितः । ‘‘यत्तु ‘सत्योपाधिकृतसत्यभेदवाददूषणं’ तदपि न ।

आमुक्तेर्भेद एव स्याज्जीवस्य परमस्य च’ ।

इत्याद्युक्त्या संसारदशायां भेदाभावानभ्युपगमेनेदानीं जीवसुखाद्यनुसन्धानापादनायोगात् अग्रे चोपाधिभेदनाद्भेदाभावो निष्प्रत्यूहः इति मुक्तौ परैक्याविरोधः । ननु मुक्तौ परमेश्वरस्वरूपातिरिक्तं जीवस्वरूपमस्ति न वा ? आद्ये भेदो नास्तीति पारिभाषिकं स्यात् । न द्वितीयः । जीवस्य मुक्तावनन्वयप्रसङ्गादिति चेन्मैवम् । नित्यं च जीवस्वरूपं परमात्मैव । अनित्यं च सांसारिकं रूपम् । एवं चौपाधिकसांसारिकरूपस्य ब्रह्मण्येव लयो मुक्तिः । नित्यरूपेण च मुक्त्यन्वय इति न किञ्चिदसमञ्जसम् ।

किञ्च त्वन्मते भेदाभावेऽपि यथा ज्ञानानन्दात्मकरूपद्वयं स्वीक्रियते एवं तन्मतेऽप्यस्तु । मया विशेषोऽभ्युपेयत इति चेत् किं चातः ? त्वन्मते सविशेषात्यन्ताभेद इव मन्मते निर्विशेषात्यन्ताभेदेऽपि व्यक्तिद्वयसम्भवात् । स्वरूपत्वस्यैव विशेषत्वसम्भवाच्च । यद्यप्येवं संसारदशायामपि विना भेदं रूपद्वयमात्राभ्युपगममात्रेण सर्वनिर्वाहादामुक्तेर्भेदाभ्युपगमो व्यर्थ आपद्यते । तथाऽपि प्रत्यक्षागमरूपप्रमाणद्वयतात्विकत्वनिर्वाहाय भेदोऽप्यवश्यं वाच्यः । तस्य स्वाभाविकत्वे न तदभावो मुक्त्यन्वयी स्यादित्यद्धैव श्रुतिरप्रमाणं स्यादस्वारसिकार्था वा स्यादिति प्रत्यक्षाभेदश्रुत्यविरोधाय भेदस्यौपाधिकत्वाभ्युपगम इति युक्तमुत्पश्यामः । एवं च मुक्तः पूर्णानन्दनिर्भेदचिन्मात्रात्मक इति सिद्धं’’ इति ।

तन्न । पूर्वं टीकाव्याख्यावसर एव दुःखानुसन्धानादिनिखिलदूषणानामुपपादितत्वात् । औपाधिकभेदासम्भवस्य दर्शितत्वाच्च । उदाहृतोदाहरिष्यमाणतारतम्यावेदकनिरवकाश-प्रमाणानुपपत्तिप्रसङ्गेन मुक्तौ भेदनिवृत्तेर्वक्तुमशक्यत्वाच्च । किञ्चेत्यादिकल्पनाऽत्यन्ताशुद्धा । लोके तत्कार्यविशेषस्य प्रमितस्य तत्प्रतिनिधिना दृष्टत्वात् लोकक्लृप्तसामग्रीं विनाऽपि बहुकार्याणां मन्त्रौषधियोगसामर्थ्यदिरूपालौकिककारणार्दिभिर्दृष्टत्वाच्च प्रमाणबलेन तेषामपि कार्यनिर्वाहकत्ववत् विशेषस्य पूर्वोक्तयुक्तिभिरवश्यं भेदकार्यनिर्वाहकत्वाभ्युपगमसम्भवात् । भेदतत्प्रतिनिध्युभयं विनाऽपि कार्यस्य स्वीकारे कारणं विनैव कार्यं भवत्वित्युक्तेर्व्याहत-त्वात् । स्वरूपत्वस्य सर्वभेदवैधुर्यलक्षणमुक्तौ भिन्नतया धर्मत्वायोगादत्यन्ताभिन्नतया र्धमत्वेन विशेषत्वे विशेषः स्वीक्रियत एवेति विशेषो नास्तीत्यस्य रिक्तत्वाच्च । किञ्चेत्यादेः कल्पितभेदाभिप्रायकत्वं तु न घटते । सर्वकल्पनातीतमुक्तौ तदुपपादनार्थं प्रसक्तत्वात् । यद्यपीति स्वकीयोत्तरग्रन्थविरोधाच्च । तत्र भेदविशेषादिकमपि प्रयोजकं विनैव सर्वनिर्वाह-माशङ्क्य संसारभेदाङ्गीकारस्य प्रमाणमूलकत्वमात्रव्युत्पादनात् । तस्मात्त्वदीयग्रन्थ-स्याऽमूलाग्रमशुद्धत्वादुपसंहारवाक्यमत्यन्ताशुद्धमेवेति गतमत्सरा विचारपरा विद्वासो विदाङ्कुर्वन्तुतराम् ।