न हि ज्ञानज्ञेययोरेकाऽकारता
ज्ञानकर्मत्वविषयत्वयोरविशेषसमर्थनम्
न हि ज्ञानज्ञेययोरेकाऽकारता
श्रीमज्जयतीर्थटीका
नन्वात्मनो दृक्कर्मत्वाभावे वेदान्तवाक्यजनितविज्ञानस्याऽत्माकारत्वं नोपपद्यत इति प्रतिज्ञाय ‘अतत्कर्मत्वादेव’ इति हेत्वाभिधानं ‘तत्कर्मत्वमेव हि तदाकारत्वम्’ इत्युपपादनं चोचितम् । ‘अतद्विषयत्वादेव’ इत्यादि तु केन सङ्गच्छते । मैवम् । शश-विषाणशब्दात्तदाकारं ज्ञानमुपजायत इति तावत्साक्षिसिद्धम् । न तु तत्सकर्मकम् । तथा वेदान्तवाक्यजनितं विज्ञानमनात्मकर्मकमप्यात्माकारं किं न स्यादित्येतदाशङ्कानिवृत्तये ज्ञानं प्रति कर्मत्वविषयत्वयोर्विशेषाभावसूचनाय कर्मोपक्रमेण विषयव्यवहारस्य सार्थकत्वात् ।
तथा हि, शशविषाणशब्दादुपजायमानं ज्ञानं सविषयं निर्विषयं वा । निर्विषयत्वे ज्ञानमेव न स्यात् घटवत् । सविषयत्वे कथमकर्मकं स्यात् । विषयस्यैव कर्मत्वात् ।
अथ कथं शशविषाणस्य सकलसामर्थ्यविकलस्य कर्मत्वमिति चेत् विषयत्वमपि कथम् । न विषयत्वं नाम वस्तुसामर्थ्यम् । किं नाम करणसामर्थ्याद्यदुल्लेखिज्ञानमुपजायते स विषय इत्युच्यत इति चेत् अथ ज्ञानं प्रति कर्मत्वमपि किमधिकं पश्यसि । जनकत्व-मिति चेन्न । ज्ञानं प्रत्यर्थस्य क्वापि जनकताऽसम्मतेः । अपरोक्षज्ञानेऽपि कर्मणो न ज्ञानोत्पत्तौ व्यापारः । केवलं करणसन्निकर्षनिष्पत्तावेव तत्सत्तोपयुज्यते । यत्र तु शाब्दादौ ज्ञाने विनापि विषयसत्त्वेन करणसन्निकर्षोत्पत्तिस्तत्रासतोऽपि कर्मत्वे किमनुपपन्नम् ।
ननु कर्तुरन्यत्वे सति क्रियाजन्यफलाश्रयत्वं कर्मत्वम् । यथा गतिजन्यसंयोगाश्रयत्वं ग्रामस्य । न च शशविषाणादीनां ज्ञानजन्यफलाश्रयत्वमिति कथं कर्मतेति चेन्न । तत्रापि ज्ञानेन शाब्दव्यवहारजननात् । साक्षात्तदाश्रितं फलं नास्तीति चेत् । एवं तर्हि ज्ञानकर्ममात्रे तदभावेनाव्यापकं कर्मलक्षणं स्यात् । ज्ञाततायाश्चान्यत्र निराकृतत्वात् ।
एतेन ‘आत्मनि प्रकाशरूपे ज्ञानजन्यप्रकाशोदयासम्भवात् आत्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वं न स्यात् इत्याद्यतिप्रसङ्गो विपर्ययापर्यवसायी’ इत्येतदपि निरस्तम् ।
किञ्च ज्ञानजन्यफलाश्रयत्वं चेज्ज्ञानकर्मत्वं तदा दृश्यत्वहेतुः प्रतिवादिनोऽसिद्धः स्यात् । ज्ञातताङ्गीकारिभिरपि नित्यानुमेयेषु तदनङ्गीकाराद्भागासिद्धः स्यादिति ।
द्वैतद्युमणि:
।। केन सङ्गच्छत इति ।। कर्मत्वविषयत्वयोर्भेदादिति भावः ।। सकल-सामर्थ्यविकलस्येति ।। सामर्थ्यस्य कारणत्वरूपस्य कालसम्बन्धव्याप्यत्वादिति भावः । यदुल्लेखि यद्व्यवहारादिप्रयोजकशक्तिरूपविषयिताशालि ।। स इति ।। तादृशविषयिता-निरूपक इत्यर्थः ।। ज्ञानं प्रतीति ।। गत्यादिनिरूपितकर्मत्वस्य संयोगाश्रयत्वरूपत्वादेव-मुक्तम् ।। जनकत्वमिति ।। जनकत्वसमानाधिकरणमेव तादृशविषयितानिरूपकत्वमित्यर्थः । कर्मत्वस्य कारकत्वव्याप्यत्वात्कारकत्वस्य क्रियाजनकत्वरूपत्वादित्याशयः ।। असम्मते-रिति ।। १विषयसत्त्वेनेत्यादिः । तेन ‘चैत्र ईश्वरं वा स्वमात्मानं वा जानाति’ इत्यादौ विषयस्य कारणत्वेऽपि न क्षतिः । तादृशकारणत्वमेव सार्वत्रिकत्वाद्वक्तव्यमिति भावः । तथा च यत्क्रियास्थले यादृशकर्म प्रसिद्ध्यति अधिकरणादिकं च प्रसिद्ध्यति तत्र तावदन्यतमत्वमेव तत्क्रियाकारकत्वम् । क्रियाजनकत्वं तु प्रायिकम् । अन्यथा ईश्वरो घटं जानाति अस्ति, इत्यादिस्थले तदीयज्ञानसत्त्वयोर्नित्यत्वेन घटेश्वरयोः कर्मकर्तृकारकत्वानु-पपत्तिरिति भावः । ननु विषयस्य प्रत्यक्षान्वयिव्यतिरेकित्वेन तत्कारणत्वावधृत्या कारणत्व-ग्रहः सामान्यत एव विषयत्वेन जन्यज्ञानत्वेन जायते । यद्विशेषयोरिति न्यायादित्यतः तमेवादौ वस्तुस्थितिमनुरुद्ध्य दूषयति ।। अपरोक्षज्ञानेऽपीति ।। ज्ञानोत्पत्तौ व्यापार इति ।। न ज्ञानोपधायककोटौ निवेश इत्यर्थः । सन्निकर्षनिवेशस्यावश्यकत्वेनास्यान्यथासिद्धत्वादिति भावः ।
ननु तर्हीन्द्रियाणामप्यन्यथासिद्ध्यापत्तिरुक्तरीत्या । यदि च स्वतन्त्रान्वयव्यतिरेक-शालित्वेनावधृतकारणताकत्वात्तन्निर्वाहायैव सन्निकर्षकारणत्वस्य कल्पनेन न तस्यान्यथा-सिद्धिरुपजीव्यविरोधादिति ब्रूषे विषयस्यापि तथात्वमेवास्तु । वैषम्यस्योपपादयितुमशक्य-त्वादिति चेन्न । ज्ञानत्वेन प्रत्यक्षजातीयानुमित्यादिस्थले विषयं विनाप्यतीतादिविषयकानु-मित्याद्युत्पत्तिदर्शनात् कारणीभूतलिङ्गपरामर्शरूपव्यापारादिकं विना तदुत्पत्त्यदर्शनात् करणव्यापारादीनामवश्यक्लृप्तत्वेन तज्जातीयप्रत्यक्षेऽपि तथैव कार्यसम्भवे तत्सहभूतविषयस्या-न्यथासिद्धताया एवोचितत्वात् । अन्यथा चाक्षुषप्रत्यक्षमात्रेऽनेकद्रव्यत्वस्य (द्रव्य) समवेत-द्रव्यसमवेतत्वरूपस्य कारणत्वापत्तेः । गौरवात्तस्य कारणत्वानङ्गीकारेऽत्रापि तथास्तु । विषयत्वमात्रं प्रत्यक्षाकारणेषु ज्ञानलक्षणादिना भासमानेषु तदिन्द्रियायोग्यातीन्द्रियनष्ट-विषयादिष्वतिप्रसक्तम् । २विषयतात्वव्याप्यो लौकिकत्वाख्यधर्मश्चेदपि स एव दोषः । तदिन्द्रियायोग्येपीन्द्रियान्तरयोग्ये नष्टे वा लौकिकविषयत्वानपायेन तत्तत्प्रत्यक्षे तेषां तेषां विषयाणां कारणत्वापत्तेः । तत्तत्प्रत्यक्षं प्रति तदीयलौकिकविषयत्वावच्छिन्नस्य कारणत्व-मिति विशेषकार्यकारणभावाङ्गीकारे यत्र दोषविशेषबलेन नष्टपदार्थभानं तत्र तत्साक्षा-त्करोमीति प्रत्ययानुरोधेन लौकिकविषयत्वावश्यकत्वाद्व्यभिचारः ।
एतेन घटवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षे घटत्वेन हेतुत्वपक्षोऽपि परास्तः । उक्तस्थल एव व्यभिचारात् । तत्तद्दोषाप्रयोज्यलौकिकविषयित्वाधिकरणत्वस्य कार्यतावच्छेद-कत्वे गौरवम् । इन्द्रियसन्निकर्षकार्यतावच्छेदककोटौ तन्निवेशस्तूभयसम्मतः । घटत्व-पटत्वादिनानाधर्माणां कारणतावच्छेदकत्वे गौरवम् । एवं तादात्म्यत्वस्य तद्वृत्त्य-साधारणधर्मत्वरूपस्य कारणतावच्छेदकसंसर्गतावच्छेदकत्वे च गौरवम् । एवं विनश्य-दवस्थापन्नघटादिविषयस्थले घटलौकिकचाक्षुषवारणाय विषयकारणत्ववादिना तस्य कार्यकालवृत्तित्वेन कारणत्वाङ्गीकारे सुखादिसविकल्पकेषु तदभावाद्व्यभिचारः । तस्य पूर्वकालमात्रवृत्तित्वमात्रेण कारणत्वाङ्गीकारे वैरूप्यात्पुनर्गौरवमेवेति दिक् ।
नन्वस्तु फलीभूतज्ञाने संन्निकर्षेण विषयस्याऽन्यथासिद्धत्वम् । विषयकारणयोः सन्निकर्षार्थमपि विषयसत्तापेक्षायामपि कथमसतो विषयत्वरूपकर्मत्वमित्यत आह ।। यत्र त्विति ।। शाब्दादाविति ।। सप्तम्यर्थनिरूपितत्वं करणत्वेऽन्वेति । तथा च शब्दज्ञान-लिङ्गज्ञानयोरेव करणत्वात् तत्संन्निकर्षस्य तत्र व्यापकतया तदीयवृत्तिमत्त्वेन भासमानत्व-रूपत्वात्तस्य च तज्ज्ञानकालेऽविद्यमानयोरतीतानागतयोरिव सर्वथाऽविद्यमानस्यासतोऽपि सम्भवेन न किञ्चिदपि बाधकम् । असतः प्रतीतिस्तु पूर्वं निपुणतरमुपपादितेति भावः । गत्यादिस्थले यादृशं तादृशमेव ज्ञानकर्मत्वमपीत्याशयेन शङ्कते ।। नन्विति ।। संयोगस्यो-भयत्राप्युपपत्तेः कर्तर्यतिव्याप्तिवारणाय कृतभिन्नेति । फलसम्बन्धमात्रविवक्षायां प्रकृते न हानिः । १साक्षात्सम्बन्धस्तु ज्ञानस्थले सर्वत्रासम्भवीत्याह ।। तत्रापीति ।। २शब्दव्यवहारा-दीति ।। आदिना प्रवृत्त्यादिग्रहः । शब्दसम्बन्धश्च तज्जन्यशाब्दविषयत्वमेव । क्वचिच्छाब्दादीति पाठः । तत्रापि प्रथमज्ञानस्य शब्दज्ञानमपि फलं भवतीति तथोक्तिः ।
इदं तु तुष्यत्विति न्यायेनोक्तम् । वस्तुतस्तु ज्ञानस्थले नैतत्सम्भवति । उदासीनारण्य-स्थानेकपदार्थदर्शनस्थले केषुचित्प्रवृत्तिनिवृत्तिरागद्वेषव्यवहाररूपस्य कस्यापि फलस्या-सम्भवेनासार्वत्रिकत्वात्तान् जानाति चैत्र इति व्यवहारानुपपत्तेरिति अवधेयम् । ननु ज्ञाततारूपफलं तत्रापि सम्भवतीत्यत आह ।। ज्ञातताया इति ।। अन्यत्रेति ।।
न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
इत्यनेन भक्तिपादीयानुव्याख्यानेनेत्यर्थः ।। एतेनेति ।। साक्षात्फलाश्रयत्वघटित-कर्मत्वस्य वक्तुमशक्यत्वेन परम्परया तत्सम्बन्धस्य तद्धटकत्वोपपादनेनेत्यर्थः ।। प्रकाशोदयासम्भवेनेति ।। वैयर्थ्यरूपयुक्तिपराहतत्वेनेत्यर्थः । घटादीनामप्रकाशात्मकानां दीपादिप्रकाशेन व्यवहारादिदर्शनेऽपि दीपस्य प्रकाशरूपस्य प्रकाशान्तरसम्बन्धं विनाऽपि व्यवहारदर्शनेनात्मन्यपि तथैव सम्भवे घटादाविव तत्र प्रकाशोदयवैयर्थ्यादिति भावः । यद्वाऽनवस्थारूपयुक्तिपराहतत्वेनेत्यर्थः । प्रकाशेऽपि व्यवहारार्थं प्रकाशान्तराङ्गीकारे तत्राप्येवं तत्राप्येवमित्यनवस्थेत्यर्थः ।। विपर्ययापर्यवसायीति ।। तत्र युक्तिबाधादिति भावः ।। इत्येतदपीति ।। कर्मत्वलक्षणे फलसम्बन्धः साक्षादेव निविष्टः । निविष्टं फलं वा फलत्वेन १निविष्टम् । किन्तु ज्ञाततात्वप्रकाशत्वादिरूपेण । हेतूकृतमपि तदेवेत्यभिप्रायेण यत्परेषां दूषणमित्यर्थः ।। निरस्तमिति ।। उक्तरीत्या निवेशे स्वरूपासिद्धिसाधना-प्रसिद्ध्याद्यापातेन फलत्वेनैव फलं निवेश्य साक्षात्परम्परासाधारणसम्बन्धमात्रं निवेश्यैव हेतूकर्तव्यतया आत्मनि व्यवहारादिरूपफलस्य विषयत्वरूपसम्बन्धसत्त्वादित्यर्थः ।। प्रतिवादिन इति ।। ज्ञाततानिराकर्तुः तत्ववादिन इत्यर्थः । ज्ञाततायास्त्विति पङ्क्त्या कर्मलक्षणमेव निराकृतमतोऽस्य ततो भेदः । ज्ञाततात्वेन ज्ञानजन्यफलत्वेन वा निवेश्य साक्षात्सम्बन्धमेवोपादाय ज्ञाततामादाय हेतूपपादनपक्षे च पूर्वं ज्ञाततानिराकरणस्यैव दोष-तयाभिधाने ज्ञातताव्यवस्थापननिराकरणोपर्येव भारः स्यादतः तदङ्गीकारपक्षेऽपि दूषण-माह ।। ज्ञाततेति ।। नित्यानुमेयेषु चक्षुरादिषु । अतीन्द्रियाणां अतीतादीनाञ्चोपलक्षक-मेतत् ।