एवमेव हेत्वादिष्वपि..
मुक्तत्वहेतुना पारमार्थिकभेदासिद्धिशङ्का
एवमेव हेत्वादिष्वपि
श्रीमज्जयतीर्थटीका
अथापि स्यात् । नानेनानुमानेन मुक्तौ भेदः सिद्ध्यति । असिद्धेः प्रमाणविरोधाच्च । तथा हि, एकस्यैव परमार्थसतः परब्रह्मणोऽनाद्यविद्याविलसितो हि जीवेश्वरजडरूपोऽयं भेदप्रपञ्चः । न परमार्थः । ब्रह्मैवाविद्यादिप्रतिबिम्बितं खलु बालैर्जीव इति ईश्वर इति चाभिलप्यते । जडप्रपञ्चस्तु स्वरूपेणैवाविद्योपादानको ब्रह्मविवर्तः । अत्र च विवादपदं मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वात् शुक्तिरजतवत् । विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात् परमात्मवत् इत्याद्यनुमानं मानम् । ‘वाचा-रम्भणं विकारो नामधेयम्’ ‘नान्योऽतोस्ति द्रष्टा’ इत्यादिश्रुतिश्च । सैवाविद्या कर्तृत्व-भोक्तृत्वदोषसंसर्गाध्यासप्रवाहरूपसंसारस्योपादानम् । संसारनिवर्तकेन चात्मज्ञानेनावश्यम-विद्या निबर्हणीया । सति चैवं बन्धस्यैव परमार्थतोऽभावात्कुतो मुक्तत्वम् । कुतो वा मुक्तौ भेदः स्यात् । बहुजीववादे भेदे विद्यमानेऽपि नासौ मुक्तप्रतीतिगोचर इति न तस्य नियम्यत्वोपयोगित्वम्’ इति ।
द्वैतद्युमणि:
अथापि भेदे विकल्पपूर्वकदूषणस्य पूर्वोक्तक्रमेण निरासेऽपि । स्यात् वक्ष्यमाणं सम्भावितमित्यर्थः । यद्यप्यनिर्वचनीयप्रसिद्धिनिराकरणेनैव दृश्यत्वाद्यनुमानान्यपि पूर्वोक्तरीत्या दूषितप्रायाण्येव तथापि तस्यैव स्फुटीकरणपूर्वकमधिकदोषप्रदर्शनपरोत्तरग्रन्थसन्दर्भोत्थापनाया-भ्युपगमवादेनापाततः शङ्काप्रदर्शनमित्यदोषः । तत्र मुक्तत्वहेतोरसिद्ध्युपपादनाय ब्रह्माति-रिक्तस्य मिथ्यात्वमुपपादयितुं प्रक्रियामाह ।। एकस्यैवेति ।। सजातीयविजातीयस्वगतभेदत्रय-रहितस्येत्यर्थः । अथ वा ‘एकस्यैव परमार्थसतः’ इत्यस्य स्वभिन्नपरमार्थसद्रहितस्येत्यर्थः । कुतस्तदन्यस्यापारमार्थिकत्वमित्यत आविद्यकरजतादीनां तथा दर्शनादित्याशयेन प्रपञ्चस्याऽ- विद्यकत्वमुपपादयति ।। अनादीति ।। आत्माश्रयानवस्थादिपरिहारायेदम् ।। जीवेश्वरेति ।। तयोरपि तद्धर्मोपहितरूपेण मिथ्यात्वमिति द्रष्टव्यम् ।। भेद इति ।। भिद्यत इति व्युत्पत्त्या भेदवत्परम् । सर्वस्य स्वरूपतो मिथ्यात्वे घटादीनामिव स्वरूपतोऽपि मुक्त्यन्वयाभावापत्त्या शास्त्रस्य निरधिकारिकत्वं स्यात् । एवं ‘उत्तमः पुरुषस्त्वन्यः’ इत्युक्तेश्वराभावे तदुपासना-विधीनां निर्विषयत्वं च स्यादित्यत आह ।। अविद्यादीति ।। आदिना शुद्धसत्त्वात्मक-मायाग्रहणम् । तथा चाविद्याप्रतिबिम्बो जीवः । मायाप्रतिबिम्ब ईश्वर इत्यर्थः । यद्यप्य-न्येऽपि परोक्ताः प्रकाराः सन्ति तथापि वक्ष्यमाणादूषणानां सर्वपक्षेऽपि साम्यात् ‘न च मायाविना माया’ इत्यादिवचनद्वयोदाहरणेनाऽचार्यै रेतत्पक्षस्यैव निराकरिष्यमाणत्वाच्चोप-लक्षणत्वेन कश्चिदेकः पक्षो दर्शितः । बालैः अनिवृत्ताविद्यैः । ब्रह्मविवर्तः स्वबाधावधित्वे सति स्वप्रतियोगिकतादात्म्यानुयोगि यद्ब्रह्म तत्र प्रतीयमान इत्यर्थः । ‘अस्वाभाविका-न्यथाभावो विवर्तः । इत्यादितदुक्तेरत्रैव पर्यवसानात् । अविद्योपादानक इत्यस्य तत्परिणाम इत्यर्थः । स्वाभाविकान्यथाभावस्यैव परिणामत्वेनोक्तत्वात् । स्वबाधानवधि स्वप्रतियोगिक-तादात्म्यानुयोगि यत्तज्जन्यत्वं तत्परिणामत्वमिति निष्कर्षः । उभयानुगतोपादानत्वं तु स्व-तादात्म्यवत्कार्यजनकत्वं ज्ञातव्यम् ।। विमता आत्मान इति ।। अत्र जीवपदवाच्यत्वं वोप-लक्षणविधया दुःखित्वादिकं वा पक्षतावच्छेदकम् । अवच्छेदकावच्छेदेन साध्यमभिलषितम् ।। परमात्मन इति ।। सर्वज्ञत्वाऽश्रयचेतनादित्यर्थः । भेदस्य स्वरूपतो निषेधाभावपक्षे बाध-वारणाय तत्वत इति। पारमार्थिकत्वेनेत्यर्थः । व्यधिकरणधर्मावच्छिन्नाभावश्चायम् । अतो न बाधः ।। आत्मत्वादिति ।। व्यक्तीनां कल्पितस्वसमानसत्ताकभेदवत्त्वेनाऽत्मत्वजातिः पक्ष-दृष्टान्तयोरस्तीति भावः। मिथ्यात्वे अभेदे च क्रमात् श्रुतिद्वयमनुसन्धेयम् ।। नान्योत इति ।। अतः अन्तर्यामितया प्रकृतात् ब्रह्मणः सकाशात् अन्यो भिन्नो द्रष्टा जीवो न भवतीत्यर्थः ।
ननु मायारूपाविद्योपादानकपदार्थानां मायिकपदार्थान्तरवन्मिथ्योत्वेऽपि कर्तृत्वभोक्तृ-त्वादीनां आत्मना सह प्रतीयमानानां आत्मस्वरूपवत्सत्यत्वेऽद्वैतानुपपत्तिर्दुर्वारैव । न हि कर्तृत्वादिकमपि मायिकमिति युज्यते । लोके मायया बहिष्ठानामेव पदार्थानां उत्पत्तिदर्शनेन साक्षिसिद्धे मायाजन्यत्वानुपलम्भात् । मायिकपदार्थदर्शनादिना सुखदुःखाद्युत्पत्तावपि तत्र दर्शनस्यैव हेतुत्वेन मायाया ओतुत्वात् । अन्यथा मायिकसर्पादेरिव सुखादावपि बाधोदय-प्रसङ्गादित्यत आह ।। सैवेति ।। या विक्षेपशक्तिविशिष्टा ईश्वरोपाधिभूता मायेत्युच्यते सैवावरणविक्षेपशक्तिविशिष्टा सती अविद्यापदाभिधेया जीवोपाधिः । तद्भेदे मानाभावादिति भावः । न चैकमुक्तौ सर्वमुक्त्यापत्तिः । तत्तज्जीवावरणशक्तिविशिष्टाऽविद्यानिवृत्तेरेव मोक्षत्वोपगमेनोक्तदोषाभावात् । न चाविद्यायाः स्वरूपतः कदापि निवृत्त्यभावप्रसङ्गेनाऽत्म-वत्पारमार्थिकत्वापत्तिरिति वाच्यम् । एतन्मते संसारप्रवाहस्यानन्तत्वानभ्युपगमेव चरम-जीवमुक्तिदशायामेव समस्तशक्तिविशिष्टस्वरूपस्यैव निवृत्तिसद्भावात् । ईश्वरीयमाया-वृत्त्याद्यात्मकज्ञानानामपि जीवादृष्टाधीनत्वेन जीवाभावे तदीयजगत्सृष्ट्यादेरप्यभावेन तदुपाधिमायाया अपि विलयेनेश्वरस्यापि निवृत्तेरङ्गीकारादिति बोध्यम् ।। कर्तृत्वेत्यादि ।। अत्राविद्योपादानकान्तःकरणनिष्ठमेव कर्तृत्वादिकम् । तादृशान्तःकरणतादात्म्यस्य आत्मन्यध्यासे तद्धर्मभूतकर्तृत्वादिसंसर्गस्यात्मन्यध्यासेनाहं कर्तेत्यादिव्यवहारादय उपपद्यन्ते । भीषणत्वादिविशिष्टसर्पस्य रज्जौ तादात्म्याध्यासे तदीयभीषणत्वादिधर्मसंसर्माध्यासादिदं भीषणमित्यादिव्यवहारवदिति एकः पक्षः । अन्तःकरणवृत्तिकर्तृत्वाद्यतिरिक्तमात्मनि कर्तृत्वा-द्यन्तरं तत्प्रतिबिम्बभूतमध्यस्यते । स्फटिकमणौ जपाकुसुमसन्निधानाल्लौहित्याध्यासवदित्यपरः पक्षः । अत्र प्रथमकल्पाभिप्रायेणेदम् ।
यद्वा दोषाश्च तत्संसर्गाश्चेत्यर्थाश्रयणे पक्षद्वयस्यापि सङ्ग्रहः । अविद्योपहितचैतन्यस्यैव साक्षिरूपतया साक्षिचैतन्यग्राह्याणामपि तेषां ग्रहः अविद्योपहितसाक्ष्यात्मक एवाध्यासः । तस्यापि मिथ्यात्वात्तदुपादानमज्ञानं भवतीत्यविद्यायास्तादृशाध्यासोपादानत्वमुक्तम् । विषयोपहितरूपेणोत्पत्तिविनाशशालित्वात्प्रवाहत्वोक्तिर्युक्ता ।
यद्वा कर्तृत्वाद्यंशेऽप्यविद्यावृत्तिः स्वीक्रियत इति मते तस्यैवाध्यासरूपत्वात्तं प्रत्यविद्यो-पादानं भवत्येवेति भावः । अविद्या शक्तिविशेषविशिष्टाविद्या । निबर्हणीया तत्त-ज्जीवाद्व्यावर्तनीया । जीवस्यैकत्वपक्षे निवर्तनीयेत्यर्थः । अविद्यायां निवृत्तायां तदुपादानकः संसारः स्वयमेव विलीयत इति भावः । अत्र विश्वमिथ्यात्वमसिद्धिनिर्वाहकम् । मोक्षेऽपि विद्यमानस्य मिथ्यात्वायोगात्प्रमाणबाधोपपादकं चेत्युभयोपपादकं विश्वमिथ्यात्वानुमानम् । मुक्त आत्मनि परमात्मभेदसाधनपक्ष एव साक्षात्प्रमाणबाधसम्पादकं द्वितीयमनुमानम् । तत्र परमात्मभेदत्वेनैव साध्यतायामपि पारमार्थिकत्वेन तदवगाहित्वं प्रमाणानां स्वाभाव्यादिति भेदसाधको मनुते । तत्र पारमार्थिकत्वेन तादृशभेदाभावधीर्विरोधिनी भवत्येव । उत्पन्नानु-मितावप्रामाण्यग्राहकतया बाधरूपता त्वनुमानद्वयस्यापीति द्रष्टव्यम् । तथापि प्रकृते कथम-सिद्ध्यादीत्यतस्तदुपपादयति ।। सति चैवमिति ।। उक्तार्थस्य प्रामाणिकत्वेन दार्ढ्ये सतीत्यर्थः ।। बन्धस्यैवेति ।। दुःखादेरित्यर्थः ।। कुतो मुक्तत्वमिति ।। त्रैकालिकनिषेध-प्रतियोगिन उत्तरकालमात्रवृत्त्यभावरूपध्वंसप्रतियोगित्वायोगेन बन्धध्वंसरूपमुक्तत्वस्वरूप-मेवासिद्धम् । यदि बन्धसंसर्गाभाववत्त्वं तदापि तस्यासिद्धिरेव । शुद्धाद्वैताङ्गीकारेण मुक्ति-दशायां तस्याप्यभावात् । केवलमिदानीं बद्धपुरुषकल्पितधर्मपुरस्कारेण व्यवहारकरणेऽपि तेषां भवदभिमतपारमार्थिकभेदसाधनाक्षमत्वादिति भावः ।। कुतो वा मुक्तौ भेदः स्यादिति ।। सिद्ध्येदित्यर्थः । उक्तरीत्या बाधादिति भावः ।
ननु जीवस्याविद्याप्रतिबिम्बत्वपक्षेऽपि यैर्बहुजीववाद एवाश्रितः अन्तःकरणोपाधिकत्वेन च बहुजीववादो वा तन्मते बद्धमुक्तव्यवस्थायाः सत्त्वात्कथं प्रमाणबाध इत्यत आह ।। बहुजीवेति ।। भेद इति ।। मुक्तप्रतियोगिकभेदे संसारिणि ईश्वरे च विद्यमानेऽपीत्यर्थः । न तु १मुक्तभेदे विद्यमानेऽपीत्यर्थः । मुक्ते भेदाधिष्ठानत्वादिधर्मस्यायोगात् ।। मुक्तप्रतीतिगोचर इति ।। मुक्तविशेष्यकप्रतीतिगोचर इत्यर्थः । तथा च बाध एवाऽश्रयतासम्बन्धेन साधन इति भावः । ननु मुक्ते तदभावेऽपि नियामकेश्वरे २तत्सत्त्वभावतैव । तस्य नियामकत्वसम्भवेन भेदाक्षेपपूर्वकस्येश्वरनिष्ठमुक्तनियामकत्वाक्षेपस्य बहुजीवमते असम्भवादेकजीवमत एव भेद-सामान्यविलयेन नियामकत्वाक्षेपसम्भवादुक्तानुमानं तन्मत एव सम्भवतीति कथं बहुजीव-वादाङ्गीकारेण दूषणदानमित्यत आह ।। न तस्येति ।। भेदाभावेन मुक्ते नियम्यत्वस्य तन्नियतस्याभावात्तत्सापेक्षनियामकत्वमपीश्वरे न घटत एवेति तन्मतेऽपि मुक्तभेदाभावेन नियामकत्वाक्षेपसम्भवात्तच्छङ्कापरिहाराय बहुजीववादेऽपि मुक्ते भेदसाधनस्याऽवश्यकत्वात्तत्र बाधोद्भावनं युक्तमेवेति भावः ।
अन्ये तु भेदे विद्यमानेऽपीति बद्धपुरुषकल्पिते स्वप्रतियोगिके ईश्वरप्रतियोगिके च भेदे विद्यमानेऽपीत्यर्थः । तथा च कथं बाधः । भेदमात्रस्य ईश्वरभेदमात्रस्य वा पारमार्थिकत्वा-विशेषितस्य साध्यत्वात्तत्र पारमार्थिकत्वेन भेदाभावसाधकस्याबाधकत्वादिति भावः ।। नासाविति ।। मुक्तप्रतीतिगोचर इति ।। मुक्तनिष्ठप्रतीतिगोचर इत्यर्थः । मास्त्वित्यत आह ।। न तस्येति ।। तथा चेदानीं नियम्यत्वोपयोगिभेद एव विप्रतिपत्तौ उक्तभेदसाधनस्य सिद्ध-साधनार्थान्तरादिग्रस्ततया तद्वारकविशेषणपुरस्कारेण पारमार्थिकभेद एव साध्यः । अतस्तस्य बाधो युक्त एवेति भावः ।
न च भेदे मुक्तवृत्तिप्रतीतिविषयत्वाभिधानमनुपयुक्तं किमर्थमुच्यते । न हि नियम्यस्य वस्तुनो नियामकभेदवत्त्वेन स्वज्ञानं नियम्यतायामुपयोगि । तथात्वे जडस्यानियम्यत्वा-पत्तेरिति वाच्यम् । स्वसमानसत्ताकभेद एव तत्रोपयोगी । अन्यथा मैत्रकल्पितेन चैत्रनिष्ठतया भासमानचैत्रभेदेन चैत्रस्य स्वनियम्यतापातात् । तथा च मुक्ते बद्धपुरुषाणां प्रतीयमानभेदः न तत्समसत्ताकः । तथात्वे तस्य पारमार्थिकत्वापत्त्या मुक्तस्य स्वानन्दादिवदनावृतत्वं स्यात् । तथा च न तत्समसत्ताक इत्यत्र तात्पर्यात् ।
यद्वा जडानां स्वरूपलाभादिनियम्यतासम्भवेऽपि १चेतने तस्य तदभावाद्व्यापार-विशेषा-दिषु तेन नियम्यत्वं वाच्यम् । तच्च चेतने स्वस्य नियामकाद्भिन्नत्वेनोपलब्धिमत्त्वेन व्याप्तमेवोपलब्धमिति व्यापकाभावोपपादनाय तस्य सार्थक्यमित्याहुः ।