न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः ..

अनिर्वचनीयत्वे अर्थापत्तिप्रमाणनिराकरणम्

श्रीमज्जयतीर्थटीका

अथापि स्यात् । अर्थापत्त्या शुक्तिरजतादेरम्बरादेर्वा अनिर्वाच्यता सेत्स्यति । तथा हि । यदत्यन्तासन्न तत्प्रतीयते यथा नरविषाणम् । यच्चात्यन्तसन्न तद्बाध्यते यथाऽऽत्मा । तदिहोभयान्यथानुपपत्त्या अनिर्वचनीयतैवाश्रयितुं युक्तेति । तत्राह

मूलं

न चार्थापत्त्या अनिर्वचनीयत्वसिद्धिः ।

अर्थापत्तिः खलु नानुमानाद्भिद्यते । अनुमानञ्चाप्रसिद्धविशेषणतया निराकृत-मिति नार्थापत्त्या च शुक्तिरजतादेरम्बरादेर्वाऽनिर्वाच्यतासिद्धिः ।

द्वैतद्युमणि:

।। अर्थापत्त्येति ।। परेण ‘व्यवहारे भट्टनयः’ इति वादिना अर्थापत्तेः पृथक्परिगणितत्वात्तन्मतानुसारेणाऽशङ्का । अत स्वमतेऽस्या अनुमानाबहिर्भावेन तद्दूषणेन दूषितत्वेपि न पौनरुक्त्यवकाशः ।। यदिति ।। असत्पदमभावप्रतियोग्यर्थकं प्रागभावादि-प्रतियोगिघटादिबोधकमपि भवतीत्यतोऽत्यन्तेत्युक्तं ।। यथा नरविषाणमिति ।। प्रत्यक्षातिरिक्तप्रमाणानङ्गीकर्तुरपि लोकायतस्य परबोधनाय युक्त्याद्युपन्यासो यथा स्वमत-सिद्धलोकरीत्यभिसन्धिपूर्वकः तथा नरविषाणमित्यादिशब्दोऽपि विकल्पजननद्वारा प्रकृतोप-योगी भवत्वित्यभिसन्धिना परस्य व्यवहारः । अतोऽसत्प्रतीतिमनङ्गीकुर्वतः कथं तद्बोधेच्छया वाक्यप्रयोग इति शङ्कानवकाशः । विकल्पाख्यवृत्तीच्छयैव तत्प्रयोगात् । विकल्पे प्रतीतिभेदांशे परस्य भ्रम इत्यवसेयम् । अत्यन्तसत् बाध्यत्वसामान्यशून्यं न बाध्यते त्रैकालिकनिषेध-प्रतियोगित्वप्रकारकप्रमागोचरत्वरूपबाध्यत्ववन्न भवतीत्यर्थः । यद्वा ज्ञानोच्छेद्यत्वस्वरूप-बाध्यत्ववन्न भवतीत्यर्थः । अतो न यथाश्रुते साध्यावैशिष्ट्यमिति शङ्कावकाशः । स्वमत-मनुरुद्ध्यानुमानपक्षोक्तदूषणेनेदमपि दूषितं भवतीत्याशयेन मूले हेत्वनुक्तिरित्यभिप्रेत्याह ।। अर्थापत्तिरिति ।। अनुमानञ्चेति ।। विमतं सदसद्विलक्षणं बाध्यत्वे सति प्रतीतत्वादिति व्यतिरेक्यनुमानमित्यर्थः ।