उत तमादेश-मप्राक्ष्यो..

उत तमादेशमित्यादिश्रुतीनां पराभिमतार्थानुवादः

उत तमादेश-मप्राक्ष्यो..

श्रीमज्जयतीर्थटीका

मा भूदनुमानात्प्रपञ्चमिथ्यात्वसिद्धिः श्रुत्या तु भविष्यति । तथा हि । उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ब्रह्मज्ञानेन सर्वज्ञानमुच्यते ।

न च सर्वस्य वियदादिप्रपञ्चस्य ब्रह्मव्यतिरेकेण परमार्थतः सत्वे तदुपपद्यते । तेन ज्ञायते ब्रह्मैव परमार्थसत् । वियदादिकन्तु तत्रारोपितम् । तद्व्यतिरेकेण नास्तीत्यस्यार्थ इति । मैवम् । एकविज्ञानेन सर्वविज्ञानस्य सादृश्यप्राधान्याभ्यामुपपत्तेः । न चान्यथोप-पद्यमानं वाक्यं प्रपञ्चस्य ब्रह्मण्यारोपितत्वं प्रतिपादयितुं शक्नोति ।

नन्वेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकांक्षायामुच्यते ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्’ इत्यादि । तत्र हि कार्यस्य कारणव्यतिरेकेणासत्वमवगम्यते । अतः कथमेकविज्ञानेन सर्वविज्ञानमन्यथा व्याख्यायत इति । मैवम् । यथा सोम्येत्यादि-दृष्टान्तवाक्येष्वपि पराभिमतस्यार्थस्याप्रतिभासात् । न हि तत्र तत्सूचकं किमप्यस्ति.

नन्वेतानि दृष्टान्तवाक्यानि वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादि-वाक्यैर्व्युत्पादितानि । यतो वाचा केवलमस्तीत्यारभ्यते विकारः घटः शरावः उदञ्चनं चेति न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यम् । अत एकेन मृत्पिण्डेन परमार्थतो मृतात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेदिति । तत्कथं यथा सोम्येत्यादिदृष्टान्तानां कारणव्यतिरेकेण कार्यासत्वे तात्पर्याभावः । कथं चैकविज्ञानेन सर्वविज्ञानमन्यथा व्याख्यात इति ।

द्वैतद्युमणि:

।। उत तमादेशमिति ।। सिद्धान्ते ‘आदिश्यते’ इत्यादेशो भगवान् । तमप्राक्ष्यस्तद्विषयकप्रश्नमकरोः किमित्यर्थः । परमते आदेशो नामोपदेशः । तमुद्दिश्य प्रश्नं कृतवांस्त्वं किमित्यर्थः ।। येनेत्यादि ।। येन परमात्मना श्रुतेन मतेन विज्ञातेनेति योज्यम् । यथाक्रममन्वयः । अन्यमते येन यादृशोपदेशेनेत्यर्थः । यद्वा ब्रह्मविद्याभरणोक्तरीत्या आदिश्यते इति व्युत्पत्त्यनुसारेण आदेशपदं ब्रह्मवाच्येव । उत्तरत्र येनेत्यस्य ब्रह्मणैवेत्यर्थोऽनुसन्धेयः ।। ब्रह्मज्ञानेनेति ।। ब्रह्मज्ञानाभिन्नं सर्वज्ञानमित्यर्थः । ब्रह्मोपदेशेनैव सर्वेषामपि श्रुतत्वादिकस्योक्तौ ब्रह्मज्ञानमेव सर्वज्ञानमिति पर्यवसितम् ।। ब्रह्मव्यतिरेकेणेति ।। ब्रह्मात्यन्तभिन्नत्वेनेत्यर्थः । जगति ब्रह्मतादात्म्यसत्त्वेन भेदाभेदयोरङ्गीकारादभेदमात्रेण ब्रह्मज्ञानस्य सर्वज्ञानात्मकत्वोपपत्तेरित्थं व्याख्यातम् । तर्हि परमार्थसत्त्वनिषेधोऽनुपयुक्तः । ब्रह्मात्यन्तभेदनिराकरणस्यैवैकविज्ञानेन सर्वविज्ञानोपयोगादिति चेत् । ब्रह्मात्यन्तभेद-निराकरणार्थमेव परमार्थसत्त्वनिराकरणात् । अन्यथा परमार्थतोत्यन्तभेदवन्नानापदार्थसार्थस्य जगतोऽद्वितीयैकब्रह्माभेदायोगात् । एवञ्च व्यतिरेकेणेति तृतीयायाः व्यापकत्वरूपमवच्छिन्नत्वं प्रयोजकत्वं चार्थः । व्यतिरेकस्य व्याप्यत्वञ्च स्वस्वरूपत्वसहितस्यातो न तुच्छे व्यभिचार इति बोध्यम् । ब्रह्मव्यतिरेकप्रयोजकस्य तद्व्यापकस्य च जगन्निष्ठपारमार्थिकसत्त्वस्याङ्गीकारो न युक्त इति जगतः पारमार्थिकत्वनिषेधे जगतो ब्रह्मतादात्म्यापादनद्वारा ब्रह्मज्ञानस्य सर्वज्ञानात्मकत्वोपयोगीति तत्र श्रुतेस्तात्पर्यमवश्यमङ्गीकार्यमित्यर्थः ।

ननु परमार्थसत्त्वशून्यस्य जगतो ब्रह्मात्मकत्वं शशविषाणादिरूपतुच्छस्येवानुपपन्न-मतस्तज्ज्ञानं न सर्वज्ञानरूपं भवतीत्याशङ्क्य ब्रह्मव्यतिरेकेणेत्युक्तम् । तथा च ब्रह्मव्यतिरेक-प्रयोजकपारमार्थिकसत्त्वमेवैकविज्ञानस्य सर्वविज्ञानत्वविरोधीति तन्निषेधे विशेषनिषेधस्वारस्येन सामान्यतः पारमार्थिकसत्त्वमनुमतं स्यात् । तच्च ब्रह्मतादात्म्यापन्नत्वेनैव वाच्यम् । तच्च तादात्म्यं न ब्रह्मसमसत्ताकं स्वसमानसत्ताकानन्तजगत्तादात्म्ये ब्रह्मणोऽनन्तत्वापत्त्याऽ- द्वितीयश्रुतिविरोधापत्तेरतस्तन्न्यूनसत्ताकमेव ब्रह्मजगत्तादात्म्यमित्यायातम् । तन्न्यूनसत्ता- कतन्निष्ठतादात्म्यप्रतियोगिकत्वञ्च तत्रारोपितस्यैवातो ब्रह्मण्यारोपिततया तदीयपरमार्थसत्त्व- वतो जगतः पारमार्थिकस्वरूपं ब्रह्मैव रजतस्य शुक्तिरिवातो ब्रह्मज्ञानमेव सर्वज्ञानम् । शश-विषाणादिरूपतुच्छस्य तु सर्वथा परमार्थसत्त्वं नास्तीति तेषां न ब्रह्मात्मकत्वमिति भावः ।

।। तेनेति ।। यतो जगतो ब्रह्मव्यतिरेकेण परमार्थसत्त्वे श्रुत्युक्तमेकविज्ञानस्य सर्वविज्ञानात्मकत्वं न घटतेऽतस्तत्प्रतिसन्धानेनेत्यर्थः । ज्ञायतेऽर्थापत्त्येति शेषः ।। अस्यार्थ इतीति ।। इतिशब्दस्य ज्ञायत इत्यनेन सम्बन्धः । अस्य येनाश्रुतमित्यादिवाक्यस्य । अर्थः मुखत; स्वोक्तस्योपपादकतया तात्पर्यविषयीभूतोऽर्थः । तत्स्वरूपप्रदर्शनं ब्रह्मैवेत्यारभ्य व्यतिरेकेण नास्तीत्यन्तम् ।। प्रतिपादयितुमिति ।। उक्तरीत्याऽऽक्षेप्तुमित्यर्थः ।

न च सादृश्यादिनैकविज्ञानेन सर्वविज्ञानपरत्वे श्रुतेर्मुख्यार्थत्यागापत्तिः । प्राधान्यपक्षे विज्ञातपदादीनां विज्ञातफलकादौ लक्षणापत्तिरिति वाच्यम् । तवापि सर्वपदस्य तुच्छसाधारणसर्वत्वावच्छिन्नरूपमुख्यार्थपरत्वे ब्रह्मणि तुच्छस्यानारोपितत्वेन ब्रह्मणस्तुच्छता-दात्म्याभावेन ब्रह्मज्ञानस्य सर्वज्ञानरूपत्वाभावापत्तेः । सर्वपदस्य तद्व्यावृत्तसर्वत्वविशिष्टरूपा-मुख्यार्थपरताया आवश्यकत्वादिति भावः ।

न च श्रुतौ सर्वपदाभावात्कस्य सङ्कोचापत्तिरिति वाच्यम् । कर्माद्युपदेशेनाप्यश्रुतकर्मादेः श्रुतत्वसम्भवेन ब्रह्मोपदेशादौ तदाधिक्यलाभाय सर्वपदाध्याहारस्यावश्यकत्वात् ।। नन्वित्यादि ।। कथं नु भगवः स आदेशो भवतीति कुत्राप्यदृष्टचरमेतत्कथं सम्भावित-मित्याशयेन श्वेतकेतुना पृष्टे दृष्टान्तत्रयस्य तत्सम्भावनार्थमुद्दालकेनोक्तत्वेनोक्तदृष्टान्तानु-सारेणैव दार्ष्टान्तिकस्य योजनीयतया प्रकारान्तरेण तदुपपादनस्यायुक्तत्वमिति भावः ।। अप्रतिभासादिति । दृष्टान्तवाक्यानामपि सादृश्यादिपरतया योजनार्हत्वादिति भावः ।

ननु सादृश्यादिनैकज्ञानेनापरज्ञानादेर्लोके गोगवयादिस्थले दृष्टत्वात्तादृशस्यैकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञायां नासम्भावितत्वशङ्का श्वेतकेतोरुपपन्ना । तदुपपादनमप्यनपेक्षितं स्यादत एकवस्तुविज्ञानस्यैव सर्ववस्तुज्ञानात्मकत्वं प्रतिज्ञातमित्येव वक्तव्यम् । लोकविलक्षणत्वेन तत्रैवासम्भावितत्वशङ्कासम्भवात् । तथा च स्वोक्तमेव परिहारवाक्ये दृष्टान्तमुखेन निरूप्यत इति दृष्टान्तवाक्यस्य न सादृश्यादिना योजना युक्तेति चेन्न । येनाश्रुतमित्यादिना सामान्यत एवोक्तौ प्रमेयत्वादिसादृश्यादिनैकज्ञानेन सर्वज्ञानस्य घटादिसाधारण्येनाव्यावर्तकस्य ज्ञेयवस्तूत्कर्षानिर्वाहकत्वादभेदस्य चैकस्य सर्वैः सहायोगाच्च, कथमेतद्युज्यत इत्याशयेन कथं नु खलु सोम्येत्यादिप्रश्नस्य वक्ष्यमाणरीत्या सादृश्यविशेषादिनिरूपणेन परिहारस्य चोपपत्तेः ।। व्युत्पादितानीति ।। तथा च स्वाभिप्रायस्य श्रुत्यैव व्यक्तीकृतत्वात्सादृश्यादिनिबन्धनत्वव्याख्यानं तद्विरुद्धमेवेति भावः ।

बहुलग्रहणादारम्भणपदं कर्मल्युडन्तं वा भावल्युडन्तत्वेऽपि टाबन्तवाचा शब्देन बहुव्रीहिसमासघटकं वेत्यभिप्रेत्य श्रुत्यर्थमनुवदति ।। यतो वाचेत्यादि ।। ‘सर्वं वाक्यं सावधारणम्’ इत्याशयेन केवलमिति । उदञ्चनं मणिकम् ।। अनृतमिति ।। नामधेयमित्यस्य तात्पर्यविषयीभूतार्थकथनमेतत् ।। कथं चेति ।। एतेनैतदप्युत्तानधियां चोद्यं निरस्तम् । ‘येन परमात्मना तत्प्रसादेन सर्वं श्रुतं मतं विज्ञातं भवति सर्वज्ञो भवतीति पर्यवसितोऽर्थः । तादृशं, आदिश्यत इत्यादेश उपदेशविषयीभूतो भगवानौपनिषद इति पर्यवसितोऽर्थः, त्वमप्राक्ष्यः तद्विषयकप्रश्नं त्वमकृथाः किमित्यर्थः । कथं नु सोम्येत्यादेस्तु आदेशो भगवान् स तादृशसार्वज्ञ्यादिगुणसम्पादकः कथं नु स्यात् । लोके सन्निकृष्टवस्तूनामेव विशेषतो ग्राह्यत्वात्सामान्यतो मेयत्वादिना ज्ञाने चेतरप्रसादानपेक्षणात् । अतीतानागतासन्निकृष्ट-वस्तुविषयकज्ञानसम्पादकः परमात्मा कथं स्यादित्यर्थः । यथा सोम्येत्यादेस्तु यथैकमृत्पिण्डलोहमणिनखनिकृन्तनादीनां मृदादिजन्यत्वार्थविशेषोपयुक्तत्वादिधर्मपुरस्कारेण ज्ञाने सति तत्सादृश्यविशेषवत्तयाऽज्ञातपदार्थविशेषादीनां निर्माणकार्यविशेषविनियोगादि-रूपकौशलसम्पादकज्ञानवान् भवति पुरुष इति रीतिर्यथा लोके एवमेव स आदेशो भवति एवं क्रमेण परमात्मा सन्निहितासन्निहितसमस्तविषयकपरोक्षापरोक्षान्यतरात्मककौशल्य-सम्पादकज्ञानजनको भवतीत्यर्थो न भवदभिमतैकविज्ञानेन सर्वविज्ञानं श्रुत्यर्थः । भवत्पक्षे येनेत्यस्य ज्ञातेन मतेन श्रुतेनेत्यादिपदाध्याहारापत्तेरुक्तार्थ एव युक्तः’ इति । श्रुतेरुक्ताभिप्राये विकारजातस्य मिथ्यात्वेन कारणव्यतिरेकेणासत्त्वपूर्वकं तदुपपादनासङ्गतिप्रसङ्गात् ।