न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति..

आभासविवेकस्य वह्निं प्रति प्रयोजकत्वशङ्कातत्परिहारौ

न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति

श्रीमज्जयतीर्थटीका

बहुलोर्ध्वतादिवदाभासविवेकोऽपि वह्निं प्रति प्रयोजक इति चेत् । तत्किं प्रयोक्तॄणां लौकिकानामभिप्रायमनुरुद्ध्येदमाश्रीयते किं वा स्वाभ्युपगतसामान्यनिर्वाहार्थम् । नाद्यः । तदभावात् । लौकिका हि धूमवत्त्वस्यानैकान्त्ये चोदिते धूम एवासौ न भवतीति प्रतिवक्तारो भवन्ति । अन्यथा तदन्यत्त्वे सतीत्यवक्ष्यन् । न द्वितीयः । त्वदभ्युपगमस्यैव निर्मूलत्वात् । भ्रान्तिप्रतिपन्नानामनिर्वचनीयत्वस्याद्याप्यसिद्धत्वात् ।

द्वैतद्युमणि:

ननु धूमत्वदृष्टान्तेनेदं लभ्यते । यथा धूमत्वरूपसामान्यस्योचिताश्रयस्यैकस्य सत्त्वेन सिद्ध्या अन्यस्य तथात्वेनासिद्ध्या तदुभयसाधारण्यं धूमत्वस्य न गृह्यते तथा मिथ्यात्वरूपधर्मस्याप्यसदनिर्वचनीययोर्मध्ये एकस्य सत्त्वेन ग्रहविषयत्वादपरस्यातथा-त्वादुभयनिरूपितसामान्यरूपत्वग्रहो न घटत इति । तदयुक्तम् । स्वमते तस्याभावात् । उभयासम्प्रतिपत्तेरपि स्वमतासम्प्रतिपत्त्यैव निर्वाह्यत्वादित्याशयेन शिष्यः शङ्कते ।। नन्विति ।। न स्तः सत्त्वेन ग्रहाविषयावित्यर्थः । स्वमत इत्यादिः ।।  निदर्शनीयमिति ।। दृष्टान्ते अत्यन्तानुरूप्यस्य भूषणत्वात्तद्विहाय किञ्चिद्विरूपशालिनो दृष्टान्तपथानुसरणे बीजा भावादिति भावः । उपात्तस्य कथं तद्वैरूप्यमित्यतस्तदुपपादयति ।। धूमस्त्विति ।। नास्ति सत्त्वेन ग्रहाविषयः । इतरः वास्तवधूमः ।  न तु सत्त्वेन ग्रहाविषयो न । किं तु तथात्वेन ग्रहविषय एवेत्यर्थः ।। असदितिनिर्देशस्येति ।। मूले न्यूनताभङ्गायासदनिर्वचनीययोरिति पूरणीयतया तद्धटकासत्पदस्येत्यर्थः ।।  प्रतियोगीति ।। त्रैकालिकनिषेधप्रतिषेधप्रतियोगी-त्यर्थः ।। व्यक्त्यभावमात्रे इति ।। भवदुक्तपर्यन्तं तात्पर्याभावेन सामान्यत्वग्रहे यादृश-रूपेणाश्रयग्रहोपेक्षितः तदभावमात्र इत्यर्थः । स च ग्रहः प्रकृते असद्विलक्षणत्वेना-निर्वचनीयविषयक इति पूर्वमुपपादितम् । दृष्टान्तदार्ष्टान्तिकभावे सर्वात्मना आनुरूप्य-नियमाभावसूचनायैव मूले धूमत्वमेवोपात्तमिति हृदयम् ।। निषेधप्रधानत्व इति ।। नञः प्रसज्यप्रतिषेधत्वे धात्वर्थसत्ताप्रतियोगिकाभगाव एव प्रतीयते । अन्यदधिकं पूर्वमेवावेदितम् ।। सुतरामिति ।। असत्पदार्थभूताभावस्य सत्त्वादनिर्वचनीयस्यासत्त्वादित्यर्थः ।

नन्वेतदयुक्तम् । सद्विविक्तत्वस्यासदनिर्वचनीयसाधारण्यमभ्युपेत्यासद्भेदसाधनेना-निर्वचनीयस्य साधितत्वेनासत्पदेनालीकस्यैव प्रक्रान्ततया तत्साधारण्यमेव मिथ्यात्वस्य खण्डनीयम् । अनलीकाभावसाधारण्यखण्डनस्यानुपयुक्तत्वात् । शुक्तिरजतादिमात्रेऽ-निर्वचनीयत्वविवादस्य जगत्सत्तामभ्युपगम्य प्रवृत्ततयेदानीं मिथ्यात्वस्याभावसाधारण्यस्य तेन वक्तुमशक्यतया तत्खण्डनस्यानुक्तोपालम्भनरूपत्वापत्तेश्चेति चेन्न । यतोऽस्त्यत्र निगूढो ग्रन्थकृतोऽभिप्रायः । उत्तरत्र भावाभावविलक्षणत्वरूपानिर्वचनीयत्वे आगमप्रामाण्यं निरा-करिष्यति । पूर्वमपि तस्याप्रकान्तत्वे अन्यत्र प्रत्यक्षानुमाने निराकृत्य प्रमाणसामान्या-भावबोधनाय तत्राऽगममनिराकृत्यात्र प्रत्यक्षादिकमनिराकृत्यागममात्रनिरासे प्रमाणसामान्या-भावस्य कुत्राप्यनिरूपितत्वेन  न चानिर्वचनीये किञ्चिन्मानमित्यस्यानुपपादितत्वेनासङ्गति-प्रसङ्गात् । अतो भावाभावविलक्षणत्वं सत्यासत्यविलक्षणत्वं मिथ्यात्वादिकं यद्यद-निर्वचनीयत्वमभिमतं तत्सर्वं आदित एव प्रक्रान्तम् । तथा च भावाभावविलक्षणत्वरूप-साध्येप्यप्रसिद्धविशेषणता तुल्या । सत्त्वासत्त्व इत्यनुमानेऽपि सत्त्वासत्त्वशब्दौ विकल्पेन भावत्वाभावत्वपरावपि ।

प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् ।

गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः ।।

इति परोक्तावपि सत्त्वासत्त्वशब्दावेवमेव । तथा च प्रकृतानुमाने सद्विविक्तत्वरूप-मिथ्यात्वसाधकानुमानवाक्यमपि विकल्पेन भावविलक्षणत्वरूपप्रकृतोपयोगि पारिभाषिक-मिथ्यात्वतात्पर्यकमपि । तादृशपारिभाषिकमिथ्यात्वस्येदानीं परेणाभावस्वीकारे बाधकाभावेन तस्याभावानिर्वचनीयोभयसाधारण्यमङ्गीकृत्यानिर्वचनीयसिद्ध्यर्थं सत्त्वेन प्रतीयमानत्वहेतुना असत्पदार्थभूताभावविलक्षणत्वसाधनपक्षेऽपि तस्योभयसाधारण्यं निराकृत्य सत्प्रतिपक्षोऽ-प्यस्य मूलस्याभिप्रेत एव । तथा चैतत्पक्षे दृष्टान्तदार्ष्टान्तिकयोरानुरूप्यं सुतरामित्युक्तं युक्तमेव । अत एव निषेधप्रधानत्वे इत्यनेनाभावसामान्यग्रहणं कृतम् । अन्यथा अत्यन्ता-भावस्यैव ग्रहणेऽत्यन्ताभावभावोभयवैलक्षण्यस्य प्रागभावादौ सत्त्वस्य सर्वाङ्गीकृतत्वेना-निर्वचनीयत्वरूपत्वाभावात् अप्रसिद्धविशेषणत्वाद्यसङ्गतेश्च । एवं चासदिति निर्देशस्येत्य-नेनानुमानवाक्यस्थस्यात्र पूरितस्य च सर्वस्यासच्छब्दस्य ग्रहणम् । केचित्तु अनुमानवाक्य-स्थासच्छब्द एव निर्देशस्येत्यनेन विवक्षितः । उभयस्मिन् सदसतोः सम्प्रतिपन्नं सम्यग्ग्रह-विषयीभूतमित्यर्थकस्योभयसम्प्रतिपन्नपदस्यावृत्त्यैव विवक्षितार्थसिद्धावत्र पूरणे प्रयोजना-भावात् । अनुमाने त्वेकस्यासच्छब्दस्यार्थनिरूपणे सच्छब्दस्तद्विरुद्धार्थकतया गृह्यत एवेति

तदर्थोऽपि न निरूपित इत्याहुः । इत्थं चैतादृशानिर्वचनीयाभिप्रायेण सुतरामित्येतद्युक्तमेवेति ।

प्रतियोगिप्राधान्यपक्षेऽप्यानुरूप्याऽग्रहेप्याह ।। बाष्पधूलीति ।। धूमत्ववदिति मूले सामान्यत एवोक्तत्वादुक्तव्याख्यानेऽपि न किञ्चिद्बाधकमिति भावः । ननु पृथिवीवज्जलं गन्धवन्नेत्यनेन यथा पृथिवी गन्धवती तथा जलं गन्धवन्नेति यथा बोधस्तथाऽनेनापि वाक्येन धूमत्वं यथोभयसम्प्रतिपन्नं सामान्यं न तथा मिथ्यात्वमपीत्यर्थो लभ्यते । तथात्वे धूमत्वस्य व्यतिरेकदृष्टान्तत्वमेव । तथात्वे न कोऽपि क्लेशः । तथा च धूमत्वस्यान्वयदृष्टान्तत्वेन व्याख्यानं कृत्वोक्तप्रयासकरणं विफलमिति चेन्न । एवं सति बाष्पारोपितधूमसाधारण्या-भावस्यैतन्मूलेनालाभे तत्रापि तत्स्वीकारेण दृष्टान्तासम्मतिशङ्कानुदयेन बाष्पारोपितधूमे धूमत्वस्वीकारे दण्डप्रदर्शकस्योत्तरमूलस्यानुत्थानप्रसङ्गेन व्यतिरेकदृष्टान्तत्वपक्षे मिथ्यात्वे सामान्यत्वाभावसाधकस्याश्रयाभावरूपहेतोर्दृष्टान्तमहिम्ना लब्धत्वाभावेन पृथक् तदनुक्त्या मूलकृतां न्युनतापातेन च तत्परिजिहीर्षया टीकाकृतैवं व्याख्यातत्वात् । उत्तरमूले बाष्पारोपितधूमे धूमत्वाङ्गीकारे बाधकोक्तिबलादेव पूर्वं बाष्पारोपितधूमाभावप्रयुक्तो धूमत्वस्य तत्साधारण्याभाव इत्ययमर्थो लभ्यत इतीदानीं न मूलस्य न्यूनतेत्यवधेयम् ।

प्रयुज्यमानं पञ्चम्यन्तप्रतिपाद्यं धूमवत्त्वं धूमः । निमित्तेनेति मूलस्थधूमपदोत्तरतृतीयार्थ-विवरणम् ।। निःशङ्कमिति ।। तथा च स्फुटत्वान्मूले व्यभिचाराभावे हेत्वनुक्तिर्न दोषायेति भावः ।। बहुलोर्ध्वतादिवदिति विच्छिन्नमूले शान्ताग्नौ धूमे च व्यभिचारवारणाय । सिद्धत्वादेव लोकानां न तथा प्रयोग इति भावः ।। प्रतिवक्तार इति ।। अन्यथेति ।। धूमवत्वादिहेतुवाक्यं प्रयुञ्जानानां बहुलोर्ध्वतादिविशिष्टधूमबोधतात्पर्येणेवाभासान्यत्वविशिष्ट-धूमबोधतात्पर्येणापि धूमपदप्रयोगस्य सत्त्व इत्यर्थः । अवक्ष्यन्निति । धूमवत्त्वादित्यक्तौ लौकिकानां वैदिकानां स्फुटतया बहुलत्वादिविशेषबोधकपदप्रयोगं विहाय धूमादित्येवोक्ति-रित्यर्थमविदुषा केनचिद्व्यभिचारे चोदिते बहुलत्वादिकं हेतुविशेषणं, परं तु स्फुटत्वाद-स्माभिर्नोक्तमिति यथा वदन्ति तथा केनचिदविदुषा बाष्पारोपितधूमेन व्यभिचारे चोदिते आभासान्यत्वविशेषणमपि हेतुकोटिनिविष्टम्, परं तु स्फुटत्वादस्माभिर्नोक्तमिति वदेयु-रित्यर्थः । ननु लौकिकानां तत्सदृशानां मदन्यवादिनां चाभासविवेकरूपविशेषणादानं धूम एवासौ न भवतीत्यादिकं त्वपरीक्षामूलकम् । न ह्येतत् परीक्षकाणां तादृशविशेषणदाने बाधकं भवति । उक्तविशेषणदातॄणां परीक्षकत्वादित्यभिप्रायकं द्वितीयपक्षं प्रतिषेधति ।। न द्वितीय इति ।। त्वदभ्युपगमस्यैवेति ।। निर्मूलत्वात् निष्प्रामाणिकत्वात् । एवकारो लौकिकप्रतीते-र्निर्मूलत्वमपाकरोति । प्रत्युत लौकिकादिप्रतीतेरेव प्रत्यक्षादिप्रमाणमूलत्वात्तेषामेव परीक्षकत्वं तवैवापरीक्षकत्वमिति भावः ।

एतेन यत्केनचिदभिहितं ‘किं च किं बहुना,धूमत्वादिसामान्यमपि व्यावहारिक-प्रातिभासिकसाधारणमेव । यत्तु व्यावहारिकप्रातिभासिकसाधारणधूमत्वसामान्यं नाभ्युपगन्तुं युक्तम् । तथा सति वह्नौ साध्ये धूमादेर्व्यभिचारापत्तेरिति तन्न । परीलोर्ध्वतादिव-द्व्यवहारकालाबाध्यत्वादेरपि हेतुविशेषणत्वाभ्युपगमात् । तार्किकाभिज्ञैस्तदननुसरणं त्वनिर्वचनीयानभ्युपगमेनैव । अपरीक्षकैस्तदननुसरणं तु यथायथं बाष्पाऽरोपितधूमादेरसत्त्व-निश्चयादन्यथा वेति न परीक्षकैस्तथा वर्तितव्यमिति दिक्’ इति । तदपास्तं भवति । त्वदभ्युपगमस्यैव निर्मूलत्वकथनेन तवैवापरीक्षकत्वसूचनात् । कुतो मदभ्युपगमस्य निर्मूलत्व-मित्यत आह ।। भ्रान्तीति ।। सर्वेषां लौकिकानामित्यादिः । अद्यापीत्यनेन त्वद्वाक्ये श्रद्धाधीनाऽग्रहाभावकालमुपलक्षयति । असिद्धत्वात् स्वार्थानुमानेन प्रत्यक्षादिनेति शेषः । अयं भावः । प्रत्यक्षेणानुमानेनाऽप्तवाक्यादिना वा बाधबुद्धिमतां भ्रान्तत्वेन व्यवहारो लोके नास्तीति सर्वलोकसम्मतम् । न च तेषां बुद्धिरनिर्वचनीयत्वस्वरूपतृतीयप्रकारावगाहिनी । भ्रान्तिकाले सत्त्वेन बाधोत्तरं चासत्त्वेन लोकैर्व्यवह्रियमाणत्वेनानिर्वचनीयत्वस्य लौकिक-प्रमाणागम्यत्वात् । न हि तत् त्वद्वाक्याधीनश्रद्धादिकं विना घटत्वादिवत्प्रत्यक्षेण चक्षुरादिवदनुमानेन तन्मूलकविवक्षितार्थे ज्ञानवदाप्तोपदेशेनापि प्रतीयते । अतः

एकस्य प्रतिभातं तु कृतकान्नातिरिच्यते ।

इति न्यायेन त्वत्प्रतीतेरेवोन्मत्तप्रतीतेरिव भ्रान्तित्वं वक्तुं युक्तमिति त्वदभ्युपगम एव निर्मूलक इति ।

यद्वा न केवलं त्वदभ्युपगमो निर्मूल इति कृत्वा तादृशविशेषणं न देयम् । तद्दानेऽपि व्यभिचारस्य परिहर्तुमशक्यत्वात् । अतस्तत्र धूमत्वानङ्गीकार एव युक्त इत्याशयेनाह ।। भ्रान्तीति ।। केषाञ्चिदिति शेषः । असिद्धत्वादित्यतः परं चशब्दोऽध्याहर्तव्यः । अनिर्वचनीयत्वस्य व्यवहारकालबाध्यत्वस्य । ओति ब्रह्मज्ञानप्राक्कालोपलक्षणम् । अपिर भिव्याप्तौ । सर्वस्मिन्नपि तादृशपूर्वकाल इत्यर्थः । ओति वर्तमानकालः । समुच्चायकेनापिना पूवोत्तरकालावुच्येते इति वा । सर्वस्मिन् ब्रह्मज्ञानपूर्वकाल इत्यर्थः । योग्यतया बाधानु-दयेनेत्यध्याह्रियते । असिद्धत्वात् अप्राप्तत्वात् । तथा च ब्रह्मज्ञानपूर्वकाले बाधानुदयेन केषाञ्चिद्भ्रान्तिप्रतिपन्नानां व्यवहारकालबाध्यत्वस्याप्राप्तत्वात् तदभावादिति यावत् । व्यभिचारवारणद्वारा स्वाभ्युपगमनिर्वाहरूपद्वितीयपक्षनिर्वाहो न भवति । न केवलं स्वाभ्युप-गमस्य निर्मूलत्वमिति । तथा च ब्रह्मज्ञानपूर्वकालेऽसञ्जातबाधभ्रमविषयबाष्पारोपितधूमे वह्निव्यभिचारो दुर्वार इति भावः ।

ननु व्यवहारकालबाध्यत्वं नाम मूलाज्ञानोपादानकत्वं विवक्षितम् । उक्तधूमस्य ब्रह्मज्ञानेन बाधेऽपि मूलाज्ञानोपादानकत्वान्न व्यभिचार इति चेन्न । ब्रह्मज्ञानपूर्वकाले बाधानुदये तस्य तूलाज्ञानोपादानकत्वस्यैव युक्तत्वेन मूलाज्ञानोपादानकत्वे मानाभावात् । न चाविद्यातिरिक्तदोषजन्यत्वान्न तूलाज्ञानोपादानकत्वमिति वाच्यम् । पूर्वं बाधानुदयेन तज्जनकानां दोषत्वस्यैवासिद्धेः । न च साक्षात् तूलाज्ञानोपादानकस्य बहिष्ठत्वेनाध्यक्षता न दृष्टेति वाच्यम् । तमस इव त्वन्मते उपपत्तेः । न च यत्पुरुषस्य तादृशभ्रमो जातः तस्य बाधानुदयेऽपि तदन्यस्याधिष्ठानतत्त्वज्ञानवतः तत्प्रतीतधूमे बाधितत्वग्रहात्तस्य व्यवहारकाल-बाध्यत्वं वर्तत एवेति न व्यभिचारः। विशेषणशरीरे तत्पुरुषीयत्वादेरनिविष्टत्वादिति वाच्यम् । तथात्वे सर्वस्मिन् प्रपञ्चे इदानीं तत्वविचारकस्य बाधबुद्ध्युदयेन तादृशविशेषणाक्रान्त-धूमादीनामेवाप्रसिद्धेः । व्यवहारकाले मिथ्यात्वेनापरोक्षीकृतत्वनिवेशे तु चैत्रारोपितधूमे मैत्रेण मिथ्यात्वेनापरोक्षीकृतत्वायोगादसञ्जातबाधभ्रमगोचरे तत्र व्यभिचारो दुर्वार एव । न च तादृशभ्रमगोचर एव नास्तीति वाच्यम् । सन्निपातादिरोगेण जायमानभ्रमगोचराणामेव सत्त्वात् । सन्निपातेन तस्य मृतत्वेन तस्य बाधबुद्ध्यनुत्पत्तेः । न च तेषां प्रातीतिकानां प्रतीत्यपगमे स्थित्ययोगेन नष्टत्वाद्विनाशित्वरूपबाध्यत्वमस्त्येवेति वाच्यम् । धूमादेर्व्यावहारि-कस्यापि विनाशित्वेन असिद्ध्यापत्तेः ।

अपि च व्यवहारकालाबाध्यत्वरूपसत्त्वविशिष्टार्थग्राहकत्वरूपव्यावहारिकप्रामाण्याव-गाहिज्ञानाभावे बाष्पारोपितधूमार्थं प्रवृत्त्याद्यनुपपत्त्या प्रामाण्यभानाय साक्षिणा ज्ञानग्राहकेण ज्ञानांशे विशेषणतया भासमानधूमरूपार्थे व्यवहारकालाबाध्यत्वभाननिर्वाहाय प्रथमज्ञानेऽपि धूमांशे व्यवहारकालाबाध्यत्वारोपस्यावश्यकतया बाष्पारोपितधूमेऽपि व्यवहारकालाबाध्यत्व-रूपविशेषणस्य सत्त्वात् तेन व्यभिचार एव । न च तत्र तस्याऽरोपितत्वेन न वस्तुतस्तस्य तदधिकरणत्वमिति वाच्यम् । प्रसिद्धधूमेप्याध्यासिकसम्बन्धातिरिक्तसम्बन्धाभावेन तत्र तद्विशेषणवत्त्वाभावापातात् । स्वसमानसत्ताकतादृशविशेषणत्त्वं तादृशसंसर्गवत्त्वं च प्रातीतिकधूमेऽपि । तत्र प्रतीयमानव्यवहारकालाबाध्यत्वसंसर्गस्य प्रातीतिकत्वात्तत्संसृष्टरूपेण तस्यापि प्रातीतिकत्वात् शब्दानुमानाभासेभ्योपि अनिर्वचनीयख्यात्यङ्गीकारे तु अयं धूमो व्यवहारकालाबाध्य इति वाक्याभासजनिते बोधे आनुमानिके च बाष्पारोपितधूमे भासमानस्य व्यवहारकालाबाध्यत्वस्य स्वरूपत एव कल्पितत्वाच्च । अत्र नोक्तरूपं प्रामाण्यम् । किं तु मिथ्यात्वेनाज्ञायमानधूमाद्यवगाहित्वरूपमित्याद्युक्तवपि सद्रजतं सन् धूमः इत्यादिव्यवहारनिर्वाहायोक्ताबाध्यत्वरूपसत्त्वारोपो धूमादावारोपिते आवश्यकः । अत्यन्ता-बाध्यत्वरूपसत्त्वस्य प्रत्यक्षागोचरतायास्त्वयैव भाषितत्वात् । न च तत्रोक्तयोग्यानुपलब्ध्यनु-पपत्तिरूपदोषस्या-त्रापि साम्यात् व्यवहारकालाबाध्यत्वमपि कथं प्रत्यक्षविषय इति वाच्यम् । तर्हि ‘सन् घटः’ इत्यादिव्यावहरिकावगाहिप्रत्ययस्य सद्रजतमित्यादिप्रातीतिकावगाहि-प्रत्ययस्य गतिं भवानेव विभावयतु । अर्थक्रियाकारित्वादेरपि शक्तिरूपतयाऽतीन्द्रियत्वेन तद्भानेनापि तादृशप्रतीतेर्निर्वोढुमशक्यत्वात् ।

न च रूपादिहीनत्वेऽपि सद्रूपब्रह्मणः चक्षुरादिगम्यत्वाङ्गीकारात्तत्तादात्म्यभानमात्रेण सन् घट इति प्रत्ययोपपत्तौ घटादावपि सत्त्वसम्बन्धो न भासत इति वाच्यम् । अबाध्यत्व-रूपसत्त्वपुरस्कारेण ब्रह्मणो अधिष्ठानतया अभाने सद्रूपविशिष्टब्रह्मतादात्म्याभानेन सन् घट इति प्रतीतेरनुपपत्तिरेव । वस्तुतः सदात्मकब्रह्मतादात्म्यभानमात्रात्सदित्याकारकत्वे वस्तुतो ज्ञानाऽनन्दादिरूपब्रह्मतादात्म्याध्यासबलात् ज्ञानं घटः आनन्दो घटः इत्याकारकत्वापत्त्या तादृशव्यवहारापत्तिः घटे सत्त्वमित्यादिव्यवहारानुपपत्तिश्च । एतेन ‘सद्रूपविशिष्टब्रह्म-तादात्म्याध्यासमात्रेण घटः सन् इत्यादिप्रतीतिव्यवहारयोरुपपत्तौ घटेऽपि सत्त्वसंसर्गो नाध्यस्यते’ इति निरस्तम् । उक्तप्रतीतिव्यवहारयोरनिर्वाहापरिहारात् । सर्वत्र तद्धर्मोपहित-तादात्म्याध्यासस्थले तद्धर्मसंसर्गाध्यासस्याप्यभावप्रसङ्गेनेदमादौ रजतत्वसंसर्गाध्यासस्य तत्र विनिगमकाभावरूपभवदुक्तयुक्तेश्चासम्बद्धत्वापाताच्च । सद्रूपोपहितस्याधिष्ठानतया भानाङ्गीकारे तु अबाध्यत्वस्य भानानुपपत्तिस्तव दुर्वारैव ।

अथ ‘मानान्तरेण बुद्ध्युपारूढाबाध्यत्वं सन् घटः इति बुद्धौ भासते । सिद्धान्ते ज्ञानस्य सन्निकर्षत्वाभावेऽपि तस्य स्मृत्यात्मकत्वाङ्गीकारात् । न च ज्ञानद्वयात्मकता । स्मृत्यात्मकाविद्यावृत्तिप्रमाणवृत्तिद्वयावच्छिन्नचिद्रूपज्ञानस्यैकत्वात् । तत एव सत्तादात्म्य-स्यापि घटे सिद्ध्युपपत्तिः । अत्युद्बुद्धसंस्कारवशात्प्रत्यक्षवन्नियमतो भानेन तत्रापि प्रत्यक्षाभिमानः’ इति चेत्तर्हि व्यवहारकालाबाध्यत्वस्याप्येषैव गतिरस्तु । अपि च व्यवहार-कालाबाध्यत्वस्य प्रसिद्धधूमादौ यादृशप्रत्ययबलात्सिद्धिः तथैव प्रातीतिकेऽपि सिद्धिर्भवत्ये-वेति सुस्थो व्यभिचारः ।

नन्वद्वैतचन्द्रिकायां व्यावहारिकरजततादात्म्यस्य प्रातीतिके आरोपं प्राचीनोक्तं निराकर्तुं ‘रजतत्वं व्यावहारिकरजतनिष्ठमेव प्रातीतिकेऽपि स्वीक्रियते । न च प्रातीतिकाद्व्यावहारिकस्य यत्कार्यं तदापत्तिः । व्यावहारिकत्वविशिष्टस्यैव कारणत्वाभ्युपगमात् । प्रातीतिकं तु न कुत्रापि कारणम् । चिद्रूपात्तद्विषयकज्ञानादेव कार्योत्पत्तिसम्भवात् । अत एव प्रतीत-विषयकाद्व्यावहारिकविषयकाच्चैकजातीयं कार्यमुत्पद्यते । संयोगविशेषणत्वादिसंसर्गस्थले तु व्यावहारिकप्रातीतिकसाधारणमेकं संयोगत्वविशेषणत्वादिकम् । अपरं व्यावहारिकसंयोगादि-मात्रनिष्ठं स्वीक्रियते । तत्र व्यावहारिकधूमादिनिष्ठवह्न्यादिव्याप्तिशरीरे व्यावहारिकमात्र-वृत्तिरूपावच्छिन्नसंसर्गो निविष्टः । तेन वह्निविशेषाधिकरणे धूमस्याऽरोपितस्थले मिथ्यात्व-घटकतदभावस्य तत्र सत्त्वेऽपि तस्य प्रतियोगिव्यधिकरणत्वाभावेन प्रतियोगिव्यधिकरण-स्वसमानाधिकरणाभावाप्रतियोगित्वस्य धूमे सत्त्वेऽपि न वह्नेर्धूमव्याप्यता । साध्यसामानाधि-करण्यशरीरे व्यावहारिकसंसर्गस्य निविष्टतया व्यावहारिकसम्बन्धस्य प्रातीतिकधूमप्रतियोगिक-सम्बन्धत्वविरहात् तद्धटितसाध्यसामानाधिकरण्यविरहात् । यत्र वह्निसमानाधिकरणे बाष्पे धूमत्वभ्रमस्तत्स्थले तादृशधूमत्वाश्रयप्रतियोगिकत्वस्य बाष्पीयसंयोगे सत्त्वेऽपि धूमत्वविशिष्ट-प्रतियोगिकत्वविरहाद्व्याप्तिघटकसामानाधिकरण्यशरीरे च साध्यतावच्छेदकविशिष्टप्रतियोगिक-सम्बन्धस्यैव निवेशान्न तत्रापि व्याप्तिप्रसङ्गः । किं च साध्यसामानाधिकरण्यमपि व्यावहारिकविशेषणतयैव निविष्टमिति प्रातीतिकघटितस्य व्यावहारिकविशेषणतयाऽ-वृत्तित्वान्नातिव्याप्तिः’ इत्युक्तम् ।

तथा च तद्रीत्या व्यावहारिकसंयोगेन धूमत्वविशिष्टवन्निष्ठात्यन्ताभावप्रतियोगिता-वच्छेदकसाध्यतावच्छेदकस्य साध्यतावच्छेदकावच्छिन्नाभावसामानाधिकरण्यस्य हेतुता-वच्छेदकावच्छिन्नानुयोगिकविशेषणतया वर्तमानस्य वा व्यभिचाररूपत्वं स्वीक्रियते । तथा च बाष्पे धूमत्वस्यारोपेऽपि तद्विशिष्टप्रतियोगिकत्वस्य तदीयव्यावहारिकसंयोगे अभावात्साध्या-भावसामानाधिकरण्यस्य बाष्पनिष्ठस्य धूमत्वावच्छिन्नानुयोगिकव्यावहारिकविशेषणतया अवृतित्वाच्च न व्यभिचारप्रसक्तिः । आभासान्यत्वविशेषणदानस्यापि अत्रैव तात्पर्यम् । अतो बाष्पारोपितधूमे धूमत्वाङ्गीकारे न कोऽपि दोष इति चेत् अत्रापि वक्तव्यम् । अयमपि प्रकारः किं लोकव्यवहारानुसारेणाश्रीयते उत स्वाभ्युपगमनिर्वाहाय । तत्राद्यं दूषयति ।।  नाद्य इति ।। अन्यथा धूमवत्त्वमङ्गीकृत्य सम्बन्धकृतवैलक्षण्येन व्यभिचारवारणस्याभि-प्रेतत्वे ।। तदन्यत्व इति ।। शङ्ककस्याभिप्रेतसंयोगविशेषणतादिनिष्ठं यत्संसर्गतावच्छेदकं संयोगत्वविशेषणत्वत्वादिकं बुद्धिस्थत्वात्तदिति परामृशति । तदन्यत्वे तद्भेदे सति व्याप्तिघटकसंसर्गतावच्छेदके विद्यमाने । सति सप्तमी चेयं । विद्यमाने सतीत्यर्थः । इति एवं क्रमेण । व्यावहारिकसंयोगादिनिष्ठवैजात्यपुरस्कारेणैव व्याप्तिशरीरे व्यभिचारशरीरे च संयोगादिर्निविष्टोऽतो न व्यभिचार इत्येवं क्रमेणैवेत्यर्थः । अवक्ष्यन् वदेयुः । न ‘स्वयं धूमो न भवति इति वदेयुरित्यर्थः । अन्यथा द्रव्यं प्रमेयादित्युक्ते केनचिद्गुणे व्यभिचारे चोदिते संयोगेनायं हेतुरित्यनुक्त्वा प्रमेय एवायं न भवति गुणत्वादिति वदेयुरिति लोकानां मूर्खत्वापत्तिरिति भावः । द्वितीयं निराचष्टे ।। नेति त्वदभ्युगमस्यैवेति ।। एवकारः अत्यन्ताप्रामाणिकत्वं कैमुत्यं वा बोधयति । लोकप्रतीतिविरुद्धस्य बाष्पारोपिते धूमत्वा-भ्युपगमस्यैवात्यन्तमप्रामाणिकाभ्युपगमरूपत्वे तन्निर्वाहाय कल्पनीयोऽयं सर्वलोकप्रतीत्यसिद्ध-स्तद्विरुद्धश्च प्रकारः सुतरामप्रामाणिक इति द्वितीयोऽपि प्रकारो न सम्यगिति भावः । ननु भ्रान्तिप्रतिपन्नानां प्रातीतिकत्वेनासत्त्वायोगात् अनिर्वचनीयत्वस्य सिद्धत्वात्तत्र धूमत्वादिके प्रतीतिबलात्सिद्धे व्याप्त्यव्याप्त्यादिव्यवस्थासिद्धये सर्वोऽपि प्रकारोऽन्यथानुपपत्त्या सिद्ध इत्यत आह ।। भ्रान्तीति ।। प्रेक्षावतामसिद्धत्वादित्यर्थः । तेन भ्रान्तानामविचारेण तत्सिद्धावपि तज्ज्ञानस्य भ्रमत्वात्तद्विषयीभूतार्थनिर्वाहाय सर्वापि कल्पना निर्मूलेति सिद्ध्यति ।

ननु प्रेक्षावतां कुतो न सिद्ध्यतीति चेच्छ्रुणु । भ्रान्तिविषये सद्विविक्तत्वेन प्रतीयमाने उपपत्त्यादिकं रजतत्वादिकं तत्संसर्गादिकं च परिकल्पयन्तः तत्काल एव रजतत्वधूमत्वा-वच्छिन्नस्य लोकसिद्धविप्रतिपन्नव्याप्तिकस्य स्वसाध्येन सह व्यभिचारादिप्रसङ्गरूपबाधक-स्फूर्तेर्झडिति सम्भवेन तत्परिहाराय संसर्गतावच्छेदकेषु वैजात्यादिरूपाप्रामाणिकपरम्परा-कल्पनागौरवानुसन्धानस्याऽवश्यकतया कथमनिर्वचनीयत्वसिद्धिः स्यात् । वक्ष्यमाणरीत्या प्रतीतस्याप्यसत्त्वाङ्गीकारपक्ष एव लाघवसम्भवात् । लघुपक्षानादरेण गुरुपक्षस्य प्रकृते अङ्गीकारे गौरवस्य बाधकत्वमेवोच्छिद्येत । न हीदमनिर्वचनीयसिद्ध्युत्तरकालिकं येन फलमुखत्वेनादूषणं स्यादिति ।

किं च व्यभिचारशरीरे व्याप्तिशरीरे च धूमत्वविशिष्टप्रतियोगिकत्वनिवेशे धूमत्वावच्छिन्न-प्रतियोगिकव्यावहारिकसम्बन्धस्याप्रसिद्ध्याऽप्रसिद्धिः । संयोगादेर्धूमत्वाश्रयप्रतियोगिकत्व-मात्रोपगममात्रेण सर्वस्यापि धूमप्रकारकप्रत्ययस्य प्रामाण्यादिव्यवस्थोपपतौ धूमत्वावच्छिन्न-प्रतियोगिताकत्वस्य संयोगेऽङ्गीकारे मानाभावात् । स्वाभ्युपगमनिर्वाहाय विना प्रमाणं पदार्थकल्पनेऽतिप्रसङ्गात् ।

अस्तु वा तत्स्वीकारः तथापि हेतुतावच्छेदकविशिष्टवैशिष्ट्यावगाहिपरामर्शतदुप-लक्षितावगाहिपरामर्शाधीनानुमित्यौपयिकव्याप्त्योर्भिन्नतया आद्यायां हेतुतावच्छेदकविशिष्ट-प्रतियोगिकसंसर्गस्य द्वितीयायां तदुपलक्षितसंसर्गस्यैव निवेशो युक्तः । उभयत्र व्याप्त्योरेक-जातीयत्वे सर्वत्र विशिष्टप्रतियोगिकसम्बन्धनिवेशे चैत्रत्वसाध्यमैत्रान्यत्वसामानाधिकरण्यो-पलक्षितचैत्रमैत्रोभयवृत्तिदण्डहेतुकानुमितेस्सल्लिङ्गकपरामर्शाधीनत्वापत्तिः । सर्वत्र हेतुता-वच्छेदकोपलक्षितप्रतियोगिकसम्बन्धनिवेशे च पूर्वोक्तस्थल एवोक्तसामानाधिकरण्यविशिष्टस्य सद्धेतुतया तत्रानुमितिजनकपरामर्शप्रामाण्यस्य दुर्लभत्वापतिः ।

तथा च धूमत्वोपलक्षितस्य वह्निनिरूपितव्याप्तिशरीरे तदुपलक्षितप्रतियोगिकसम्बन्धस्यैव निवेशस्याऽवश्याकतया तद्विरोधिव्यभिचारस्यापि तथात्वावश्यकतया बाष्पे धूमत्वभ्रमस्थले धूमत्वोपलक्षितस्य बाष्पस्य व्यावहारिकसंयोगेनैव ह्रदादौ सत्त्वाद्व्यभिचार एव । साध्याभाव-सामानाधिकरण्यस्याप्युपलक्षितहेतुकव्यभिचारशरीरे हेतुतावच्छेदकावच्छिन्नत्वेनानिविष्टत्वात् । तदाश्रयत्वमात्रेण निविष्टत्वात् । अन्यथोक्तोपलक्षितदण्डस्य चैत्रत्वादिव्यभिचारानिर्वाहा-पातात् । न च धूमत्वाश्रये साध्याभावसामानाधिकरण्यं न नव्यावहारिकविशेषणतयाऽस्तीति वाच्यम् । धूमत्वाश्रये बाष्पे वह्न्यभावसामानाधिकरण्यस्य व्यावहारिकसम्बन्धेन सत्त्वात् । न च व्यावहारिकसंसर्गेण हेतुतावच्छेदकाश्रयो व्याप्तिशरीरे व्यभिचारादिशरीरे निविष्टः । संसर्गश्च तादात्म्यं समवायो वेत्यन्यदेतत् । इत्थं च बाष्पे धूमत्वं प्रातीतिकसम्बन्धेनैवास्तीति न तमादाय व्यभिचारप्रसक्तिरिति वाच्यम् । तथात्वे बाष्पे धूमत्वारोपस्थले तत्र विद्यमानवह्नेः धूमव्याप्यतावारणाय व्यावहारिकसम्बन्धेन साध्यतावच्छेदकवत्त्वस्य साध्ये निवेशं विहाय तत्रत्यसंयोगे विशिष्टधूमप्रतियोगिकत्वाभावाभ्युपगमेन तादृशधूमसामानाधिकरण्यस्य वह्नौ व्यावहारिकसम्बन्धेनासत्त्वोक्त्या परिहारस्यानुचितत्वापातात् । तादृशधूमत्वाश्रयीभूतबाष्प-सामानाधिकरण्यस्य व्यावहारिकसम्बन्धेनैव सत्त्वेन तत्र विशिष्टनिरूपितसामानाधिकरण्यस्य प्रातीतिकार्थघटितत्वेनैव व्यावहारिकसम्बन्धाभावे त्वयोपपादनीये बाष्पधूमत्वयोरुभयोरपि व्यावहारिकत्वेन प्रातीतिकतदुभयसंसर्गमुपादाय विशिष्टस्य प्रातीतिकार्थघटितत्वस्यैव तद्बीजतया तद्द्वारेणैवोक्तदोषवारणस्योचितत्वात् ।

किं च बाष्पे धूमत्वभ्रमानन्तरं तादृशबाष्पसंयोगेनैव ह्रदे यत्र धूमाभासस्य प्रतीतिः तदधिकरणे वह्नेः सर्वथाऽनारोपस्तत्रैव व्यभिचारः । तादृशाऽभासधूमे व्यावहारिकसम्बन्धेनैव त्वया धूमत्वस्याङ्गीकृतत्वात् तादृशधूमस्य व्यावहारिकसंयोगेनैव ह्रदे प्राप्तेः । न च प्रातीतिके कथं व्यावहारिकसम्बन्धः । धूमत्वस्य प्रातीतिकानुयोगिकत्वेन प्रातीतिकत्वस्यैव प्राप्तेरिति वाच्यम् । भ्रमबाधयोर्वैयधिकरण्यमाशङ्क्य तत्परिहाराय ‘भ्रमे हि व्यावहारिकरजतत्वस्य व्यावहारिकः संसर्गः प्रातीतिकरजते भासते । बाधकज्ञाने व्यावहारिकमिथ्यात्वस्य व्यावहारिकसम्बन्धभानवत्’ इति ग्रन्थेन परेणैवोपपादितत्वेन प्रातीतिकानुयोगिकत्वस्य सम्बन्धप्रातीतिकत्वे अतन्त्रत्वावगमात् । न च प्रातीतिकतादात्म्यसंसर्गेण धूमत्वोपलक्षित-बाष्पप्रतियोगिकत्वस्य तत्संयोगे सत्त्वेऽपि व्यावहारिकतादात्म्येन धूमत्ववत्प्रतियोगिकत्वं न बाष्पसंयोग इति वाच्यम् । तादृशधूमतादात्म्यापन्नबाष्पप्रतियोगिकत्वे संयोगस्य तादृश-धूमप्रतियोगिकत्वानपायात् । अन्यथा नीलघटवति भूतले घटवन्नीलवच्चेति प्रतीतिर्न स्यात् । नीलस्य संयोगाप्रतियोगित्वात् । न च संयोगद्वयमेव प्रतीतिद्वयनियामकमिति वक्तुं शक्यम् । दृष्टान्ते दार्ष्टान्तिके चोभयत्राप्यनुभवबाधात् । न च तत्प्रतियोगिकव्यावहारिकतादात्म्य-वत्त्वमेव तत्प्रतियोगिकसंसर्गे तत्प्रतियोगिकत्वनियामकमिति वाच्यम् । ‘पूर्वं विद्यमानशुक्ति-निष्ठतादात्म्ये रजतप्रतियोगिकत्वमात्रं जायते । न तु तादात्म्यमप्युत्पद्यते’ इत्यपि त्वया भाषितत्वात् । प्रतियोगित्वेऽपि व्यावहारिकत्वं नियामकमित्युक्तौ तु उक्तस्थले बाष्पसंयोगस्य धूमाप्रतियोगिकत्वेन धूमासम्बद्धतया धूमवानिति प्रतीत्यनुपपत्तिः । व्यधिकरणसम्बन्धेन धूमप्रकारकत्वे प्रात्यक्षिकभ्रमस्य तवान्यथाख्यातित्वं स्यात् । धूमवद्ह्रदरूपविशिष्टविषय-कत्वाभावे ज्ञानानां विशिष्टविषयकत्वेनैव मिथो वैलक्षण्यात् भ्रमे रजतमिदं इदं रजतमिति द्व्याकारकतानिर्वाहाय ‘रजतादाविदमादितादात्म्यं प्रातीतिकं जायते’ इत्यादिसिद्धान्तभङ्गः स्यात् । न च बाष्पीयसंयोगे धूमप्रतियोगिकत्वं प्रातीतिकमुत्पद्यत इति वाच्यम् । तावतापि व्यावहारिकसंसर्गस्य धूमसंसर्गत्वानपायात् ।

व्याप्त्यादिशरीरेऽपि व्यावहारिकवृत्तिवैजात्यावच्छिन्नस्य संसर्गविधयैव निविष्टत्वात् प्रतियोगित्वानुयोगित्वादावप्यवान्तरवैजात्यमङ्गीकृत्य तादृशविजातीयप्रतियोगितया धूमविशिष्टो यो विजातीयः संयोगः विजातीयानुयोगितासम्बन्धेन तद्विशिष्टत्वं व्याप्यादिशरीरे निविष्ट-मित्याग्रहकरणेऽपि बाष्पे धूमभ्रमोत्तरं यत्र तादृशधूमस्य तदधिकरणे भ्रमेण धूमवन्निष्ठाभाव-प्रतियोगी वह्निरित्यादिव्यभिचारभ्रमस्तस्य व्याप्तिग्रहप्रतिबन्धकत्वानुभवानुरोधात् तत्प्रतीति-विषयविशिष्टशरीरप्रविष्टप्रतियोगित्वादिसंसर्गाणां वैजात्यत्वमेव वाच्यम् । अन्यथा समवाय-संसर्गघटितव्याप्तिग्रहे संयोगसंसर्गघटितव्यभिचारग्रहवत्तद्ग्रहस्याप्रतिबन्धकत्वापत्तेः । तथा च धूमसाध्यकवह्नेरिव वह्निसाध्यकधूमस्यापि व्यभिचारो दुर्वारः । न चोक्तव्यभिचारस्य प्रातीतिकधूमप्रतियोगिकत्वादिघटितत्वेन प्रातीतिकत्वान्न व्यावहारिकसम्बन्धेन तद्वत्त्वं हेतोरिति वाच्यम् । उक्तप्रतियोगिकत्वादिसंसर्गाणां व्यावहारिकमात्रवृत्तिवैजात्यवत्त्वे तेषां प्रातीतिकत्वस्य वाङमात्रत्वात् । वह्न्यादौ धूमादिव्यभिचारस्य व्यावहारिकसम्बन्धेनैवावगाहि-ज्ञानस्यैव प्रतिबन्धकतायाः दृष्टत्वात् । चैत्रेण धूमे वह्न्यभाववद्वृत्तित्वमारोपितमित्यादि-मैत्रव्यवहारमूलभूतस्य प्रातीतिकसम्बन्धेन व्यभिचारप्रकारधूमविशेष्यकस्य वह्न्यभाववद्वृत्तित्व-विशिष्टधूमविषयकज्ञानवांश्चैत्र इत्याकारकनिर्णयस्य मैत्रे सत्त्वेन तस्य व्याप्तिग्रहोदयेन व्यावहारिकवृत्तिवैजात्यावच्छिन्नसंसर्गकव्यभिचारज्ञानस्य प्रतिबन्धकत्वस्य क्लृप्ततयोक्तबाष्पा-रोपितधूमस्थले व्यभिचारज्ञानप्रतिबन्धकत्वानुभवानुरोधेन व्यावहारिकसंसर्गेण व्यभिचार-विशिष्टहेतुरूपविशिष्टविषयकत्वस्यावश्यकत्वे व्यावहारिकसम्बन्धेनोक्ताव्यभिचारस्य हेता-वावश्यकत्वात् । न च प्रातीतिकव्यावहारिकसाधारणरूपावच्छिन्नसंसर्गेण व्यभिचाराद्यगाहि-निर्णय एव व्याप्तिग्रहविरोधी । हेतोर्दुष्टत्वव्यवहारे तु व्यावहारिकसम्बन्धेनैव तद्वत्त्वं तन्त्रमिति वाच्यम् । द्रव्यत्वावच्छिन्नग्रहस्य वह्नित्वावच्छिन्नप्रतियोगिकाभावप्रकारकबुद्धावविरोधित्व-वदुक्तसामान्यरूपविशिष्टसंसर्गकव्यभिचायग्रहस्य व्यावहारिकसंसर्गमात्रवृत्तिवैजात्यविशिष्ट-संसर्गावच्छिन्नप्रतियोगिताकव्यभिचाराभावघटितव्याप्तिग्रहाविरोधित्वात् । न च व्याप्तिशरीरेऽपि सामान्यरूपविशिष्टसंसर्गावच्छिन्नव्यभिचारभावो निविष्ट इति वाच्यम् । प्रातीतिकव्यभिचार-स्योक्तसामान्यरूपविशिष्टसंसर्गेण धूमादौ सत्त्वेन धूमादौ वह्निव्याप्तेर्दुर्लभत्वापत्तेः । न च तेन सम्बन्धेन तस्य मिथ्यात्वात्तत्सम्बन्धावच्छिन्नतदभावोऽपि तत्र सुलभ इति वाच्यम् । व्यभिचारिण्यप्युक्तरीत्या व्यभिचाराभावसत्त्वात्तस्यापि व्याप्यतापत्तेः । न च व्यावहारिक-मात्रवृत्तिरूपविशिष्टसंसर्गेण प्रतियोगिवैयधिकरण्यमभावे निविष्टमिति वाच्यम् । तर्हि आगतं व्यावहारिकसंसर्गेणैव व्यभिचारग्रहो व्याप्तिग्रहविरोधीति । तस्मात् पूर्वोक्तदोषो दुर्वारः ।

न च व्यावहारिकव्यभिचारविशिष्टत्वं हेतोर्दुष्टत्वे नियामकम् । उक्तस्थले तु प्रातीतिक-पदार्थघटितत्वाद्व्यभिचारः प्रातीतिक एवेत्युक्तमिति वाच्यम् । संसर्गातिरिक्तस्थले व्यावहारिकमात्रवृत्तिवैजात्यस्य त्वयाऽनङ्गीकृतत्वेन व्यभिचारे जातिरूपव्यावहारिकत्वाद्य-भावात् व्यवहारकालाबाध्यत्वस्यैव तथात्वे तेनैव सर्वनिर्वाहे व्यर्थो व्यावहारिकसंसर्गमात्रवृत्ति-वैजात्याभ्युपगमः । व्यावहारिकस्याप्युक्तदिशा प्रातीतिकसंसर्गताया उपपादिततया तद-संसर्गतया वह्न्यादौ धूमादिव्याप्त्यादेः परिहर्तुमशक्यतया ततोऽस्यार्थस्यावश्यमनुसरणीय-त्वात् । अत्र चासञ्जातबाधभ्रमविषयीभूतव्यभिचारादिकमादाय पूर्वोक्तदोषः सर्वोप्यनुसन्धेयः । प्रतिवादिनं प्रति साधने त्वनिर्वचनीयसिद्धावुक्तव्यवस्थासिद्धिस्तत्सिद्धौ चोक्तबाधकाभावेना-निर्वचनीयसिद्धिरित्यन्योन्याश्रयोऽप्रामाणिकत्वं चेत्येवमाद्या दोषाः स्फुटा एव । ‘कपाला-दीनां व्यावहारिकत्ववतां घटादिरूपस्वोचितार्थक्रियाकारित्वम् । प्रातीतिकं तु न कुत्रापि कारणम् । सर्वत्र चिद्रूपज्ञानस्यैव कारणत्वम्’ इत्यादिवचनानि स्वयमेव पूर्वत्रोत्तरत्र च प्रातीतिकानामप्यर्थक्रियाकारित्वनिरूपणाद्व्याहतानि । एकत्रारोपितयोः प्रातीतिकयोरपि व्याप्तिसम्भवात् तत्र व्यावहारिकसम्बन्धनिवेशायोगात् सर्वत्र व्याप्त्यादावेकजातीयत्वम् । स्वाप्नदण्डेन कपालादिना स्वाप्नघटाद्युत्पत्त्या व्यावहारिकत्वविशिष्टानामेव तेषां कारणत्व-मित्यप्ययुक्तमित्यादिकमनुसन्धेयमित्यलम् । तस्मात्साधूक्तम् न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरतीति ।

ननु स्वाप्नधूमः सिद्धान्ते सत्य एव । न चासौ वह्निनियतः । स्वप्ने वह्न्यभाववत्यपि धूमदर्शनात् । तथा च तमादाय व्यभिचारं वारयितुं स्वाप्नधूमवृत्तिवैजात्यावच्छिन्नभेदो निवेश्यः । तत्स्थाने परेणाभासान्यत्त्वविशेषणं दीयते । स्वाप्नधूमे व्यभिचारोद्भावने अपरीक्षकैः लौकिकैः स धूम एव न भवतीत्युक्त्वोक्तविशेषणादानेऽपि परीक्षकत्वेन यथा लौकिकप्रतीतेरप्रामाण्यं भवतोच्यते तथा तेनापि लौकिकप्रतीतेरप्रामाण्योक्तौ किं बाधकमिति चेन्न । यतः इदमत्र समाधानम् । येषु ज्ञानेषु लौकिकानामविप्रतिपन्नभ्रमत्वसम्प्रतिपत्ति-स्तद्विषयीभूतधूमादिकमादाय व्यभिचारे केनचिच्चोदिते आविपालगोपालानारभ्य न केऽपि लौकिकाः परीक्षकाश्च तद्धर्मं तत्राभ्युपेत्य व्यभिचारवारणाय विशेषणदानाय प्रयतन्ते । किं तु तद्धर्मावच्छिन्नभेदमेव तत्राभ्युपेत्य । स्वप्नेऽपि येषु भ्रमत्वाभिमानः तेऽपि तथैव वदन्ति । किं तु स्वाप्नप्रमेयाणां विशेषश्रुतिसूत्रस्मृत्यादिभिः प्रत्यक्षादिप्रमाणाद्यबाधितसत्त्वं स्वीकुर्वता मया स्वाप्नप्रत्यये लौकिकानां यो धर्म्यंशे विभ्रमत्वग्रहस्तन्मात्रस्य भ्रमत्वं कल्प्यते बाधकाभावात् । स्वाप्नपदार्थेषु न धूमत्वादिकं धूमपदवशक्यतावच्छेदकतया लौकिकपुरुषैरवगतं तत्र स्वीक्रियते । केवलं बाह्यधूमाद्यभेदारोपस्तन्नियतस्तन्मूलक एव । तत्र धूमादिपदप्रयोगो रजतभ्रमवतः शुक्तौ रजतपदप्रयोगवत् । स्वप्नोत्थितस्य तद्बोधनाय तथाप्रयोगस्तु चित्रलिखितसिंहादौ सिंहशब्दप्रयोगवत् विशेषसादृश्यनिबन्धनो गौणः । अत एव धूममिव सादृश्यमिति प्रयोगः । अन्यथैकमात्रवृत्तिरूपावच्छिन्नप्रवृत्तिनिमित्तकचैत्रपदतत्तृणादिसङ्केतितपदविशेषादीनां स्वप्नदृष्ट-तत्तदर्थेषु व्यवहाराणां प्रेक्षावत्सम्बन्धिनां दुरुपपादत्वप्रसङ्गात् । मानोरथिकस्वाप्नानां प्रसिद्धजलपुष्पादिभिः सादृश्यात्तन्मूलकत्वेन गौण्या प्रवृत्तजलपुष्पादिशब्देन पूजाविधान-निषेधादिबोधकवचनसामर्थ्यात्पुण्यपापनिर्वाहकत्वशुभाशुभसूचकत्वादिकमपि युक्तं गुडतिल-धेन्वादिदानपरवाक्यानुसारेण धेन्वाकारगुडादीनामिवेति कथमपि बाधकविरहात् । तथा च स्वाभ्युपगमनिर्वाहाय सर्वलोकाविदितविशेषणं हेतुकोटौ निवेश्य सर्वसिद्धस्य धूमत्वावच्छिन्न-व्याप्तिग्रहस्य विना प्रमाणं भ्रमत्वं न कल्प्यत एव । सर्वलोकप्रतीतेर्विना प्रमाणं स्वाभ्युप-गमनिर्वाहाय भ्रमत्वकल्पने सर्वव्यवस्थायाः स्वेच्छाधीनत्वापातात् । परेण तु स्वाभ्युपगम-निर्वाहमात्रानुरोधेन सार्वलौकिकप्रतीतेर्भ्रमत्वं कल्प्यते । स्वार्थानुमितिसामग्रीसमवधान-दशायामेव प्रेक्षावतामुक्तबाधकस्य स्फूर्त्याऽऽवश्यकत्वेन तन्निरासकलधूपायान्तराभावेन बहुतरकल्पनागौरवादिति बाधकप्रतिसन्धानादिगौरवतर्कपराहत्या स्वार्थानुमित्यादेरनुत्पत्ति-प्रकारस्याऽवेदितत्त्वात् । न च सदसद्वैलक्षण्यरूपानिर्वचनीयत्वग्रहकाले रजतत्वादिधर्मस्य प्रातीतिकरजतवृत्तित्वादिग्रहपूर्वकं रजतादेः स्वसाध्यव्यभिचारादिस्फूर्तौ बीजाभाव इति वाच्यम् । अपरोक्षप्रतीतिविषयत्वेऽसद्वैलक्षण्यमात्रस्यानुपपादकतया तन्निर्वाहायोत्पत्त्यादि-मद्रजतादिस्वरूपवत्त्वस्फूर्त्यावश्यकत्वे तदनुषङ्ग्युक्तबाधकस्फूर्तेरावश्यकत्वात् । अतो युक्तमेव परं प्रत्युक्तदूषणाभिधानमिति । एतदपि त्वदभ्युपगमस्यैवेत्येवकारेण न तु त्वदन्येषा-मित्यर्थद्वारा स्वाभ्युपगमव्यवच्छेदकेन सूचयामासेत्यत्यलम् ।