असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

असतः अपरोक्षप्रतीत्यनङ्गीकारे बाधकोक्तिः

असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

श्रीमज्जयतीर्थटीका

अथैवं ब्रूयात् ‘अस्त्येवासतोऽपि परोक्षप्रतीतिगोचरता । अपरोक्षप्रतीतिगोचरतां तु न मन्ये’ इति । तत्रापि ‘असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः’ इत्येवोत्तरम् । यद्यत्यन्तासतोऽपरोक्षप्रतीतिविषयता न स्यात् तर्हि प्रातिभासिकतयाऽर्थक्रियानर्हस्य रजतस्य यदसत् प्रातिभासिकवैलक्षण्यं तदपरोक्षज्ञानं भ्रान्तस्य नोपपद्येत । तथा चाप्रवृत्तिः प्रसज्ज्येतेति ।

द्वैतद्युमणि:

तदेतत्सर्वमभिप्रेत्य असतः परोक्षप्रतीतिविषयतामाश्रित्य शङ्कते ।। अथैवमिति ।। अस्त्येवेत्येवकारस्तस्याऽवश्यकत्वमाह ।। अपरोक्षेति ।। न मन्य इति ।। तस्येन्द्रिय-सन्निकर्षाधीनत्वेनासति तदयोगादिति भावः । असच्च तत् वैलक्षण्यं चेति कर्मधारयः । वैलक्षण्यपदं प्रातिभासिकवैलक्षण्यपरमित्याशयेनाह ।। यदीति ।। इष्टापत्तिरित्यत आह ।। तथा चेति ।। अयं भावः । परमते न तावद्रजतत्वप्रकारकज्ञानमात्रं प्रवर्तकं प्रातिभासिक-रजतसाधारणम् । तस्येष्टताऽनवच्छेदकत्वात् । न च प्रकृते इष्टत्वं इष्टसाधनत्वरूपमेव । सुखदुःखाभावयोरन्यतरत्वाभावेन साक्षादिष्टत्वाभावात् । साधनता च स्वरूपयोग्यतैव । न तूपधायकत्वम् । उपधायकत्वस्य फलोत्पत्तेः प्राक् सर्वत्र प्रतिबन्धकसत्त्वादिशङ्कया सन्दिग्ध-त्वेन तन्निश्चयायोगेनेष्टसाधनत्वनिश्चयाधीनप्रवृत्तिविलयप्रसङ्गात् । तथा च स्वरूपयोग्यता कोमलदण्डादिवत्प्रातिभासिकरजतेऽपि स्वीक्रियत इति अनतिप्रसक्तत्वात्कथं रजतत्वं नेष्ट-साधनतावच्छेदकमिति वाच्यम् । दण्डेन कोमलतादशायां घटाजननेऽपि दृढत्वदशायां तेनैव घटोत्पत्तेरानुभाविकत्ववदसञ्जातबाधग्रहविषयेणापि प्रातिभासिकरजतेन कदाचिदपि रजतोचितार्थक्रियाऽजननेन तत्र स्वरूपयोग्यतायां मानाभावात् । अन्यथा द्रव्यत्वप्रमेयत्वा-दीनामपि रजतसाध्यार्थक्रियासाधनतावच्छेदकत्वापातात् । तस्मात्प्रातिभासिकभेदविशिष्ट-रजतत्वमेवेष्टसाधनतावच्छेदकं वाच्यम् । अतस्तत्र रजते प्रातिभासिकवैलक्षण्यभानं स्वीकर्तव्यम् । तच्च न पारमार्थिकम् । औतहानेः । रजते आरोपितस्य ब्रह्मस्वरूपत्वा-योगात् । नापि व्यावहारिकम् । ‘इदं प्रातिभासिकमेव न वास्तवम्’ इति ब्रह्मप्रमेतर-बाध्यत्वात् । नापि प्रातिभासिकम् । यत्र तस्यारोपस्तस्य रजतस्य १प्रातिभासिकतयाऽ-ज्ञानावच्छेदकतया तदवच्छिन्नाज्ञानपरिणामत्वायोगात् । शुक्त्यवच्छिन्नाज्ञानपरिणामत्वाङ्गी-कारे साक्षात्तदवच्छिन्नचित्यारोपितत्वापत्त्या रजतधर्मत्वायोगः । २अन्यथैककपालावच्छिन्न-दिगारोपितयोः घटकपालरूपयोः परस्परधर्मिधर्मभावापत्तेः । इत्थं च सत्तात्रयाभावादसत्त्वमेव वक्तव्यमिति असतः प्रातिभासिकवैलक्षण्यस्यापरोक्षप्रतीतिविषयत्वमागतमेव । एवं तत्र रजते भासमानं प्रातिभासिकवैलक्षण्यं सत्त्वेन भासते न वा । आद्ये तत्र भासमानं सत्त्वमपि सत्त्वेनैव प्रतीयत इत्यङ्गीकारे तदप्येवं तदप्येवमित्यनवस्था । द्वितीये चाऽगतैवा-सतोऽप्यपरोक्षप्रतीतिः । सत्त्वेनाप्रतीयमानत्वादेव तस्यासत्त्वसिद्धेरिति ।

अत्र वदन्ति । इदं रजतमिति भ्रमे रजते प्रातिभादिकवैलक्षण्यभानाङ्गीकारे बीजाभावः। रजतत्वमात्रस्येष्टतावच्छेदकत्वात् । न च प्रातिभासिकरजतादेरपि रजतोचितार्थक्रिया-कारित्वापत्तिः । इष्टापत्तेः । अन्यथा स्वाप्नकामिनीसम्भोगादेर्व्यावहारिकधातूत्सर्जनादि-जनकत्वस्य स्वाप्नवृक्षादेः स्वसमानसत्ताकफलादिकार्यजनकत्वस्य चानुपपत्तेः । एवं बहिः प्रतीतवंशोरगादेर्भयकम्पादिजनकत्वाभावापत्तेः । न च तत्र तज्ज्ञानमेव जनकमिति युक्तम् । मन्मते प्रातिभासिकाकाराविद्यावृत्तेस्तत्प्रतिबिम्बितत्वविशिष्टचिद्रूपज्ञानस्य च प्रातिभासिक-तया तावतापि प्रातिभासिकस्यार्थक्रियाकारिताया अवर्जनीयतया विनिगमनाविरहेण विषयी-भूतोरगादेरपि कारणत्वाक्षतेः । न चैकौषधिविशेषे आरोपितादौषधिविशेषाद्रोगविशेषनिवृत्त्या-पत्तिरिति वाच्यम् । क्वचित्तथाभावोपलम्भेन तत्स्थलीयरोगनिवृत्तेर्यादृच्छिकत्वकल्पनापेक्षया तज्जन्यत्वस्यैव कल्पयितुमुचितत्वेनेष्टत्वात् । क्वचित् स्थलान्तरेऽपि तेन कार्यजननाभावस्य व्यावहारिकेणापि तेन कार्याजननवददृष्टविशेषादिना प्रतिबन्धेनैवोपपत्तेः ।

अथ वा रजतत्वसंसर्ग एव व्यावहारिकप्रातिभासिकसाधारणे एकं वैजात्यम् । तदवच्छिन्नसंसर्गस्तु नेष्टतावच्छेदकतावच्छेदकः। व्यावहारिकसंसर्गमात्रनिष्ठं अपरवैजात्यम् । तदवच्छिन्नस्त्विष्टजनकतावच्छेदकतावच्छेदकः । तेन सम्बन्धेन रजतत्वभानादेव प्रवृत्तेः । न च प्रातिभासिके रजते भासमानो रजतत्वसंसर्गः कथं व्यावहारिकः स्यात् । प्रातिभासिकानु-योगिकत्वादिति वाच्यम् । प्रातिभासिकानुयोगिकत्वस्य सम्बन्धाव्यावहारिकतायामतन्त्रत्वात् । अन्यथा प्रातिभासिकरजतनिष्ठव्यावहारिकवैलक्षण्यस्यापि प्रातिभासिकत्वापत्त्या व्यावहारिक-वैलक्षण्यस्याप्यसिद्धिप्रसङ्गात् ।

यद्वा व्यावहारिकसत्त्वविशिष्टरजतत्वमेवेष्टतावच्छेदकमस्तु । व्यावहारिकत्वमधिष्ठानगतं स्वयं व्यावहारिकमेव रजते भासत इति प्रवृत्त्युपपत्तिः । तथा च प्रवृत्त्यनुरोधात्प्रातिभासिक-वैलक्षण्यं न भासत एव । अवश्यमित्थमेवाभ्युपेयम् । अन्यथा तस्य भेदत्वमात्ररूपेणेष्टता-वच्छेदककोटिप्रविष्टत्वेऽतिप्रसङ्गात्प्रातिभासिकत्वावच्छिन्नप्रतियोगिकभेदत्वेनैव तथात्वस्याऽ-वश्यकत्वे तेनैव रूपेण प्रवर्तकज्ञाने भानस्याऽवश्यकत्वप्राप्त्या प्रातिभासिकत्वाद्यनुपस्थिति-दशायां प्रतियोगितावच्छेदकविशिष्टज्ञानाभावेन तद्वैलक्षण्यास्फूर्त्या प्रवृत्त्यभावापत्तेः ।

यदपि ‘प्रातिभासिकवैलक्षण्यभानपक्षे तस्य रजतावच्छिन्नाज्ञानकार्यत्वाद्ययोगादसत्त्वमेव’ इति तदप्यसत् । तस्य शुक्त्यज्ञानकार्यताया एवाभ्युपगमात् । न च तस्य रजतधर्मत्वायोग इति वाच्यम् । तदवच्छिन्नाज्ञानकार्यस्य तद्धर्मत्वमिति नियमाभावात् । तथात्वे रूपादी-नामपि घटादीनामिव मूलज्ञानकार्याणां तद्धर्मत्वानुपपत्तिप्रसङ्गात् । मूलज्ञानस्य चिन्मात्रा-श्रितत्वेन घटाद्यनवच्छिन्नत्वात् । न च प्रातिभासिक इयं व्यवस्थेति युक्तम् । स्वाप्नानां सर्वेषां मूलाज्ञानकार्यत्वात् ।

नन्वेवं कपालघटतन्त्वादीनामविशेषेण चित्यारोपितत्वेन तन्तोरपि घटतादात्म्यवारणाय तदवच्छिन्नाज्ञानपरिणतत्वमेव तत्तादात्म्यनियामकं वाच्यम् । अवस्थाऽज्ञानानामप्यनादितया पूर्वं विद्यमानानां भाविकपालाद्यवच्छिन्नत्वे बाधकाभावात् । अन्यथा नित्यत्वेन संयोगाद्य-भावस्याऽगन्तुकमूलाद्यवच्छिन्नत्वाभावापत्तेः । न चोक्तरीत्या अवस्थाऽज्ञानजन्यत्वे प्रातिभासिकत्वापत्तिः शुक्तिरजतादेरिवेति वाच्यम् । अवच्छेदकनियम्यत्वायावस्थाऽज्ञान-सहितमूलाज्ञानपरिणामत्वाभ्युपगमेन शुक्तिरजतादेर्मूलाज्ञानमात्रजन्यत्वाभ्युपगमेन वैलक्षण्य-सम्भवादिति चेत् । मैवम् । मूलाज्ञानपरिणामत्वमात्रेणोपपत्ताववस्थाऽज्ञानपरिणामरूपत्व-स्याप्यङ्गीकारे गौरवात् । कपालादेस्तादृशाज्ञानावच्छेदकत्वेऽपि तत्स्वभावस्यैवाश्रयणीयतया घटाद्यवच्छेदकतायामपि तस्यैव नियामकत्वसम्भवात् । एवं च तदवच्छिन्नाज्ञानजन्यत्वस्य तद्धर्मतायां तत्तादात्म्ये वा प्रयोजकत्वविरहान्न प्रातिभासिकवैलक्षण्यस्य रजतावच्छिन्नाज्ञान-जन्यत्वाभावेन तद्धर्मत्वाभाव आपादयितुं शक्यः । प्रातिभासिकवैलक्षण्यविशिष्टरजतस्यैव शुक्त्यज्ञानकार्यत्वोपगमात् भीषणत्वादिविशिष्टस्यैव भुजङ्गस्य रज्वज्ञानकार्यतावत् ।

यदप्युक्तं ‘तद्वैलक्षण्यं कथं भासते’ इति तत्र सत्त्वेनैव तस्य भानाङ्गीकारात् । वस्तु-तस्तु प्रातिभासिकवैलक्षण्यं न भासते । रजतमेव सत्त्वेन भासते । सद्रजतमिति प्रतीतेरिति वस्तुस्थितिः । न च तत्सत्त्वस्यापि सत्त्वेन भानेऽनवस्थाभयेन तत्र सत्त्वस्याप्रतीतौ तदस-देवेति प्राप्तमेवेति वाच्यम् । अधिष्ठानवृत्तिसत्त्वस्य तत्र स्वरूपत एव भानाङ्गीकारेणानवस्था-भावात् । अधिष्ठानवृत्तिसत्त्वस्य व्यावहारिकत्वात् । अन्यथा सत्त्वस्यापि पुनः सत्त्वेन भानावश्यकत्वे त्वन्मतेऽप्यनवस्थाया दुर्वारत्वापत्तेः । तस्मादयुक्तमेवोक्तं सर्वमिति ।

अत्रोच्यते । यत्तावदुक्तं ‘प्रातिभासिकरजते रजतोचितक्रियास्वरूपयोग्यत्वं स्वीक्रियते’ इति तदसत् । तथात्वे तत्र प्रातिभासिकत्वग्रहोत्तरमपि इष्टसाधनत्वव्याप्यरजतत्वग्रहा-नपायेनेष्टसाधनत्वग्रहद्वारा प्रवृत्त्यापत्तेर्दुर्वारत्वात् । न च प्रातिभासिकत्वस्य कोमलदण्डत्व-स्येवानुपधायकत्वव्याप्यतया तन्निश्चयेन न प्रवृत्तिः । अनुपधायकत्वनिश्चयस्य प्रवृत्ति-विरोधित्वादिति वाच्यम् । स्वाप्नकामिनीसम्भोगतादृशरजतादौ उपधायकत्वस्य त्वयैव भाषि-तत्वेन प्रातिभासिकत्वस्य त्वन्मतेऽनुपधायकत्वव्याप्यत्वस्य वक्तुमशक्यत्वात् । न च तत्र मिथ्यात्वग्रह एव प्रवृत्तिविरोधीति वाच्यम् । मिथ्यात्वस्य १कार्येऽनुपधायकत्वस्य तज्जन-कत्वस्य वा भावं प्रत्यव्याप्यत्वे तद्ग्रहविरोधित्व एव बीजाभावात् । अन्यथा मिथ्यात्वाभाव-ग्रहस्यापि विरोधितापातात् । अविशेषात् । न चानुभवबलादेव तस्य तथात्वमस्त्विति वाच्यम् । अनुभवस्य कारणत्वाभावग्रहसम्पादकतयैव विरोधितायाः अनुभवसिद्धत्वेन स्वातन्त्र्येण विरोधिताया एवानुभवविरोधित्वात् ।

एतेन ‘अज्ञातमिथ्यात्वकरजतादिज्ञानत्वमेव प्रवर्तकतावच्छेदकम् । अतोऽबाध्यत्वस्य तत्तुल्यन्यायापन्नव्यवहारकालाबाध्यत्वस्य वा प्रत्यक्षागोचरतया घटादिज्ञानेषु तद्धटित-प्रामाण्यस्य साक्षिणा गृहीतुमशक्यत्वात्प्रवृत्त्यनुपपत्तिरूपो दोषो नास्ति’ इति समाधानं निरस्तम् । मिथ्यात्वस्य प्रवृत्तिप्रयोजकेष्टसाधनत्वाव्यावर्तकत्वेन १तत्तज्ज्ञाननिवेशे बीजा-भावस्योक्तत्वात् । किं चाज्ञातमिथ्यात्वकरजतज्ञानमेव प्रवर्तकमित्यस्य पुरोवर्तिरजत-विशेष्यकमिथ्यात्वप्रकारकज्ञानाभावेनैकक्षणावच्छिन्नत्वघटितसामानाधिकरण्यप्रत्यासत्त्या विशिष्टं रजतज्ञानमिति निष्कर्षः अङ्गीकर्तव्यः । अन्यथा पुरुषान्तरसम्बन्धिनं तत्पुरुषीयं कालान्तरीणं रजतमिथ्यात्वज्ञानं चादाय तज्ज्ञानत्वावच्छिन्नभेदनिवेशे प्रवर्तकतावच्छेदक-धर्मशरीरस्यैव दुर्लभत्वापत्तेः । अत्यन्ताभावं निवेश्य तस्य व्याप्यवृत्तित्वाङ्गीकारे मिथ्यात्व-ग्रहदशायामपि प्रवृत्त्यापत्तेः । तत्कालतत्पुरुषनिवेशे चाननुगमापत्तेः । इत्थं च मिथ्यात्व-विषयकत्वस्यैव ज्ञाने अप्रामाण्यरूपतया तस्य विषयमिथ्यात्वग्रह एव पर्यवसानादप्रामाण्य-ज्ञानानास्कन्दितरजतादिज्ञानमेव प्रवर्तकं न प्रामाण्यनिश्चयापेक्षेति स्फुटः प्रामाण्यस्वतस्त्व-सिद्धान्तपरित्यागः ।

न चाज्ञातमिथ्यात्वकत्वं भावरूपाज्ञानघटितमेव । तथा च रजतविषयकत्वादिकं ज्ञान-ग्राहकसाक्षिवेद्यम् । रजतादेर्ज्ञानावच्छेदकतया साक्षिभास्यत्वात् । २मिथ्यात्वज्ञानं त्वज्ञाना-वच्छेदकतया साक्षिभास्यम् । ‘सर्वं ज्ञाततयाऽज्ञाततया वा साक्षिवेद्यम्’ इति विवरणोक्ते-रिति विशिष्टप्रामाण्यावगाहित्वं ज्ञानग्राहकस्य प्राप्तमिति नापसिद्धान्त इति वाच्यम् । यतो रजतादिग्रहोत्तरं ‘इदं मिथ्यात्वेन न जानामि । रजतं तु पश्यामि’ इति व्यवहारमूलभूत-ग्रहस्तव नैयायिकस्य च समानः । परं त्वयं भावरूपाज्ञानविषयत्वे युवयोर्विप्रतिपत्तिगोचरः । न चायं प्रामाण्यनिश्चयरूपः । तथात्वे तस्येदमित्थमेवेति विषयावधारणप्राप्त्या विषय-संशयानुपपत्तिप्रसङ्गत् । तन्मूलज्ञानप्रामाण्यसंशयाभावात् । तथा चास्य प्रामाण्यनिश्चय-रूपता भवताऽङ्गीकृता कथमुपपद्यते । न च प्रामाण्यनिश्चयोत्तरमपि तन्नाशोत्तरं पुनः संशयः स्वतः प्रामाण्यवादिनः सिद्ध इति वाच्यम् । स्यादिदं यदि प्रामाण्यविषयकं स्यात् । न चैवम् । न च तादृशाकारज्ञानं नैयायिकस्यासिद्धमिति वाच्यम् । प्राथमिकप्रत्यक्षे यो यो धर्मो न भासते तेन रूपेण न जानामीति ग्रहोत्पत्तौ विवादाभावात् । अन्यथा घटदर्शनोत्तरं घट-त्वेनेमं जानामि न पटत्वेनेति प्रत्ययस्याप्यभावप्रसङ्गात् । पटत्वेनेममद्राक्षं न वेति संशयस्य अद्राक्षमेवेति विपर्ययस्य चाप्यापातात् । न च रजतं प्रमिणोमीत्येव मन्मते प्राथमिक-ज्ञानाकारः । १तन्नैयायिकसिद्ध इति वाच्यम् । मिथ्यात्वेनागृहीतरजताद्यवगाहित्वस्यैव प्रामाण्यरूपत्वे तद्ग्रहावश्यकत्वे तन्मूलकतादृशाकारत्वस्यापि नैयायिकस्य प्राप्त्याऽस्य स्वतो ग्राह्यत्वविप्रतिपत्तिगोचरप्रामाण्यरूपत्वाभावस्यैवोच्यमानत्वात् । न च भावरूपाज्ञानस्य तन्मते अभावात् कथं तद्घटितप्रामाण्यभानं नैयायिकस्योच्यत इति वाच्यम् । प्रामाण्यशरीरे भावरूपाज्ञानस्य तत्त्वेन निवेशे तत्स्वरूपस्यैव नैयायिकस्यासिद्ध्या तत्र स्वतस्त्वपरतस्त्व-विवादस्य दूरोत्सारितत्वापत्त्या ज्ञानविरुद्धत्वेन निवेशनीयत्वेनोक्तदोषस्य दृढत्वात् ।

किं चाज्ञातं यन्मिथ्यात्वं तदाश्रयरजतावगाहित्वं प्रामाण्यमुत मिथ्यात्वेनाज्ञान-विषयीभूतरजतावगाहित्वं वा । नाद्यः । सत्यरजतज्ञाने लोकानां २प्रामाण्यव्यवहारप्रसङ्गात् । न च तदपि वस्तुतो मिथ्येति वाच्यम् । तस्य त्वत्सिद्धान्तत्वेऽपि लोकानां सत्यरजते मिथ्यात्वाभावस्यैव गृहीतत्वेन प्रामाण्यव्यवहाराभावप्रसङ्गात् । भ्रम एव पूर्वक्षणे इदं प्रमाण-मिति व्यवहारप्रसङ्गाच्च । ब्रह्मस्वरूपमात्रावगाहिनि ज्ञाने ३उक्ताप्रामाण्याभावापाताच्च । न द्वितीयः । रजतभ्रमकाले तस्य मिथ्यात्वेनाज्ञाततयोक्तधर्मस्य भ्रमसाधारणस्य प्रामाण्य-रूपत्वायोगात् । अपि चेदं मिथ्या न वेति सन्देहदशायामपि भावरूपाज्ञानस्य त्वन्मते निर्विवादतया तद्धटितोक्तप्रामाण्यनिश्चयावधारणप्रसङ्गः । किं चोक्तरूपं यदि प्रामाण्यं तर्हि तुल्ययुक्त्या सत्यत्वेन मिथ्यात्वाभावेन वाऽगृह्यमाणरजताद्यवगाहित्वं भ्रमत्वं स्यादिति प्रामाण्यग्रहवेलायां नियमेनाप्रामाण्यभानप्रसङ्गः । तथा च युगपत्प्रवृत्त्यप्रवृत्त्योरापत्तेः । अप्रामाण्यस्वतस्त्वं च स्यात् । एवं चोक्तरीत्त्याऽनुपपत्तौ प्रवर्तकप्रामाण्यशरीरेऽपि विषये प्रातिभासिकवैलक्षण्यनिवेशावश्यकत्वे तद्भाननिर्वाहायापि रजतभ्रमप्रमादौ रजते प्रातिभासिक वैलक्षण्यभानाभ्युपगमस्यावश्यकता ।

ननु रजतादिज्ञानत्वमेव प्रवर्तकतावच्छेदकमस्तु । रजतमात्रस्येष्टस्वरूपयोग्यत्वात् । न च तत्र मिथ्यात्वग्रहोत्तरमपि प्रवृत्त्यापत्तिरिति वाच्यम् । रजताभावप्रत्यक्षस्यैव रजतमिथ्यात्व-ग्रहरूपतया तेन रजतोपादानज्ञाननाशपूर्वकं रजतस्य नाशितत्वादेव न तत्र नष्टघटादाविव प्रवृत्तिरिति चेन्न । अनुमानशब्दादिना मिथ्यात्वनिश्चयोत्तरं प्रवृत्त्यापत्तेरवारणात् । दोषाधीनरजतप्रतीतेरनुवृत्तत्वेन रजतस्यानष्टत्वात् ।

यदपि ‘प्रातिभासिकादपि यदृच्छया कार्यदर्शनात्तस्यापि स्वरूपयोग्यत्वम् ’ इति । तदप्यसत् । यदृच्छयैवेदं जातं नानेनेत्यबाधितानुभवविरोधेन तस्याकारणत्वात् । अन्यथा यदृच्छयेत्यस्याभावप्रसङ्गात् । तस्मात्केवलरजतादेर्न कारणत्वमिति प्रातिभासिकवैलक्षण्यं जनकतावच्छेदककोटौ निवेशनीयमेव । न च स्वाप्नकामिन्याः धातूत्सर्गकारणत्वं न स्यादिति वाच्यम् । इष्टापत्तेः । तज्ज्ञानस्यैव कारणत्वात् । न च विनिगमकाभावः । कामिन्यसत्त्व-दशायामपि उत्कटरागादिना कामिनीस्मरणादिनापि तदुत्पत्त्या ज्ञानकारणतायाः क्लृप्तत्वात् । अन्यथा स्वाप्नशरीर एव कामिन्याश्लेषादिसत्त्वात् तत्रैव धातूत्सर्गं विहाय बहिःशरीरे तथात्वे बीजाभावः । अत एव रजतत्वापेक्षया रजतज्ञानत्वस्य कारणतावच्छेदकत्वे गौरवमप्य-किञ्चित्करम् । एवं स्वप्नफलादिकमपि साक्षादेवाविद्याकार्यं न वृक्षादिद्वारेति न कस्यापि प्रातिभासिकस्य कारणत्वम् । अन्यथा स्वप्ने जलसेकादिरूपक्लृप्तसहकार्यभावे तदुत्पत्त्यभावा-पत्तेः । न च यादृशजातिविशेषविशिष्टस्य स्वप्न एव भानं तज्ज्ञानकारणताया अक्लृप्तत्वेन सुखदुःखकार्यविशेषे तस्यैव कारणत्वं लाघवात्सिद्ध्यतीति वाच्यम् । जागरे कदाचिदप्यननु-भूते तत्कारणसंस्काराभावेन स्वप्ने दर्शनस्यैवाभावात् । ‘देशे दिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति’ इति श्रुतेश्च । ‘स्मृतिरूपः परत्र पूर्वदृष्टावभासोऽध्यासः’ इति वदद्भिस्त्वदा-चार्यैरपि अध्यासस्य कारणत्रयजन्यताया नियमनाच्च ।

कथञ्चिदङ्गीकारेऽपि सजातीयेषु ज्ञानकारणकत्वदर्शने तत्कार्यविशेषेषु तज्ज्ञानकारण-कत्वस्यैव कल्पयितुमुचितत्वात् । अन्यथाऽतीतलिङ्गमौनिश्लोकादिस्थले ज्ञानकारणताक्लृप्त्या सर्वत्र लिङ्गज्ञानत्वशब्दज्ञानत्वादिना सर्वसिद्धा ज्ञानकारणता न स्यात् । वर्तमानलिङ्गादि-स्थले विनिगमनाविरहेण लिङ्गादिकारणताया अप्यावश्यकतापत्तिः । किञ्च स्वप्नमात्रदृष्ट-वस्त्वधीनत्वेन भवदुक्तसुखादिकार्यविशेषे तस्य तज्ज्ञानस्य वा कारणत्वं न कल्प्यते । अन्यत्र तस्याक्लृप्तत्वात् । स्वाप्नान्वयव्यतिरेकप्रतीतेर्भ्रमत्वेन कारणत्वासिद्धेः । किं तु कार्यमात्र-जनकत्वेन क्लप्तादृष्टविशेषादेरेवेति वक्तुं शक्यम् ।

न च रजतादिज्ञानस्यापि प्रातिभासिकत्वात्तस्य जनकत्वेऽपि प्रातिभासिकस्यापि कारणत्वमागतमेवेति वाच्यम् । ज्ञानस्य बाधवैधुर्येण प्रतिभासिकत्वस्यासिद्धेः । न च ‘रजतं तज्ज्ञानं चोच्छिन्नम्’ इति बाधप्रत्ययोऽस्त्येवेति वाच्यम् । तस्य ज्ञाने विनाशावगाहित्वेन त्रैकालिकनिषेधप्रतियोगित्वानवगाहनात् । तथात्वे ‘रजतज्ञानमपि कदाचिदपि नास्ति’ इति बुद्ध्यापत्तेः । न हि तथानुभवो लोकानाम् । अन्यथेदमाकारज्ञानमुच्छिन्नमिति व्यवहारानु-सारादिदमाकारवृत्तेरपि प्रातिभासिकत्वापत्तेः । न चोच्छिन्नमित्यस्य नष्टार्थकत्वे रजते १तदन्यथानुपपत्तिः । तस्य सिद्धान्ते असत्त्वादिति वाच्यम् । मन्मते रजतनाशाप्रतीतेः तादृशव्यवहारसत्त्वे यथासम्भवमुक्तवाक्ये उच्छिन्नपदस्यार्थद्वयेन सामञ्जस्यात् । न च शुक्त्य-ज्ञानस्य बह्मज्ञानेतरबाध्यतया प्रातिभासिकस्य रजताद्युपादानतयाऽर्थक्रियाकारित्वमस्तीति वाच्यम् । अस्य रजतानिर्वचनीयत्वसिद्ध्युत्तरकालिकत्वात् । अज्ञानस्वरूपस्यैव ममासिद्धेश्च । अस्तु वा कस्यचित्प्रातिभासिकस्य तद्यथायथम् । रजतादीनामभिमत-कटकादिकार्यविशेषजनकताव्याप्यशरीरे तु प्रातिभासिकव्यावर्तकविशेषणमावश्यकमेव । प्रातिभासिकरजतस्य तादृशकार्यविशेषं प्रति कदाप्यकारणत्वात् । सत्यरजतादिप्रतीत्युत्तरेष्ट-साधनताग्रहमूलकप्रवृत्तेरभ्रान्तिमूलकत्वस्य सर्वसिद्धत्वात् ।

यदपि ‘सर्वत्र पूर्वं प्रातिभासिकत्वग्रहानियमात्तदवच्छिन्नभेदो न गृहीतुं शक्यः’ इति । तदसत् । प्रातिभासिकवैलक्षण्यपदेन प्रातिभासिकव्यावृत्तिप्रयोजकस्य तदवृत्तिधर्मविशेषस्य विवक्षितत्वात् । तच्च व्यावहारिकसत्त्वं तत्समनियतं तद्व्याप्यधर्मान्तरं वेत्यन्यदेतत् ।

यदपि ‘तादृशवैलक्षण्यस्य रजते भानपक्षे शुक्त्यज्ञानकार्यत्वात्प्रातिभासिकत्वमेव’ इत्यभिहितम् । तदसत् । तस्य रजताज्ञानकार्यस्यापि शुक्त्यज्ञानोपादानकस्य रजत-धर्मत्वाङ्गीकारेऽपि तस्य तत्कालोत्पन्नस्य रजतनिष्ठेष्टसाधनतावच्छेदककोट्यप्रविष्टतया तज्ज्ञानेनेष्टसाधनत्वग्रहायोगेन प्रवृत्त्यनुपपत्तिः । तत्साधारणरूपेण प्रातिभासिकवैलक्षण्यस्य जनकतावच्छेदककोटौ निवेशे रजतत्ववत्तस्यापि प्रातिभासिकनिष्ठतया तद्धटितधर्मस्य जनकतावच्छेदकत्वायोगः । तत्रापि प्रातिभासिकवैलक्षण्यस्य प्रातिभासिकतादृशवैलक्षण्य-व्यावर्तनाय जनकतावच्छेदककोटौ निवेशे तद्ग्रहं विना पुनः प्रवृत्त्ययोगात् तत्रापि पुनस्तादृश-वैलक्षण्यान्तराङ्गीकारे जनकतावच्छेदककोटौ अनवस्थितविशेषणपरम्परानिवेशेन तस्य दुर्ग्राह्यतया प्रमाधीनप्रवृत्तिविलयापत्तेः । तस्मात्तस्यासत्त्वमङ्गीकृत्य मन्मते असद्रजतभानपक्षे वक्ष्यमाणरीत्या दोषः परिहर्तव्य इति असतः प्रातिभासिकवैलक्षण्यस्यापरोक्षविषयता दुर्वारैव । अपि च रजते भासमानप्रातिभासिकवैलक्षण्यं प्रातिभासिकं नोपगन्तुं शक्यम् । स्वस्मिन् स्वसमानसत्ताकस्वभेदस्याभ्युपगन्तुमशक्यत्वात् । अन्यथा घटेऽपि स्वसमानसत्ताक-घटभेदस्य सत्त्वापातात् । प्रातिभासिकस्य प्रातिभासिकवैलक्षण्याविरोधप्राप्त्या घटवृत्तिरूप-ज्ञानस्य रसज्ञानं प्रतीव प्रातिभासिकत्वबुद्धेस्तद्विलक्षणत्वग्रहानिवर्तकतापत्तेः । तस्य व्यावहारिकत्वपारमार्थिकत्वे तु पूर्वमेव निरस्ते इति बलादसत्त्वमेवापतितम् ।

यदपि ‘इदंवृत्तिसत्त्वसंसर्गो रजते अध्यस्यते । सत्त्वस्य तत्संसर्गस्य वा सत्त्वेन भानं तु नापेक्षितम् । अन्यथा तवापि तद्दोषप्रसङ्गः’ इति । तदसत् । रजतत्वमात्रस्य जनकता-वच्छेदकत्वेऽतिप्रसङ्गात्तत्कोटौ सत्त्वस्य निवेशे तत्र व्यावहारिकप्रातिभासिकसाधारणरूपा-वच्छिन्नसंसर्गेण सत्त्वनिवेशे प्रातिभासिकरजतस्यापि कारणत्वप्रसङ्गात् व्यावहारिकमात्ररूपा-वच्छिन्नसंसर्गेण तन्निवेशे रजते तेन सम्बन्धेन सत्त्वाप्रतीत्या कारणत्वग्रहायोगेन प्रवृत्त्य-भावापातात् । अतो व्यावहारिकप्रातिभासिकसाधारणरूपावच्छिन्नसंसर्गेण भानमङ्गीकृत्य प्रातिभासिकव्यावर्तकरूपभानेनैव प्रवृत्तिनिर्वाहे कर्तव्ये उपपादितरीत्या असतोऽपरोक्षप्रतीति-विषयत्वं दुर्वारम् ।

किं चेदन्त्वरजतसंसर्गस्य वा सत्त्वरजतसंसर्गस्य वा रजते भासमानप्रातिभासिक-वैलक्षण्यस्य वा सत्त्वेन १भानाङ्गीकारे सत्तादात्म्यापन्नस्वरूपस्य सत्त्वेन प्रतीत्यर्हत्वस्याभावेन सद्रूपत्वस्याप्यभावेनासत्त्वस्यावर्जनीयतया असतोऽपरोक्षप्रतीतिविषयता दुर्वारा । सत्त्वेन प्रतीत्यङ्गीकारे तत्र भासमानसत्त्वसंसर्गस्य तत्संसृष्टसत्त्वस्य वा सत्त्वेन भानानङ्गीकारे पुन-स्तदवस्थः प्रसङ्गः । पुनस्तस्यापि तथात्वाङ्गीकारे अनवस्था । यत्र पर्यवसानं तस्यैवा-सत्त्वम् । न चेयमनवस्था प्रामाणिकी । येनानवस्थितविषयधाराया भानं स्वीकर्तुमुचितम् । न चेदं रजतमिति भ्रमे तादृशसंसर्गादौ २सत्त्वाभावेऽपि तत्संसर्गः सन्निति प्रतीत्यन्तरबलात्तत्र सत्त्वसिद्धिरिति वाच्यम् । एतदतिरिक्ततन्मात्रावगाहिप्रत्यक्षाभावात् । शाब्दानुमित्योस्तु शशविषाणसत्त्वावगाहिप्रत्ययाविशेषपरिहारस्याशक्यत्वात् । न चेदन्त्वरजतत्वयोः संसर्गे यत्सत्तादात्म्यं वर्तते तत्र सत्तादात्म्यान्तरं न स्वीक्रियत एव । तर्ह्यसत्त्वं दुर्वारमिति न शङ्क्यम् । स्वस्यैव स्वाधारत्वसम्भवादिति वाच्यम् । अत्यन्ताभेदे आधाराधेयभावानुपपत्तौ कथञ्चिदुपहितानुपहितभेदमङ्गीकृत्य तत्स्वीकारे तादृशभेदस्यापि भ्रमे प्रतीतिं विना सिद्ध्य-योगाद्भेदसम्बन्धादिष्वप्युक्तदोषो दुर्वारः । इदन्त्वरजतसंसर्गे सत्तादात्म्यभाने तत्र संसर्गाध्यास स्यावश्यकतया तत्संसर्गविषय एव पुनरुक्तदोषात् ।

एतेन सत्तासात्म्यसदेतदन्यतरत्त्वशून्यत्वमेवासत्त्वमङ्गीकृत्य ‘सत्तादात्म्ये सत्तादात्म्या-भानेऽपि नासद्भानम्’ इति जल्पनमपि निरस्तम् । उक्तसंसर्गादावपि सत्त्वसंसर्गमादाय दोषस्य दुर्वारत्वत् । अन्यतरत्वेन निवेशे यद्यदसतोऽपरोक्षप्रतीतिविषयता मया स्वीक्रियते तत्सर्वं निवेश्यान्यतमत्वेन परिष्कारस्य कर्तुं शक्यत्वेनापरोक्षप्रतीतिविषयत्वेनासत्त्वप्रतिक्षेपद्वाराऽ-निर्वचनीयत्वासिद्धेः ।

यदप्यभिहितं ‘सत्त्वस्य सत्त्वेन भानावश्यकत्वे तवाप्येष दोषः समानः । नो चेन्ममापि नास्ति’ इति । तदसत् । मम मते सत्त्वे सत्त्वस्य स्वतः सिद्धाधाराधेयभावाङ्गीकारेण प्रतीतावपि स्वांशे प्रकारतया स्वरूपत एवाङ्गीकारेण कुत्रापि दोषाभावात् । न चैवं भवन्मते इत्युपपादितमेव ।

यदत्र गुरुचन्द्रिकायामभिहितं ‘मन्मते सत्ता सतीति न प्रतीतिः । अतः सत्तायां सत्त्वास्वीकारः’ इति । तदसत् । सतीति प्रत्ययाविषयत्वे सद्विलक्षणत्वस्यावर्जनीयतया तुच्छत्वापत्तेर्दुर्वारत्वात् । सत्तादात्म्यमादाय तद्वारणे तेनैव घटादाविव सत्त्वप्रतीतेरवर्जनीय-तया तादृशप्रत्ययानङ्गीकारस्यानुचितत्वात् । नन्वनवस्थादोषादिसन्धाने घटादिरूपसर्वपदार्थे व्यवस्थापनमशक्यं स्यादतः आपातत एव रजतादिप्रतीतिकार्यमुपपादनीयमिति तत्र कुत एतद्युक्त्यनुसन्धानेनासत्प्रातिभासिकवैलक्षण्यभानसिद्धिरिति चेन्न । घटादिविशिष्टेषूक्तदोषस्य निरसिष्यमाणत्वात् अर्थापत्त्या शुक्तिरजतादेरनिर्वचनीयत्वसिद्धिवेलायां उक्तबाधकस्फूर्त्या-वश्यकत्वे असत्त्वपक्षान्यथाख्यातिपक्षपरित्यागपूर्वकमेतत्कल्पस्वीकारे बीजाभावात् । सर्वत्र बाधकसाम्यात् । वस्तुतः असत्त्वपक्षस्यानुपदं वक्ष्यमाणरीत्या दुष्टत्वाभावाच्च ।

ननु शुक्तिरजतादिप्रतीतौ भवन्मते रजतादौ सत्ता भासते न वा । द्वितीये रजते इष्टसाधनत्वानुमापकलिङ्गासिद्धिः । रजतज्ञाने सद्रजतावगाहित्वरूपप्रामाण्यनिश्चयायोगः । तथा च प्रवृत्त्यभावः । आद्ये रजते भासमानसत्त्वे सत्त्वसंशयकालेऽपि प्रवृत्त्यादिवारणाय सत्त्वेऽपि सत्त्वनिश्चय आवश्यकः । तत्राप्येवं तत्राप्येवमितिरीत्याऽनवस्थापत्तिः । यदि च तत्रासत्त्वग्रह एव विरोधी न तत्र सत्त्वग्रहापेक्षेति ब्रूषे तर्ह्यसत्त्वेनागृह्यमाणरजतादिज्ञानत्वं प्रवर्तकतावच्छेदकं जातमिति ममापि तथैवास्त्विति कुतो मम प्रवर्तकप्रामाण्यशरीरे प्रातिभासिकवैलक्षण्यनिवेशः कुतस्तरां तद्भाननिर्वाहाय रजते प्रातिभासिकवैलक्षण्यभानम् । अतः पूर्वोक्तप्रवर्तकप्रामाण्यशरीरे विषये प्रातिभासिकवैलक्षण्यमित्याद्यसमञ्चसमिति चेन्न । यतो मन्मते भ्रमप्रतीते रजतत्वादिधर्माणामनङ्गीकारेण तन्मात्रस्येष्टसाधनत्वव्याप्यतया सत्य-रजतादौ तन्मात्रेणेष्टसाधनत्वप्रमोदयेनाभ्रान्तस्य प्रवृत्तिनिर्वाहः । व्यवसाये तत्प्रामाण्याव-गाहिन्यनुव्यवसाये च रजतादिरूपविषयस्य सत्त्वेन भानम् । सत्त्वे च सत्त्वं स्वरूपत एव भासत इति सदर्थावगाहित्वरूपप्रामाण्यभानेनैव प्रवृत्त्यादिनिर्वाहः । प्रामाण्यशरीरे च विषये सत्त्वस्यैव निविष्टत्वेनासति सत्त्वेन भानस्थले च तत्र भासमानसत्त्वस्य वस्तुतोऽसत्त्वेन सत्त्वविशिष्टावगाहित्वरूपप्रामाण्यस्याऽपादयितुमशक्यतया प्रामाण्यशरीरेऽपि विशेषणानवस्था-विरहात् । यत्र तु गृहीते प्रामाण्ये पुनर्दोषादिवशात्सत्त्वसन्देहस्तत्र पुनर्विषयनिश्चय-तत्प्रामाण्यनिश्चययोर्निर्वाहाय प्रमाणान्तरान्वेषणम् । न पुनरसत्त्वेनागृह्यमाणविषयज्ञानत्वं प्रवर्तकतावच्छेदकम् । तथात्वे प्रामाण्यस्वतस्त्वभङ्गापत्तेरुक्तत्वात् । भ्रमे तु यादृशी प्रमीयविषयता सन्निकर्षादिप्रयोज्या तादृश्येव दोषप्रयोज्या स्वीक्रियते । तन्निरूपकं त्वसदिति । तथा च तादृशभ्रमात्मकेष्टसाधनताज्ञानप्रामाण्यभ्रमादिना भ्रमस्थले प्रवृत्तौ न किञ्चिद्बाधकम् । तव मते तु सत्यरजतज्ञानोत्तरप्रवृत्त्यादीनामेवाभ्रान्तस्य निर्वाहाय पूर्वोक्त-प्रातिभासिकवैलक्षण्यादिनिवेशस्य जनकतावच्छेदकप्रामाण्यशरीरादावावश्यकत्वात् पूर्वोक्तसर्व-दूषणान्यपरिहार्याणीति मूलटीकोक्तं युक्ततममेवेत्यलम् ।