न च जगतोऽज्ञानजन्यत्वे..

जगतः अज्ञानजन्यत्वेन तत्प्रत्यक्षस्यापटुत्वशङ्का तत्र मानाभावेन तन्निरासश्च

श्रीमज्जयतीर्थटीका

ननु यथा मायाजन्यैन्द्रजालिकार्थस्याविद्याजन्यमरीचिकोदकस्य च प्रत्यक्षम-पटूत्पद्यते तथाऽम्बरादिकं दुःखादिकं च मायाऽविद्यालक्षणाज्ञानजन्यमिति तत्प्रत्यक्षे-णाप्यपटुना भवितव्यम् । यद्यप्यज्ञानजन्यत्वानुसन्धानविधुराणां तत्पटूत्पद्यते तथापि तदनु-सन्धानवतां जायमानेन कथमपटुना न भाव्यम् । तस्मिंश्चानुमानाऽगमाभ्यामपहस्तितेऽ-न्यदपि तत्स्वार्थप्रच्युतं भविष्यति । तत्कथं जगत्प्रत्यक्षस्यापटुत्वे मानाभाव इति चेत् ।

स्यादपीदम् यदि जगतोऽज्ञानजन्यत्वे मानं स्यात् । न चैतदस्तीत्याह

मूलं

न च जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम्

द्वैतद्युमणि:

नन्वागमान्तरेण जगति अम्बरादौ दुःखादौ मायाविद्याजन्यत्वग्रहो जायते । तज्जन्यविषयकप्रत्यक्षे भ्रमत्वस्य बहुशो दृष्टत्वेन तत्र दोषत्वनिश्चयात्तन्मूलकसंस्कारसहित-साक्षिणा भ्रमत्वेन गृह्यमाणमेव जगत्सत्यत्वप्रत्यक्षं येषां प्रेक्षावतां जायते तेषामागमेनानु-मानेन च जगति मिथ्यात्वनिश्चयो भवत्येवेत्याशङ्कते ।। नन्वित्यादिना।। अज्ञानजन्यत्वं जगति वर्तत इत्यत्र मानाभावान्नैषा प्रक्रिया युक्तेत्याह ।। स्यादपीत्यादि ।। नन्वज्ञान-जन्यत्वनिश्चयायोगेऽपि जगत्प्रत्यक्षमागमबाध्यं प्रत्यक्षत्वाच्चन्द्रपरिमाणप्रत्यक्षवदित्यनुमानेन सामान्यतो बाध्यत्वनिश्चयोत्तरमागमादिप्रवृत्तिः सम्भवतीति चेन्न । दृष्टान्तासिद्धेः पूर्वमेवो-पपादितत्वात् ।

अथापि स्यात् । ‘प्रत्यक्षस्य विरुद्धार्थकाऽगमरूपप्रमाणान्तरोपस्थितौ क्लृप्तदोषाभाव-वत्त्वेन समबलतयोपस्थित्याऽन्यतरत्वरूपेण प्रामाण्यसन्देहादनयोः किं प्रमाणमिति जिज्ञासा जायते । सत्प्रतिपक्षस्थले परामर्शद्वय इव । तदनन्तरमहं ब्रह्मास्मि नेह किञ्चिदस्ती-त्यादिरूपभाविबाधशङ्कया प्रत्यक्षत्वावच्छिन्नेऽप्रमाणत्वसम्भावनायामागमेन मिथ्यात्वसिद्धि-र्निष्प्रत्यूहैव भवति’ इति । मैवम् । प्रत्यक्षविशेषेऽप्रामाण्यसम्भावनायामपि निश्चित-प्रामाण्यकप्रत्यक्षान्तरविरुद्धार्थे आगमप्रामाण्यग्रहणायोगात्सर्वेष्वपि प्रत्यक्षेष्वप्रामाण्यशङ्कैव वक्तव्या । तथा चाऽगमप्रामाण्यावगाहिसाक्षिप्रत्यक्षवेदापौरुषेयत्वावगाहिज्ञानप्रामाण्यप्रत्यक्षा-दावप्यप्रामाण्यशङ्कया वेदप्रामाण्यसिद्धेरेवायोगेन तेनार्थसिद्धेर्दूरोत्सारितत्वात् । न च प्रत्यक्षे पारमार्थिकप्रामाण्यसन्देहेऽपि व्यावहारिकप्रामाण्यनिश्चयादेवाऽगमप्रामाण्यादिसिद्धिर्भवतीति वाच्यम् । अप्रामाण्यप्रयोजकत्वेन क्लृप्तदोषाभाववत्त्वेन समबलतयोपस्थितयोरुभयोः पारमार्थिकविषयकत्वघटितप्रामाण्यसन्देहकाले एकत्रैव व्यावहारिकविषयकत्वघटित-प्रामाण्य-मन्यस्य पारमार्थिकत्वघटितमिति निर्णायकाभावादागमेऽपि व्यावहारिकप्रामाण्यस्यैव सिद्ध्यापत्त्याऽऽगमार्थस्याद्वैतब्रह्मणोऽपि व्यावहारिकस्यैव सिद्ध्यापातात् । न चोपक्रमादि-तात्पर्यलिङ्गबलात्तस्य पारमार्थिकप्रामाण्यमेव सिद्ध्यतीति वाच्यम् । उपक्रमादीनां तात्पर्याध्यवसायकत्वेन पारमार्थिकप्रामाण्यनिर्वाहकत्वाभावात् । आगमार्थनिर्णयात्प्राक्-सत्तात्रयादेरप्रसिद्धेस्तद्घटितप्रामाण्यस्वरूपस्यैवासिद्धत्वाच्च । न चाद्वैतागमविरुद्धग्राहिप्रत्यक्ष-प्रामाण्यशङ्कैव जायते । न सर्वप्रत्यक्षेष्विति वाच्यम् । आगमस्वरूपतत्प्रामाण्यादेरपि निर्भेद-चित्सत्ताविरोधित्वात् । शङ्क्यमानबाधप्रत्यक्षेऽप्यप्रामाण्यशङ्कया प्रथमं बाधकप्रमात्वरूप-विशेषणविशिष्टघटितस्वरूपबाध्यत्वकोट्यप्रसिद्ध्या तत्संशयायोगाच्च । १प्रत्यक्षस्य शब्द-लिङ्गबाध्यत्वे प्रत्यक्षान्तरस्य बाधकप्रमारूपत्वाभावे बाधकसामान्याभावस्यैव निश्चयाच्च । न च बाधकानामियत्तावधारणायोगात्तदभावावधारणायोग इति वाच्यम् । प्रत्यक्षानुमाना-गमत्वादिरूपविशेषधर्मावच्छिन्ननिरूपितविशेषाभावस्योक्तरीत्या ग्रहोत्तरं बाधकसामान्याभाव-ग्रहस्य प्रेक्षावतां सम्भवात् । अन्यथा विशेषाभावेन सामान्याभावनिर्णयः कुत्रापि न स्यात् । न च चरमवृत्त्यात्मकप्रत्यक्षस्य वाचस्पतिरीत्या मानसस्य शुद्धब्रह्मविषयकत्वेन प्रमात्वात् तस्य प्रमात्वे मिथ्यात्वागमविरोधाभावेन तत्प्रामाण्यग्रहात्तदतिरिक्तप्रत्यक्षसामान्ये तद्बाध्यत्व-शङ्का सम्भवतीति वाच्यम् । तादृशबाधकज्ञानसद्भावे प्रमाणाभावेन तस्यानुपस्थित्या तद्बाध्यत्वशङ्कोत्पत्त्यसम्भवात् । स्वोत्प्रेक्षामात्रेण शङ्कायां ब्रह्मज्ञानस्याऽपि शून्यज्ञान-बाध्यत्वशङ्कया प्रमात्वग्रहानुपपत्तिः । वेदेऽपौरुषेयत्वसत्त्वेऽपि क्लृप्तदोषातिरिक्तदोषशङ्काया दुरुच्छेदेन प्रामाण्यसिद्धेर्दुर्लभत्वापत्तेः । न च ‘ज्ञाते द्वैतं न विद्यते’ इत्यादीनि जगद्बाधक-सद्भावे प्रमाणानि सन्त्येवेति वाच्यम् । निरसिष्यमाणत्वात् ।

अपि च भ्रमप्रतीतव्यावर्तकाकारवदधिष्ठानदर्शनस्यैव भ्रमनिवर्तकतया जगद्भ्रमनिवर्तक-ज्ञानस्य सप्रकारकत्वावश्यकत्वे पारमार्थिकप्रामाण्ये द्वैताभावश्रुतिप्रामाण्येऽनुपपत्तिः । न च विशिष्टांशे भ्रमत्वान्नाद्वैतहानिः । शुद्धस्वरूपांशे पारमार्थिकप्रामाण्यग्रहसम्भव इति वाच्यम् । घटत्वादिविशिष्टस्वरूपग्राहिप्रत्यक्षेऽप्येतादृशप्रामाण्यसम्भवे विशिष्टघटादेरागमेन निषेधेऽपि शुद्धस्वरूपस्य सत्त्वादद्वैतब्रह्मसिद्ध्यनुपपत्तिः । जगद्बाधकज्ञानस्य किञ्चिदंशे भ्रमत्वं घटादि-प्रत्यक्षे तु सर्वांशे भ्रमत्वमित्यत्र प्रमाणाप्रवृत्तेः । न च घटादिशुद्धस्वरूपं ब्रह्मैवेति वाच्यम् । चितो जडस्वरूपताया असम्भावितत्वात् ।

ननु निष्प्रकारकमेव ब्रह्मज्ञानं बाधकम् । न च तस्य बाधकत्वायोगः । पृथिव्या-स्तादात्म्येन गन्धव्याप्यत्वनिश्चये तदधीनोद्बुद्धसंस्कारे वा सति शुद्धपृथिवीत्वावच्छिन्ने गन्धा-भावविषयकानाहार्यज्ञानानुदयवत् तादात्म्येन ब्रह्मणो द्वैताभावव्याप्यत्वेन गृहीतत्वात् तत्संस्कारवशात् शुद्धब्रह्मज्ञानोत्तरं शुद्धब्रह्मणि द्वैतबुद्धिर्नोत्पद्यत एवेति बाधः प्राप्त एवेति चेन्न । तर्हि ब्रह्मविशेष्यकद्वैतग्रहत्वावच्छिन्नं प्रति ब्रह्मणि द्वैताभावनिरूपिततादात्म्य-सम्बन्धावच्छिन्नव्याप्यताग्रहस्यैव प्रतिबन्धकत्वप्राप्त्या निष्प्रकारकज्ञानस्य बाधेऽकिञ्चित्करत्वेन तद्बाध्यत्वोक्तेरयुक्तत्वात् ।

किञ्च यद्धर्मावच्छिन्ने तादात्म्येन यदभावनिरूपितव्याप्यताज्ञानं तद्धर्मावच्छिन्ने तत्प्रकारकधीर्न जायते इत्येव वक्तव्यम् । अन्यथा गन्धव्याप्या एतावन्मात्रज्ञानोत्तरं पृथिवी गन्धाभाववतीति बुद्धेः पृथिवी तादात्म्येन गन्धव्याप्यवती गन्धव्याप्या वेति बुद्ध्युत्तरं नीलरूपवती गन्धाभाववतीति बुद्धेर्गन्धाभाववतीति निर्धर्मितावच्छेदककबुद्धेश्चानुत्पत्त्यापत्तेः । प्रकृते च ज्ञानत्वानन्दत्वादिब्रह्मत्वावच्छिन्ने तादात्म्येन द्वैताभावव्याप्यताग्रहेऽपि सत्त्वा-वच्छिन्ने घटादिरूपद्वैतप्रपञ्चावगाहिबुद्धेरेकत्र द्वयमिति रीत्या सत्त्वघटोभयावगाहिबुद्धे-र्निर्धर्मितावच्छेदककजगद्बुद्धेरुदये बाधकाभावात् । सत्त्वावच्छिन्नस्य शुद्ध इव तादात्म्येन घटादावपि सत्त्वेन तत्र द्वैताभावाभावेन व्यभिचारितया श्रुतेस्तादृशव्याप्यव्यापकभावबोधे तात्पर्यायोगाच्च । सत्त्वज्ञानत्वाद्युपलक्षितशुद्धस्य संसृष्टतया न किञ्चिद्व्याप्यत्वमपि । अधिकमखण्डार्थभङ्गे वक्ष्यामः ।

एवं दुःखादिविषयकसाक्षिप्रत्यक्षस्याजन्यत्वादागमसाम्यान्न तत्राप्रामाण्यशङ्कोचिता । न केवलं चैतन्यं साक्षी । किन्तु वृत्तिप्रतिबिम्बितम् । वृत्तेश्च जन्यत्वाद्दोषसम्भवाना युक्तेति चेत् । औततात्पर्यग्रहस्याप्यागमे दोषत्वसम्भवात् । न चाद्वैततात्पर्यग्रहस्य प्रत्यक्षाविरोधेन प्रमात्वात्कथं दोषत्वमिति वाच्यम् । प्रत्यक्षाविरोधेऽपि सर्वमिथ्यात्वपरत्वे स्वस्यैव मिथ्यात्व-प्राप्त्या न कस्यापि सिद्धिः स्यादित्यादितर्कबाधितत्वेनाप्रमात्वोपपत्तेः । चाकचक्यप्रमयैव रजतभ्रमोत्पत्त्या प्रमात्वस्य दोषत्वाव्यावर्तकत्वाच्च ।

वस्तुतः साक्षिणः सुखादिविषये वृत्त्यङ्गीकारे तत्समकाले तथात्वमङ्गीकार्यम् । अन्यथा ज्ञातैकसत्त्वानुपपत्तेः । वृत्तेरपि तथात्वात्तस्याः स्वप्रकाशत्वस्य जडत्वेन वक्तुमशक्यत्वा-त्तत्समकालवृत्त्यन्तरं एवमन्यापि वृत्तिरित्यनन्तवृत्तीनां यौगपद्यापातेन वृत्तेरङ्गीकर्तुमयुक्तत्वेन साक्षिण एव स्वप्रकाशस्य सुखादिसाक्षात्कारत्वात् । न च सुखादौ वृत्त्यनङ्गीकारे मनसि तत्संस्कारानुपपत्तिः कारणाभावादिति वाच्यम् । साक्षिसम्बन्धबलादेव मनसि संस्कारोत्पत्तौ बाधकाभावात् ।

ननु शुद्धचितः साक्षित्वेऽपि तस्य भ्रमप्रमासाधारण्यात्तत्राप्रमात्वसन्देहो युक्त इति चेन्न । तस्य प्रमात्वनैयत्यस्योपपादितत्वात् । अन्यथा सौषुप्तिकानन्दानुभवे भासमानानन्दस्वरूपेऽ-प्यनुभवस्याप्रामाण्यशङ्कयाऽऽत्मनि निरुपाधिकप्रेमास्पदत्वादिकमपि न सिद्ध्येदिति दिक् । तस्माद्भाविबाधनिश्चयशङ्कयोरुभयोरपि प्रेक्षावतामसम्भावितत्वात्प्रत्यक्षबाधः सुस्थिर एवेति ।

यच्च ‘घटः सन्नित्यादौ त्रिकालाबाध्यत्वादेरयोग्यत्वेन भानायोगात् सत्ताजात्यादीनां भाने घटः सन् सामान्यं सत् अभावः सन्नित्यादिप्रतीतीनां सम्बन्धांशेऽप्यनुभूयमानस्यैका-कारत्वस्यानुपपत्तेरधिष्ठानब्रह्मसत्त्वमेव भासत इत्यभ्युपेयम् । अतो मिथ्यात्वं दुर्वारम्’ इति ।

तत्तु त्रिकालाबाध्यत्वस्य प्रत्यक्षविषयत्वोपपदनात् सर्वत्र स्वरूपसत्त्वभाने बाधकाभावात् तस्यापि कालसम्बन्धादिरूपस्य मिथ्यात्वग्रहविरोधिताया उपपादितत्वात् सन् घट इति प्रतीतौ सत्त्वस्य ब्रह्मरूपाधिष्ठानांशे येन सम्बन्धेन भानं तादृश एव सम्बन्धो भ्रमे कल्पितो घटे भासत इत्यभ्युपेयम् । अन्यथा सद्ब्रह्म घटः सन्निति प्रतीत्योः सम्बन्धांशे एकाकारत्वा-भावप्रसङ्गात् । तथा च सत्त्वसम्बन्धद्वयविषयताद्वयादिकल्पनागौरवप्रसङ्गाच्चापास्तम् ।

यत्तु ‘सन् घट इति प्रतीतेः सत्तादात्म्यावगाहित्वात्तस्य मिथ्यात्वग्रहाविरोधित्वम्’ इति, तत्तु त्रैकालिकनिषेधप्रतियोगित्वे सति सत्तादात्म्यवत्त्वमिति लक्षणस्य व्याहत्युपपादनेनैव निरस्तप्रायमिति ।