‘विश्वं सत्यम्’..

विशिष्टनिराकरणतर्कस्य पञ्चाङ्गवैकल्येनाभासत्वसमर्थनम्

‘विश्वं सत्यम्’

श्रीमज्जयतीर्थटीका

तदनेन विशिष्टादिनिराकरणतर्कस्य प्रतितर्कपराहतिं प्रतिपादयता जगतो भिन्न-मित्यादिना ग्रन्थेन व्याप्तिवैकल्यं च दर्शितम् । अननिर्वचनीयेऽपि ब्रह्मण्यस्य तर्कस्य सञ्चारोपपादनात् । अखण्डं ब्रह्मैव तत्वमित्यस्यार्थस्योपपत्तये खल्वयं परेण तर्कोऽव-तारितः । तस्य ब्रह्मण्यपि प्रवेशोपपादनेनेष्टाविघातित्वाख्यतर्काङ्गवैकल्यमपि प्रतिपादितम् । इष्टापादनरूपता च यथासम्भवमूहनीयेत्यङ्गपञ्चकवैकल्यात्तर्काभासोऽयमिति स्थितम् ।

द्वैतद्युमणि:

।। व्याप्तिवैकल्यं च दर्शितमिति ।। यत्तत्त्वं तद्भेदाद्यन्यतमप्रकारोपेतमिति व्याप्तेर्ब्रह्मण्येव भग्नत्वादिति भावः । न च भिन्नत्वादिधर्माणां कल्पितानां ब्रह्मण्यङ्गीकारान्न व्यभिचार इति वाच्यम् । अनवस्थादिदोषानापादकभेदादिमत्त्वस्यैव व्यापकत्वेनाभिमततया तस्य व्यभिचारसम्भवात् । अन्यथा जगति तत्प्रकारस्यानिर्वचनीयस्याभ्युपगततयाऽऽपा-ततोऽपीष्टापत्तिप्रसङ्गात् ।। इष्टाविघातित्वरूपेति ।। उक्ततर्कस्य सत्तर्कत्व एतज्जातीयतर्केण स्वाभिमतस्य ब्रह्माननिर्वचनीयत्वस्य विघातापापत्त्येष्टाविघातित्वरूपतर्काङ्गस्य वैकल्य-मित्यर्थः ।। अङ्गपञ्चकेति ।। अत्यन्ताभासत्वसिद्धये पञ्चकग्रहणम् । ग्रन्थोक्तं विपर्यया-पर्यवसायित्वमपीत्यङ्गपञ्चकवैकल्यं ज्ञेयम् ।