असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

रजतज्ञानस्य सविषयत्वसमर्थनम्

असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

श्रीमज्जयतीर्थटीका

न च वयं शून्यवादिन इव रजतज्ञानं निरालम्बनं ब्रूमः । शुक्तिविषय-ताऽङ्गीकारात् । केवलं स्वविषयं शुक्तिकाशकलमत्यन्तासद्रजततया अवगाहत इत्यसद्विषय-मुच्यते । रजतज्ञानस्य शुक्तिकाविषयत्वं संविद्विरुद्धमिति चेन्न । रजतज्ञानस्येति कोऽर्थः । यदि रजतविषयस्येति तदाऽसिद्धिः । यदि रजतमितिज्ञानस्येति तदा परस्यैव संविद्विरोधः। यदिदं रजतमित्यमनिषि सा शुक्तिकैवेति प्रतीतेः । यदाकारं यद्विज्ञानं तत्तद्विषयमिति तु प्रमितिनिष्ठेयं व्यवस्था ।

एतेन ‘अपरोक्षज्ञानस्येन्द्रियसमुत्थत्वात् इन्द्रियाणाञ्चार्थसन्निकृष्ठानामेव ज्ञानहेतुत्वात् असता च सन्निकर्षायोगान्नासद्विषयापरोक्षज्ञानम्’ इति परास्तम् । शुक्तिसन्निकृष्टेनेन्द्रियेण दोषवशाद्रजततया तज्ज्ञानजननाङ्गीकारात् ।

द्वैतद्युमणि:

ननु नोक्तरीत्या साम्यमुपपादयितुं शक्यम् । मन्मते रजतादेर्मिथ्यात्वावगाहि प्रत्यय एव बाधः । मिथ्यात्वं च प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वे सति सत्ता-दात्म्यापन्नत्वम् । तादृशमिथ्यात्वे बाधकप्रत्ययेन विषयीकरणीये रजतादौ निषेधप्रतियोगित्वं तत्तादात्म्यानुयोगिनि सत्त्वमवश्यं विषयीकरणीये तेन विना विशिष्टमिथ्यात्वावगाहित्वासिद्धेः। तथाच भ्रमविषयीभूतेष्वेव कस्यचित्प्रातिभासिकत्वात् कस्यचिदतथात्वाज्ज्ञानत्वे प्रातिभासिक मात्रविषयकत्वव्याप्तिग्रहो न घटते । मात्रार्थानन्तर्भावेण व्याप्तिग्रहो १प्रवृत्त्यादिविरोधी । घटादिविषयकज्ञाने किञ्चिदंशे प्रातिभासिकविषयकत्वग्रहेण घटादौ तत्संशयेऽपि बाधक-भावाभावाभ्यां अन्यतरनिर्णयोपपत्तेः । न चैवं भवता वक्तुं शक्यम् । उक्तयुक्त्येदं रजतमिति ज्ञानेष्वसन्मात्रविषयकत्वस्याऽवश्यकत्वे बाधबुद्ध्याऽपि सर्वत्रासत्त्वस्यैव विषयीकर्तव्यतया तद्दृष्टान्तेन ज्ञानत्वेऽसन्मात्रविषयकत्वरूपनिरालम्बनत्वव्याप्तिग्रहेण घटादिज्ञानोत्तरं तत्र निश्चयस्यैव जातत्वेन बाधकभावाभावयोरकिञ्चित्करत्वात्प्रवृत्त्यनुपपत्तिर्दुर्वारैवेति परस्य पूर्वोक्ताभिमानमूलकामाशङ्कां निरसितुमभिमानमेव निराकरोति ।। न च वयमिति ।। चोऽवधारणे । इति नैव ब्रूम इति वा निरालम्बनमेवेति वा सम्बन्धः । शून्यवादि-वैलक्षण्यरूपविशेषार्थः सन्वयमित्यनेन सम्बद्ध्यते ।

यद्वा समं प्रकृतेपीत्यन्तग्रन्थेन पराभिमानमङ्गीकृत्यैव समाहितम् । इदानीमभिमानमेव निराकरोति ।। न चेति ।। नापीत्यर्थः ।। शुक्तीति ।। केवलमिति ।। शुद्धं । न तु भासमानरजततादात्म्यापन्नमिति अनिर्वचनीयमतवैषम्योपपादनम् । यद्वा स्वजनक-सन्निकर्षानुयोगित्वरूपा विषयता शुक्तावेव । न रजतेऽपि इत्येतत्सूचनाय केवलमित्यभि-हितम् । एतच्च रजतज्ञानस्येति शङ्कोत्थापनाय । अन्यथा शुक्तिरजते इति समूहालम्बनस्य शुक्तिविषयकत्वदर्शनात्कथं संविद्विरोध इति शङ्का स्यात् । केवलपदेन रजतविषयकत्व-व्यवच्छेदपूर्वकशुक्तिविषयकत्वोक्तौ तत्सम्भवात् ।। रजतज्ञानस्येति ।। शुक्तिविषयत्वं केवलशुक्तिविषयत्वम् । यद्वा रजतज्ञानस्य  ‘इदं रजतम्’ इति रजतमात्रविषयकत्वेनानु-भूयमानज्ञानस्येत्यर्थः । तेन समूहालम्बनव्युदासः ।

।। संविद्विरुद्धमिति ।। अनुव्यवसायविरुद्धमित्यर्थ इत्येके ।

अत्र ब्रूमो य एवार्थो यस्यां संविदि भासते ।

वेद्यः स एव नान्यद्धि वेद्यं वेद्यस्य लक्षणम् ।।

इदं रजतमित्यत्र रजतं चावाभासते ।

तदेव तेन वेद्यः स्यान्न च शुक्तिरवेदनात् ।।

तेनान्यस्यान्यथा ज्ञानं प्रतीत्यैव पराहतम् ।

परस्मिन् भासमाने हि न परं भासते यतः ।।

इति संविद्विरुद्धत्वस्वरूपोपदर्शकनयवीथीवाक्यानुसारेण विचार्यसंवित्स्वभावविद्धमित्यर्थ इत्यन्ये ।। असिद्धिरिति ।। स्वजनकसन्निकर्षानुयोगित्वरूपविषयतानिवेश इत्यादिः । रजतसन्निकर्षस्य मतद्वयेऽप्यनङ्गीकारात् । परमते ज्ञानस्य सन्निकर्षत्वविरहात् । मन्मतेऽपि १‘यदत्र पूर्वं यदनुभूतं तत्संस्कारादिना तत्रैव तद्भासते’ इति नियमात् साक्षात्कारत्वा- ख्यजातिस्थानापन्नविलक्षणविषयतायास्तदप्रयोज्यत्वाद्विनिगमनाविरहेण नानारजतभानापत्तेश्च नालौकिकसन्निकर्षस्य तत्र हेतुता । केवलमारोप्यमाणसजातीयस्मरणादेस्तद्भ्रमे स्वातन्त्र्येणैव हेतुत्वस्य स्मर्यमाणारोपस्थले कल्पनादिति भावः ।। रजतमिति ज्ञानस्येति ।। तादृश-व्यवहारानुकूलशक्तिमज्ज्ञानस्येत्यर्थः ।। यदिदमिति ।। इदंविषयकरजतशब्दोल्लेखादि-प्रयोजकविषयिताश्रयज्ञानवानहमित्यर्थः । सेति विधेयापेक्षया स्त्रीलिङ्गः । यदिदमित्यत्र तु सामान्यापेक्षया नपुंसकता । अभिलापकवाक्ये इदंपदार्थविषयकत्वं तत्सन्निकर्षजन्यत्वं यदि प्रतीयते तदा तदन्वयव्यतिरेकज्ञानं तत् । यदि च तत्प्रयोज्या विषयतैव तदा तज्ज्ञानं भ्रमानुव्यवसायात्मकमेवेति विवेकः ।

ननूत्पन्नानां घटादिज्ञानानां ‘इदं घटस्य ज्ञानं न पटस्य’ ‘पटस्य ज्ञानं न घटस्य’ इति व्यवस्थायै यन्निरूपितोल्लेखाकारापरपर्यायविषयितावद्यज्ज्ञानं तत्तन्निष्ठस्वजनकसन्निकर्षा-श्रयत्वरूपविषयतारूपमिति व्याप्तिरङ्गीकर्तव्या । तथा च घटशब्दादिव्यवहारानुकूलतादृश-विषयितानिवेशबलात् घटाद्यनुयोगिकस्वकरणसन्निकर्षजन्यत्वमनुमाय ‘घटस्य ज्ञानम्’ इत्यादि व्यवहरतीति वक्तव्यम् । तच्चेदानीं न घटते । रजतोल्लेखिज्ञानस्य रजतसन्निकर्षाजन्यत्वेन व्यभिचारादित्यत आह ।। यदाकारमिति ।। प्रमितीति ।। तथा चाबाधितनिरूपितविषयितैव हेतुरित्यर्थः । यद्वा यदुल्लेखवत् यज्ज्ञानं तद्वस्तुतस्तन्निरूपिततादृशोल्लेखाख्यविषयिता-वदित्येव व्याप्तिः शङ्ककस्याभिमता । यदुल्लेखवत्त्वं यत्तात्पर्यकशब्दव्यवहारानुकूलविषयिता-वत्त्वम् । समाधानं तु १अबाधितस्वनिरूपकत्वं तादृशविषयितायां देयम् । आद्ये घटस्य ज्ञानमित्यत्र तत्सन्निकर्षजन्यत्वरूपविषयत्वं षष्ठ्यर्थः । द्वितीये तु तन्निरूपितविषयितैवेति विवेकः । तद्विषयमिति वाक्यस्याप्युक्तानुसारेणार्थद्वयम् । प्रथमकल्पे नित्यज्ञाने व्यभिचार-वारणाय जन्यत्वं देयमिति भावः ।

असतोऽपरोक्षत्वे परोक्तबाधकान्तरमाशङ्क्य निराकरोति ।। एतेनेति ।। ‘यदि २रजत-ज्ञानस्येति तदासिद्धिः’ इति ग्रन्थेन शुक्तिविव रजते विषयत्वाभावोपपादनेनेत्यर्थः ।। परास्तमिति ।। ज्ञाने सन्निकर्षप्रयोज्यायाः रजतविषयिताया अनङ्गीकारादिति भावः । ननु सन्निकर्षाप्रयोज्यत्वे साऽऽकस्किकीति प्राप्तम् । तथा च विनिगमकाभावात्सर्वपदार्थोल्लेखोऽपि स्यादित्यत आह ।। शुक्तीति ।। रजततया तज्ज्ञानजननाङ्गीकारात् रजतोल्लेखिशुक्तित्वा-विषयकज्ञानाङ्गीकारात् । तथा च सन्निकर्षाप्रयोज्यापि दोषप्रयोज्यैव सा विषयिता । तस्यानुगतस्य तादृशभ्रमहेतुत्वाङ्गीकारान्न रजतभ्रमे रङ्गोल्लेखः । अन्यथा तवाप्यगतिः स्यादिति भावः ।

अत्र वदन्ति । असद्रजतस्य भानं न स्वीकर्तुमुचितम् । अपरोक्षप्रतीतिविषयिता-निरूपकत्वस्य तज्जनकसन्निकर्षाश्रयत्वव्याप्यत्वात् । असति चेन्द्रियसन्निकर्षायोगात् । न चाबाधितत्वमपि व्याप्यकोटौ निवेश्यमिति वाच्यम् । सामान्यत एतस्य व्याप्यत्वे तादृश-सन्निकर्षस्यैकस्यैव प्रयोजकत्वम् । अन्यथा प्रयोजकान्तरकल्पनापत्तिः । असति दोषस्यापि सम्बन्धाभावेन तस्य प्रयोजकत्वासम्भवेनाऽकस्मिकत्वापत्तिश्चेत्यनुकूलतर्कसचिवव्याप्तिग्राहक- प्रमाणेनाबाधितत्वाघटितस्यैव व्याप्यत्वेन निश्चितत्वात् ।

न च सुरभि चन्दनमिति विशिष्टज्ञानीयविषयितानिरूपकत्वस्य सौरभे सत्त्वेऽपि करण-सन्निकर्षाभावाद्व्यभिचारः । संयुक्तसमवायसत्त्वेऽपि तस्य तक्षुःसन्निकर्षत्वविरहात् । कालिकादिसम्बन्धमादाय सन्निकर्षस्याव्यावर्तकत्वेन ‘करणसन्निकर्षसत्त्वादस्मिन् ज्ञाने अयं विषयस्तदभावादयं न विषयः’ इत्यादिव्यवस्थाया असिद्ध्यापत्त्या स्वप्रयोजकसम्बन्धस्यैव सन्निकर्षपदार्थत्वादिति वाच्यम् । तत्रापि करणनिरूपितस्य ज्ञानलक्षणसन्निकर्षस्य सत्त्वात् । न चात्रापि तथास्त्विति वाच्यम् । सत्यरजतविषयकस्मृतिसंस्कारयोरेव सत्त्वेनासद्रजते सन्निकर्षस्यायोगात् । न च विभ्रमान्तरगोचरासद्रजतगोचरसंस्कारादिरेव सन्निकर्षोऽस्तु । प्राथमिकविभ्रमेऽपि जन्मान्तरीयासद्रजतगोचरसंस्कारादिरेव तथास्तु । संस्कारस्यानादित्वात् । फलबलेन जन्मान्तरीयसंस्कारोद्बोधस्यापि कल्पनादिति वाच्यम् । इदं रजतमिति प्रत्ययस्य त्कालोत्पन्नानिर्वचनीयरजतावगाहित्वेनाप्युपपत्त्या जन्मान्तरीयसंस्काराद्युद्बोधकस्य कल्पनाया अप्रामाणिकत्वात् । एतज्जन्मन्येव दृष्टापूर्वचैत्रादेर्यत्र प्रथमतो विभ्रमस्तत्रागतेश्च ।

किञ्च प्रत्यक्षीयलौकिकविषयता तज्जनकेन्द्रियनिरूपितलौकिकसन्निकर्षवत्वव्याप्येति नियमः । असन्निकृष्टानामपि प्रत्यक्षे भानवारणाय लौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति इन्द्रियसन्निकर्षस्य कारणत्वावधारणात् । रजते च लौकिक्येव विषयता । रजतं पश्यामि साक्षात्करोमि इत्याद्यनुभवात् । यत्र लौकिकी विषयता तद्विषयकत्वावच्छेदेनैव चाक्षुषत्व-साक्षात्कारत्वयोरनुव्यवसायगम्यत्वात् । अन्यथा सुरभि चन्दनमिति प्रत्यक्षोत्तरं सौरभं पश्यामि साक्षात्करोमीत्याकारकस्य चन्दनं पश्यामीत्यादाविवापत्तेः ।

वस्तुतस्तु यत्र सुरभि चन्दनमिति ज्ञानं सौरभांशे स्मरणात्मकं चन्दनांशे प्रत्यक्षात्मकमेव स्वीक्रियते । तत्र सौरभं स्मरामीत्येवानुव्यवसायस्वीकारात् । न चैतदलौकिकमिति वाच्यम् । सौरभस्मरणस्य विशिष्टप्रत्यक्षहेतुतयाऽवश्यमभ्युपगन्तव्यतया ज्ञानादीनां ज्ञातैकसत्त्वेन तदनुव्यवसायस्यावश्यकत्वात् । न च तदंशे उद्बुद्धसंस्कारस्यैव हेतुत्वान्न स्मरणं तत्राङ्गी-कार्यमिति वाच्यम् । तर्हि संस्कारस्यातीन्द्रियतया फलमात्रकल्प्यत्वेन स्मृतिरूपकार्याभावे तत्कल्पकस्यैवाभावेन संस्कारोद्बोधस्यैवासिद्ध्यापत्तेः । न च सौरभस्य प्रत्यक्षे भानानु-पपत्तिरेव तत्कल्पिकेति वाच्यम् । असन्निकृष्टभानस्य वा तत्क्षणतददृष्टादीनामेव सन्निकर्ष-घटकत्वादिसिद्ध्यापत्त्या वा संस्कारस्यासिद्धेः । न चोक्तरीत्या सुरभि चन्दनमित्यत्र १स्मरणत्वस्वीकारे जातित्वानुपपत्तिः । चाक्षुषत्वादिना साङ्कर्यादिति वाच्यम् । तस्य दोषत्वे मानाभावात् । संशयत्वनिश्चयत्वयोरव्याप्यवृत्तिजात्योर्नैयायिकैकदेशिनामिवानयोरप्यांशिकत्व-स्वीकारे बाधकविरहात् । तथा च विषयतायां लौकिकत्वमनिवेश्यैव व्याप्त्यङ्गीकारेऽपि न व्यभिचारः। परन्तु तत्र स्मरणानुभवरूपक्रमिकज्ञानद्वयाङ्गीकारे सौरभवत्त्वेन चन्दनं जाना-मीत्यादिविशिष्टज्ञानानुभवविरोधेनैकज्ञानमेवाङ्गीकृत्य तत्रांऽशिकजातिद्वयस्वीकारात्प्रत्यक्षत्वा- श्रयस्य तस्यैव सौरभे विषयतया सत्त्वात् व्यभिचारवारणाय प्रत्यक्षत्वावच्छिन्नाधिकरणतैव व्याप्यत्वेनाङ्गीकर्तव्या । तत्र स्मरणत्वावच्छिन्नाधिकरणताया एव सत्वान्न व्यभिचारः ।

वस्तुतस्तु तत्र स्मरणात्मकप्रत्यक्षात्मकवृत्तिद्वयप्रतिफलितचैतन्यैक्याज्ज्ञानैक्येऽपि वृत्त्यो-र्भिन्नत्वात्प्रत्यक्षात्मकवृत्तेर्व्याप्यकोटावाकाराख्यविषयतायाः २निवेशात्प्रत्यक्षत्वावच्छिन्नानधि-करणत्वानिवेशेऽपि क्षत्यभावः । तथा भवन्मते लौकिकविषयतया विषयतासामान्येन वा रजते प्रत्यक्षसत्त्वादिन्द्रियलौकिकसन्निकर्षाभावात् व्यभिचारो दुर्वारः स्यादिति नासद्भानं युक्तम् । न चोक्तव्याप्तौ भ्रमत्वघटकविषयताभेदो निवेश्यतां । असन्निकृष्टभानापत्तिवारणं तु दोषविशेषस्य हेतुत्वेन निर्वहति । प्रत्यक्षविषयता इन्द्रियसन्निकर्षदोषैतदन्यतरप्रयोज्येति नियमोऽस्त्विति वाच्यम् । सङ्कोचे वीजाभावेन सामान्यत एव विषयतां निवेश्य व्याप्तिग्रहात् । असति दोषसंसर्गस्यायोगेन व्यधिकरणतया तत्र दोषस्य प्रयोजकतायाः विचारासहत्वात् । तस्मात् व्यापकसन्निकर्षाश्रयत्वं असतो व्यावर्तमानं व्याप्यमपरोक्षप्रतीतिविषयत्वं व्यावर्तयति ।

अपि चेष्टतावच्छेदकपुरोवर्तिवैशिष्ट्यावगाहिज्ञानस्य प्रवर्तकतयाऽसद्रजतरजतत्वयोर्भाने तस्येष्टतावच्छेदकत्वाभावेन तज्ज्ञानात्प्रवृत्त्यनुपपत्तिः । तस्मात्तत्रानिर्वचनीयरजतोत्पत्तिरेव स्वीकर्तव्येति ।

अत्रोच्यते । रजतस्योत्पत्त्यङ्गीकारेऽप्येतद्दोषतादवस्थ्यात् । तथा हि, तत्र रजतस्य चाक्षुषत्वमङ्गीक्रियते न वा । आद्ये तत्रैव विषयतासम्बन्धेन लौकिकविषयतासम्बन्धेन वा चाक्षुषप्रत्यक्षाधिकरणे इन्द्रिसन्निकर्षाभावात् त्वदुक्तनियमस्य व्यभिचारापत्तिः ।

न च रजतोत्पत्तिद्वितीयक्षणे इन्द्रियसंयोगः । तदुत्तरक्षणे रजतचाक्षुषम् । तस्मिन्नेव क्षणे रजतं पश्यामीत्यनुव्यवसायोऽपि । मन्मते साक्षिण एव ज्ञानग्राहकतया तस्य पूर्वमेव सत्त्वेन चाक्षुषोत्पत्तिकाल एव तत्सम्बन्धेन रजताकारत्वसम्भवात् । एतेन रजतसन्निकर्षेण तत्प्रत्यक्षोपगमे रजततत्सन्निकर्षतत्प्रत्यक्षतदनुव्यवसायानां क्रमिकत्वप्राप्त्या रजतस्मरणादि-तृतीयक्षणे तादृशानुव्यवसायानुभवविरोधोऽपि परास्तः । तत्स्मरणक्षण एव रजतोत्पत्तेस्त-द्द्वितीयक्षणे तत्संयोगस्य तृतीयक्षण एव रजतव्यवसायकाल एवोक्तरीत्याऽनुव्यवसायम्य मयाऽपि स्वीकृतत्वात् । त्वन्मतेऽपि विशिष्टवैशिष्ट्यगोचरजन्यप्रत्यक्षस्य विशेषणतावच्छेदक-प्रकारकनिर्णयजन्यत्वेनानुव्यवसायस्य व्यवसायरूपविषयजन्यत्वेन च तृतीयक्षण एवानु-व्यवसायस्यावश्यकतया मन्मत इव त्वन्मतेऽपि व्यवसायकाल एवानुव्यवसायं स्वीकृत्य क्षणैकविलम्बप्रत्युक्तानुभवविरोधस्य वक्तुमशक्यत्वादिति वाच्यम् । प्रातिभासिकरजतस्य प्रथमादिक्षणे प्रत्यक्षविषयत्वमपहाय तृतीयक्षण १इव चाक्षुषाङ्गीकारे प्रातिभासिकत्वस्यैवानु-पपत्तेः । स्वकालत्वव्यापकस्वस्वोपादानाज्ञानाश्रयपुरुषप्रत्यक्षकत्वरूपप्रतिभासमात्रशरीरवत एव प्रातिभासिकत्वात् । अन्यथा सत्यरजतस्याऽपि प्रातिभासिकत्वापत्तेः । न चाविद्याति-रिक्तदोषप्रयुक्तभानत्वं पल्लवाविद्याकार्यत्वं वा प्रातिभासिकलक्षणमस्तु । तच्च तृतीयक्षण एव तत्प्रत्यक्षाङ्गीकारेऽप्यविरुद्धमिति वाच्यम् । तृतीयक्षण एव इन्द्रियसन्निकर्षजन्यत्वे घटादा-विवान्तः करणवृत्तित्वस्यैव प्राप्त्या २भ्रमत्वविद्यातत्प्रयुक्तस्यातिरिक्तदोषजन्यत्वस्यैवासिद्ध्या-पत्तेः । अविद्याभ्रमरूपसाक्षात्कारातिरिक्ते साक्षात्कारे इन्द्रियसंयोगस्य कारणत्वमभ्युपगम्य विषयतासम्बन्धेन तादृशसाक्षात्कारं प्रतीन्द्रियसंयोगस्य व्यापकत्वाभ्युपगमे कथमसद्रजतभाने नैययिकरीत्या देशान्तरस्थरजतभाने वाऽनुपपत्तिः । तत्र विषयतया भ्रमान्यसाक्षात्काररूप-व्याप्यस्यैवाभावात् । एवं चाक्षुषं प्रति चक्षुःसंयोगस्य कारणत्वम् । एवमिन्द्रियान्तरस्थलेऽपि परिकल्प्याविद्यावृत्तौ चाक्षुषत्वाभावेऽपि साक्षात्कारत्वमभ्युपगम्य चाक्षुषं प्रति चक्षुःसंयोगस्य व्यापकत्वकल्पनेऽपि नास्माकं काचित्क्षतिः । नियमशरीरनिविष्टचाक्षुषत्वस्य चक्षुस्संयोगा-व्यवहितोत्तरत्वरूपत्वेऽविद्यावृत्तावपीदंचक्षुःसंयोगाव्यवहितोत्तरत्व१सत्त्वाद्व्यभिचारः । जाति-रूपत्वे मन्मते चाक्षुषत्वादिजातेरेवानङ्गीकारादङ्गीकारेऽपि भ्रमे तदनभ्युपगमेन त्वदुक्तनियम-व्यभिचारस्य परिहर्तुं शक्यत्वेनऽसद्रजतभाने बाधकाभावात् ।

ननु मम चाक्षुषेदंवृत्त्यवच्छिन्नचिति रजतस्य तादात्म्येनाध्यस्तत्वात्तस्य तादृशचिद्रूप-चाक्षुषविषयत्वादेव पश्यामीत्यनुभवोपपत्तिः । तव तु उक्तज्ञानस्य चाक्षुषत्वाभावे कथं रजतं पश्यामीत्यनुभवः उपपद्यत इति चेत् तावतापि तादृशचाक्षुषविषयरजते इन्द्रियसंयोगाभावेन व्यभिचारपरिहाराय तत्र चाक्षुषत्वानङ्गीकारस्यैव युक्तत्वात् । दृशिप्रयोगस्य शब्दजन्यापरोक्ष-ज्ञानेऽपि ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’ ‘तमसः पारं दर्शयामास योऽस्माकमविद्यायाः परं पारं दर्शयति’ इत्यादावङ्गीकृतत्वेन पश्यामीत्यादिव्यवहारस्याप्यपरोक्षज्ञानसामान्यविषयकत्व-सम्भवेन रजतचाक्षुषासाधकत्वात् । अन्यथा व्याप्यकोटौ भ्रमान्यत्वस्य निवेशे अन्तःकरण-वृत्तेरेव वा आकाराख्यविषयतासम्बन्धेन व्याप्यत्वस्याङ्गीकारे गौरवात् । मन्मते तथैव निर्वाहस्योक्तत्वाच्च ।

अपि चाविद्यावृत्तेः सन्निकर्षं विनोत्पत्तिवदन्तःकरणवृत्तेरपि तथैवोत्पत्तिसम्भवेनोक्त-नियमस्याप्रयोजकत्वम् । एतेन रजतादेः चाक्षुषं नाङ्गीक्रियत इति प्राग्विकल्पितद्वितीय-पक्षाङ्गीकारोऽपि निरस्तः । अविद्यावृत्तिवदन्तःकरणवृत्तेरपि सन्निकर्षं विनैवोपपादनस्य सम्भवेन रजतविषयकत्वावच्छेदेन चाक्षुषत्वाभावेऽपीदमाकारचाक्षुषवृत्तिविषयत्वादेव रजतं पश्यामीति व्यवहारानुभवयोरुपपत्तेः रजतविषयकज्ञानस्य चाक्षुषत्वाङ्गीकारे बाधकाभावात् । रजतविषयकत्वावच्छेदेन चाक्षुषत्वावगाहित्वस्य रजतं पश्यामीत्यनुभवे ममाप्यसिद्धेः । इदंविषयकचाक्षुषे रजतनिरुपितोल्लेखितावगाहित्वस्यैवाङ्गीकृतत्वात् ।

किं चासतोऽपरोक्षविषयत्वं नास्तीत्यत्र कीदृशमसत्त्वं निविष्टम् । निरुपाख्यत्वादीनां तदप्रतीतिसिद्ध्युत्तरकालीनानां आपरोक्ष्याभावसाधनायोपन्यासायोगात् । त्रैकालिकनिषेध-प्रतियोगित्वस्य तथात्वे तु शुक्तिरजते तथात्वं त्वयाऽप्यङ्गीकृतमिति कथं तस्यापरोक्षप्रतीति-विषयत्वाङ्गीकारः । न च चिति तादात्म्येन तदुत्पत्तेर्मयाऽङ्गीकृतत्वात्तत्सम्बन्धेन मन्मते तस्यापरोक्ष्यम् । उत्पत्तिरहितत्वे सति तादृशनिषेधप्रतियोगित्वस्य त्वयाङ्गीकारात् ज्ञानेन सह विषयविषयिभावनिर्वाहकसन्निकर्षायोगात् तन्न घटते । व्याप्यमपि तादृशप्रतियोगित्वे सत्युत्पत्तिराहित्यरूपं सत्तादाम्यशून्यत्वरूपमेव वाऽसत्वमिति न कोऽपि दोष इति वाच्यम् । त्रैकालिकनिषेधप्रतियोगिनः कालसम्बन्धरूपोत्पत्तिस्वीकारस्य उक्तप्रतियोगित्वरूपबाध्यत्वव-तस्तच्छून्यरूपसत्तादात्म्यस्य च व्याहतत्वात् । व्याहतोत्पत्तिस्वीकारापेक्षया साक्षात्करण-सन्निकर्षस्यैवाङ्गीकारेण ज्ञानविषयत्वोपपादनसम्भवेनान्तर्गडूत्पत्तिस्वीकारस्य प्रयोजनाभावात् । दोषाणां रजतोत्पत्तौ वाऽसद्रजतेन सहैवेन्द्रिये सन्निकर्षोत्पत्तौ वा हेतुत्वमित्यत्र विनिगमकस्य कालत्रयनिषेधप्रतियोगिनः कालसंसर्गाङ्गीकारे व्याहतिरूपस्य सत्त्वात् । न च चित एव ज्ञानत्वेन तद्विषयत्वं तादात्म्यरूपमेवेति ज्ञानविषयत्वाङ्गीकारे चिति तादात्म्येन रजतो-त्पत्तिरवर्जनीयेति वाच्यम् । आकाराख्यविषयत्वानां वृत्तिनिरूपितानां तवाप्यावश्यकत्वेन चित्तादात्म्यस्य विषयतारूपत्वसिद्धेरग्रे निराकरिष्यमाणत्वाच्च । शुक्तिरजतादेरनिर्वचनीयत्व-रूपतृतीयप्रकारसिद्धेः प्राक् ‘नेहनानास्ति किञ्चन’ इत्यादीनां व्याहतिपरिहारोपायाभावेन तेषां स्वार्थानिर्णायकत्वेन गहननिविष्टतया औतसिद्धेरप्यभावेन स्वार्थानुमाने प्रवृत्तस्य १त्वत्प्रतिक्रियामवलम्ब्य व्याहत्युद्धारे अन्योन्याश्रयस्यासकृदावेदितत्वाच्च ।

ननु दोषाणां भ्रमप्रयोजकत्वं उभयसिद्धम् । तत्र रजतप्रकारतानिरूपितेदंविषयताशालि- चाक्षुषत्वस्य तत्कार्यतावच्छेदकत्वापेक्षया रजतत्वमेव कार्यतावच्छेदकमस्तु । लाघवात् । कार्यतावच्छेदकस्तु तादात्म्यादिसम्बन्धोऽस्तु । यथायथं विषयात्मकरणादिनिष्ठदोषाणां कारणत्वानुरोधेन रजतोत्पत्तिसिद्धिरिति चेन्न । सन्दिग्धस्थल एव लाघवस्यावकाशो न तु विषयबाधनिश्चयस्थले । तस्यानुमानरूपतया बाधितार्थानुमापकत्वात् । इत्थं च बाधप्रमा-सिद्धत्रैकालिकनिषेधप्रतियोगित्वस्य व्याहतितर्कानुग्रहेणोत्पत्त्यभावव्याप्यत्वेन निश्चितस्य प्रबलबाधकस्य रजते गृहीतत्वात्कथं लाघवेन तत्सिद्धिः । बाधेन तदविषयीकरणे भास्कर-सिद्धोत्पत्तिमेव स्वीकृत्य तस्य तत्कालोत्पन्नव्यजनवातादिवत्सत्त्वस्यैव स्वीकर्तुं शक्यत्वे मिथ्यात्वस्यैवासिद्धिप्रसङ्गात् । ‘अध्यक्षसिद्धस्य रजतस्योत्पत्तिमत्त्वे विनाशित्वे च घटादिव-त्तादृशरजतज्ञानवच्चोत्पत्तिनाशयोः प्रतीतिप्रसङ्गः’ इति तर्कपराहतत्वेन च लाघवमात्रेण न रजतोत्पत्तिसिद्धिः । लाघवमात्रेणार्थसिद्धौ लाघवात्साध्यसामानाधिकरण्यज्ञानत्वादिना अनुमितिहेतुत्वं स्वीकृत्य व्यभिचारग्रहेप्यनुमितेरेष्टव्यतापातात् । त्रैकालिकनिषेधप्रतियोगिनः उत्पत्त्यङ्गीकारतुल्यन्यायत्वात् । एवं साध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानकारणत्वापेक्षया व्यापकताज्ञानस्य कारणत्वे ‘अभावो न हेतुसमानाधिकरणः’ इत्यादिभिन्नविषयकबहुप्रत्यक्षेषु अनुमितिसामग्रीत्वेन प्रतिबन्धकत्वाकल्पनाल्लाघवमिति युक्त्या तत्कारणतासिद्धिवत्पक्षांशे भासमानधूमे घटकालीनत्वाद्यवगाहिपरामर्शस्य कारणत्वे धूमो न घटकालीन इत्यादिभिन्न-विषयकप्रत्यक्षेषु अनुमितिसामग्रीत्वेन प्रतिबन्धकत्वाकल्पनाप्रयुक्तलाघवेन तस्यापि कारणत्वा पातात् । निश्चितव्यभिचारकत्वाल्लाघवं तत्राकिञ्चित्करं चेत्प्रकृतेऽपि व्याहतिरूपबाधक-साम्यात्कथं लाघवेन रजतत्वमवच्छेदकं स्यात् ।

न च रजते उत्पत्तिप्रत्ययः किं रजतप्रतीतिसमये आपाद्यते उत बाधसमये । नाद्यः । प्रतीतिसमये स्थिरशुक्तितादात्म्येन ग्रहस्यैव विरोधित्वात् । नाशप्रत्ययस्तु तदा तस्या-नष्टत्वादेव नापादयितुं शक्यः । न द्वितीयः । बाधसमये उत्पत्तेरन्तरितत्वादेव न तद्ग्रहः । नाशग्रहं प्रति तु तत्र तदत्यन्ताभावग्रहस्यैव विरोधित्वात् न शुक्तौ रजतनाशग्रह इति वाच्यम् । एकस्मिन्नेवेदम्पदार्थे नाशात्यन्ताभावयोः स्वीकारे अत्यन्ताभावनाशाविरोधप्राप्त्या तद्ग्रहस्य कपाले घटात्यन्ताभावग्रहस्य घटनाशग्रहं प्रतीवाप्रतिबन्धकत्वात् । प्रकृत एव प्रतिबन्धकत्व-कल्पनस्य त्वप्रामाणिकत्वात् । ननु रजतात्यन्ताभावग्रहकालीनस्तन्नाशग्राहकसामाग्न्यभाव तद्ग्रहाभावव्याप्यत्वेन तत्प्रतिबन्धक इत्युच्यते । ‘निषेधप्रतियोगित्वधीः प्रतिबन्धिका’ इत्युक्तेरत्रैव तात्पर्यमिति चेन्न । तद्ग्राहकसामग्य्रभावस्यैव तद्ग्रहाभावव्याप्यतया तत्रात्यन्ता-भावग्रहकालीनत्वांशस्य वैयर्थ्येन तत्तात्पर्येणापि तादृशोक्तेरसङ्गतत्वात् ।

ननु चक्षुःसंयुक्तविशेषणतादिकाले तद्ग्राहकसामग्य्रभावस्योपपादयितुमशक्यत्वात् । तदत्यन्ताभावग्रहसामग्री प्रकृते दोषविधया स्वाभावघटितसामग्रीविघटिकेत्येतल्लाभाय तदुक्ति-रिति चेन्न । कपालस्थघटनाशादिग्रहे अदृष्टस्यात्रैव दोषविधया प्रतिबन्धकत्वस्य कल्पना-योगात् । एतेन ‘उत्पन्नत्वनष्टत्वे प्रतीतिकाले मिथ्यात्ववदावृत्ते अनुमानादिरूपप्रमाणवृत्त्या ज्ञायेत एव’ इत्यपि प्रत्युक्तम् । तत्सिद्ध्युत्तरकालीनत्वादेतत्कल्पनस्य घटादावदृष्टस्यात्रैव कल्पनापत्तेश्च प्रमाणवृत्त्या तदभावावपि आवृत्तौ ज्ञायेत इत्यपि वक्तुं शक्यत्वाच्च । उत्पन्नत्वादिग्राहकाणामेव प्रामाण्यमित्यस्याद्याप्यसिद्धेः ।

यदपि ‘स्थिरीभूतशुक्तितादात्म्यग्रहस्तदुत्पत्तिग्रहविरोधी’ इति तदपि न । स्थिरीभूत-मृत्तादात्म्यग्रहेण घटादेः स्थिरान्तःकरणाविद्यातादात्म्यादिग्रहेण ज्ञानादेश्चोत्पत्तिग्रहप्रतिबन्धा-पत्तेः । अत्रैव तत्कल्पने चादृष्टस्यैव कल्पनापत्तिः । अनन्तानां तत्क्षणतत्कालीनवायु-संयोगादीनां प्रतिबन्धकतामादाय विनिगमनाविरहान्महागौरवम् । अपि च दोषाणां भवन्मते रजतत्वावच्छिन्नं तज्ज्ञानत्वावच्छिन्नं प्रति च कारणत्वकल्पनाधिक्याद्गौरवम् ।

ननु मन्मते दोषाणां ज्ञानं प्रति कारणत्वं न कल्प्यत एव । न च शुक्तिविशेष्यकरजत-ज्ञानत्वावच्छिन्नस्याऽकस्मिकत्वापत्तिः । १बाधाभावकार्यतावच्छेदकतयैव तदवच्छिन्नस्योत्पत्ति सम्भवात् । न च सर्वदा तदुत्पत्त्यापत्तिः । इन्द्रियसन्निकर्षरजतसंस्कारादेस्तत्सहकारि-त्वाभ्युपगमात् । न च रजतप्रागभावस्य रजतं प्रति कारणतायाः क्लृप्तत्वात्तेनैव रजतोत्पत्ति-रस्तु । दोषस्य तु रजतज्ञानत्वमेव कार्यतावच्छेतकं स्यात् । तादृशरजतोत्पत्तिं प्रति तज्ज्ञानोत्पादकसामग्य्रा व्यापकत्वाभ्युपगमेन तत्सहितरजतसामग्य्रेव रजतजनिका । अतः सर्वदा न रजतोत्पत्त्यापत्तिरित्यपि वक्तुं शक्यत्वेन विनिगमकाभावात् दोषकार्यतावच्छेदकत्वं रजतज्ञानत्वस्य दुर्वारमिति वाच्यम् । रजतज्ञानत्वापेक्षया रजतत्वस्य कार्यतावच्छेदकत्वे लाघवस्यैवात्रापि नियामकत्वात् इति चेन्न ।

विषयानुपाधिकस्य रजतादिप्रवृत्तिप्रयोजकधर्मस्य ज्ञान एवाऽकरे व्यवस्थापिततयाऽत्रापि चाग्रे किञ्चिद्व्यवस्थापनीयतया तादृशवैजात्यस्यैव कार्यतावच्छेदकत्वाङ्गीकारे अत्रापि गौरवानवकाशात् । यत्र शुक्लपटादि घटसजातीयाकारतया सम्पादयित्वा व्यवस्थापितं तत्र रक्तपित्तादिदोषवशात् रक्तघटभ्रमोत्पत्तिस्तत्र २रक्तघटत्वस्य कार्यतावच्छेदकत्वे गौरवात् तादृशस्थले ज्ञानवृत्तिवैजात्यस्यैव कार्यतावच्छेदकत्वस्य युक्तत्वेन तत्सजातीयतयाऽन्यत्रापि तथैवाभ्युपगमस्य युक्तत्वाच्च । पूर्वं वैजात्यस्यासिद्धावपि दोषकार्यतावच्छेदकतयैव लाघवा-ज्ज्ञाने वैजात्यं सिद्ध्यतु । ज्ञानोत्पत्तिविनाशादेरुभयसिद्धत्वेन तत्र धर्मकल्पने लाघवात् । रजतत्वस्य कार्यतावच्छेदकत्वे तदाश्रयीभूतरजतोत्पत्तितदुपादानतत्प्रागभावाद्यनन्तकल्पना-प्रयुक्तगौरवात् । धर्मिकल्पनातो धर्मकल्पनाया ज्यायस्त्वात् । न च लाघवाद्रजतत्वस्य पूर्वसिद्धस्यैव जन्यतावच्छेदकत्वसिद्धौ तदनुरोधीदं गौरवं फलमुखत्वान्न दोषावहम् । असिद्ध-धर्मस्य तज्जन्यतावच्छेदकत्वस्य च कल्पनापेक्षया सिद्धधर्मस्यैव जन्यतावच्छेदकत्वकल्पनस्य त्वन्न्यायेनैव युक्तत्वमिति वाच्यम् । रजतत्वस्य कार्यतावच्छेदकत्वग्रहवेलायामेवोक्तगौरव-प्रतिसन्धानस्य प्रेक्षावतामवर्जनीयतया तस्य फलमुखत्वाभावात् । उक्तगौरवमनादृत्य जातेः कार्यतावछेदकत्वमात्रे लाघवमात्रेण उक्तकार्यकारणभावाङ्गीकारे सुवर्णत्वघटत्वादीनामपि दोषकार्यतावच्छेतकत्वानिवारणात् । रजतोत्पत्तिस्थले अनन्ततत्तद्रूपावच्छिन्नोत्पत्तिं स्वीकृत्य तत्र सुवर्णादेस्तत्त्वादेर्वाऽऽवृतत्वं कल्पनीयं स्यात् ।

न चैवं सर्वत्राप्येवं वक्तुं शक्यत्वेन फलमुखगौरवस्य अदोषत्वोच्छेदः स्यादिति वाच्यम् । यत्रानन्यथासिद्धेन स्वव्याहतिप्रबलप्रमाणान्तरबाधशून्येन योऽर्थः सिद्ध्यति तस्य च यावता विना नोपपत्तिस्तदुपयुक्तप्रमेयाङ्गीकारे गौरवस्यासोषत्वम् । तत्र पूर्वप्रमाणफलमेव मुखं यत्कल्पनायामर्थापत्तिप्रमाणरूपं तादृशगौरवस्यैव फलमुखगौरवप्रामाणिकगौरवपदार्थत्वात् । गौरवरूपतर्कस्यादोषत्वं तु श्रुतदृष्टार्थापत्तिसिद्धार्थाभावमादाय विपर्ययपर्यवसायित्वेन । यथा यागस्य स्वर्गसाधनत्वस्य निर्वाहायापूर्वकल्पने यथा समासप्राबल्यान्निषादस्थपतेर्यागाधिकार-सिद्धौ तन्मात्रोपयोगिविद्याकल्पने । लोके व्यापारद्वारा साक्षाद्वोभयथा कारणानां दृष्टत्वेन यागस्य क्षणिकत्वग्रहस्य कारणत्वग्रहाविरोधितया श्रुत्या कार्यकारणभावग्रहो निराबाध एव सामान्यतो जायत एवेति न तत्र पूर्वमपूर्वकल्पनाप्रयुक्तगौरवानुसन्धानम् । एवं निषादस्थपतेः न यागाधिकार इति प्रबलप्रमाणरूपबाधकविरहात्स्वव्याहत्यादिविरहाच्च वाक्यस्वरसतस्त-स्तद्बोधे पूर्वं विद्याकल्पनादिप्रयुक्तगौरवाननुसन्धानम् । अतस्तदनन्तरमेव तन्निर्वाहाय कल्प्य-माना विद्या गौरवान्न तद्बाधनायेष्टे । उपजीव्यविरोधात् । एवं विशिष्टज्ञानाभावस्यानुमिति पूर्वमनिश्चितत्वेन सन्दिग्धत्वे बहुस्थलेषु विशिष्टज्ञानस्य जनकत्वे सिद्धे तस्य ज्ञानद्वय-साधारणरूपापेक्षया विशिष्टज्ञानत्वस्य लाघवानुसन्धानं कारणतावच्छेदकत्वं व्यवस्थापयति । तन्निर्वाहाय क्वचित्सन्दिग्धस्थले अनुमितिरूपकार्येण विशिष्टज्ञानकल्पनम् । तत्र प्रागभावा-द्यङ्गीकारे गौरवं कार्यलिङ्गकप्रबलानुमानसिद्धार्थे विपर्ययापर्यवसायित्वान्न दूषणम् । क्वचिदनु-मितौ विशिष्टज्ञानाभावस्यैव पूर्वं निश्चये वा तत्समकक्षापन्नरूपान्तरविशिष्टज्ञानान्तररूप-प्रतिबन्देरुपस्थितौ वा तन्मात्रस्य तन्निश्चयो न भवत्येव । अन्यथाऽऽभाससमानयोगक्षेम-त्वस्यानुमानदूषणत्वाभावापातात् । अत एव तादृशानुभवपक्षमवलम्ब्य त्वया ज्ञानद्वयस्यापि कारणत्वं विहाय व्याप्त्युद्बुद्धसंस्कारसहितपक्षधर्मताज्ञानस्यानुमितिकारणत्वमङ्गीकृतम् । एवमन्यत्रापि द्रष्टव्यम् । इत्थं च दोषाणां रजतकारणत्वग्राहकप्रमाणाभावादुक्तप्रतिबन्देर-परिहाराच्च रजतोत्पत्तिसिद्धेरेवाभावात् न फलमुखत्वं गौरवस्येति तद्दोषता दुर्वारैव ।

न च ज्ञानानां वैलक्षण्यस्य विषयवैलक्षण्यनिबन्धनत्वाद्रजतज्ञानत्वसिद्धये रजतत्वस्य कार्यतावच्छेदकत्वम् । न सुवर्णादीनां । बीजाभावादिति वाच्यम् । लाघवमात्रेणेदानीं रजत-त्वस्य कार्यतावच्छेदकत्वव्यवस्थापननिर्भरेणैव रजतोत्पत्तिं व्यवस्थापयितुं परेण प्रारब्धतया तत्र ज्ञाने सुवर्णज्ञानत्वमावृतमिति वा सुवर्णत्वस्य तत्र सत्त्वेऽपि आवृतत्वादेव तदाकारज्ञानं न जातं किन्तु रजताकारमेव जातमिति वा वक्तुं शक्यत्वेन सुवर्णत्वादिप्रतिबन्दिदानस्य युक्तत्वात् । उक्तनियमावष्टम्भेन तत्कल्पनं तु तादृशनियमनिरासेन निरसिष्यते ।

किञ्च मास्तु ज्ञाने वैजात्यम् । तथापि रजतत्वस्य कार्यतावच्छेदकत्वेऽपि ज्ञान-वृत्तिधर्मस्याप्रमात्वस्य दोषकार्यतावच्छेदकत्वमवश्यमभ्युपेयम् । अन्यथा बाधाभावादेः ज्ञान-सामान्यसामग्रीघटकतया दोषस्याप्रमात्वावच्छिन्नसामग्रीकोटावनिवेशे अप्रमात्वस्य परतस्त्वानु पपत्त्याऽपसिद्धान्तापत्तेः । न च रजतरूपविषयजननद्वारा तज्जनकत्वात्तस्य परतस्त्वो-पपत्तिरिति वाच्यम् । रजततदविद्यावृत्त्योरेककालीनत्वेन कार्यकारणभावानापन्नतया तद्द्वारा दोषकार्यत्वोक्तेरयोगात् । घटद्वारा दण्डस्यापि घटप्रमाप्रयोजकतया प्रमात्वस्यापि परतस्त्वा-पत्तेश्च । न च शुक्तिरूपेदंविशेष्यकरजतज्ञानं तादृशबाधाभावकार्यं अप्रमारूपं भवतीति तस्य बाधाभावकार्यतयैव परतस्त्वोपत्तिरिति वाच्यम् । तादृशज्ञानत्वज्ञानमात्रेण तत्राप्रमाव्यवहारा-नुदयेन बाधितरजतावगाहित्वस्यैवाप्रमात्वरूपतया तस्य दोषकार्यतावच्छेदकत्वस्याऽवश्य-कत्वात् । तथा च रजतत्वस्यापि कार्यतावच्छेदकत्वं गौरवान्न युक्तमेव ।

न च दोषजन्यावगाहित्वमेवाप्रमायाः परतस्त्वमिति वाच्यम् । उत्सर्गतः ज्ञानस्वभावभूतं प्रामाण्यं तिरस्कृत्याविद्यमानाप्रमात्वाद्याधायकत्वे हि तस्य दोषत्वम् । अप्रमात्वस्य तज्जन्यतावच्छेदकत्वेन तत्प्रयोज्यतया परतस्त्वम् । प्रामाण्यस्य तु १किञ्चिज्जन्यतावच्छेदक-तया स्वतस्त्वमिति विशेषः सङ्गच्छते । इदानीं त्वप्रमात्वस्यापि किञ्चिज्जन्यतावच्छेदकत्वेन प्रामाण्याविशेषापत्त्या चाकचक्यातेरप्यप्रमाविषयजनकत्वेन प्रमाविषयीभूतघटादिजनक-दण्डादितोऽविशेषापत्त्या च तत्परतस्त्वस्य तेषां दोषत्वस्य च साङ्केतिकत्वापत्त्या अप्रामाण्यस्वतस्त्ववादिसाङ्ख्यमतप्रवेशेनापसिद्धान्तो दुर्वार एव । न हि भट्टेन सङ्केतमात्रं क्रियते । येन ‘व्यवहारे भट्टनयः’ इति वदतस्तवापसिद्धान्तोऽपि न स्यात् । प्रमेयवैलक्षण्या-भावे उक्तसङ्केतमात्रेण प्रमाभ्रमयोरुक्तस्वतस्त्वपरतस्त्वादिगोचरत्वप्राचीनव्यवहारस्य निष्प्रयोजन तया बालभाषितत्वापत्तेश्च ।

अपि च भ्रमस्य दोषकार्यत्वे अविद्यातिरिक्त१दोषजन्यप्रतीतिकत्वरूपत्वदाचार्योक्त-प्रातिभासिकलक्षणस्यासम्भवापातः । ज्ञानरजतयोः समानकालिकत्वेन विषयाजन्यतया विषयद्वारा प्रयोज्यत्वस्याप्यभावेन जन्यपदस्य प्रयोज्यार्थकत्वेऽप्यसम्भवानिस्तारात् ।

अपि च भ्रममात्रवृत्तितावदन्यतमत्वस्य अखण्डभेदरूपस्य तावन्मात्रविषयकबुद्धिविषय-तायाः समानाकारनानाज्ञाननिरूपितायाश्चैकाया अखण्डायाः रजतत्वतुल्यतया कार्यता-वच्छेदकत्वं सम्भवत्येव । न च तयोः स्वरूपतो भानाभावेन कार्यतावच्छेदककोटौ रजतत्वतुल्यतयाऽवच्छेदकत्वप्रतिबन्द्ययोग इति वाच्यम् । तयोरपि स्वरूपतो भाने बाधका-भावात् । जात्यतिरिक्तस्य स्वरूपतो भानाभावनियमस्य मिथ्यात्वलक्षणे सर्वं प्रमेयं परमार्थ-मिति बुद्धेः ज्ञाननिवर्त्यत्वाभावरूपपारमार्थिकत्वस्यापि स्वरूपतः प्रतियोगितावच्छेतकत्वं वदता त्वयैव त्याजितत्वात् । किं चैकस्यैकेनैव दोषेण रजतभ्रमे मानाभावेन दोष-त्वस्याप्यखण्डधर्मस्याभावेन चाकचक्यत्वादिनैव कारणत्वे वाच्ये तस्य रजतत्वावच्छिन्नं प्रति वा प्रातिभासिकरजतादौ तत्तत्पुरुषनिरूपितत्वस्वीकारेण तत्पुरुषनिरूपितरजतत्वावच्छिन्नं प्रति वा कारणत्वे दोषान्तरजन्यरजते व्यभिचाराद्रजतत्वमात्रस्य जन्यतावच्छेदकत्वे रजता-वयवजन्यरजतेऽपि व्यभिचारात्तत्तद्दोषविशिष्टत्वस्य कार्यतावच्छेदककोटावावश्यकत्वे तत्तद्दोष-जन्यरङ्गवङ्गाद्यसङ्ग्रहापत्त्या रजतत्वादिकमनिवेश्य तत्तद्दोषविशिष्टत्वमात्रस्य कार्यतावच्छेद-कत्वसिद्धेरवर्जनीयतया तस्य ज्ञानमात्रवृत्तित्वं मयाऽभ्युपेयते । रजतज्ञानस्योत्पन्नत्वाद्यनु-भवात् । रजते तदननुभवेन दोषकार्यत्वस्यासिद्ध्या कथं रजतत्वस्य दोषकार्यता-वच्छेदकत्वानुरोधेन रजतोत्पत्तिसिद्धिः ।

यदपि ‘रजतस्य दोषजन्यत्वे रजतावयवादिक्लृप्तरजतकारणानां कार्यतावच्छेदककोटौ तत्तदवयववैशिष्ट्यस्य निवेशाद्गौरवं आशङ्क्यानन्तदोषाणां कार्यतावच्छेदककोटौ रजतादि-प्रकारतानिरूपितसंसर्गतानिरूपितत्वविशेष्यतात्वयोः विशेष्यतानिरूपितत्वसंसर्गतात्वयोः १संसर्गतानिरूपकत्वप्रकारतात्वयोश्च विशेष्यविशेषणभावे विनिगमनाविरहेणानन्तकार्यकारण-भावापत्त्या महागौरवं ज्ञानकार्यत्वपक्षे । रजतकार्यत्वपक्षे च कतिपयकार्यकारणभावतद-वच्छेदकाद्याधिक्याद्गौरवम् । एवं बाधाभावकार्यत्वमपि रजतत्वादिनैवेति ततोप्यनिर्वचनीय-सिद्धिः । इदंविशेष्यतानिरूपितसंसर्गतानिरूपितस्वप्रकारताकचाक्षुषसमवायसम्बन्धेन वा तादृशचाक्षुषसम्बन्धेन वा रजतत्वविशिष्टस्यैव कार्यत्वे प्रथमे प्रकारतायां रजतत्वावच्छिन्नत्वा-निवेशेन द्वितीये तस्य च समवायस्य चानिवेशेन ज्ञानकार्यत्वापेक्षया लाघवात्’ इत्या-द्यभिहितं तदप्येतेनैव निरस्तम् । दोषविशिष्टत्वेनैव तादृशज्ञानानां कार्यतया भवदुक्त-कार्यकारणभावादेस्तत्राभावात् । बाधविशिष्टान्यत्वस्य बाधाभावकार्यतावच्छेदकत्वोररी-करणेऽतिलाघवेन त्वदुक्तकार्यकारणभावासिद्ध्या रजतोत्पत्त्यसिद्धेः । पूर्वोक्तघटसुवर्णादीना-मप्युक्तसम्बन्धेन कार्यत्वमादाय विनिगमनाविरहस्य दुर्वारत्वाच्च । तत्र ज्ञाने सुवर्णविषयकत्व-सत्त्वेऽपि तदाकारत्वमावृतमिति कल्पनागौरवादेस्त्वद्रीत्या फलमुखत्वेनादोषत्वात् ।

अपि च रजतज्ञानस्य बाधाभावकार्यत्वस्याप्यभावे तस्याऽकस्मिकत्वापत्तिः । २न च तादृशसम्बन्धेन रजतोत्पादकसामग्रीबलात्तादृशचाक्षुषोत्पत्तिः । तत्सम्बन्धोत्पत्तिं विना तेन सम्बन्धेन तदुत्पत्तेरसिद्धेरिति वाच्यम् । समवायस्य नित्यत्वेन सम्बन्धोत्पत्तिं विना सम्बन्धि रूपाद्युत्पत्तिदर्शनेन सम्बन्ध्युत्पत्तेः संबन्धोत्पत्त्यव्याप्यत्वात् । प्रकृतसम्बन्धरूपचाक्षुषस्य सम्बन्धविशेषेणाकार्यत्वे आत्मनि तदीयसम्बन्धविशेषनियमासिद्धिप्रसङ्गात् । अथ कथञ्चि-ज्ज्ञानत्वावच्छिन्नं प्रत्यात्मनः कार्यकारणभावबलेन समवायनियमोपपादनेऽपि रजत-प्रतियोगिकशुक्त्यनुयोगिकतादात्म्यं प्रति दोषस्य कारणत्वाकल्पने तत्सम्बन्धनियमासिद्धिः तस्यावृत्तित्वं वा स्यात् । आद्ये घटादेरपि रजततादात्म्यवत्त्वस्यापत्त्या घटादिष्वपि कार्यता-वच्छेदकसम्बधेन कार्याधिकरणेषु तेन सम्बन्धेन कारणाभावाद्व्यभिचारः । तस्यावृत्तित्वे सम्बन्धिनोप्यवृत्तित्वं स्यात् । सम्बन्धः अवृत्तिस्तेन सम्बन्धेन किञ्जिद्वृत्तिरित्यस्यासङ्ग-तत्वात् । तादात्म्यस्य जन्यस्य कारणं विनाऽनुपपन्नत्वेन दोषेतरस्य कारणत्वाप्रसक्ते-स्तादात्म्यं प्रति दोषस्य कारणत्वे तु इदमनुयोगिकत्वरजतप्रतियोगिकत्वतादात्म्यत्वादीनां मिथोविशेष्यविशेषणभावे विनिगमकाभावेन बहुकारत्वापत्त्या रजतोत्पत्तिपक्षे रजतकारणत्व-तादृशबहुतरतादात्म्यस्थलीयकार्यकारणभावकल्पनाधिक्याद्गौरवम् । ज्ञानसम्बन्धनियमाय तत्र गतिकल्पनस्योभयमतेऽपि साम्यात् ।

एतेन ‘रजतावयवादिनां रजतं प्रति कारणत्वे व्यभिचारवारणाय रजतादेर्दोषकार्यता ह्यवच्छेदकतासम्बन्धेन विशेषणतासम्बन्धेन वा वाच्या । ध्वंसादेस्तु समवायेन संयोगादिना वाच्या । बाधानवतारे तत्र तेन सम्बन्धेन तद्विशिष्टबुद्धिरिष्टैव । तवापि तद्विशिष्टबुद्धेरिष्ट-त्वात्’ इत्यपि परास्तम् । तत्कारणत्वतत्सम्बन्धकारणत्वयोरुभयोः कल्पनागौरवस्य दुर्वार-त्वात् । तादात्म्येन रजतस्यानुत्पत्तौ तादात्म्येन रजतप्रकारकत्वानुपत्तिः । तदुभयतादात्म्य-स्यालीकतापत्त्या अपरोक्षप्रतीतिविषयत्वानुपपत्तेः । अन्यदीयतादात्म्येन प्रकारत्वे व्यधिकरणप्रकारकत्वेनान्यथाख्यातेरेव प्राप्त्या व्यर्थः प्रयासः । न ह्यन्यथाख्यातिमतेऽपि सर्वसम्बन्धैः प्रकारस्य विशेष्यतावैयधिकरण्यमस्ति । कालिकादिना तत्सामानाधिकरण्यात् । व्यधिकरणसम्बन्धेन भाने सर्वेषां ज्ञानानां विशिष्टविषयकत्वनियमभङ्गेन भ्रमस्य द्व्याकारता-सिद्धये परस्पराध्यासस्वीकारानुपपत्तिश्च । न चायं न तादात्म्येन रजतावगाहीति वाच्यम् । नेदं रजतमिति बाधधीप्रतिबध्यत्वतादृशशाब्दादिप्रतिबन्धकत्वयोरनुपपत्तेः अस्या अपि प्रतिबन्धकत्वकल्पनमप्रामाणिकं गौरवपराहतम् । एवं ध्वंसादिस्थलेऽप्यूह्यम् ।

न च अन्यसम्बन्धघटितबाधानवतारदशायां तवापि तादृशप्रतीतेर्दुर्वारतेति वाच्यम् । बाधाभावमात्रस्य सामग्रीत्वाभावेन तेन सम्बन्धेन रजतादिप्रकारकज्ञनकार्याद्यभावेन तादृश-ज्ञानासिद्धौ तत्सामग्य्रा अप्यकल्पनात् । न हि बाधाभावमात्रं सामग्री । तथात्वे संयोगेन घटप्रत्यक्षकाले साक्षात्परम्परारूपतदितरसकलसम्बन्धघटिवबाधग्रहानियमेन कस्याचित् व्यधिकरणसम्बन्धस्यावश्यं भानापत्त्या शुद्धप्रमामात्रविलोपप्रसङ्गः । अन्यथाख्यातिवादिनो मते त्वन्मते दर्शितबाधकाभावेन तादृशापत्ताविष्टापत्तेः कर्तुं १शक्यत्वाच्च ।

यदपि ‘रजतोत्पत्तौ रजतावयवादिक्लृप्तकारणानां व्यभिचारवारणाय कार्यतावच्छेदके स्वस्ववैशिष्ट्यनिवेशादनन्तघटपटादिस्थले गौरवं मन्मते । त्वन्मते तु ततोऽपि महागौरवम् । तथा हि, गोत्वघटत्वादिप्रत्यक्षेषु सास्नाकम्बुग्रीवाद्यवच्छिन्नेन्द्रियसंयोगवत्समवायस्य ब्राह्मण-त्वादिप्रत्यक्षे शुद्धमातापितृजत्वनिश्चयस्य शुक्तित्वादिप्रत्यक्षे नीलपृष्ठत्वादिनिश्चयस्य उत्पल-नैल्यादिप्रत्यक्षे सौरभवत्संयुक्तसमवायस्येत्यादिबहुहेतुतायां भ्रमस्थले व्यभिचारवारणाय कार्यतावच्छेदकस्थले स्ववैशिष्ट्यं निवेश्यम् । तथाच कार्यतावच्छेदककोटिप्रविष्टचाक्षुषत्व-घटत्वादिविषयकत्वैः सह विशेष्यविशेषणभावे विनिगमनाविरहेण अनन्तकार्यकारणभावः । मन्मते तत्र भ्रमस्याविद्यावृत्तित्वेन तत्र चाक्षुषत्वानङ्गीकारेणैव व्यभिचाराप्रसक्तेस्तत्र कारण-वैशिष्ट्यानिवेशेन गौरवानवकाशात्’ इति ।

तदप्यसारम् । मन्मते चाक्षुषत्वस्य भ्रमेऽनङ्गीकारेऽपि क्षतिविरहस्योक्तत्वात् । त्वन्मत-रीत्याऽप्युक्तलाघवानुसारेण भ्रमस्थले चाक्षुषान्यवृत्तिमात्राङ्गीकारेणोपपत्तौ रजतादिविषयो-त्पत्तेरसिद्धेः । नैयायिकमतेऽपि विषयतात्ववदखण्डेनैव लौकिकविषयतात्वेन भ्रमविषयता-व्यावृत्तेन विषयत्वसम्बन्धेन प्रत्यक्षस्य कार्यत्वे व्यभिचारानवकाशेन कारणवैशिष्ट्यानिवेशात् । न च रजतत्वघटत्वादौ भ्रमीयविषयतायाः लौकिकत्वाभावे रजतत्वं साक्षात्करोमीति प्रत्ययानुपपत्तिः । तन्निष्ठलौकिकविषयतायास्तत्र नियामकत्वादिति वाच्यम् । दोषविशेष-प्रयोज्यविषयताया अपि तत्र नियामकत्वाङ्गीकारात् । कारणवैशिष्ट्यनिवेशे कार्यतावच्छेदक-कोटौ पुनर्विषयविशेषविषयिकत्वचाक्षुषत्वादेरनिवेशेन गौरवानवकाशाच्च । भ्रमविषयेऽपि चाक्षुषत्वस्य त्वदङ्गीकृतत्वेन तत्पक्षे तवाप्येतद्दोषस्य दुर्वारत्वाच्च । तदेतत्सर्वं पररीतिमनु-रुद्ध्योक्तम् ।

वस्तुतः सिद्धान्ते कार्यताकारणतादिनिरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वनिरासपूर्वक-मनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्यैवाग्रे व्यवस्थापनीयतयोक्तविशेष्यविशेषणभावापन्नपदार्थ-घटितसमनियतानन्तधर्माणां कार्ये विद्यमानानां तस्यापरिहार्यतया कस्य कल्पनाप्रयुक्त-गौरवलाघवविचारावकाश इति तु तत्त्वम् ।

यदपि ‘पित्ताधिक्यन्यूनत्वाभ्यां शङ्खे पीतिमोत्कर्षापकर्षयोर्दर्शनात्तत्र पीतस्य पित्तगतस्यैव भानाङ्गीकारे पुरुषान्तरस्यापि दर्शनप्रसङ्गेन तस्यातीन्द्रियत्वावधारणात् शङ्ख एव पीतो जायत इत्यवश्यं वाच्यम् । कार्यगतोत्कर्षापकर्षयोः कारणगतोत्कर्षापकर्षमूलत्वात्’ इति तन्न । दोषातिशयतन्न्यूनत्वाभ्यां उत्कृष्टापकृष्टपीतरूपावगाहिप्रमासजातीयविषयताशालिभ्रमस्यैवाङ्गी-कारात् । त्वन्मत इव मन्मतेऽपि तदपेक्षाबुद्धिजन्यद्वित्वपरत्वादिवत्तत्पुरुषीयपित्तगतपीति-म्नस्तत्पुरुषीयाध्यक्षयोग्यताङ्गीकाराद्वा सर्वसामञ्जस्ये पीतोत्पत्तेरप्रामाणिकत्वात् ।

यदपि ‘रजतरङ्गादीनामेकत्र विभ्रमस्थले नानापदार्थोत्पत्तिस्तवाधिका । तत्समसङ्क्याक-ज्ञानोत्पत्तिस्तूभयसिद्धेति स्वमते गौरवमाशङ्क्य अन्यथाख्यात्यसत्ख्यातिवादिमतेऽपि यत्रैक-त्रैककाले बहूनां पुरुषाणां रजतभ्रमस्तत्र बहूनां ज्ञानानां कल्पनया गौरवम् । मन्मते तु तत्रैकस्या एव रजतव्यक्तेस्तत्तत्पुरुषीयसाक्षितापन्नशुक्त्याद्यवच्छिन्नचिद्भास्यत्वोपपत्तेः । न च तत्तदन्तःकरणावच्छेदेन चैतन्यगताविद्यापरिणामस्य रजतादेरैक्यानुपपत्तिरिति वाच्यम् । एकस्या एवाविद्यायास्तदन्तःकरणावच्छेदेन सम्भवात् । नानाविद्याभिरप्येकशुक्त्यवच्छिन्न-चिन्निष्ठाभिरेकरजतादिपरिणामस्याप्यैक्यसम्भवात् । किञ्च प्रथमप्रवृत्तोपयुक्तयुक्तिभिर्भ्रम-विषयोत्पत्त्यावश्यकत्वे व्यक्तिकल्पनारूपगौरवस्य चरमस्य फलमुखत्वेनादोषत्वम् । अन्यथाऽनुमितौ विशिष्टज्ञानत्वेन हेतुताकल्पने ज्ञानद्वयोत्तरं विशिष्टज्ञानकल्पने परेषां गौरवं स्यात् । एतेन रजतादेरुत्पत्त्यनन्तरं तस्य चाक्षुषाद्युत्पत्त्यभ्युपगमपक्षेऽविद्यावृत्तिकल्पनपक्षे चोभयोत्पत्तिकल्पने गौरवमित्यादिकं परास्तम् । अस्मदुपगतरजताद्युत्पत्तिक्षण इव तदुत्तरक्षणेऽपि चाक्षुषस्योपगमाच्च । सामग्रीसत्त्वे कार्योत्पत्तेर्दुर्निवारत्वात्’ इति ।

तदप्यकिञ्चित्करम् । त्वदुक्तस्थले रजतैक्येऽपि तज्ज्ञानैक्याङ्गीकारे चैत्रमैत्रज्ञानयोर-भेदावगाहिबुद्धेरापत्तेः । न हि तत्र ज्ञानैक्यमनुभूयते । न च स्वीयज्ञाने चैत्रेण मैत्रीयत्वं नानुभूयते । तस्यावृतत्वादिति वाच्यम् । तत्काले चैत्रेणैकेन नेत्रे निमीलिते मैत्रादीनां दर्शनस्य तथैव सत्वेन चैत्रदर्शनस्यापि सत्त्वेन ‘इदानीं रजतं पश्यन्नेवास्मि’ इति चैत्रस्यानु-भवापत्तेः । तेषु पुरुषेषु कस्याचिद्बाधग्रहे उत्पन्नेऽन्येषामपि रजतभानानुपपत्तेः । बाधेन सर्वसम्बन्धिज्ञाननाशस्यावश्यकत्वात् । अन्यथा तस्यापि भ्रमानुच्छेदप्रसङ्गः । उक्तरीत्या रजतोत्पत्तेर्दूषितत्वेन फलमुखत्वाभावेन सर्वस्याप्युक्तगौरवस्य दूषकत्वाच्च । अविद्यास्वरूपादे-र्निराकरिष्यमाणत्वे तत्परिणामत्वाद्युक्तेरयोगाच्च ।

किञ्च एकेनानुगतेन दोषेण बहुषु शुक्तिशकलेषु रङ्गरजतवङ्गनागादिविषयक एक एव १भ्रमस्तत्र परस्परविलक्षणत्वेनानुभूयमानानां तत्रैक्यस्य वक्तुमशक्यत्वात्तत्र नानापदार्थो-त्पत्तिकल्पने दोषस्य तत्तद्व्यक्तिरूपनानापदार्थकारणत्वकल्पने च महागौरवम् । मम तु तत्र ज्ञानस्यैकत्वेन तद्बहुत्वाभावात्तद्दोषस्य तन्मात्रं प्रति कारणताकल्पनाच्चातिलाघवम् । न च रजतत्वावच्छिन्नं प्रति चाकचिक्यरूपानुगतदोषस्थले कार्यकारणभावलाघवानुरोधे युक्त्याऽ-निर्वचनीयोत्पत्तिसिद्धौ अन्यत्रापि तत्पल्पनं प्रामाणिकत्वान्न दोषावहमिति वाच्यम् । एतत्स्थले उक्तलाघवानुसारेणानिर्वचनीयोत्पत्तिनिरासे अन्यत्रापि तथाभावः कुतो न स्यात् । अन्यतरमध्ये भवदभिमतार्थधिय एव प्राथमिकत्वस्य त्वया शपथेन व्यवस्थापनीयत्वात् ।

न च ‘सच्च त्यच्चाभवत्’ इत्यादितैत्तरीयश्रुतौ ‘सत्यं चानृतं च सत्यमभवत्’ इति अनृतशब्दितप्रातिभासिकस्योत्पत्तिः श्रूयते । ‘प्राणा वै सत्यं’ इति श्रुतौ सत्यशब्दस्य व्यावहारिकेऽपि प्रयोगेण तद्विरुद्धप्रातिभासिकस्यानृतशब्दार्थत्वात् । न च सत्यानृतशब्दयोः प्रमाणाप्रमाणवाक्यपरत्वमिति वाच्यम् । तस्य ‘सच्च त्यच्चाभवत्’ इत्यादिना व्यावहारिकसृष्टेः पूर्वं उक्तत्वेन पुनस्तत्कथनवैयर्थ्यात् । अन्यथा रूपादेरपि पुनःसृष्टिकल्पनापत्तेः । इत्थं चोक्तश्रुत्यनुगृहीतानामस्मदीययुक्तीनां बलवत्त्वात्सर्वेऽपि त्वदुक्तदोषाः आभासीभवन्तीति वाच्यम् ।

उक्तश्रुतीनां तैत्तरीयभाष्ये आचार्योदादृतप्रमाणानुसारेणान्यपरत्वात् । अनिर्वचनीये शक्तिग्राहकप्रमाणाभावेन तत्परत्वे मानाभावाच्च । व्यावहारिकविरुद्धत्त्वेन तत्पदार्थत्वे पारमार्थिकस्यापि तत्पदार्थत्वापत्तेः । प्रमाणाप्रमाणवाक्यरूपशास्त्ररूपवाक्यबलेनैव सर्वेषां पुरुषार्थसाधनानुष्ठानादिषु प्रवृत्तिदर्शनेन तेषां लोकहिताहितजनकेषु प्राधान्यात् तद्विवक्षया रूपादिकं विहाय अस्यैव ब्राह्मणपरिव्राजकन्यायेन पृथगुक्तिसम्भवाच्च । अन्यथोक्तवाक्ये सत्पदेनैव सर्वव्यावहारिकप्रातिभासिकानां सत्तादात्म्यापन्नानां गृहीतत्वेन त्यदादिसर्वपदादि-वैयर्थ्यं स्यात् । विवक्षाविशेषेण सार्थक्ये प्रकृतेऽपि तथाऽस्तु । तस्मात्कस्या अपि श्रुतेरनु-ग्राहकत्वाभावाद्भवदुक्तयुक्तीनां तर्काप्रतिष्ठानादितिन्यायेन त्वद्रीत्या मद्रीत्या कामाच्च नानु-मानापेक्षेति न्यायेनाऽभासत्वान्नानुभवसिद्धासत्ख्यातिबाधकत्वमन्यथाख्यातिबाधकत्वं वा । न चेन्द्रियेणासन्निकृष्टं सद्रजतं भासत इति वाच्यम् । अञ्जनसहकृतेन्द्रियेण निखातधन-प्रत्यक्षादिवत् योगसहकारेण देशकालविप्रकृष्टपदार्थप्रत्यक्षवच्च दोषसहकारेण देशकालविप्रकृष्ट-पदार्थप्रत्यक्षोपपत्तेस्तद्भासकत्वमेव युक्तम् । दृष्टानुसाराल्लाघवाच्च । सामान्यलक्षणायां गदा-धरेणासन्निकृष्टस्यापि पर्वतधूमसंयोगस्य लौकिकप्रत्यक्षे संसर्गविधया भानाभ्युपगमाच्च । पदार्थकरणकशाब्दस्याऽकरे निरस्तत्वेन मानसोपनीतादिभाननिर्वाहाय ज्ञानलक्षणासन्निकर्ष-स्याऽवश्यकत्वे तेनापि तद्भानस्य युक्तत्वाच्च । अतो न त्वदुक्तबाधकानां अन्यथाख्याति-पक्षेऽवकाशः । किं त्वन्यत्राऽचार्योक्तानामेवेत्यन्यत्र विस्तरः ।

यदपि ‘पुरोवर्तिरजतत्वरूपेष्टतावच्छेदकोभयवैशिष्ट्यावगाहिज्ञानस्य प्रवृत्तिकरणत्वादस-द्रजतावगाहित्वे प्रवृत्त्यनुपपत्तिः’ इति तदप्यसत् । सत्यरजतावगाहिज्ञाने यादृशी रजत-शब्दादिप्रयोगप्रयोजकीभूता शक्तिरूपा विषयिता तादृश्येव दोषप्रयोज्यविषयिता भ्रमेऽपि स्वीक्रियते । अथ वा सत्यरजतज्ञानतदन्यरजतभ्रमेषु रजतज्ञानत्वाख्यवैजात्यं रजतार्थि-प्रवृत्तिजनकतावच्छेदकं स्वीक्रियते । तत एव प्रवृत्त्यादिकमुपपद्यत इति किमनिर्वचनीय-रजतोत्पत्तिस्वीकारेण । अन्यथा यादृशकामिनीव्यक्तिविशेषस्यैव तद्व्यक्तित्वेनेष्टत्वं तत्र १तद्व्यक्तेरन्यभ्रमेण प्रवृत्तिर्न स्यात् । तद्व्यक्तित्वस्यैकमात्रवृत्तित्वेन भ्रमोत्पन्नानिर्वचनीय-व्यक्तावभावेन तत्रेष्टतावच्छेदकपुरोवर्तिवैशिष्ट्यावगाहित्वाभावात्प्रवृत्त्यनुपपत्तिः । न हि प्रातिभासिकव्यावहारिकसाधारण्यस्य रजतत्वे स्वीकारवत्तद्व्यक्तित्वस्यापि प्रातिभासिक-व्यावहारिकोभयसाधारण्यमुक्तिसम्भवम् । तथात्वे तस्येभयादिवृत्तित्वेन जातिरूपत्वस्यैवा-पत्तेः। तत्सजातीयं तद्व्यक्तित्वान्तरं जायते चेत् तस्येष्टतावच्छेदकत्वेनागृहीतत्वात् । अत एव ‘रजतत्वसमवायत्वादीनां भ्रमविषय उत्पत्तौ तस्यापूर्वव्यक्तेरिष्टतावच्छेदकत्वेनागृहीतत्वा-त्प्रवृत्त्यनुपपत्तिः’ इति त्वयैवाभिहितम् । न च कामिनीशरीरनिष्ठं वैजात्यमेवेष्टतावच्छेदक-मिति वाच्यम् । तत्र तस्य कथञ्चिदुक्तिसम्भवेऽपि तद्रजतत्वतद्रूपादेर्यत्रेष्टतावच्छेदकता तत्रोक्तानुपपत्तेर्दुर्वारत्वात् ।

ननु तद्रजतत्वं तद्व्यक्तित्वं प्रातिभासिकव्यक्तौ व्यावहारिकसम्बन्धेन वर्तते । न चोभयवृत्तित्वानुपपत्तिः । स्वसमानसत्ताकधर्मिद्वयावृत्तित्वस्यैवोभयावृत्तिपदार्थत्वाङ्गीकारादिति चेन्न । उक्तरीत्या कल्पनायाः प्रातिभासिकोत्पत्तिसिद्ध्युत्तरकालिकतया प्रथमत एव उक्त-बाधकबलेन ज्ञानवृत्तिक्लृप्तधर्मेण प्रवृत्त्यादेरन्यथासिद्धत्वग्रहेण प्रातिभासिकोत्पत्तेरेवासिद्धेः । अन्यथाऽन्योन्याश्रयात् । यत्र तद्व्यक्तित्वतद्रूपादेरिष्टतावच्छेदकस्य नाशोत्तरं कालान्तरे २अज्ञाततन्नाशकस्य तदवच्छिन्नारोपात्प्रवृत्तिस्तत्रागतेश्च । न हि नष्टं तद्व्यक्तित्वादिक-मारोप्यमाणे व्यावहारिकसम्बन्धेन वर्तते इत्युक्तिसहं सचेतसाम् । न वा तद्व्यक्तिनाशेऽपि तन्निष्ठं तत्स्वरूपं तद्व्यक्तित्वादिकं न नश्यतीत्यपि युक्तम् । तस्याखण्डस्याश्रयातिरिक्तस्य नित्यस्य सद्भावे मानाभावात् । तद्रूपस्थले सर्वथानुपपत्तेश्च । न च नष्टमपि तद्रूपं संस्कारा-त्मना विद्यमानं प्रातिभासिके वर्तते इति वाच्यम् । तद्धटादिरूपतज्जनकस्यात्राभावेनात्र तदुत्पत्त्याद्ययोगेन तत्संसर्गायोगात् । अन्यथा व्यधिकरणप्रकारकत्वापत्तेः । संस्कारावस्थायाः अपरोक्षभाने अनुपयोगात् । संस्कारात्मना स्थितस्येष्टतानवच्छेदकत्वात् । अन्यथा पाकेन तद्रूपनाशेऽपि तद्धटे प्रवृत्तिप्रसङ्गात् । अप्रामाणिकबहुकल्पनापत्तेश्च । तस्मात्तादृशस्थले ज्ञानवृत्तिवैलक्षण्यादेव प्रवृत्त्यादेरावश्यकत्वेन सर्वत्रापि तथात्वौचित्येन व्यर्थमनिर्वचनीय-रजताद्युत्पत्तिकल्पनम् ।

अथापि स्यात् । ननु रजतभ्रमेण रजतस्वरूपस्य लब्धात्मनो विषयीकृतत्वादेव सिद्धिः । न च तस्योत्पन्नस्य १सत्त्ववता शुक्त्यादिवत्सत्त्वे कुतस्तद्विलक्षणा प्रातीतिकी सत्ता । यावत्स्वप्रतिभासं स्वसत्तायाः २शुक्त्यादिसाधारण्यादिति वाच्यम् । सत्यस्य सत्यमित्यादि-श्रुत्या सत्तायामपि ३तादात्म्यस्योक्तत्वेन तारत्वादिरूपाखण्डोपाधिसत्त्वेषूत्कर्षापकर्षस्यानुभव बलादेव स्वीकारात् । अत एव ४स्वाप्नशुक्तेस्तदारोपितरजतयोरुभयोः प्रातिभासिकत्वेऽपि तत्रारोपितरजतनिष्ठोक्तरूपसत्तायाः न्यूनत्वात् ‘अधिष्ठानविषमसत्ताकवस्त्ववभासो भ्रमः’ इति भाष्यकारीयतात्पर्यविषयीभूतभ्रमलक्षणस्य नाव्याप्तिरिति चेन्न । यद्रजतममनिषं सा शुक्तिकैवेत्युत्तरकालीनानुभवेन पूर्वज्ञाने महत्वादिविशिष्टशुक्तिविषयकत्वस्यैव विषयीकृत-त्वेनानुभवसिद्धेः । असत्त्वग्रहविरोधिग्रहविषयत्वस्यैव सति नानातादृशधर्मेषु कल्पने गौरवाद-प्रमाणिकत्वात् श्रुतेरर्थान्तरपरत्वात् सत्यतोत्कर्षपरत्वे श्रुतौ पञ्चमीप्रयोगापत्तेस्तस्याः प्रामाण्यायोगाच्च ।

अथापि स्यात् । ‘ज्ञानवैलक्षण्यात् प्रवृत्त्याद्यभ्युपगमेऽपि प्रातिभासिकरजतोत्पत्तिर्दुर्वारा । ज्ञानानां वैलक्षण्यं विषयवैलक्षण्यनिबन्धनमेव । न तु स्वतः कारणविशेषादितो वा । अन्यथाऽयं घट इत्यादिज्ञानानां कारणसामर्थ्यादिना घटाद्याकारतासम्भवेन घटपटादिज्ञानानां मिथो वैलक्षण्यसम्भवेन घटादीनां ज्ञानतादात्म्यापन्नतद्धर्मत्वप्राप्त्या साकारवादप्रसङ्गेन बहिर्विषय-विलोपापत्त्या बाह्या एव विजयारन् । अत एवोक्तं उदयनाचार्यैः

अर्थेनैव विशेषो हि निराकारतया धियाम् । इति ।

इत्थं च इदं रजतमिति भ्रमस्येदं च रजतं चेति समूहालम्बनतो वैलक्षण्यसिद्धये तद्विषयविलक्षणरजततादात्म्यापन्नशुक्तिरूप्यविशिष्टविषयकत्वमवर्जनीयमिति तन्निर्वाहाया-निर्वचनीयरजतोत्पत्तिरावश्यकी’ इति ।

मैवम् । उक्तनियमबलेनानिर्वचनीयरजतोत्पत्तेरसिद्धेः । यत उदयनाचार्याणामपि प्रमात्मकज्ञानानामेव वैलक्षण्यं विषयवैलक्षण्यनिबन्धनमभिमतम् । अन्यथा अन्यथाख्याते-स्तत्सम्मततया तत्र विशिष्टस्याप्रसिद्धतया भानायोगेनेदं रजतमिति धियः इदं च रजतं च तादात्म्यं चेति समूहालम्बनतो वैलक्षण्यानुपपत्तेः । रजतप्रकारतानिरूपितशुक्तिविषयतयैव तत्रेतरवैलक्षण्यनिर्वाहः ।

वस्तुतः प्रमाया अपि न सर्वत्र विषयवैलक्षण्येन वैलक्षण्यम् । रक्तदण्डवान् पुरुष इत्या-कारस्य रक्तदण्डत्वावच्छिन्नप्रतियोगिताकत्वविशिष्टसंयोगेन पुरुषांश एव दण्डविशेषणतापन्न-रक्तदण्डत्वादेरवगाहिनो रक्तदण्डत्वविशिष्टवैशिष्ट्यावगाहि१ज्ञानात् विशेष्ये विशेषक्षणं तत्र च विशेषणान्तरमिति रीत्या पुरुषे रक्तदण्डावगाही स्वावच्छिन्नप्रतियोगिकत्वविशिष्टसंयोगेन पुरुषे स्वातन्त्र्येण रक्तदण्डत्वं चावगाहमानश्च यः समूहालम्बनप्रत्ययः तस्य विषयतावैलक्षण्यं विना निर्वोढुमशक्यत्वात् । ज्ञानद्वयेऽपि पुरुषे दण्डस्य दण्डे च रक्तत्वदण्डत्वयोः पुरुषे च स्वा-वच्छिन्नप्रतियोगिकत्वविशिष्टसंयोगेन रक्तदण्डत्वस्य भानाविशेषात् । अतः प्रथमे रक्तदण्डत्व-वृत्तिपुरुषविशेष्यतानिरूपितप्रकारतादण्डविशेष्यतानिरूपितप्रकारतयोरवच्छेद्यावच्छेदकभावः । समूहालम्बने च न स इति विषयतावैलक्षण्यमेव तन्निर्वाहकम् । किञ्च विषययोः परस्परं भेदस्य ज्ञानभेदप्रयोजकत्वे घटपटाविति समूहालम्बनस्य भेदापत्तिः ।

ननु यदन्यार्थविषयकज्ञानं यत् तत् तद्विषयकज्ञानभिन्नमिति न व्याप्तिः । येनोक्तसमूहा-लम्बने व्यभिचारः स्यात् । किन्तु यज्ज्ञानं यज्ज्ञानाद्भिन्नं तत्तद्विषयभिन्नविषयकमित्येव । भेदोऽपि न वास्तवः । किन्तु तदपर्याप्तविषयतापर्याप्त्यधिकरणत्वरूपः । तेन ‘मेयत्ववान् वह्निः’ २‘अभिधेयत्ववांश्च वह्निः’ इति ज्ञानयोर्न व्यभिचारः । न च नैयायिकानां विशिष्टस्य विशेष्यविशेषणतत्सम्बन्धानतिरिक्तत्वात्प्रमेयत्वविशिष्टवह्न्यपर्याप्तत्वं नाभिधेयत्वविशिष्टवह्नि-विषयताया इति वाच्यम् । यतः प्रत्येकं विशेष्यताप्रकारतारूपविषयतानां तद्व्यक्तित्वेन प्रत्येकवृत्तितद्व्यक्तित्वावच्छिन्नपर्याप्तत्वेऽपि तज्ज्ञानीयविषयतात्वेन विशेष्यविशेषणसंसर्गादि-घटितविशिष्टपर्याप्ततया तादृशविशेष्यविशेषणसंसर्गादिसाधारणव्यासज्यवृत्तिधर्मस्य तत्पर्याप्त्यनु-योगितावच्छेदकत्वं स्वीक्रियते । यद्यपि विशिष्टद्वयविषयकसमूहालम्बनस्थले तज्ज्ञानविषयता-त्वं तादृशविषयताद्वयसाधारणमतो विषयतात्वं ज्ञानविषयतात्ववदतिप्रसक्ततया न पर्याप्त्य-वच्छेदकं तथापि तत्र मुख्यविशेष्यताद्वयनिरूपितविषयताद्वयस्य परस्परभिन्नत्वात्तत्त-द्विषयितानिरूपितविषयतात्वमेव पर्याप्तिप्रतियोगितावच्छेदकम् । १भ्रमविषयिताया अप्युक्त-पयोप्तिर्वर्तत एव । परन्तु २प्रमीयविषयितापर्याप्त्यनुयोगितावच्छेदको यो व्यासज्यवृत्तिधर्म-स्तदवच्छिन्ननिरूपकताकाधिकरणता देशकालयोः स्वीक्रियते । ‘पर्वते प्रमेयवह्निः’ ‘इदानीं प्रमेयवह्निः’ इति प्रत्ययात् । भ्रमविषयतापर्याप्त्यवच्छेदकतादृशधर्मावच्छिन्नाधिकरणता तु न कुत्रापि । ‘इदानीं काञ्चनमयवह्निः’ ‘पर्वते काञ्चनमयवह्निः इति प्रमाभावात् । इत्थं च यज्ज्ञानभिन्नज्ञानत्वं यत्र तत्र तज्ज्ञाननिष्ठयत्किञ्चिन्मुख्यविषयितानिरूपितविषयतात्वा-वच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकभिन्नस्वीयतादृशपर्याप्त्यनुयोगितावच्छेदककत्वमिति भ्रमप्रमासाधारण्येनायं नियमः । तेन यथाश्रुते प्रमेयवान् अभिधेयवानिति ज्ञानयोर्विषय-वैलक्षण्यस्योपपादयितुमशक्यत्वेऽपि उक्तनिष्कर्षे न दोषः । प्रमेयत्वप्रमेयतदाश्रयघटित-त्रित्वाभिधेयत्वघटितत्रित्वयोः तत्तत्पर्याप्त्यवच्छेदकयोर्भिन्नत्वात् । एवं रक्तदण्डवान् पुरुष इति विशिष्टवैशिष्ट्यज्ञानीयविषयतापर्याप्त्यवच्छेदकं रक्तदण्डत्वरक्तदण्डरक्तदण्डत्वावच्छिन्न-प्रतियोगिकसंयोगपुरुषवृत्तिरेको व्यासज्यवृत्तिधर्मः, समूहालम्बने च विशेष्ये विशेषणमिति या पुरुषविषयता तत्पर्याप्त्यवच्छेदकं रक्तत्वावच्छिन्नप्रतियोगितानिरूपकत्वाघटितसमुदायत्वं, परंपरासम्बन्धावच्छिन्नरक्तदण्डत्वप्रकारतानिरूपितपुरुषविषयतापर्याप्त्यवच्छेदकं तु तादृश-दण्डत्वसम्बन्धपुरुषघटितं दण्डाघटितमेव समुदायत्वमितिरीत्या त्रयाणां विलक्षणत्वान्न तत्राप्युक्तनियमस्य व्यभिचारः । उक्तनियमानुरोधेनैव नव्यैः प्राचीनोक्तमवच्छेदकताख्य-विषयतायाः विशिष्टवैशिष्ट्यबोधे स्वीकारेण तस्य विशेष्ये विशेषणमिति ज्ञानाद्वैलक्षण्य-मनादृत्य विशेषणतावच्छेदकस्य परम्परासम्बन्धभानादिना तद्वैलक्षण्यमुररीकृतम् । प्राचीनपक्षे ज्ञानद्वये भासमानविषयाणां न्यूनाधिकभावाभावेनोक्तपर्याप्त्यवच्छेदकवैलक्षण्यस्य वक्तुमशक्य-त्वात् । इत्थं च अन्यथाख्यात्यङ्गीकाराभावपक्षे भ्रमविषयरजतादिघटितसमुदायत्वरूप-पर्याप्त्यवच्छेदकमनिर्वचनीयोत्पत्तिं विना न निर्वहति । असति सङ्ख्यारूपसमुदायोत्पत्तेर-युक्तिरिति चेन्न ।

त्रैकालिकनिषेधप्रतियोगिनो विप्रतिषिद्धोत्पत्यङ्गीकारापेक्षयोत्पत्तिमनपेक्ष्यैव तत्र सङ्ख्यादि रूपसमुदायत्वस्य गुणादिसाधारण्यानुरोधेनापेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वस्य वा उक्तानुरोधेनैवान्यथाख्यातिपक्षस्यैव वाऽङ्गीकर्तुमुचितत्वेनानिर्वचनीयोत्पत्त्यसिद्धेः ।

वस्तुतस्तूक्तनियम एव न सङ्गच्छते । तादृशपर्याप्त्यवच्छेदकरूपस्यैव दुर्निरूपत्वात् । न विशेष्यविशेषणोभयसाधारणव्यासज्यवृत्तिधर्म एव स इत्युक्तमिति वाच्यम् । तथात्वे घटवद्भूतलमिति ज्ञानीयविषयतापर्याप्त्यवच्छेदकीभूतघटघटत्वसमवायसंयोगभूतलत्वभूतलवृत्ति-षट्कत्वस्य किञ्चिद्देशवृत्तितानवच्छेदकतया भ्रमविषयतापर्याप्त्यवच्छेदकरूपाविशेषेण भ्रम-विशिष्टाप्रसिद्धिवत् प्रमाविशिष्टस्याप्रसिद्ध्यापातात् । अन्यथा घटघटत्वसंयोगादिषट्क-वदिदमिति प्रत्ययापत्तेः । न च विशेष्यविशेषणभावापन्नपदार्थेषु पर्याप्तो विलक्षण एव व्यासज्यवृत्तिधर्मः । स चाधेयतानवच्छेदकोप्याधेयतापर्याप्त्यवच्छेदको भवतीति वाच्यम् । विशेषणतद्विशेषणादौ आधेयत्वाभावे तदतिप्रसक्तस्य व्यासज्यवृत्तिधर्मस्य तत्पर्याप्त्यवच्छेद-कत्वायोगात् । तत्पर्याप्तेरपि तदात्मकस्वरूपसम्बन्धरूपत्वात् । अन्यथा गगनघटोभयत्व-स्याप्याधेयतावच्छेदकत्वापत्तेः । कालिकेन वह्न्यभाववान्ह्रदो विशेषणतया वह्न्यभाववानिति ज्ञानाद्विशेषणतया वह्न्यभाववान्ह्रदः कालिकेन वह्न्यचाववानिति ज्ञानस्य वैलक्षण्यानु-पपत्तेश्च । उभयत्र विषयसाम्यात् ।

अथोक्तधर्मो न सङ्ख्यादिरूपः । किन्तु घटवद्भूतलमित्यादिज्ञानीयविषयता यादृशी तादृग्विषयतारूपा । न च समानविषयतायाः कथं स्वसमानविषयतान्तरपर्याप्त्यवच्छेदकत्व-मिति वाच्यम् । द्वित्वं प्रति द्वित्वान्तरस्येवावच्छेदकत्वोपपत्तेरिति चेन्न । ज्ञानभेदेन विषयताभेदे मानाभावेन समानाकारज्ञानीयविषयतैक्येन तस्यावच्छेद्यावच्छेदकभावायोगात् । ज्ञानभेदेन विषयताभेदेऽपि तादृशविषयतानां प्रत्येकव्यक्तौ वृत्तित्वेन तादृशविशेषणविशेष्य-निखिलसाधारणपर्याप्तिं प्रत्यवच्छेदकत्वायोगात् । न च १तादृशविषयिताया अप्येतादृशी पर्याप्तिर्वर्तते सैव तस्यावच्छेदिका तस्या अपि तत्पूर्वं विद्यमानाऽन्येति वाच्यम् । जन्यघटित-विशिष्टे प्रथमतः उत्पन्नज्ञानीयविषयतायाः पर्याप्तेर्वक्तुमशक्यत्वात् । न चैश्वरीयज्ञानविषयत्वं तत्राऽद्यक्षणे वर्तत इति वाच्यम् । तत्पर्याप्तेरेव वक्तुमशक्यत्वात् । न च तत्समानकाले योगिनामपि तज्ज्ञानसत्त्वात्तद्विषयत्वयोः परस्परावच्छेद्यत्वमिति वाच्यम् । तादृशावच्छेद्या-वच्छेदकभावे मानाभावात् । अन्यथा समानकालीनरूपरसयोरप्यवच्छेद्यावच्छेदकभावापत्तेः । अत एव साध्यसामानाधिकरण्यावच्छेदकरूपवत्त्वमिति लक्षणस्य स्वरूपसम्बन्धरूपा-वच्छेदकत्वघटनया परिष्कारखण्डनावसरे ‘समानकालीनयोः रूपरसयोर्नावच्छेद्यावच्छेदक-भावः’ इत्युक्तम् । विशेषनिरुक्तौ दीधितिकृता एतन्न्यायेनैव द्वित्वस्य द्वित्वान्तरावच्छेदकत्व मप्यपास्तम् । आद्यद्वित्वेऽगतेः । अस्तु वैतद्यथा तथा । उक्तविषयतारूपधर्मस्य विशेष्यविशेषणरूपाधेयानाधेयसाधारण्यात्कथं व्यासज्यवृत्तिधर्मोक्तपक्षदोषनिस्तारः । न च वह्निमत्पर्वतवानयं देश इति प्रमाबलादेव वह्निविशिष्टपर्वतरूपविशिष्टे आधेयतापर्याप्तेः सत्त्वात् उक्तविशिष्टवृत्तिधर्मस्याधेयतापर्याप्त्यवच्छेदकत्वम् । वह्निमद्ध्रदवानिति प्रमाभावात् भ्रमीय-विषयतारूपपर्याप्त्यवच्छेदकधर्मस्य नाधेयतापर्याप्त्यवच्छेदकत्वमिति वाच्यम् । वह्निमत्पर्वत-वानिति ज्ञानस्य पर्वतांश एवाधेयत्वाद्यवगाहित्वात् विशिष्टातिरिक्तत्वादिनैव सर्वोपपत्तौ उक्ताप्रामाणिककल्पनायोगाच्च । किं चोक्तरीत्या तत्समानाकारज्ञानान्तरविषयताया एतज्ज्ञानीयविषयतापर्याप्त्यवच्छेदकत्वे घटवद्भूतलमिति विशिष्टवैशिष्ट्यावगाह्येतज्ज्ञानीय-विषयतायाः पर्याप्तिं प्रति तत्समानाकारज्ञानान्तरविषयताया अवच्छेदकत्वम् । विशेष्ये विशेषणमिति रीत्या जायमानैतज्ज्ञानीयविषयतायाः पर्याप्तिं प्रति तु तत्समानाकार-ज्ञानान्तरविषयताया अवच्छेदकत्वमित्येतावन्मात्रेणोपपत्त्या उक्तनियमानुरोधेन नव्यानां विशिष्टवैशिष्ट्यबोधे अधिकावगाहित्वासिद्धेश्च । किञ्च घटवद्भूतलमिति समानविषयकज्ञानेषु घट इत्यादिसमानाकारज्ञानेषु च परमते च सोऽयं देवदत्त इत्यादिनानावाक्यजन्यबोधेषु एकस्वरूपमात्रावगाहिषु बोधेषु चिन्मात्ररूपाखण्डार्थविषयकेषु ‘सत्यं ज्ञानं’ ‘यथा महामत्स्यः’ ‘तत्त्वमसि’ इत्यादिपदार्थशोधकवाक्यमहावाक्यजन्यनानाबोधेषु विषयवैलक्षण्या-ज्ज्ञानवैलक्षण्यमिति यथाश्रुतनियमस्योक्तरीत्या नैयायिकमतानुसारेण कृतनिष्कर्षस्य च विशिष्टातिरिक्ततावाद्यद्वैतिरीत्या तज्ज्ञानविषयातिरिक्तविषयकत्वं विषयवैलक्षण्यमिति निर्ष्कर्षस्य च व्यभिचारापरिहारात् । विषयतायाः विषयतान्तरपर्याप्त्यवच्छेदकत्वपक्षस्योक्त-रीत्याऽसम्भवदुक्तिकतया तत्पक्षे नैयायिकनये व्यभिचारपरिहारस्यानादरणीयत्वात् ।

अथ वैलक्षण्यं प्रवृत्तिविशेषनिर्वाहकत्वसंशयविशेषनिवर्तकत्वानिवर्तकत्वादिरूपम् । तथा च यज्ज्ञानं यज्ज्ञानानिवर्त्यसंशयनिवर्तकत्ववत् यज्ज्ञानानिर्वाह्यप्रवृत्तिनिर्वाहकत्ववद्वा तत् तज्ज्ञानविषयविलक्षणविषयकमिति नियमपर्यवसानम् । नैयायिकमते तु साध्यार्थः पूर्ववदेव । औतसिद्धान्ते तूक्तनियमानुसारादेव विशिष्टाङ्गीकाराद्यथाश्रुत एव । तथा च पूर्वोक्त-समानाकारज्ञानेषु परस्परानिवर्त्यसंशयानिवर्तकत्वान्न व्यभिचारः । दण्डपुरुषसंयोग इति ज्ञाना निवर्त्यस्य पुरुषो दण्डी न वेति संशयस्य निवर्तके दण्डी पुरुष इति विशिष्टज्ञाने उक्तहेतु-सत्त्वात्समूहालम्बनविषयविलक्षणविशिष्टविषयकत्वरूपसाध्यस्यापि सत्त्वादन्यत्रापि एवमेव सत्त्वान्न कुत्रापि व्यभिचारः । एवं प्रवृत्तिजनकत्वस्य हेतुत्वे तज्जननशक्तिरूपस्वरूपयोग्यत्व-मेव विवक्षणीयम् । अनुपधायकसङ्ग्रहानुरोधात् । समानाकारकज्ञानद्वयमध्ये एकस्याप्रामाण्य-ज्ञानास्कन्दितत्वे तदनिवर्त्यसंशयनिवर्तके समानाकारज्ञानान्तरे व्यभिचारवारणाय अप्रामाण्यज्ञानानास्कन्दितत्वं यज्ज्ञाने निवेश्यम् । उक्तज्ञानस्य यज्ज्ञानपदेनोपादानाभावात् न व्यभिचारः । इत्थं चेदं च रजतं चेति समूहालम्बनानिवर्त्यसंशयनिवर्तके इदं रजतमिति भ्रमे तद्विषयविलक्षणरजतविशिष्टेदंपदार्थरूपविलक्षणविषयकत्वस्याऽवश्यकतया तन्निर्वाहाय रजतोत्पत्तिरावश्यकी इति चेन्न ।

एवमपि सत्यज्ञानादिवाक्यजन्याखण्हार्थबोधस्य ब्रह्मणि सत्यत्वादिसंशयनिवर्तकतया महावाक्यार्थबोधस्य तु जीवेशभेदसंशयादिनिवर्तकतयोक्तवैलक्षण्यशालिनोश्चिन्मात्रविषयकयोः विषयवैलक्षण्याभावात् व्यभिचारो दुर्वार एव ।

किञ्च इदं रजतमिति भ्रमे द्व्याकारत्वानुरोधेन ज्ञानवैलक्षण्यानुरोधेन विषयवैलक्षण्य-सिद्ध्या परस्पराध्यासस्त्वया समर्थितः । तत्रेदं रजतमिति भ्रमस्यैकत्वेनैकस्मिन्नेव ज्ञाने आकारद्वयाङ्गीकारात्तदाकारज्ञानानिवर्त्यसंशयनिवर्तकत्वतदनिर्वाह्यप्रवर्तकत्वाद्यभावेन हेत्वसिद्ध्या विषयवैलक्षण्यासिद्ध्या परस्पराध्यासासिद्ध्यापत्तेः ।

समानाकारज्ञानीयविषयतैक्यमभ्युपेत्य १तद्विषयतातिरिक्ता या विषयता तन्निरूपक-विशिष्टातिरिक्तविशिष्टनिरूपितेति विषयतामन्तर्भाव्यैव नियमपरिकल्पने ज्ञाने अर्थातिरिक्तेन विषयितारूपेण विशेषणेन विशिष्टत्वं तादृशविषयतानां चार्थसम्बन्धमनपेक्ष्यैव परस्पर-व्यावृत्तत्वग्रहस्तावदावश्यकः इत्यागतम् । अन्यथा विषयवैलक्षण्यसिद्धिं विना विषयितानां तदाश्रयज्ञानानां च परस्परवैलक्षण्यग्रहाभावापत्त्या परस्पराश्रयप्रसङ्गेन विषयवैलक्षण्यसिद्धि-रयुक्ता स्यात् । तथा च ‘अर्थेनैव विशेषः’ इत्ययुक्तमेव ।

ननु सन्त्येव ज्ञानेषु स्वतो विशेषाः । तेऽपि अर्थविशेषसम्बन्धनिबन्धना एव । न तु करणसामर्थ्यनिबन्धनाः । करणसामर्थ्यनिबन्धनत्वे ज्ञानेष्वेव स्वजनकसामर्थ्येन तत्ता-तात्म्यापन्नघटाद्याकारसम्भवेन बहिर्विषयविलोपापत्तिः । अतो भ्रमेऽनुभवसिद्धाऽकारपद-वाच्य१विषयतानिर्वाहाय तादृशविशिष्टद्वयस्यावश्यकतेति चेन्न । भ्रमस्थले अविद्याया एव ज्ञानार्थोभयरूपतया युगपत्परिणामाङ्गीकारेण ज्ञानस्याद्यक्षणे निर्विषयत्वायोगेन तत्र विषय-ताया अपि तेन सहोत्पन्नत्वेन समानकालिकत्वेन प्रयोज्यप्रयोजकभावस्य विनिगमकाभावेन वक्तुमशक्यत्वेन त्वन्मते तथा नियमस्य वक्तुमशक्यत्वात् । अनुमित्यादिज्ञाने विषयस्या कारणतया करणबलेनैव विलक्षणाकारतायाः आवश्यकत्वाच्च । नचैवं साकारवादनिरासानु-पपत्तिः । त्वदीयनियमस्य साकारवादित्वेनैव तेनानङ्गीकारेण त्वया तथा नियमाङ्गीकारेऽपि तन्निरासानुपपत्तितौल्यात् ।

तस्मात्तन्निरासः स्वव्याघातादिरूपप्रकारान्तरेण कर्तव्यः । तथा हि ‘घटादिज्ञानं साकारम् । न तु स्वभिन्नविषयकम्’ इत्यादिरूपं सहोपलम्भनियमादियुक्तिजज्ञानं स्वभिन्न-विषयकं उत न वा । आद्ये अनुमित्यात्मकस्य स्वस्यैव स्वभिन्नघटज्ञानादिविषयकत्वप्राप्त्या ‘ज्ञानसामान्यं साकारम्’ इत्यस्य व्याहतिः । स्वभिन्नज्ञानाद्यविषयकत्वे ज्ञानसामान्यं विषयाभिन्नमित्यादिशब्दाभिलाप्याकारस्यानुमित्यभिन्नत्वे घटज्ञानादौ स्वविषयाभेदासिद्ध्या पुनस्तादृशार्थस्य व्याहतिः । अतो ज्ञानभिन्नो विषयोऽङ्गीकर्तव्य इति ।

अत्रेदं रजतमिति भ्रमोत्तरं ‘इदं रजतं’ ‘रजतमिदं’ ‘इदं रजततादात्म्यवत्’ ‘रजतं चेदंतादात्म्यवत्’ इति नानाव्यवहारात्तदभिलापकारणीभूतनानाकारा अङ्गीकर्तव्या इति तदनुरोधात्तादात्म्यवत्तादात्म्यतत्तादात्म्यवत्तादात्म्यादेरप्यध्यासापत्तिरिति अनन्ततादात्म्यादे- रुत्पत्त्यापत्तिः । न चैतत्तवेष्टम् । तादात्म्यतादात्म्यादेस्त्वयाऽनङ्गीकृतत्वात् । न च तत्र तादात्म्यवत्तादात्म्यवदित्याकारता नास्त्येव । इदं रजतमित्याकारस्यैव तादृशसर्वव्यवहारहेतु-त्वोपपत्तेरिति वाच्यम् । तेनैवाकारेण रजतमिदमिति व्यवहारस्यापि सम्भवेन रजते इदंतादात्म्याध्यासस्याप्यसिद्धिः । न च विनिगमकाभावः । रजतस्य भ्रमात्पूर्वं असिद्धत्वेन तदध्यासे अधिष्ठानत्वायोगादज्ञानाद्यनवच्छेदकत्वाच्च । तथापि तत्कल्पने तन्निर्वाहक-कार्यकारणभावादिकल्पनागौरवस्यैव विनिगमकत्वादिति ज्ञेयम् ।

किञ्च ज्ञानवैलक्षण्ये विशिष्टविषयवैलक्षण्यमिति नियमाङ्गीकारे शशविषाणमस्ति नर-विषाणमस्तीति वाक्यद्वयजन्यबोधमादाय यथाश्रुते निष्कर्षे च सर्वत्र व्यभिचारः । तत्रान्यथाख्यातेरसत्ख्यातेर्वाऽभ्युपगतत्वेन विशिष्टविषयस्य तत्रोत्पत्त्यनङ्गीकारात् । तत्राप्य-निर्वचनीयोत्पत्तिरेव स्वीक्रियत इत्यस्यान्योन्याश्रयादिदुष्टत्वात् । न च तत्र विकल्पाख्य-वृत्तिरेव स्वीक्रियते । अतो न तज्ज्ञानम् । ज्ञानत्वनिवेशेनैवोक्तनियमस्वीकारान्न व्यभिचार इति वाच्यम् । विकल्पानामपि परस्परं प्रवृत्त्यादिकार्यवैलक्षण्यदर्शनेन विलक्षणत्वात्तस्य विषयवैलक्षण्यं विना विषयतावैलक्षण्येनैव निर्वाहवत् ज्ञानस्थलेऽपि तथैव निर्वाहसम्भवात् अत्र विषयवैलक्षण्यस्याप्रयोजकत्वेनासिद्धेः ।

किञ्च विकल्पे व्यभिचारदर्शनेन ज्ञानस्थल एवेतिवत् भ्रमे व्यभिजारदर्शनेनाबाधितज्ञाना-नामेवायं वियमः भ्रमे तु दोषबलादेव विलक्षणविषयतेत्यङ्गीक्रियताम् । किमनुभवविरुद्ध-रजतोत्पत्तिकल्पनया । तद्व्यक्तिभ्रमस्थले उक्तदोषो न विस्मर्तव्यः । न च भ्रमस्य विषयं विनैव विलक्षणविषयताशालित्वे प्रमायामपि तथाभावशङ्कयाऽर्थसिद्धिः कथं स्यादिति वाच्यम् । भ्रमविषयस्यार्थक्रियानर्हत्वे प्रमाविषयेऽपि तथाभावशङ्कया प्रवृत्त्युच्छेदस्तवापि कुतो न स्यात् । बाधाबाधाभ्यां व्यवस्थेति तु समानम् । १ज्ञानज्ञेययोस्तादात्म्यस्यैव विषयत्वा-द्रजतोत्पत्तिं विना विषयिविषयभावानुपपत्तिरिति तु निराकरिष्यते । तस्मात्केनापि प्रकारेणा-निर्वचनीयोत्पत्तेः साधयितुमशक्यत्वादनिर्वचनीयमप्रामाणिकमेवेति स्थितम् । अत्र यज्ज्ञाना-निर्वाह्यप्रवृत्त्यादिनिर्वाहकं यद्यथार्थज्ञानं तत्तद्विषयविलक्षणविषयकमिति नियमः । विषये वैलक्षण्यं च भेदविशेषोभयस्थलानुरोधेन तदनिष्पाद्यकार्यनिष्पादकत्वम् । तथा च दण्डपुरुष-संयोगा इति समूहालम्बनानिर्वाह्यविशिष्टविषयकप्रवृत्तिनिर्वाहके दण्डी पुरुष इति ज्ञाने तद्वैलक्षण्यसत्त्वात्तद्विषयविलक्षणदण्डिरूपविशिष्टविषयकत्वस्यावश्यकतया दण्डिरूपविशिष्टस्य सिद्धिः । दण्ड्यादीनां शुद्धानिर्वाह्यकार्यनिर्वाहकत्वं । शुद्धानिर्वाह्यकार्यकारित्वं च ‘दण्डी प्रेषानन्वाह’ ‘लोहितोष्णीषा ऋत्विजः सञ्चरन्ति’ इत्यादिश्रुतिभिर्विशिष्टस्य विनियोगात् शुद्धानिर्वाह्यापूर्वनिर्वाहकत्वादिना सिद्धम् । न च दण्डसंयोगादेः पुरुषनिष्ठजनकतायामवच्छेद-कत्वाङ्गीकारेणोपपत्तौ किं विशिष्टरूपेण तत्परिणामकल्पनयेति वाच्यम् । तथात्वे तन्तु-संयोगादिकस्यैव कारणतावच्छेदकत्वादिना तन्त्वनिर्वाह्यशीतनिवर्तनादिविलक्षणकार्यसम्भवे द्रव्योत्पत्तेरेवासिद्ध्या परमाणुपुञ्जवादापत्तेः । तस्मात्परस्परविलक्षणकार्यनिर्वाहकत्वविलक्षण-प्रतीतिभ्यां तदङ्गीकार इव विशिष्टदण्ड्याद्युत्पत्तिः सिद्धान्तेऽङ्गीकृता । अधिकमन्यतोऽव-गन्तव्यमित्यलम् ।