विमतो भिन्नो मुक्तत्वात्....
पूर्वोक्तानुमाने परमात्मनः पक्षत्वेऽनुपपत्तिनिरासः
विमतो भिन्नो मुक्तत्वात्..
श्रीमज्जयतीर्थटीका
ननु चात्र परमात्मा पक्षः सपक्षो विपक्षो वा । नाद्यः । परेण मुक्त-परमात्मभेदस्यानङ्गीकृतत्वेन द्वयोः पक्षीकरणासम्भवात् । अङ्गीकृतत्वे चानुमानवैयर्थ्यात् । न द्वितीयः । तत्र परस्य साध्यासम्मतेः । न तृतीयः । भेदाभावस्य वादिना क्वाप्यनभ्युपगतत्वात् । मैवम् । पक्षत्वेऽपि परमात्मनः मुक्तपरमात्मानौ भिन्नावित्य-पक्षीकरणात् । अत एव च विमतो भिन्न इति विमतिविषयो यावानिति सामान्येनोक्तम् ।
द्वैतद्युमणि:
तटस्थः शङ्कते ।। नान्विति ।। अत्र उक्तानुमाने । परमात्मा सत्यादि-पदतात्पर्यविषयीभूतः । स च परमेते शुद्धः । अस्मन्मते जगत्कर्तृत्त्वादिविशिष्टः । यद्वा जीवब्रह्मेश्वरभेदेन त्रिस्कन्धचैतन्याभ्युपगमपक्षादरेण जगत्कर्तृत्वादिविशिष्ट इत्यर्थः ।। द्वयोः पक्षीकरणासम्भवादिति ।। आवरणध्वंसरूपमुक्तत्वस्य तत्साधारण्याभावात्तस्य पक्षत्वे द्वित्वेनैव पक्षता वाच्येत्यभिमानः ।। साध्यासम्मतेरिति ।। भेदमात्रस्य साध्यतापक्षे यद्यपि सत्यादिपदतात्पर्यविषरीभूते शुद्धे भेदो वर्तते तथापि नासौ तत्समानसत्ताकः । आरोपित-वह्निमादाय हृदस्य सपक्षत्ववारणाय स्वसमानसत्ताकसाध्यवत्त्वप्रकारकनिश्चयविषयस्यैव सपक्षत्वेन तेनाङ्गीकृतत्वात् । द्वितीयकल्पे तस्य प्रागवस्थापि नास्तीति सुतरां सपक्षत्वानु-पपत्तिः । यद्युक्तरीत्या साध्यपरिष्कारस्तदा तत्र संसारसंसर्गाभावसत्त्वात् तमादाय साध्य-सम्भवेऽपि तस्य स्वसमानसत्ताकत्वाभावादेव सपक्षत्वानुपपत्तिरिति हृदयम् । ईश्वराङ्गीकार-पक्षेऽपि मुक्ते आवरणापगमेन भेदसामान्याभाववादिमते स्वतः आवरणशून्ये ईश्वरे भेदाभावः कैमुत्यसिद्ध इति उक्तकल्पपद्वयोक्तसाध्यमपि तस्यासम्मतमिति हृदयम् । यद्वोक्तकूटत्वा-वच्छिन्नाधिकरणतायामेकक्षणावच्छिन्नत्वस्य वक्ष्यमाणतया तस्येश्वरे वक्ष्यमाणरीत्या भास्कर-मायावादिनोर्न सम्मतत्वमिति भावः ।। भेदाभावस्येति ।। वादिनो मते तस्य केवलान्वयि-त्वादिति भावः । ननु द्वितीयस्य कथं केवलान्वयित्वं येन तदभावाप्रसिद्धिः स्यात् । घटादीनां प्रागवस्थायाः मोक्षस्य चाभावेन तत्रैव साध्याभावसम्मतेरिति चेन्न ।. स्ववृत्ति-संसारसंसर्गाभावेत्यादिरीत्या परिष्कृतत्वेन घटादावपि संसारसंसर्गाभावसत्त्वात्तमादाय साध्य-स्योपपादयितुं शक्यत्वेन घटादावपि साध्याक्षतेः । इदानीन्तनसंसारिष्वपि उत्तरत्र संसारा-भावस्याङ्गीकृतत्वेन तमादायैव तत्र साध्यसत्त्वेन केवलान्वयित्वाक्षतेः ।
यद्वा प्रागवस्थायामित्यनेन स्ववृत्तिभेदप्रतियोगिनो ये ये तत्तत्प्रतियोगिकभेदकूटत्वा-वच्छिन्ननिरूपितैकक्षणावच्छिन्नाधिकरणत्वं वा स्ववृत्तिभेदकूटत्वावच्छिन्नैकक्षणावच्छिन्नाधि-करणत्वं वा संसारसंसर्गाभावरूपेश्वरसाधारणपक्षतावच्छेदकविशिष्टे साध्यमित्यभिप्रेयते । तावतैव मुक्ते प्राग्दशापन्नवृत्तीनां सर्वेषां भेदानां मुक्तिदशायामपि सिद्धिः । न तु पूर्वरीत्या प्राग्दशाया अपि साध्यतावच्छेदककोटौ निवेशः । अत एवार्थतः सिध्यतीत्याशयेनायमर्थोत्र विवक्षित इत्युक्तम् । अत्र प्रतियोग्यालिङ्गितत्वेनापि भेदभानार्थं प्रथमसाध्यादरणम् । तस्या-नावश्यकत्वे द्वितीयम् । अत्रेश्वरेऽनादितः संसाराभावविशिष्टे एकैकमुक्त्या एकैकजीव-भेदापगमेऽपि तद्वृत्तिभेदानां सर्वेषां तत्रैव सत्त्वेन तत्कूटाधिकरणताया एकक्षणान-वच्छिन्नायास्तत्राबाधात्तत्र मुक्तभेदासिध्यापत्तिनिवारणायैकक्षणावच्छिन्नत्वनिवेशः । निवेशिते च तस्मिन् मुक्तेनेश्वरस्याभेदेनानादितः क्रमेण सर्वेषां मुच्यमानत्वादुक्तभेदकूटानां तस्मिन्नेकक्षणे मेलनायोगेन तादृशकूटत्वावच्छिन्नाधिकरणता एकक्षणावच्छिन्ना तत्र दुर्मिला भवतीति मुक्तेश्वरभेदसिद्धिः । पूर्वपरिष्कारेऽपि उक्तदोषपरिहारायैकक्षणावच्छिन्ना तादृश-कूटाधिकरणतैव निवेश्या ।
वस्तुतस्तु मुक्तिक्रमेणेश्वरे एकैकभेदापगमपक्षेऽपि न स्ववृत्तिभेदकूटत्वावच्छिन्नाधिकरणता कदाचिदपि तस्मिन् सम्भवति । ईश्वर इदानीं स्ववृत्तिभेदा यावन्तस्तावत्कूटवानिति कस्मिन्नपि क्षणे प्रत्ययाभावेन प्रत्युत नेदानीं तावत्कूटवानिति प्रत्ययसत्त्वेन च सर्वेषां क्षणानां कूटत्वावच्छिन्नाभावाधिकरणतायामेवावच्छेदकतया प्रतियोग्यधिकरणतावच्छेदकत्वस्य कस्मिंश्चिदपि काले अभावात् । तथा चैकक्षणावच्छिन्नत्वस्य साध्यशरीरे अनिवेशेऽपि नार्थान्तरतेति । न चेश्वरवृत्तिभेदकूटाधिकरणं ईश्वर इति सार्वजनीनप्रतीतेः का गतिरिति वाच्यम् । कूटत्वोपलक्षितभेदावगाहितया तत्प्रत्ययोपपत्तेः ।
अथ स्ववृत्तिसर्वधर्माधिकरणं स्वयमेव नान्य इत्याकारा प्रतीतिः सार्वजनीना नापलाप-मर्हति । तत्र च १सर्वत्वोपलक्षिताधिकरणताभावे सर्वेषां प्रत्यधिकरणं भिन्नत्वेऽपि अत्यन्ता-भावानां भेदाभावेन सर्वत्वोपलक्षिततादृशात्यन्ताभावानामन्यत्रापि सत्त्वेन नान्य इति निषेधानुपपत्त्या सर्वत्वावच्छिन्नाधिकरणत्वमेव तत्र भासत इत्युपेयम् । क्षणानां च प्राति-स्विकेन तत्तत्क्षणत्वादिना तदधिकरणतानवच्छेदकत्वेऽपि सर्वक्षणसाधारणान्यतमत्वादिना तदवच्छेदकत्वाङ्गीकारे बाधकाभावः । येन रूपेणाभावाधिकरणतावच्छेदकता तदन्यरूपेण प्रतियोग्यधिकरणतावच्छेदकत्वे विरोधाभावात् । तथा च प्रकृते ईश्वरवृत्तिभेदकूटाधिकरणता एकैकभेदापगमपक्षे सम्भवत्येवेत्यर्थान्तरताया दुर्वारत्वमेवेति चेन्न । यतः स्ववृत्तिसर्वधर्मवान् स्वयमेवेत्यस्य स्ववृत्तिधर्मत्वव्यापकस्वाधिकरणताकं स्वयमेवेत्यर्थः । अत एव नान्य इत्यापि सङ्गच्छते । एतदन्यस्मिन्नेतद्वृत्तितद्व्यक्तित्वादिविरहात् । तथा च स्ववृत्तियादृशधर्मसामान्यस्य मेलनं यदा तदैव तादृशकूटवत्त्वमिति नियमादीश्वरे एकैकभेदापगमपक्षे स्ववृत्तिभेदकूटवत्त्वं कदापि नाङ्गीकर्तुं शक्यमिति भेदानपगमसिद्ध्यैव साध्यपर्यवसानान्नार्थान्तरता । सर्वेषां क्षणानां क्षणत्वरूपव्याप्यधर्मपुरस्कारेणावच्छेदकत्वेऽन्यतमत्वकालत्वादिरूपव्यापकधर्मेणापि स्ववृत्तिभेदकूटाभावाधिकरणतायां अनवच्छेदकत्वे बाधकाभावेनान्यतमत्वेऽभावाधिकरणता-वच्छेदकत्वस्वाप्यसङ्गतत्वात् । अन्यथा ह्रदस्य ह्रदत्वेन वह्न्यभाववत्त्वं वह्निमत्साधारण-द्रव्यत्वेन वह्निमत्वमित्यपि स्यात् । द्रव्यं वह्निमदिति प्रत्ययाविशेषात् । न च द्रव्यं वह्न्यभाववदिति प्रत्ययाद्द्रव्यत्वे वह्न्यभावाधिकरणतायामपि अवच्छेदकतापत्त्या विरुद्धद्वयं कथं सिध्येत् । अतस्तत्रोभयावच्छेदकत्वमपि नास्तीति वाच्यम् । तर्ह्यन्यतमत्वकालत्वादि-धर्माणामप्येवमेवास्तु । ईश्वरे अन्यतमक्षणे तादृशकूटं नास्तीति प्रतीतेर्दुरपह्नवत्वात् । ईश्वरे अन्यतमक्षणे तादृशकूटमिति प्रत्ययस्य सविवादत्वात् एकशेषकरणस्याशक्यत्वात् । न चैवं स्ववृत्तिभेदकूटत्वावच्छिन्नाधिकरणत्वस्यैव साध्यत्वे प्रागवस्थायां येन भेदेनेति टीकोक्तिरयुक्ता स्यादिति वाच्यम् । स्ववृत्त्यावरणध्वंसतदत्यन्ताभावान्यतराधिकरणताधिकरणपूर्वक्षणवृत्तित्वस्य तदुक्तिलक्ष्यभेदकूटविशेषणस्यानुमित्युत्तरकालोद्देश्यस्य प्रतीत्यर्थत्वात् । तस्योद्देश्यता च संसारकाले यद्यद्भेदसत्त्वेन यद्यन्नियामकत्वं तद्भेदानपगमेऽपि नियम्यसत्त्वेऽपि च नियामकत्वाभावे मुक्तावङ्गीक्रियमाणे संसारेऽपि नियम्यनियामकभावोच्छेदप्रसङ्ग इत्यनु-कूलतर्केण नियामकत्वस्थापनार्थमिति । अतिविवादे तु तुष्यत्विति न्यायेन एकक्षणा-वच्छिन्नत्वं दत्तमित्यवसेयम् । एवं चोक्तसाध्यस्य वादिमते सर्वत्र सत्त्वात् विपक्षा-प्रसिद्धिरित्यर्थः ।। पक्षत्वेऽपीति ।। मुक्तत्वं नावरणध्वंसः । किंतु तत्संसर्गाभावः । स चेश्वरसाधारण एव । अवच्छेदकावच्छेदेन तु साध्यसिद्धिरुद्देश्येति भावः ।