एकजीववादपक्षे..
एकजीववादे मोक्षश्रुतीनामप्यर्थवादत्वसम्भवसमर्थनम्
एकजीववादपक्षे
द्वैतद्युमणि:
ननु चार्थवादस्य विध्यर्थप्राशस्त्यबोधकतया पुरुषार्थोपयोगिपुरुषप्रवृत्त्यङ्गत्वम् । पुरुषार्थस्यैवाभावेऽर्थवादानां वैयर्थ्यापत्तेः कथं मोक्षश्रुतीनामप्यर्थवादतोपपद्यत इत्यत उक्तं शुकवामदेवादीति ।। अयं भावः ।।
‘बहवो ज्ञानतपसा पूता मद्भावमागताः’ ।
‘मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव’ ।।
‘योऽस्माकमविद्यायाः परं पारं तारयति’ इत्यादिषु पुराणेतिहासश्रुत्यादिषु शुकादीनां मुक्तिर्ब्रह्मज्ञानेन जातेति श्रूयते । तानि वाक्यान्येकजीवप्रतिपादकवाक्याभासान्यथानुपपत्त्या बाधितप्रतीयमानार्थकानि ‘सम्प्रति कथं ब्रह्मज्ञानस्य मोक्षरूपफलं शुकादीनां जातमत-स्तदुत्कृष्टम्’ इति ज्ञानं जनयेयुः । प्रत्युत साङ्गश्रवणाद्यधीनब्रह्मज्ञानवतां मोक्षस्याजन-नान्मोक्षब्रह्मज्ञानयोः कार्यकारणभाव एव नास्ति । अन्वयव्यभिचारात् । अन्यथा घटज्ञानस्यापि कारणतापत्तेः । अविशेषात् । यदि च साङ्गश्रवणादिभिस्तेषां ब्रह्मज्ञानमेव नोत्पन्नं तदा श्रवणादिनां ब्रह्मज्ञानकारणतायामेव व्यभिचारप्रसङ्गेन तत्कारणत्वमेवानुप-पन्नमित्यकारणत्वनिश्चायकत्वस्यैव प्राप्त्या मोक्षार्थिनो ब्रह्मज्ञानार्थं श्रवणादौ प्रवृत्ति-विघातकवाक्यानामसम्भबदुक्तिकार्थबादत्वकानामर्थवादत्वोक्तिवत् ‘मोक्षरूपफलपरत्वाभावे कुत्रार्थवादत्वम्’ इत्युक्तबाधकमनादृत्य मोक्षश्रुतीनां मोक्षरूपफलजनकत्वतात्पर्याभावेऽपि ब्रह्मज्ञानस्तावकत्वरूपार्थवादत्वं सम्भवतीति ।
ननु बाधितार्थकानां प्रजापतिवपोत्खननादिवाक्यानां वेदे, लोके चायं महानित्यादि-मिथ्यावाक्यानां स्तावकत्वदर्शनात् इदमसङ्गतमिति चेन्न । यत्रापाततः प्रतीयमानार्थस्य बाधितत्वज्ञानं मुख्यतः प्रतिपाद्यप्रमेयविरोधिज्ञानं नोत्थापयति तत्र प्रधानावाक्यस्य स्वार्थप्रच्युतिबीजाभावात् स्वार्थपरत्वे स्थिते आपाततो बाधितार्थंकानां सर्वथा प्रमाण-त्वायोगादापातार्थानुसारेण प्राशस्त्यं निन्दितत्वं वा यथासम्भवं तादृशार्थवादवाक्यार्थे भवति । यस्य बाधितार्थत्वप्रमा प्रधानवाक्यार्थविरोधिनी भवति तत्र प्रधानवाक्यस्यैव स्वार्थे परिनिष्ठि-तत्वाभावात् कथं तत्स्तुतेरवकाशः? प्रकृते च विरोधित्वस्यैवोपपादितत्वेन तद्वैयर्थ्यं स्यात् ।
ननु श्रुतेः एकजीवनिश्चयानन्तरं शुकादिषु ब्रह्मज्ञाने जातेऽपि तेषां मोक्षो न जात इत्यन्वयव्यभिचारोत्थापकबाधधीर्न जायते । किन्तु एतावत्कालपर्यन्तं कस्यापि बह्मज्ञानं न जातम् ।कस्यापि मुक्तिः साङ्गश्रवणादिकं च न जातम् । तथात्वे इदानीं जगदप्रतीति-प्रसङ्गात् । शुकादयस्तु न सन्त्येव । श्रुत्या कल्पनयैवापाततो निरूपिताः । अतस्तद्वाक्यानां ब्रह्मज्ञानस्तावकत्वमेवेत्यर्थवादत्वबुद्धिरुत्पद्यते । नैवं मोक्षवाक्यस्य वक्तुं शक्यते पूर्वोक्तबाध-कादित्यत्रापीदमेवोत्तरं शुकवामदेवादीति ।
अयमाशयः । शुकवामदेवप्रभृतीनां मुक्तेर्विस्तरेण प्रतिपादकानामतिबहुतरश्रुति-पुराणादिवाक्यानामिव इदानीं सम्भवदुक्तिकतया ‘प्रपञ्चोच्छेदो मोक्षः’ इति मोक्षस्वरूप-प्रतिपादकश्रुतिसत्वेऽपि सा मुख्यार्थत्यागेनेतरयागादिसाध्यफलापेक्षया ब्रह्मज्ञानसाध्य-मोक्षाख्यफले किञ्चिदतिशयरूपप्राशस्त्यबोधकतया श्रवणादिप्रवृत्त्युपयोगिन्येव स्यात् । न तु सर्वदृश्योच्छेदरूपमोक्षसद्भावपरा । तथा च न भेदप्रत्ययादिनिवृत्तौ मोक्षश्रुतिः प्रमाणमिति ।
किञ्च पूर्वैरनुष्ठितानां श्रोतव्य इत्यादिना विधीयमानश्रवणादिरूपत्वं वर्तते न वा ? आद्ये तदनुष्ठानवतां मोक्षकारणीभूतब्रह्मज्ञानानुदयाद्व्यभिचार एवेति तद्विधेरप्रामाण्यापातः । अङ्गवैकल्यकल्पनान्न व्यभिचार इति चेन्न । पुराणादौ जनकादीनां सर्वाङ्गसाकल्यस्यापि श्रूयमाणत्वात् । तस्य बाधितार्थकत्वे पुराणादौ वेदादौ श्वेतकेतूद्दालकभृगुवरुणादि-पुरुषाणामाख्यायिकयैव सर्वस्योपदेशात् बाधितार्थाख्यायिकान्तर्गतश्रवणविध्यादिवाक्यानां ब्रह्मोपदेशादीनां चाप्रामाण्यस्यावर्जनीयतया न कस्यापि सिद्धिः । न हि तद्धटकानां भवदभिमतवाक्यानामेव प्रामाण्यं नेतरेषामित्यत्र हेतुरस्ति । अपौरुषेयत्वतदाश्रयवाक्यानु-सारित्वादेरुभयत्रापि तुल्यत्वात् । बाधितार्थमध्यपतितानामपि विधिवाक्यत्वादेव प्रामाण्ये बौद्वागमान्तर्गतचैत्यवन्दनादिविध्यादीनामपि प्रामण्यापत्तिः । एतेन शुकादयः परिकल्प्योक्ता इति निरस्तम् । ब्रह्मपराणां तदाख्यायिकान्तर्गतानां स्वार्थपरत्वनिश्चयायोगादेरपरिहारात् ।
न च शुकादीनां श्रवणादिना ब्रह्मज्ञानमुत्पन्नमेव तत्तु प्रारब्धकर्मप्रतिबद्धं नाज्ञाननिवृत्ति-क्षममिति संसारोपलम्भसम्भव इति वाच्यम् । तेषां प्रारब्धकर्मसमाप्तिपूर्वकमुक्तेरेव स्फुटप्रतिपादनेन तथा कल्पनायोगात् । पूर्वतनानामनन्तानामुत्पन्नेषु ब्रह्मज्ञानेषु मध्ये कस्याप्यज्ञानानिवर्तकत्वे ब्रह्मज्ञानस्याज्ञाननिवर्तकत्वस्यैवासिद्ध्या तत्कार्यप्रतिबन्धकत्वस्य प्रारब्धकर्मण्यङ्गीकारे बीजभावाच्च । न च श्रुतिसिद्धत्वात्कारणत्वमभ्युपेयत इति वाच्यम् । उक्तदृढतरव्यभिचारशालिनि श्रुतेः कारणत्वतात्पर्यस्यैवायोगेनाभ्युदयादिफलार्थं कथञ्चिद्ब्रह्म-ज्ञानस्तुतिपरत्वस्यैव बलादापत्तेः । बाधकपरिगणने शुकादिमुक्तिवाक्यानामपि प्रतीयमानार्थ-परित्यागेनार्थवादत्वासिद्धिप्रसङ्गात् ।
किञ्च शुकादीनां मोक्षकारणीभृतज्ञानसत्वेऽपि प्रारब्धप्रतिबन्धकमोत्रेणाविद्यानिवृत्ति-रूपमोक्षविलम्बसत्वे इदानीमन्येषां श्रवणादिना कृत्याभावात्तदीयप्रारब्धकर्मनिवृत्तौ सर्वेषां मोक्षस्य स्वतः सिद्धत्वात्प्रतिकल्पं वेदार्थविचाराय वेदोद्वरणतदर्थनिर्णायकसूत्रप्रणयनादिनां वैयर्थ्यप्रसङ्गः । न हि ते समस्तपुराणनिवहस्य ज्ञानिनः शुकादीनामुत्पन्नमप्यपरोक्षज्ञानं न जानन्तीति युज्यते । येन तदज्ञानेन शास्त्रप्रणयनमित्येतत्सम्भाव्येतापि । न च जीवैक्या-दन्यदीयकर्मापि प्रतिबन्धकमिति वाच्यम् । किं तावता । तस्य भोगमात्रनाश्यत्वेन श्रवणादि-जन्यज्ञानानिवर्त्यत्वेनेतरेषां श्रवणादिवैयर्थ्यापरिहारात् । मनोऽन्तरावच्छेदेन जातब्रह्म-ज्ञानकार्यमोक्षं प्रति मनोऽन्तरावच्छिन्नकर्मणां जीवैक्यमात्रेण प्रतिबन्धकत्वे स्वयं विरक्त्यादि-भिर्नानाव्यथाऽनुभवपूर्वकं श्रवणादिभिर्ब्रह्मज्ञाने सम्पादितेऽप्यन्येषां सूर्खानां जगत्यपरिमितानां सत्वेन तत्कर्मप्रतिबन्धेन स्वस्य मोक्षाभावस्यैव श्रुतशास्त्रेण निश्चितत्वाद्गुरुमुखादुक्त-प्रमेयश्रवणानन्तरं मोक्षानुकूलप्रवृत्तेरेवोच्छेदप्रसङ्गः ।
एतेन शुकादीनां तत्त्वज्ञानादज्ञाननाशेऽपि तदुपादानकजगन्नाशेऽपि तत्संस्कारोपादानकं जगदेव प्रतीयत इति कल्पनाऽप्यपास्ता । संस्कारोपादानकजगन्नाशे श्रवणादेरकिञ्चित्करतया तदर्थं शास्त्रप्रणयनादिवैयर्थ्यापत्तेर्दुर्वारत्वात् । अज्ञानस्यैकस्य नष्टत्वेनेदानीमस्मदादीनां ‘अहमज्ञो बह्मस्वरूपं न जानामि’ इत्यनुभवानुपपत्तेश्च ।
न द्वितीयः । तदनुष्ठितानां श्रवणादिरूपत्वाभावे तेषां तत्र मोक्षार्थं प्रवृत्त्यभावप्रसङ्गः । न हि तादृशानां सकलवेदार्थविचारशीलानामश्रवणादौ श्रवणत्वभ्रमेण प्रवृत्तिरिति पामरेणापि वक्तुं शक्यते । तादृशानां श्रवणादिपदार्थज्ञाने तदुक्तक्रमेणैव जानतामिदानीं श्रवणादिपदार्थ-ज्ञानाभावापत्त्या भवदाचार्यानीनां शास्त्रविचारादौ प्रवृत्तेरेव साहसिकत्वप्रसङ्गः । तस्य भ्रान्तिभूलकत्वाङ्गीकारे फलितमस्मन्मनोरथद्रुममेव । उत्तरत्राप्येवमेव कस्यापि श्रवणादि-पदार्थज्ञानाभावाछ्रवणाद्यसिद्ध्या मोक्षसिध्द्युपायाभावेन मोक्षस्वरूपस्यैव भवदभिमतस्या-भावापातेन मोक्षश्रुतेः सगुणब्रह्मोपासनादिविधिफलस्तावकत्वादिना तदेकवाक्यतासम्भव एव । कथं भवदभिमतमुक्तौ प्रामाण्यम् ? ।
न च त्वन्मते जीवनिष्ठानादिस्वातन्त्र्याभिमानस्यैतावत्कालमनिवृत्तस्या- प्याराधित-भगवत्प्रसादेन निवृत्तिपूर्वकं तत्त्वज्ञानोदयेन मोक्षोदयवन्मन्मतेऽप्येतावत्कालमजातमपि श्रवणादिपदार्थज्ञानं तदधीनमद्वैतज्ञानं च जायत इत्यङ्गीकार किं बाधकमिति वाच्यम् । मन्मते ईश्वरस्य सर्वनियामकस्य सत्वेन तदनुग्रहेण कालान्तरे ज्ञानं सम्भवति । तस्यैवावता-णग्रहरपूर्वंकं ज्ञानोपदेशकत्वाच्छिष्यशास्त्रादिद्वारा सम्पद्रायप्रर्वतकत्वाच्च । तव मते पुनरीश्वरस्य स्वकल्पितराजादिवत्स्वरूपत एव कल्पितत्वेन जडस्य ज्ञानाप्रसक्तेः । स्वस्य चानादिमायया दृढतरभेदवासनावशात्संसारानुभवितुः तदुन्मूलनक्षमश्रवणादिपदार्थज्ञानोत्पत्तेस्तदनुष्ठानाधीन-ब्रह्मज्ञानोत्पत्तेश्च निर्हेतुकत्वापरिहारात् । एतेन स्वकल्पितेश्वरभेदोपासनया हिरण्यगर्भ-रूपसमष्टिजीवस्य सर्वज्ञत्वादिकमित्यपास्तम् । अविद्यमानोपासनाया अनर्थहेतुत्वस्य पूर्वमुपपादितत्वात् । अविद्यमानवस्तुकल्पनापूर्वकोपासनामात्रेण सर्वेषां सर्वफलप्राप्त्यापत्तेश्च । न हि हिरण्यगर्भेणैतादृशाविद्यमानोपासना कर्तव्येति विधायकवाक्यमस्ति । येन विधिबलादेव तदुपासना फलप्रदेति वक्तुं शक्येत । किञ्चेश्वर एव स्वरूपतो यदि कल्पितः, तर्हि-
‘अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ’ ।
‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ ।
इत्यादीनां नित्यत्वसर्वैश्वर्यसार्वज्ञ्यादिप्रतिपादकानेकेतिहासपुराणानाम्
‘यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः’ ।
इत्यादीनां सगुणप्रतिपादकवेदविद्यानां च निर्विषयत्वापत्तिः । न च तद्वाक्यविषयः सर्वजीवसमष्टिहिरण्यगर्भ एवेति वाच्यम् । तस्य सर्वशरीराभिमानिनः ससर्वशरीराद्य-वच्छिन्नदुःखाज्ञानाद्यनुभवस्यावश्यकतयाऽत्यन्तदुःखाज्ञानशालिनःसर्वज्ञत्वनिर्दुःखत्वा- द्यङ्गीकारस्यात्यन्तमसङ्गतत्वात् । न च तत्तद्देहगतसुखाद्यनुभवातिरिक्तः तदभिमानो नामास्ति । सुखाद्यनुभवातिरिक्तस्वकीयत्वस्यापि भार्यापुत्रबन्ध्वादिदेहव्यावृत्तस्य निर्वक्तु-मशक्यतया स्वकीयत्वेन तद्ग्रह एव तदभिमान इत्यस्य वक्तुमशक्यत्वात् । तत्तन्मनोऽवच्छिन्नानामविद्योपहितपरिणामरूपत्वेन स्वरूपत एव कल्पितानां जडत्वेन दुःखाद्यनुभवाभावेनाविद्योपहितस्यैव सुखदुःखाद्यनुभवस्यावश्यकत्वात् । हिरण्यगर्भस्यापि मनोऽवच्छिन्नत्वेऽस्मदादितुल्यतया समष्टित्वायोगः ।
किञ्च सर्वजीवानामेकत्वे परस्परसुखदुःखाद्यनुसन्दानप्रसङ्गः । जीवैक्येऽपि मनोरूपो-पाधिकृतभेदसत्वान्न सुखाद्यनुसन्धानापत्तिरिति चेत् मनसो जीवानुपाधित्वेन तत्कृतभेदस्या-प्रयोजकत्वात् । अन्यथा हस्तपादाद्युपाधिकृतभेदस्यापि सत्वेन तदवच्छिन्नांशानामपि परस्परानुसन्धानाभावापत्तेः । किञ्च मनःकृतभेदस्यानुसन्धानाविघातकत्वमुपपादितमधस्तात् । किञ्च जीवैक्ये परस्परभेदानुभवमूलकस्याहं त्वमित्यादिप्रत्यक्त्वपराक्त्वानुभवस्यानुपपत्तिः । मनसः शरीरस्यापि जीवानुपाधित्वेन तत्कृतभेदस्याप्रयोजकत्वात् । शरीरभेदस्य प्रयोजकत्वे कायव्यूहवतो योगिनोऽपि तत्प्रसङ्गात् । लोकविडम्बनार्थं तथा व्यवहारेऽपि परस्परभेदानु-भवमूलकविजातीयव्यवहाराभावात् । तस्य परस्परसुखदुःखाद्यनुसन्धानादिसिद्धत्वात् । अन्यथा स्वमपि कदाचित्परोक्षतया त्वमिति निर्देशेन स्वस्यापि स्वं प्रति पराक्त्वापत्तिः ।
किञ्च नित्यमुक्तत्वप्रतिपादकश्रुतिविरोधोऽप्येतन्मते दुर्वारः । स्वरूपविवक्षया तद्गति-रप्ययुक्ता ।
‘भिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णः ।
यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेत्’ ।।
‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ ।।
‘अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः’ ।
इत्यादिश्रुतिस्मृतिषु स्वरूपविवक्षां विनैव चेतनद्वयस्यैव पृथगभिधानात् । किञ्च हिरण्यर्गभस्यैव समष्टिचेतनत्वे तस्य कल्पान्ते मुक्त्या सर्वमुक्तेर्जातत्वादिदानीं जगदभाव-प्रसङ्गः । न च तत्र मानाभावः ।
‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रपिशन्ति परं पदम्’ ।।
इति प्रतिकल्पे हिरण्यगर्भेण सह केषाञ्चिज्ज्ञानिनां मुक्तिश्रवणात् । न च नैतद्वाक्यं हिरव्यगर्भमुक्तिपरम् । किन्तु सगुणब्रह्माहमित्युपासकानामपुनरावृत्त्या ब्रह्मलोकस्थितानामेव कैवल्यप्राप्तिर्बोध्यते । यदा तु कुत्रचिन्मनसि तत्त्वदर्शनं तदा तेषामपि कल्पान्ते प्रारब्धभोगसमाप्त्या कैवल्यप्राप्तिरित्येतत्परमिति वाच्यम् । प्रतिकल्पान्तं मुक्तिपरत्वाभावे ‘परस्यान्ते, प्रतिसञ्चरे’ इति सामान्यतः कल्पान्तनिर्देशानुपपत्तेः । प्रतिकल्पमनुवृत्तितात्पर्येण प्रविशन्तीति लटः प्रयोगानुपपत्तेः । सर्वज्ञकल्पानां स्मृतिपुराणकर्तॄणां तद्विशेषाज्ञानस्य वक्तुमाक्यत्वात् । ज्ञान्यज्ञानिसाधारण्येन सर्वेषां युगपन्मुक्त्यविशेषात्त्वदभिलषितपाठे कृतात्मान इति विश्ष्यि निर्देशायोगाच्च । यथाश्रुतार्थे बाधकाभावात् पुराणादौ पूर्वब्रह्मलयेन मुक्त्या ब्रह्मान्तरस्य पदप्राप्त्यादेः स्फुटमभिधानात्पूर्वकालेऽपि मुक्तसद्भावबोधकोदाहृतश्रुति-स्मृतिसंवादाच्चोक्तकुचोद्यस्यासङ्गतत्वात् । ‘श्रुतेरेकजीवतात्पर्यानुपपत्त्या इत्थमाश्रियते’ इति न सत् । उक्तानेकश्रुत्यप्रामाण्यरूपबाधकेन तस्या अतत्परत्वस्यैव सिद्धेः ।
सगुणब्रह्मणः स्वरूपत एव कल्पितस्य जडत्वेन हिरण्यगर्भस्यानन्तदोषानुषङ्गस्योपपादि-तत्वेन उपासकानां फलदातुरेवाभावापातः । तदुपासनया हिरण्यगर्भलोकप्राप्त्या हिरण्यगर्भस्यैवाविद्योपहितस्य सर्वज्ञत्वादिगुणशालित्वेन सगुणब्रह्मत्वं मनोऽवच्छिन्नानामेव दुःखित्वमित्यङ्गीकारे स्वाबद्धवस्त्वाश्रितत्वादीश्वराश्रितैवाविद्या न त्वेकजीवाश्रिता दुःखि-नामेव जीवत्वात् । दुःखिनां मनोऽवच्छिन्नानां स्वरूपत एव कल्पितत्वेन जडेष्वेव दुःखं सर्वाणि शरीराणि निश्चेतनानीत्यागतम् । तेऽपि चेतना एवेत्याग्रहे । नानाशरीराभिमानवतः एकस्य दुःखिचेतनस्याभावान्नानाशरीरैकजीववादस्य वाङ्मात्रत्वापातात् । तत्त्वज्ञान उत्पन्ने सर्वमोक्षाङ्गीकारे, केनचिदात्मज्ञानेऽनुष्ठिते स्वमोक्षस्य गुरुवाक्यादितो निश्चये सति श्रमसाध्यश्रवणाद्यावृतौ शिष्याद्युपदेशे च प्रवृत्त्याद्यभावापातात् । अन्यप्रवृत्तावनाश्वा-सान्मोक्षेच्छूनां विवेकिनां तत्प्रवृत्तिः सम्भवतीति चेन्न । यथाकथञ्चिद्गुरुवाक्यादित एकजीवमतश्रवणानन्तरं स्वस्य चिदाभासत्वेन स्वरूपतो निवर्तमानस्य पुरुषार्थभागित्व-भावस्यैव निश्चयेन श्रवणादितो निवृत्तेरेव प्रसक्त्या तदावृत्तिवार्ताया अप्ययोगात् ।
अविद्योपहितस्यैव मनोऽवच्छिन्नत्वेन तस्यैव स्वमोक्षार्थं प्रवृत्तिर्युक्तेति न च वाच्यम् । तथात्वे हिरण्यगर्भस्य स्वसमष्टेस्तदर्थं प्रवृत्तिर्वर्तत इति ज्ञाने, सर्वकर्तरि विवेकिनि तादृशाना-श्वासशङ्कायाः पामरणामप्ययोगेन विदुषामतिश्रमसाध्यश्रवणाद्यभवस्य बलादापातात् । तस्य ब्रह्मज्ञानाय प्रवृत्त्यभवो वर्तत इति ज्ञाने, एतावत्यनादिकाले सर्वज्ञस्यास्मदादिसमष्टित्वेन संसारपतितस्यास्मदादिनिखिलनिर्माणशक्तिमतः स्वमोक्षार्थं प्रवृत्त्यभावः मोक्षाश्रुतीनामुक्त-क्रमोणार्थवादतया मोक्षाख्यफलस्यैवाभावाद्वा ब्रह्मज्ञानहेतुश्रवणादिविशेषस्य सर्वथा कृतिसाध्यत्वाभवाद्वा इदनीं कृतिसाध्यत्वाभावाद्वा स्यात् । अपि च ‘सर्वज्ञस्य ब्रह्मज्ञानसत्वेऽपि मोक्षो न जात इति तस्य न मोक्षहेतुत्वं’ इत्यादि शङ्कासामग्य्रा आवश्यकत्वेन शङ्काया आवश्यकत्वात् । तदुच्छेदोपायाभावेन श्रवणादौ कृतिसाध्यत्वेष्ट-साधनत्वबुद्ध्योः पूर्वं कथञ्चिदुत्पन्नयोरपि एकजीवमतश्रवणवेलायामेवाप्रामाण्यनिश्चयास्कन्दि- तत्वप्राप्त्या श्रवणमननाद्यभावस्यैव प्राप्तेः । न चेष्टापत्तिः । भृगुश्वेतकेत्वादीनां पुनरावृत्त्याद्यभावापातात् ।
किञ्च सर्वेषां भेदज्ञानित्वेनाभेदज्ञानिगुरोरभावात्कथं ब्रह्मज्ञानम् ? आचार्यवान् पुरुषो वेदेति श्रुतेराचार्योपदेशेनैव ब्रह्मज्ञाननिष्पत्तेः । ननु तत्त्ववित्त्वेन स्वकल्पितगुरोः सकाशादेव तत्त्वज्ञानोत्पत्तिः सम्भवति । न च काल्पनिकस्य वक्तृत्वानुपपत्तिः । स्वाप्नवदुपपत्तेः । न च स्वप्ने वक्तृत्वेनैव तत्कल्पना । न चेह तथा सम्भवति । ‘यदेव भगवान् वेद तन्मे ब्रवीतु’ इति श्रुत्या ज्ञानवत एव गुरुत्वोक्तेः । न हि तत्त्ववित्त्वेनैव गुरुकल्पनेति युक्तम् । तत्त्वविषयकत्वविशिष्टज्ञानारोपार्थं स्वस्य तत्त्वनिश्चयावश्यकत्वापातेनान्योन्याश्रयापत्तेरुपदेश वैयर्थ्यापत्तेश्चेति वाच्यम् । सामान्यतस्तत्त्ववित्त्वेन कल्पितत्वात्तदानीं सामान्यतस्तत्त्वज्ञानस्य कल्पके सत्वेऽपि विशेषज्ञानार्थमुपदेशापेक्षणात् । अन्यथा तवपि मते गुरूपदेशानर्थक्यापत्तेः । अयं भेदादितत्त्ववेत्तेति ज्ञानं विना गुरूपसत्त्यनुपपत्तेः। तज्ज्ञानसत्वे च ज्ञानांशे विशेषणतया तत्त्वस्य ज्ञातत्वात् । इति चेत् ।
मैवम् । मन्मत इव निर्विशेषवादिनस्तव तत्त्वे सामान्यविशेषभावाभावात् । किञ्च तत्त्ववित्त्वेन गुरुरचेतन एव कल्प्यते किं वा स्वान्यस्मिन्मनोऽवच्छिन्ने तत्ववित्त्वमात्रं कल्प्यते ? नाद्यः । अचेतनस्य स्वरूपतः कल्पितस्य ज्ञानाश्रयत्वायोगेनोपदेष्टृत्वायोगात् । अन्यथा चोरत्वेन कल्पितस्थाणोर्वक्तृत्वापत्तेः । अचेतनस्य ज्ञानवत्वरूपचेतनत्वस्य व्याहतत्वात् । न च स्वप्नस्थगुरोरपि वक्तृत्वानुपपत्तिः । तत्र गुरोर्न वक्तृत्वं तत्र वक्तृत्वमेव कल्पितं चेदिहापि तथाऽस्त्विति वाच्यम् । अत्र गुरोस्तत्तद्धिशेषज्ञानस्य तन्मूलकवक्तृत्वस्य चारोपार्थं तत्तद्विशेषस्वरूपज्ञानस्य स्वस्मिन्नपेक्षितत्वेन पूर्वमेव प्राप्तत्वेनोपदेशानर्थक्यम् । त्वद्भाष्यकारादीनां पूर्वेषां ज्ञानिनां त्वत्कल्पितजडरूपत्वापत्तिश्च । न द्वितीयः । जीवान्तरेऽपि तत्तद्विशेषविषयकत्वविशिष्टज्ञानारोपार्थं स्वस्य विशेषज्ञानावश्यकत्वेनोपदेशा-नर्थक्यानुद्धारात् । गुरूपदेशानन्तरमुक्तरीत्यैव तत्त्वनिश्चये सर्वस्य स्वोत्प्रेक्षामूलकत्व-निश्चयेनाप्रामाण्यशङ्काया एव सुदृढनिरूढत्वेनोत्तरत्र मोक्षोपयोगिप्रवृत्तेर्निवृत्तेर्वाऽनीश-त्वापत्तेश्च । न च मोक्षश्रुतिप्रामाण्यनिश्चयवतस्तादृशशङ्का नावतरतीति वाच्यम् । तदुपदेशानुकूलज्ञानतद्विषयाणामतिस्वोत्प्रेक्षामूलकत्वादप्रामाण्यसन्देहे तन्निश्चयस्याप्ययोगात् ।
मन्मते तु न कापि क्षतिः । गुरोः स्वत एव सम्प्रदायपरम्पराप्राप्तज्ञानवत्व-मविप्रतिपन्नलोकव्यवहारादिना निश्चित्य तदुपदेशश्रवणार्थं प्रवृत्तस्य तर्कागमाद्यनुसारितद्व्या-ख्योत्पादितज्ञाने प्रामाण्याभावाङ्कायां बीजाभावात् । त्वन्मते तु नैवमुपपत्तिः । गुरुं प्रति ‘तव ज्ञानं कथं स्थितम् ? अभेदवादिमदभिन्नत्वात् । ज्ञानं त्वयि मदारोपितम् । त्वं चेतन उत ज्ञानवत्वेन मत्कल्पिताचेतने’ इति शिष्येण वादकथायां पृष्टे, अन्यथोक्तौ गुरोर्विप्रलम्भकत्वेन तत्त्वनिर्णयाभावापत्तेः । यथास्थितोक्तौ उपदेशाप्रामाण्यशङ्काद्यनु-च्छेदापत्तेः । न च स्वाप्नगुरोरिव तस्य न पर्यनुयोज्यत्वमिति वाच्यम् । दृष्टान्तासिद्धेः । स्वाप्नगुरोरपि स्वप्ने पर्यनुयोज्यत्वस्यैव दर्शनात् । स्वप्नादुत्थितस्य तत्र स्वकल्पितत्वनिश्चये तत्र पर्यनुयोगाप्रसक्तेः । प्रकृते चोपदेशवेलायां सर्वस्य कल्पितत्वं श्रुण्वतस्तन्निश्चयाय गुरुं प्रति पर्यनुयोगस्यावश्यं प्राप्तेः । अन्यथा वेदेऽपि पर्यनुयोगाभावप्राप्त्या मीमांसावैयर्थ्यापत्तेः । एतादृशोपदेशस्य शून्यवादिनोऽपि सम्भवेन शून्यनिर्णयस्याप्यापत्त्या ब्रह्मतत्त्वनिर्णयो-त्पत्तेरयोगात् ।
यत्तु ‘समयबन्धपूर्वककथाप्रवृत्तावुक्तपर्यनुयोगादेरप्रसक्त्या तत्त्वनिर्णयो भवति’ इति । तत्तुच्छम् । तत्वनिर्णायकवादकथायां समयबन्धाप्रसक्तेः । इतरकथायामप्येतादृशप्रश्न- पूर्वकदूषणादेरप्रसक्तविचाररूपत्वाभावेनाप्रसक्तत्वाधिकत्वादिसम्पादकत्वाभावेन तत्परिहारं विना कथाप्रवृत्त्ययोगात् । ननु गुरुः ‘अहमेव ज्ञानी न त्वत्कल्पितं मदीयं ज्ञानम्’ इत्यादिक्रमेण यथा यथा शङ्कापरिहारो भविष्यति तत्तद्रूपं परिकल्प्योपदिशति । मीमांसया वेद इव रूपपरिकल्पनोपपत्तेः । न चैवं सति गुरोर्विप्रलम्भकत्वापत्तिः । नानाकारणैरारोपित-प्रक्रियया वास्तवशाब्दस्वरूपप्रमोत्पादनवत् तादृशरूपकल्पनयाऽपि ब्रह्मप्रमोत्पादकस्य बिप्रलम्भकतया दोषाभावात् । न च तद्वाक्यजन्यं ब्रह्मज्ञानं कथं प्रमेति शङ्क्यम् । अबाधितविषयकत्वेन प्रमात्वाव्याहतेरिति चेन्न । तर्ह्येकजीववादोपदेशस्य पूर्वोक्तदोषलङ्घना-यामजङ्घालत्वेन तदननुसार्यन्योपदेशस्यैव कर्तव्यतयैकजीववादोक्तेरसङ्गतत्वात् । न हि प्रतिपादनवेलायां दूषरग्रस्तप्रक्रियायां वैयधिकरण्यं न बोधयन्ति । मीमांसया वेदे तत्प्रमेये वा तादृशतादृशरूपाणामनारोपितत्वाद्दृष्टान्तासङ्गतिश्च । किञ्च शून्यवादिनाऽप्येवमेव वक्तुं शक्यत्वेन तन्मतपरित्यागबीजाभावापाताच्च ।
एतेन ‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ इत्यादिरूपः प्रवचनशब्दिताध्ययनविषय-कविधिरप्येतादृशकल्पितगुरुविषयकः’ इत्यपास्तम् । तादृशगुरुकल्पनाऽसम्भवस्याभि-हितत्वात् । किञ्चानादौ संसारे अनादिभिः श्रवणादिभिः केषाञ्चित्तत्त्वज्ञानमुत्पन्नं चेत् तेषां मुक्त्यापातेन जगदनुपलम्भप्रसङ्गात् कस्यापि नोत्पन्नमिति वक्तव्यम् । तथा च श्रवणादीनां तत्त्वज्ञानाकारणत्वात्तत्वज्ञानकारणान्तरस्य श्रुत्यादावनभिधानेनाभावात्तत्त्वज्ञानानुत्पत्तिरेव । अतस्तदुत्पत्तिवचनं न स्वार्थपरम् । ननु पुरातनानां श्रवणादिभिस्तत्त्वज्ञानमुत्पन्नमेव । परन्तु तादृशज्ञानानामसम्भावनादिशङ्काकलङ्कितत्वेन न मोक्षजनकत्वम् । तेन रूपेण तु न श्रवणादिकार्यता । अतो न व्यभिचारः । तादृशरूपस्यार्थसमाजाधीनस्य कालान्तरोत्पत्स्य-मानतत्त्वज्ञाने सम्भवेन मोक्षोपपत्तेरिति चेन्न । श्रवणमननादिभिरेतत्कालं कस्याप्यसम्भाव-नाशङ्काया अनिरासेन तत्त्वज्ञानानुदये तस्याकस्मिककारणाधीनत्वबुद्ध्या तत्कारण-निर्णायकाभावान्मोक्षश्रुतिप्रामाण्यग्रहवतो महायाससाध्यश्रवणादौ प्रवृत्त्यभावापत्तेर्दुर्वारत्वात् ।
यत्तु ‘तद्व्यक्तित्वरूपवैजात्यवदेव तत्त्वज्ञानं मोक्षकारणम् । पूर्वोत्पन्नानां चातथात्वान्न मोक्षहेतुतायां व्यभिचारः’ । इति । तदसत् । तर्हि श्रवणादेस्तदसाधारणकारणत्वा-भावात्तत्सम्पादकमुख्यकारणं विहाय श्रुतौ सामान्यतः श्रवणादिविधेरसङ्गतत्वापत्तेः । कारणानिर्णयेनोक्तरीत्या प्रवृत्त्यभावप्रसङ्गाच्चेत्यलम् ।