न च भेदे विकल्पो युज्यते ..
प्रश्नस्य संशयमूलकत्वसमर्थनम्
न च भेदे विकल्पो युज्यते
श्रीमज्जयतीर्थटीका
इदमुक्तं भवति । आस्तामिदं दूरे दूषणाभिधानम् । प्रश्न एव तावदयं न युज्यते । सन्देहमूलत्वात्प्रश्नस्य । न खलु कश्चिन्निश्चितं पृच्छति । नाप्यत्यन्ताविदितम् । न च विमतो भिन्न इत्युक्ते विना प्रश्नेनापसिद्धान्ताद्युद्भावनावसरोऽस्ति ।
ननु विनापि सन्देहात्प्रश्नो भवति । यथा देवदत्त कियन्तस्तनयास्तवेति । मैवम् । तत्रापि पुत्त्रत्वसामान्यस्य सङ्ख्याविशेषसमानाधिकरणतया अनुभूतत्वेन तत्प्रतिभासे सति संस्कारोद्बोधात्सङ्ख्याविशेषस्मृतौ तत्रान्यतमजिज्ञासायां निश्चायकप्रमाणाभावेन संशयोदयस्य न्यायप्राप्तत्वेन तन्मूलत्वात् । केवलं सङ्ख्याप्रभेदानां बाहुल्याद्गौरवभयेन एको द्वौ वेत्यादिविशेषनिर्देशेन विना कियन्त इति सामान्येन प्रश्नः क्रियते ।
अथात्र गिरिदर्यां किमप्यद्राक्षमित्युक्ते किंलक्षणकं तदिति पृच्छति । तदा कथं सन्देहहेतुकत्वम् । विशेषस्मरणोपायाभावादिति चेन्न । तत्रापि वस्तुत्वेन लक्षणसद्भाव-मनुमाय ततस्तद्विशेषस्मृतौ तत्किमनुभूतेष्वन्यतममन्यद्वेति सन्देहादेव प्रश्नात् ।