स्वविषयत्वं हि..
पररीत्या आत्मनः कर्तृकर्मभावविरोधेन स्वविषयप्रकाशत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु कथमात्मनः स्वविषयप्रकाशत्वाभावः । यावता वादिप्रतिवादिभ्यां स्वप्रकाशज्ञानरूप आत्मेत्यङ्गीकृतमित्यत आह–
मूलं
स्वविषयत्वं हि कर्तृकर्मविरोधात्तैर्नाङ्गीक्रियते
आत्मप्रकाशस्येति शेषः । सत्यमस्माभिःस्वविषयप्रकाशत्वमात्मनोऽङ्गीक्रि-यते । परैस्तु नाङ्गीक्रियते । एकस्यां क्रियायां हि कर्तृकर्मणोरेकत्वं विरुद्धम् । परसमवेत-क्रियाफलशालित्वस्य कर्मलक्षणत्वात् । अतो न स्वविषयमात्मज्ञानम् । स्वप्रकाशत्वं तु परप्रकाश्यताभावमात्रमिति परेषां प्रवादः । तदभिप्रायेण च ‘आत्मनः स्वविषय-प्रकाशत्वाभावात्’ इत्युक्तमित्यदोषः१ ।
द्वैतद्युमणि:
सिद्धान्तवासनावतामाशङ्कयोत्तरमूलमवतारयति ।। नन्विति ।। मूले कर्तृकर्मपदे भावप्रधाने । सर्वस्यापि ज्ञानस्य शब्दादेरपि परैः स्वविषयत्वमनङ्गीकृत्यापि सर्वं ज्ञानं प्रमेयं, शब्दो नित्यः, स्वाध्यायोऽध्येतव्यः इत्यादौ कर्मताकर्तृतावच्छेदकरूपभेदा-त्तदुपहितकर्मकर्त्रोरपि भेदमाश्रित्यैव स्वोक्तनियमस्योपपादितत्वेऽप्यात्मन एवेदानीं प्रस्तुतत्वा-त्तदभिप्रायमात्रकत्वं मूलस्य । अन्यथाऽऽधिक्यापत्तेरित्याशयेनाह ।। आत्मप्रकाशस्येतीति ।। प्रकाशरूपत्वेन स्वाभ्युपगतस्याप्यात्मन इत्यर्थः । तेनाप्रकाशत्वरूपजडत्वहेतोरनैकान्त्यो-पपादनाय पूर्वमूले आत्मनः सविषयत्वाभावोपपादनमसङ्गतमप्रसक्तत्वादिति शङ्का परिहृता । आत्मनः प्रकाशरूपत्वेन व्यभिचारपरिहारस्य पराभिमानविषयतया तत्खण्डनसङ्गतिरित्यर्थस्य आत्मन इत्येतावन्मात्रं विहायाधिकप्रकाशपदेन सूचितत्वात् ।। प्रवाद इति ।। निर्धर्मके प्रमाणप्रवृत्तेरयोगात् स्वयमेव प्रकाशते न तु परेणेत्यत्रत्यैवकारार्थमात्रतात्पर्येण परमते व्यवहार इति भावः ।। तदभिप्रायेणेति ।। परमताभिप्रायेणैवेत्यर्थः । इदानीं परन्यायेनैव दूषणस्य प्रक्रान्तत्वादिति भावः ।