न च शून्यवादिनः..
पूर्वोक्तशङ्कानिरासाय शून्यवादमायावादयोः साम्योपपादनम्
मूल
न च शून्यवादिनः सकाशाद्वैलक्षण्यं मायावादिनः
श्रीमज्जयतीर्थटीका
अत्र शून्यवादिमायावादिशब्दौ तन्मतोपलक्षणार्थौ । इदमुक्तं भवति । न सूत्राणि विषयविशेषनियतानि । तथात्वे सूत्रत्वव्याघातात् । विषयविशेषानन्त्या-च्छास्त्रस्यापर्यवसानप्रसङ्गाच्च । किन्तूदाहरणत्वेन विषयविशेषमादाय तत्समानविषये न्यायं सञ्चारयन्ति । न च शून्यवादिमताद्वैलक्षण्यं मायावादिमतस्यास्ति । अतः शून्यवादि-मतनिराकरणपराणामप्येषां मायावादिमतमपि विषयो भवतीति तन्निरासायैतत्सूत्रोदाहरणे न कश्चित्सिद्धान्तविरोध इति ।
अथोच्येत किं शून्यवादान्मायावादस्य वैलक्षण्याभावः कार्त्स्न्येनोतैकदेशेन । नाद्यः । आचारादिवैलक्षण्यस्योपलब्धेः । न द्वितीयः । एकदेशसाम्येन सूत्रसञ्चारे सकलदर्शनेष्वपि तद्दर्शनात् दर्शनान्तरनिरासप्रयासवैयर्थ्यादिति । मैवम् । इह निरसनीयांशसालक्षण्येन सूत्रसञ्चाराभ्युपगमात् ।
द्वैतद्युमणि:
पुरुषवैलक्षण्यसत्त्वादाह ।। अत्रेति ।। ननु मताविशेषेऽपि कथमेकार्थ-पराणामन्यार्थपरत्वमुच्यते । विना प्रमाणं तात्पर्यद्वयकल्पने गौरवमित्यत आह ।। इदमुक्तं भवतीति ।। सूत्रत्वव्याघातादिति ।। विश्वतोमुखत्वादिसूत्रधर्माभावप्रसङ्गेन सूत्रत्वव्याघाता-दित्यर्थः । तथा च सूत्रस्य विश्वतोमुखत्वबोधकागमस्यैव तस्य सम्भवद्बह्वर्थतात्पर्ये प्रमाणत्वमिति भावः । शङ्कते ।। अथेति ।।