अङ्गीक्रियमाणत्वाद्विशिष्टादे..
विशिष्टस्य सत्यत्वसमर्थनम्
अङ्गीक्रियमाणत्वाद्विशिष्टादे
श्रीमज्जयतीर्थटीका
अथोच्येत ‘अङ्गीक्रियमाणोऽपि ब्रह्मणि विशिष्टादिर्न सत्य इति न परमार्थब्रह्मतया प्रतिपादयितुं युक्त इत्येवानुपपत्तिः’ इति । मैवम् । अङ्गीक्रियमाणोऽपि विशिष्टाकारो न तावदसन्नेव । तथा सत्युपलक्षणत्वानुपपत्तेः । न च नीलं नभ इति-वदुपपत्तिः । तत्रापि प्रतिपत्तेरुपलक्षणत्वात् । न चानिर्वचनीयः । तत्र प्रमाणाभावात् । विशिष्टाकारादिरनिर्वाच्यो विशिष्टाकारादित्वात् नीलं नभ इतिवदिति चेन्न । तत्र अनिर्वचनीयाभावेनाप्रसिद्धविशेषणत्वात् । तदेवमसत्त्वानिर्वचनीयत्वाभावेन विशिष्टादेः सत्यत्वञ्च सिद्धमित्यनुपपत्त्यभावाद्विशिष्ट एव सत्यज्ञानादिवाक्यार्थः ।
द्वैतद्युमणि:
।। उपलक्षणत्वेति ।। स्वरूपाऽनन्तर्गतत्वेऽपि स्वतादात्म्येन निमित्तेनेतरव्या-वृत्तिसम्पादकत्वेत्यर्थः ।। तत्रापीति ।। नीलप्रकारकप्रतिपत्तेरेव विषयतया व्यावर्तकत्वा-दित्यर्थः । न च प्रकृतेऽपि तथैवास्तु । तावताऽप्युपलक्षणीभूतप्रतीतिविषयेऽप्युपलक्षण इव वाक्यस्य तात्पर्यानभ्युपगमस्याव्याहतेरिति वाच्यम् । ब्रह्मातिरिक्तसर्वस्यासत्त्वपक्षे प्रतीतेरप्य-सत्त्वेन तस्या अप्युपलक्षणत्वस्य वक्तुमशक्यत्वादिति भावः ।।