न च बाध्यं जगदित्यत्र किञ्चिन्मानम्

मूले जगत्पदग्रहणकृत्यम्

न च बाध्यं जगदित्यत्र किञ्चिन्मानम्

श्रीमज्जयतीर्थटीका

ननु ज्ञाननिवर्त्यत्वमस्माकं शुक्तिरजतादेरपि नास्ति । यथोक्तं ‘न हि नाशोऽसतोभवेत्’ इति । अतः किं जगद्ग्रहणेन । मैवम् । न हि ज्ञाननिवर्त्यत्वं नाम ज्ञानेन विनाशः परस्याभिमतः । तेन ‘अधिष्टानयाथात्म्यज्ञानेनाविद्यायां विलीनायां तदुपादानकं रजतं स्वयमेव निवर्तते’ इत्यङ्गीकृतत्वात् । किंनाम । प्रतिपन्नोपाधौ निषेधप्रतियोगित्वम् । न च तच्छुक्तिरजतादौ नास्तीति शक्यते वक्तुम् । नात्र रजतमभूदिति प्रतिषेधस्य प्रमितत्वात् । ततः सार्थकं जगद्ग्रहणम् ।

शुक्तिरजताद्येवार्थापत्त्या यदि सदसद्विलक्षणतया सिषाधयिषितम् । तदैतद्दूषणं न घटत इति चेत् । मा घटिष्ट । प्रागुक्तदूषणेनार्थापत्तेर्दूषितत्वात् ।

द्वैतद्युमणि:

परोक्तलक्षणवाक्यस्थनिवर्त्यपदस्य ध्वंसप्रतियोग्यर्थकत्वाभिमानिनः शङ्का-मुद्भाव्य निरस्यति नन्वित्यादिना ।। यथोक्तमिति ।। अनुव्याख्याने श्रुतिपाद इत्यर्थः । जगद्ग्रहणेनेति । जगत्पदस्य सत्यजगत एवोपस्थापकत्वेनासत्यस्य रूप्यादेरनुपस्थापनात् ‘तत्र बाध्यत्वं नास्ति’ इत्युक्तौ ‘शुक्तिरजतादौ तद्वर्तते’ इति व्यञ्जनया लभ्यते । विशेषनिषेधस्य शेषविध्यनुज्ञारूपत्वात् । तच्चायुक्तम् । मिथ्याशब्दोऽनिर्वचनीयमित्यारभ्य प्रक्रान्तस्य शुक्तिरजतस्याग्रहणान्न्यूनत्वं चेति भावः ।

ननु पूर्ववाक्ये ‘रजतादेरपि नास्ति’ इत्युक्तौ अपिपदेन जगतोऽपि ग्रहणेन तत्र ज्ञानजन्यनाशप्रतियोगित्वं नास्तीत्यागतम् । तदनुपपन्नम् । स्वमतेऽपि सेतुदर्शनादिना ब्रह्महत्यादिनाशस्य भगवत्साक्षात्कारेणाप्रारब्धमोक्षपरिपन्थिसर्वकर्मनाशस्याङ्गीकारात् ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन ।

क्वचिज्ज्ञानं जनयन् भस्मकुर्यात् ।

इत्यादिवचनात् । ‘ज्ञानेन मोहो नष्टः’ इति प्रतीत्या मोहशब्दिताज्ञानादेर्दुःखादेश्च नाशाङ्गीकारेण बहुस्थलेषु बाधात् । न चैतदतिरिक्तजगत एवापिपदेन समुच्चय इति वाच्यम् । ज्ञाननिवर्त्यत्वरूपधर्मस्य जगत्सामान्ये सद्विलक्षणत्वसाधनाय परेणोपन्यस्ततयैतत्सामान्ये ज्ञाननिवर्त्यत्वमेतन्मूलेन प्रतिक्षेप्यम् । अन्यथा यत्किञ्चिज्जगति तत्प्रतिक्षेपेऽपि अन्यत्र तेन सद्विलक्षणत्वरूपानिर्वचनीयत्वसिद्ध्या ‘अनिर्वचनीयत्वस्य सर्वत्राप्रसिद्धत्वादेव’ इत्युक्तमयुक्तं स्यात् । तथा चैतद्वाक्यस्थजगत्पदस्य सर्वजगत्परत्वावश्यकत्वे एतदुपरि शङ्ककस्य

यदि अपिशब्देन वियदादिघटादि१मात्रग्रहस्तर्हि ज्ञाननाश्येषु कर्मादिषु ज्ञाननाश्यत्वे प्रमाणसत्त्वात् सामान्यतो माननिराकरणमयुक्तमित्येव शङ्कनीयम् । कण्ठत उक्तार्थ एव बाधकरूपत्वात् । तद्विहाय वैयञ्जनिकार्थ एव तच्छङ्कायाः ‘जगत्पदस्यासद्ग्राहकत्वमप्युप-लक्षणत्वादिना स्वीक्रियते’ इत्युक्त्याऽपि परिहरणीयतया दुर्बलाया एव करणस्यानुचित-त्वादिति चेन्न ।

यतः शङ्ककस्य यथाश्रुतं ज्ञानजन्यनाशप्रतियोगित्वं २पराभिमतं लक्षणत्वेन नाभिमतम् । तस्योत्तरज्ञाननाश्यपूर्वज्ञाने स्मृतिनाश्यसंस्कारे चातिव्याप्तेः पराभिप्रायविषयत्वायोगात् । परन्तु ज्ञानत्वव्याप्यधर्मावच्छिन्नजनकताकध्वंसप्रतियोगित्वम् । स्मृतेः संस्कारनाशकत्वे मानाभावान्नातिव्याप्तिः। उत्तरज्ञानस्य तु नोत्तरज्ञानत्वेन तत्तद्व्यक्तित्वादिना वा नाशकत्वम् । किन्तु योग्यविभुविशेषगुणवृत्तिप्रतियोगितासम्बन्धेन नाशत्वावच्छिन्नं प्रति स्वाव्यवहितपूर्वक्षण-वृत्तित्वसामानाधिकरण्योभयसम्बन्धेन योग्यविशेषगुणत्वेन गुणत्वेन वा स्वाव्यवहितपूर्वत्व-सम्बन्धेन कालिकविशेषणताविशिष्टपूर्वत्वसम्बन्धेन वस्तुत्वेन वा कारणत्वस्याङ्गीकारेण तद्व्यापकधर्मेणैव । उत्तरगुणत्वादेः सामान्यतः अनुगतत्वाभावात् । अत्रोक्तकार्यकारणभावेषु द्वितीयतृतीयपक्षयोरपेक्षाबुद्धेस्तृतीयक्षणे नाशवारणाय स्वोत्पत्त्यधिकरणक्षणध्वंसोत्पत्त्यधि-करणक्षणसम्बद्धत्वतादात्म्योभयसम्बन्धेनापेक्षाबुद्धित्वेन प्रतिबन्धकत्वं कल्प्यते ।

यद्वा साक्षात्कारत्वघटितधर्मावच्छिन्नकारणताकनाशप्रतियोगित्वं तत् । ब्रह्मज्ञानस्य शुक्तिसाक्षात्कारस्य च साक्षात्कारत्वेनैवाभानापादकाज्ञाननाशकत्वम् । अन्यथा परोक्ष-ज्ञानेनाऽपि तन्निवृत्त्यापत्तेः । न च सेतुदर्शनजन्यनिवृत्तिप्रतियोगिब्रह्महत्यादावतिव्याप्तिः । सेतुं दृष्ट्वेति वचनाच्चाक्षुषत्वेनैव तस्य जनकत्वेन साक्षात्कारत्वेनाजनकत्वात् । यद्यपि दृशिः साक्षात्कारसामान्येऽपि प्रयुज्यते तथाप्यन्धो घटं पश्यतीति स्वारसिकप्रयोगाभावात् दृशिश्चाक्षुष एव निरूढ इति प्रथमोपस्थितिलाघवात्तस्यैव ग्रहणं युक्तम् । न च शुक्तिज्ञानमपि चाक्षुषत्वेनैव निवर्तकम् । अन्यथा शुक्तिस्पार्शनेऽपि तत्राऽरोपितरजतनिवृत्त्यापत्तेरिति वाच्यम् । तत्र त्वगिन्द्रियेण शुक्तित्वप्रकारकस्पार्शनानुदयेन द्रव्यत्वादिप्रकारकेदन्त्वावगाहि चाक्षुषस्येवाऽधिष्ठानतत्वाप्रकारकत्वेन तस्यानिवर्तकत्वेऽपि क्षत्यभावात् । अन्यथा त्वचा वह्निप्रत्यक्षेऽपि चक्षुषा वह्न्यन्यत्वग्रहापत्तेः । क्वचिद्भिन्नेन्द्रियजन्यप्रत्यक्षस्याप्रतिबन्धकत्वानु-भवश्च तस्याप्रामाण्यग्रहानुरोधात् तत्र व्यञ्जकाभावेनाधिष्ठानतत्वास्फुरणाद्वा । स्फुरणे तु भ्रम-निवृत्तिर्भिन्नेन्द्रियजन्यज्ञानेनापीष्टैव । तथैवानुभवात् । न चोपादानसाक्षात्कारत्वावच्छिन्न-जनकताकनाशप्रतियोगिनि तत्प्रागभावेऽतिव्याप्तिरिति वाच्यम् । प्रागभावानङ्गीकारात् । तथात्वे नाशत्वेन जन्यताया विवक्षणात् ।

यद्वा इतरनिरपेक्षसाक्षात्कारजन्यनाशप्रतियोगित्वं तत् । सेतुदर्शनादेः पापनिवर्तकत्वं छत्रपादुकाधारणाद्यभावस्वकृतदोषोद्धाटनाद्यनेकनियमजन्यादृष्टसहकृतस्यैव । अन्यथा तन्नियमविधानवैयर्थ्यापत्तेः । न च ब्रह्मसाक्षात्कारस्यापि श्रवणादिनियमादृष्टसहकृतस्यैवा-ज्ञाननिवर्तकत्वात्प्रपञ्चे तदयोगः । श्रवणादिनियमादृष्टादेः साक्षात्कारोत्पत्तावेव हेतुत्वात् । अन्यथा भाषाप्रबन्धादिना अर्थज्ञानसम्पादनेन साक्षात्कारापत्तेः । न च सेतुदर्शनस्थलेऽपि तथैवास्त्विति वाच्यम् । नियमं विनाऽपि सेतुगमनमात्रेण तद्दर्शनस्य सत्त्वेन व्यभिचारेण नियमादृष्टस्य तत्राहेतुत्वात् । तत्र दर्शनमात्रस्य पापनिवर्तकत्वे दैवादागतयवनादेरपि तत्प्रसङ्गात् ।

ननु भवन्मतेऽपि भाषाप्रबन्धान्तर्गतेनाद्वैतपरेण तत्त्वमस्यादिवाक्यसमानार्थकेन वाक्ये-नात्मापरोक्षसम्भवेन तत्र श्रवणादिनियमादृष्टाभावात् व्यभिचारः । न चापरोक्षप्रतीति-र्नोदेतीति युक्तम् । ज्ञानापरोक्षस्य त्वन्मते विषयीभूतब्रह्मस्वभावाधीनतया तत्तवमस्यादि-वाक्याधीनाखण्डाकारवृत्तेरिव भाषाप्रबन्धजन्यवृत्तेरप्यपरोक्षत्वस्यावर्जनीयत्वात् । न च भाषया ज्ञानमेव न जायत इति युक्तम् । सर्वानुभवापलापापत्तेः । न च साक्षात्कारे वैजात्य-मज्ञाननिवर्तकतावच्छेदकं स्वीकृत्य तदवच्छिन्नं प्रति श्रवणादिनियमादृष्टस्य कारणत्वाङ्गी-कारान्न व्यभिचार इति वाच्यम् । सेतुदर्शनस्थलेऽपि तथैवाङ्गीकारसम्भवेन तत्रोक्तव्यभिचारा-योगात् । दैवादागतयवननिष्ठदर्शने उक्तवैजात्यस्याभावेन तद्दोषस्यापि वारणसम्भवाच्चेति चेन्न । आत्मनो ध्यानसहकृतमनोजन्यसाक्षात्कारविषयत्वाभ्युपगमपक्षे उक्तव्यभिचारा-नवकाशेन तद्रीत्यैव एतल्लक्षणसम्भवात् । सेतुदर्शनेन पापनिवृत्तौ नियमादृष्टस्य सहकारित्व-मात्रत्वेन सर्वोपपत्तौ तत्र साक्षात्कारे वैजात्याङ्गीकारे मानाभावात् । सर्वलक्षणेषु तन्निवर्त्य-तदभिन्नतत्प्रयुक्तान्यतमत्वं विवक्षणीयम् । तेन साक्षाज्ज्ञाननिवर्त्याज्ञानतदुपादानकेषु अज्ञानप्रयुक्तानादिदृश्येष्वपि नाव्याप्तिः ।

एवं क्रमेण लक्षणत्रयम् । एतच्च सत्यवस्तुव्यावृत्तं मिथ्यानिष्ठमेव इति पराभिमान इत्यभिमतम् ।

तदुपर्युक्तशङ्का सङ्गच्छत एव । तदुपरि समाधानग्रन्थस्य तु एतेषामपि लक्षणानां अनुपदं वक्ष्यमाणरीत्या मिथ्यात्वलक्षणत्वायोगात् पराभिमतमन्यदेव । तत्र जगद्ग्रहणं सार्थकमिति भावः ।

यद्वा नैतान्यपि लक्षणानि पराभिप्रेततया शङ्ककेन ज्ञायन्ते । एतेषां विचारासहत्वात् । तथा हि, आद्यस्य द्वितीयस्य च सेतुदर्शनजन्यनाशप्रतियोगिपापेऽतिव्याप्तिः । तस्य साक्षात्कारत्वेन निवर्तकत्वात् । तस्य ज्ञानत्वव्याप्यत्वाच्च । न च सेतुदर्शनस्य चाक्षुषत्वेन निवर्तकत्वमिति न द्वितीयलक्षणातिव्याप्तिरिति वाच्यम् । अन्धस्यापि तत्स्थानं प्रति भक्त्यादिपूर्वं गन्तुः ब्रह्महत्यादिनिवृत्तिदर्शनेन चाक्षुषस्पार्शनसाधारणसाक्षात्कारत्वस्यैव जनकतावच्छेदकत्वौचित्यात् ।

दृशेश्चाक्षुषे व्यवहाराधिक्यमात्रेण चाक्षुषस्यैव ग्रहणे ‘दृष्ट्वैव तं मुच्यते नापरेण’ ‘द्रष्टव्यः श्रोतव्यो मन्तव्यः’ इत्यादिश्रुतावपि दृशिग्रहणात् ब्रह्मचाक्षुषत्वेनैव प्रकृतेऽज्ञानादिनाश-कत्वापत्त्या जगत्युक्तलक्षणाभावः स्यात् । न च ‘विद्वान् नामरूपाद्विमुक्तः’ ‘तमेवं विद्वानमृत इह भवति’ इति श्रुतौ ज्ञानसामान्यग्रहणान्न चाक्षुषस्यैव हेतुत्वं युक्तमिति वाच्यम् । सामान्यस्य विशेषवाक्यानुसारेणैव पर्यवसानस्य कर्तव्यत्वात् । अन्यथा परोक्षज्ञानाऽपातवाक्यजनितज्ञानेनाऽपि मुक्त्यापत्तेः । न च रूपहीनं ब्रह्म कथं चाक्षुषे स्फुरतीति वाच्यम् । चित्रावयविनि रूपानङ्गीकारपक्षे तदीयमहत्त्वादेरेव शक्तिविशेषेण चाक्षुषादिकारणत्ववदत्रापि महत्वे वा चक्षुःसंयोगे वा तादृशशक्तिस्वीकारेणोपपत्तेः । न च ‘यच्चक्षुषा न पश्यति’ ‘न चक्षुषा पश्यति कश्चिदेनं’ इत्यादिश्रुतिविरोधात् कथं तच्चाक्षुष-मिति वाच्यम् । नीरुपस्यापि ब्रह्मणः कालवच्चाक्षुषस्य त्वया भाषितत्वेन श्रुतिविरोधस्य त्वयैव परिहर्तव्यत्वात् । ‘सत्त्वोपहितं दृश्यते । शुद्धं तु न दृश्यते’ इति मयोच्यत इति चेत् द्रष्टव्य इत्यादिश्रुतिस्वारस्याय ‘केवलचक्षुषा न दृश्यते । उपनिषदर्थश्रवणमनननिदिध्यासना-वासितमनःसंयुक्तेन चक्षुषा दृश्यते’ इत्यापि विरोधस्य परिहर्तुं शक्यत्वात् । एतेन ब्रह्मण औपनिषदत्वोक्तिरपि न प्रतिकूला । सगुणस्य दिव्यचक्षुषा दर्शनस्य ‘दिव्यं ददामि ते चक्षुः’ इत्यादिना गीतादावभिहितत्वेन तदनतिदूरस्य निर्गुणस्यापि तथात्वौचित्याच्च । एवमपि तच्चाक्षुषानङ्गीकारे ‘यद्वाचाऽनभ्युदितं’ ‘यतो वाचो निवर्तन्ते’ ‘यन्मनसा न मनुते’ इत्यादि श्रुतिभिः वाङ्मनसागोचरत्वावगमेन शाब्दापरोक्षविषयत्वं मानसापरोक्षाविषयत्वं च न स्यात् । तत्र सङ्कोचेऽत्र किं न स्यात् । प्रत्युत दृशिग्रहणसामर्थ्याच्चाक्षुषविषयत्वाभ्युपगम एव युक्त इत्युक्तम् ।

एवं प्रियवस्तुदर्शनस्पार्शनसाक्षात्कारमात्रेण तद्विरहजनितदुःखनिवृत्तिदर्शनात्तत्रापि तद्वस्तुसाक्षात्कारात्वावच्छिन्नकारणताकनाशप्रतियोगिदुःखेऽतिव्याप्तिः । एवं

तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयते एवमेव हैवंविदि सर्वे पाप्मानः प्रदूयन्ते । इति श्रुत्या

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ।

इत्यादिवचनैर्ब्रह्मसाक्षात्कारत्वेनाप्रारब्धकर्मनाशकत्वस्योभयमतसिद्धत्वात्तादृशकर्मस्वति-व्याप्तिश्च ।

एतेन तृतीयलक्षणमप्यपास्तम् । प्रियवस्तुसाक्षात्कारातिरिक्तसाधारणाकारणान्तरस्य दुःखनिवृत्तौ, ब्रह्मसाक्षात्कारातिरिक्तासाधारणकारणान्तराणां अप्रारब्धनिवृत्तौ अनुपलम्भेन १तत्र तत्रोभयस्मिन्नप्यतिव्याप्तेः । साधारणकारणविवक्षायां तु अज्ञाननिवृत्तेरपि कार्य-त्वेनादृष्टेश्वराद्यपेक्षया अज्ञानशुक्तिरजतादिषु लक्षणगमनासम्भवः । मोक्षस्यापीश्वराधीनत्व-श्रवणात् ब्रह्मसाक्षात्कारसाध्याज्ञाननिवृत्तिमादाय जगत्यप्युपपादयितुं अशक्यत्वाच्च ।

अपि च ‘प्रारब्धनाशात्प्रतिभासनाशः’ इति स्मृत्या सविलासाज्ञाननाशे ब्रह्मसाक्षा-त्कारेण जननीये प्रारब्धकर्मरूपप्रतिबन्धाभावरूपासाधारणकारणस्य श्रवणात्तन्निरपेक्ष-साक्षात्कारजन्यत्वाभावाज्जगत्यव्याप्तिः । एवं चित्रलिखितसिंहचाक्षुषसाक्षात्कारेणेतरनिरपेक्षे रोगविशेषनिवृत्तिदर्शनात् कूर्मेक्षणमात्रेण तच्छिशुक्षुधानिवर्तनदर्शनाच्च तत्राप्युक्तलक्षणाति-व्याप्तिरेव । एवं दूरदेशगमनादिनियमादृष्टस्य साक्षात्कारे नातिशयाधायकत्वम् । साक्षादेव पापनिवृत्तौ हेतुत्वम् । ब्रह्मसाक्षात्कारे श्रवणादिनियमादृष्टस्योपयोगो न तज्जन्यफले उपयोग इत्यस्य नियन्तुमशक्यत्वेन सेतुदर्शननिवर्त्यपापातिव्याप्तेरपरिहारश्चेति ।

यत्तु ‘अत्र लक्षणे साक्षात्कारत्वावच्छिन्नकारणतेत्यस्य साक्षात्कारत्वव्याप्यकारणतेति विवक्षणात् शुक्तिचाक्षुषत्वेन तन्निवर्त्यत्वेऽपि शुक्तिरूप्ये न बाध्यत्ववैकल्यम्’ इति । तदप्यसत् । उक्तस्थलेष्वतिव्याप्तेरपरिहारात् इतरनैरपेक्ष्येणेति विवक्षोत्तरं साक्षात्कारत्व व्याप्यत्वस्य कारणतायां निवेशे प्रयोजनाभावाच्चेति ।

एवं गुरुचन्द्रिकोक्तरीत्या आधुनिकपरिष्कृतलक्षणद्वयमप्यनभिमतम् । विचारासहत्वात् । तथा हि– ज्ञानप्रयुक्ततावच्छेदकीभूतध्वंसत्वनिरूपकत्वं ज्ञानप्रयुक्तस्वसमानसत्ताक-स्वनिष्ठतादात्म्यप्रतियोगित्वावच्छिन्नप्रतियोगिताकाभावकत्वं तत्प्रतियोगित्वं वा लक्षणम् । ‘ज्ञानात् सर्वं दृश्यं नष्टम्’ इति विद्वद्व्यवहारानुरोधेन तत्वज्ञानस्य तदधिकरणचरमक्षणस्य वा स्वस्वेतरसकलदृश्यनाशरूपत्वाभ्युपगमात् तन्निष्ठध्वंसत्वरूपानुयोगितानिरूपकत्वं सर्वदृश्येषु वर्तत इति लक्षणसङ्गतिः । द्वितीये जगन्मात्रस्य ब्रह्मनिष्ठतादात्म्यप्रतियोगित्वात्तस्य जगत्समसत्ताकत्वात्तदवच्छिन्नप्रतियोगिकाभावो ज्ञानप्रयुक्त एव । तत्प्रतियोगित्वं जगति । शुक्तिरूप्यनिष्ठतत्समसत्ताकशुक्त्यनुयोगिकतादात्म्यप्रतियोगित्वावच्छिन्नप्रतियोगिताकाभावोऽपि बाधप्रयुक्त इति तत्प्रतियोगित्वं शुक्तिरूप्यादाविति लक्षणसङ्गतिः । घटादिनिष्ठकपालाद्यनु-

योगिकतादात्म्यप्रतियोगित्वावच्छिन्नप्रतियोगिकाभावस्य २मुद्गरपातादिप्रयुक्तस्याभावप्रतियोगिनि मिथ्यात्वाव्यवहारात् ज्ञानप्रयुक्तेति । रजतेऽपि शुक्तितादात्म्यस्य जगत्यपि ब्रह्मतादात्म्यस्य परस्पराध्यासानुरोधादावश्यकतया ज्ञानप्रयुक्ततदवच्छिन्नाभावप्रतियोगिनि ब्रह्मणि शुक्तौ च तद्वारणाय स्वसमानसत्ताकेति तादात्म्यविशेषणम् । स्वसमानसत्ताकत्वं ब्रह्मान्यविषयक-ज्ञानबाध्यत्वतदभाववत्त्वान्यतररूपेण स्वसजातीयत्वम् । अत एतदर्थापत्त्यादिप्राक् सत्तात्रैविध्यादेरद्यापि अप्रसिद्धावपि नोक्तबाध्यत्वाप्रसिद्धिरिति ।

तत्राऽद्यलक्षणं पूर्वोक्तक्रमेण सेतुदर्शनादिनिवर्त्यपापादिष्वतिव्याप्तम् । न च पूर्वोक्त-सर्वस्थलेषु सेतुदर्शनादिना पापादिस्थूलरूपं विलीनमेव भवति । सत्कार्यवादाभ्युपगमेव सृष्टिप्रलयादावनुगतं किञ्चित्कार्यरूपं संस्काराभिधमस्माकमपि साङ्ख्यानामिवानुमतम् । तस्य च साङ्घ्यमतेनानुच्छेदः । अस्मन्मते च ‘विद्वान्नामरूपाद्विमुक्तः’ ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’ इत्यादिश्रुतिप्रामाण्यात् ज्ञानेन ध्वंसरूपोच्छेदः स्वीक्रियते । तथा चेदानीं पापादिनिरूपितं ध्वंसत्वं न कुत्रापि । येन सेतुदर्शनादिकार्यतावच्छेदकं स्यात् । शुक्तिरजता-देस्तु बाधोदयात् प्राक् चक्षुर्निमीलनादिना तिरोधानमेव । बाधेन तु नाश एव । पुनरप्रतीतेः। तत्र ज्ञानप्रयुक्ततावच्छेदकध्वंसत्वनिरूपकत्वस्य शुक्तिरजतादौ सत्त्वात्तत्र मिथ्यात्वव्यवहारः । पूर्वोक्तातिव्याप्तिस्थलेषु ज्ञानप्रयुक्ततावच्छेदकध्वंसत्वनिरूपकत्वस्य सेतुदर्शनात्तिरोहितत्व-ज्ञानेऽप्यगृहीतत्वान्न मिथ्यात्वव्यवहारापादनमिति वाच्यम् । इदानीमपि ‘सेतुदर्शनेन पापादिकं नष्टं’ ‘अपरोक्षदर्शनेनाप्रारब्धकर्मादिनष्टम्’ इत्यादिविद्वद्वैदिकव्यवहारप्रामाण्यानु-रोधेनेदानीं तस्य नाशस्यैवाभ्युपगमात् । तिरोधानमात्राङ्गीकारे शुक्तिरजतादीनामपि नष्ट-मुत्सन्नमित्यादिलौकिकप्रतीत्यतिरिक्तप्रमाणाविषयत्वेन तस्य च तिरोधानविषयतायास्त्वदभि-मतत्वेन ध्वंसासिद्ध्या तत्रोक्तबाध्यत्वासिद्ध्या सद्विलक्षणत्वसिद्ध्ययोगात् । किञ्च जगत्यपि तादृशनाशः कथं सिद्ध्यति । ‘नामरूपाद्विमुक्तः’ इत्यादिश्रुतेः तद्विश्लेषमात्रविषयकत्वेनो-पपत्तेः । मुचेस्तादृशध्वंसार्थकत्वाऽग्रहे

रथस्थं केशवं दृष्ट्वा सर्वपापैः प्रमुच्युते ।

इत्यादिप्रमाणानुसारेण पापादेरपि दर्शनेन ध्वंसो दुर्वारः । १अर्थवादवाक्यमेव दर्शन-स्तुतिपरम् । न स्वार्थपरमिति चेत् । विद्वानित्यादिवाक्यमपि तथा किं न स्यात् । स्तुतेरपि फलपर्यवसानं विना निरर्थकत्वात् ब्रह्मज्ञानफलदर्शकमिदं स्वार्थपरमित्येतदपि तादृशकेशव-दर्शनफलपरमिदमपि स्वार्थपरमेवेति । तादृशार्थवादेन विधिसिद्धेस्तस्य निष्फले अयोगात् । तस्मादयुक्तमेवाऽद्यलक्षणम् ।

द्वितीयमपि न युक्तम् । रजतनिष्ठशुक्त्यनुयोगिकतादात्म्यप्रतियोगित्वावच्छिन्नाभावस्य तदधिकरणत्वस्य वा शुक्तौ सदा विद्यमानस्यैव बाधेन विषयीकरणमात्रस्य कृतत्वेन तादृशाभावस्य ज्ञानप्रयुक्तत्वोक्तेरत्यन्तासम्भावितत्वात् । जगदभावस्यात्मस्वरूपस्य, तदन्यत्वेऽपि तत्र सर्वदाऽऽवृतत्वेन विद्यमानस्य ज्ञानप्रयुक्तत्वायोगात् । अन्यथा तस्य त्रैकालिकत्वानुपपत्त्या त्रैकालिकेत्यादिलक्षणासम्भवापत्तेः । न हि तद्विषयत्वमात्रेण तत्प्रयुक्तत्वम् । चरमवृत्तिविषयस्यात्मनस्तत्प्रयुक्तत्वापातात् । न च ‘ज्ञानाद्रजतमुच्छिन्नं’ ‘विद्वान्नामरूपाद्विमुक्तः’ इत्यादिप्रतीतिश्रुतिभ्यः सार्वकालिकाभावं प्रति ज्ञानस्य प्रयोजकत्व मवगम्यते । धनवान् सुखीत्यादौ धनसुखयोरिवोद्देश्यतावच्छेदकविधेयभावमहिम्ना विद्वत्तानाम-रूपविमोचनरूपोक्ताभावयोः प्रयोज्यप्रयोजकभावबोधनेन सार्वकालिकेप्यागन्तुकप्रयोज्यत्वं स्वीक्रियते । प्रमाणावगते कथन्तायोगादिति वाच्यम् । ध्वंसाद्यर्थकत्वस्यैव तत्र स्फुटमवभासेन त्वदुक्तार्थस्य कथमप्यलाभात् । अन्यथोक्तरथस्थं केशवं दृष्ट्वेति वाक्यस्यापि तादृशार्थकताया दुरपह्नवत्तयोक्तातिव्याप्तेर्दुर्वारत्वापातात् । यदपि साजात्यघटकतया ब्रह्मान्यविषयकज्ञान-बाध्यत्वं निविष्टं तदप्येतद्रूपञ्चेत् आत्माश्रयः । एतत्सजातीयान्तरघटितञ्चेत् अनवस्था । शुक्त्यादिव्यावृत्तमन्यादृशञ्चेत् तस्यैव ज्ञानमात्रं निवेश्य सर्वसाधारण्येन परिष्कर्तुं शक्यत्वा-त्प्रयासस्य बकबन्धतुल्यात् ।

तस्मात् १ज्ञानप्रयुक्तं स्वस्वीयसंस्कारोभयध्वंसकत्वमेव लक्षणं पराभिमतमिति शङ्क-कस्याभिमतम् । चरमक्षणस्य स्वस्वेतरसकलदृश्यनाशत्वं स्वीक्रियते । यद्वा तत्वसाक्षात्कारस्य स्वेतरदृश्यनाशरूपत्वं स्वनाशत्वं च स्वद्वितीयक्षणावच्छेदेन स्वीक्रियते । तथा च ज्ञाय-प्रयुक्तस्य चरमनाशस्य सर्वपदार्थतत्संस्कारनाशरूपत्वात्सर्वत्रापि लक्षणसङ्गतिः । शुक्तिसाक्षा-त्कारेण रजतस्य संस्कारसहितस्य नाशात्तत्रापि लक्षणसङ्गतिः । सर्वेषामपि पदार्थानां स्वसूक्ष्मावस्थारूपसंस्काराभ्युपगमान्न घटादावप्रसिद्ध्याऽव्याप्तिः । सेतुदर्शनजीवन्मुक्ति-कालीनब्रह्मसाक्षात्कारादिभिः पापाप्रारब्धकर्मप्रभृतीनां स्वरूपेण नाशेऽपि संस्काररूपेणाव-स्थानान्न तेष्वतिव्याप्तिः । विदेहकैवल्यप्रापकचरमसाक्षात्कारस्यैव सकलदृश्योच्छेदकत्वात् ।

न च ‘विद्वान्नामरूपाद्विमुक्तः’ इति श्रुतौ मुचेः प्रयोगबलात् १संस्कारनामरूपनाशस्य ज्ञानप्रयोज्यत्वाङ्गीकारे

रथस्थं केशवं दृष्ट्वा सर्वपापैः प्रमुच्यते ।

सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यामपोहति ।

एवं है वास्य सर्वे पाप्मानः प्रदूयन्ते ।

इति श्रुतिबलात् पापादीनामपि ससंस्काराणामेव नाशसिद्ध्यापत्त्या तत्रातिव्याप्तिः पूर्वोक्तलक्षणेष्विवात्रापि दुर्वारेति कथमेतल्लक्षणं शङ्ककाभिमतमिति वाच्यम् । ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’ इति श्रुतौ सर्वपदस्यासङ्कुचितवृत्त्यनुरोधेन स्थूलसूक्ष्मसर्वबन्धनाशस्य ज्ञान-प्रयुक्तत्वावगमात् तत्समाख्यया विद्वानित्यादिश्रुतीनामपि तादृशार्थकत्वात् प्रकृते संस्कार-सहितस्य ज्ञानेन नाशसिद्धावपि पापादिपदानां स्थूलावस्थापन्नवस्तुवाचितया सर्वपदसमभि-व्याहारेऽपि संस्कारनाशासिद्ध्या तत्प्रतिबन्देरनवकाशेन पूर्वोक्तातिव्याप्तेरत्रानवकाशादित्यभि-प्रायात् ।

अत्रोत्तरज्ञाननाश्ये पूर्वविशेषगुणेऽतिव्याप्तिवारणाय स्वीयसंस्कारनिवेशः । २स्मृतिनाश्य-स्वसंस्कारकानुभवातिव्याप्तिवारणाय स्वनिवेशः । स्मृतेः संस्कारानाशकत्वे स्वेति न देयम् । ज्ञानप्रयुक्तस्वसंस्कारध्वंसकत्वमात्रस्य सम्यक्त्वात् । एवं चैतल्लक्षणं स्वमते कुत्रापि जगति नास्ति यथा तथा शुक्तिरजतादावपि नास्तीति किं जगद्ग्रहणेनेति शङ्का युक्तैवेति समाधत्ते ।। मैवमिति ।। न हीति ।। हीत्यनेन पराभिमतत्वाभावे बाधकानां स्फुटत्वं सूचयति ।

तथा हि । यस्य क्षणस्य ३सर्वदृश्यप्रतियोगिकत्वं ध्वंसत्वं स्वीक्रियते तस्य स्वप्रति-योगिकत्वं स्वीक्रियते न वा । आद्ये स्वस्य स्वप्रतियोगिकध्वंसत्वाङ्गीकारे ध्वंसप्रतियोगिनोरेक कालवृत्तित्वायोगात् स्वात्मकप्रतियोग्यधिकरणकालस्य स्वात्मकध्वंसवत्त्वाङ्गीकारे स्वव्याहतिः। प्रतियोग्यधिकरणकालवृत्तेर्ध्वंसत्वाङ्गीकारे तस्य पारिभाषिकतापत्तेः ।

न च प्राभाकरमते ज्ञानप्रागभावध्वंसयोरात्मस्वरूपतया ज्ञानाधिकरणकालस्यैवाऽत्मरूप-तत्प्रागभावध्वंसवत्त्वाङ्गीकारान्नायं विरोधः सम्मत इति वाच्यम् । ज्ञानेच्छाधर्मादिकालेऽपि तन्नाशभविष्यत्त्वयोः प्रतीतिप्रामाण्यवारणायाऽत्मन्यनुयोगितारूपध्वंसत्वप्रागभावत्वयोः सामग्री नियम्यत्वानादित्वयोः स्वीकारात् तद्विशिष्टाधिकरणकालस्य प्रतियोग्यधिकरणत्वाभाव-नियमाक्षतेः । न च प्रकृतेऽपि तथाऽस्त्विति वाच्यम् । सर्वदृश्यनिरूपिताया एवानु-योगितायाः स्वनिरूपितत्वात्तद्विशिष्टस्वनिरूपिताधिकरणतावत्कालस्य दृश्यत्वरूप-प्रतियोगितावच्छेदकविशिष्टस्वनिरूपिताधिकरणत्वस्वीकारध्रौव्येण व्याहतेरपरिहारात् । न च तत्क्षणरूपध्वंसे दृश्यत्वतादृशानुयोगितयोः सत्त्वेप्यन्यतरस्य कालनिरूपिताधेयता-वच्छेदकत्वानङ्गीकारात् न व्याहतिरिति वाच्यम् । तादृशानुयोगित्वावच्छिन्नाधिकरणता-नङ्गीकारे विरोधिनोऽभावात् सर्वदृश्यानामपि तत्क्षणस्येवानुवृत्तिप्रसङ्गः । तत्काले दृश्यत्वा-वच्छिन्ननिरूपकताकविलक्षणाधिकरणता न स्वीक्रियते इत्येतदसङ्गतमेव । तदुपलक्षिताधि-करणतातिरिक्ततद्विशिष्टाधिकरणतायां मानाभावात् । अङ्गीकारे वा प्रकृते तत्सत्त्वाभावे बीजाभावात् । आधेयदृश्ये दृश्यत्वसत्तातिरिक्तनियामकस्य निरूपयितुमशक्यत्वात् ।

स्वस्य स्वप्रतियोगिकध्वंसत्वानङ्गीकारे तस्य ध्वंसान्तरानङ्गीकारे आत्मवदनुवृत्तिप्रसङ्गेन नित्यत्वं स्यात् । ध्वंसाभावेऽपि नानुवृत्तिरित्येतद्बालभाषणम् । अननुवृत्तिपदार्थानिरूपणात् । ध्वंसान्तराङ्गीकारे तस्याप्युच्छेदाभावे पुनर्द्दश्यसामान्योच्छेदरूपमोक्षासिद्धिः । उच्छेदे तस्याप्येवमित्यनवस्था ।

आत्मैव सर्वदृश्यनाश इति चेत् तत्र विद्यमानसर्वदृश्यध्वंसत्वरूपानुयोगितायाः ध्वंसाङ्गी-कारानङ्गीकारयोरुक्तदूषणगणापरिहारात् । उत्तरोत्तरध्वंसानां नाशकसामग्र्यनिरूपणाच्च ।

यत्तु ‘चरमक्षणश्चरमवृत्तिर्वा स्वस्वेतरसर्वदृश्यप्रतियोगिकध्वंदत्वेनाङ्गीक्रियते । तथापि न व्याहतिः । प्रतियोग्यधिकरणकालपूर्वस्य प्रतियोग्यधिकरणकालपूर्वकालसामान्यस्य वा तद्ध्वंसत्वविशिष्टाधिकरणत्वाभाव इति वादिद्वयसिद्धनियमेन निखिलातिप्रसङ्गवारणसम्भवे ध्वंसान्तराकल्पने लाघवेन त्वदुक्तनियमस्यानादरणीयत्वात्’ इति । तत्तुच्छम् । नियमो हि तद्ग्राहकप्रमाणानुसारेणैव कल्प्यः । न त्वन्मनोनुसारेण । इत्थं च लोके यदि कश्चिदपि ध्वंसत्वविशिष्टः सन् प्रतियोग्यधिकरणकाले वर्तमानस्तदधिकरणकालपूर्वसामान्येऽवर्तमान उपलभ्येत तर्हि तदनुसारेणास्मदुक्तनियमं परित्यज्य भवदुक्तनियमः स्यात् । न चैतत्कुत्रापि दृष्टचरम् । ‘प्रतियोगितद्ध्वंसौ मिलिताविदानीं स्तः’ इति कस्यापि प्रत्ययाभावात् ।

न च प्रतियोगिनः प्रागभावनाशकतामते प्रागभावतद्ध्वंसरूपप्रतियोगिनोरेकक्षणे मेलनमस्तीति वाच्यम् । तन्मते प्रतियोगिनस्तद्ध्वंसरूपत्वाभावेनातिरिक्तस्यैव द्वितीयक्षणे उत्पत्त्यङ्गीकारेणास्मदुक्तनियमाक्षतेः । अन्यथा स्वस्यैव स्वोपधायकतापत्तेः । न च प्रकृत-स्थलानुसारेणैव त्वदुक्तनियमस्त्यज्यत इति युक्तम् । तथा सति सर्वव्यवस्थायाः स्वाभ्युपगम-निबन्धनत्वापत्तेः । न च चरमक्षणादिरूपध्वंसस्य ध्वंसान्तराकल्पनालाघवमेवैतन्नियामकमिति युक्तम् । अन्यत्रापि तथात्वापत्तेः । न च ज्ञात्वा देवमिति श्रुत्या सर्वदृश्यानां युगपन्नाशाव-गमात्तन्निर्वाहायाद्वितीयत्वादिश्रुत्युक्ताद्वितीयत्वादिनिर्वाहाय चैतत्सर्वं कल्प्यत इति वाच्यम् । ज्ञात्वा देवमिति श्रुतौ पाशशब्दितदुःखसाधनानामेव नाशश्रवणेन सर्वनाशानवगमात् । अन्यथा पाशपदवैयर्थ्यापत्तेः । न चात्मव्यावृत्त्यर्थं पाशपदमिति युक्तम् । तत्सम्बन्धं विना जडानां दुःखाजनकत्वात् जडवदात्मनोऽपि दुःखप्रयोजकतया पाशपदेनापि तदव्यावृत्तेः । ज्ञात्वेत्यादिश्रुतिभिः ज्ञानोत्तरमेव दृश्यनाशावगमेन ज्ञानस्य सर्वदृश्यनाशरूपताया अनेन वाक्येनाप्रत्ययाच्च ।

समानकालीनत्वस्य त्वाप्रत्ययार्थस्य क्वचिददृष्टत्वेन ‘तत्समानकालिकत्वस्य मोचन-शब्दितनाशे बोधनेन तत्त्वज्ञानतादृशनाशयोरैक्यं प्रतीयते । समानकालीनयोः, एकस्यापि वा रूपभेदेन प्रयोज्यप्रयोजकभावः स्वीक्रियते’ इत्येतत् स्वमनोरथाप्तये श्रुतिमातुः कचाकर्षण-मात्रम् । ‘कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति’ इत्येवञ्जातीयकश्रुतिपुराणादेर्बहुशः उपलम्भेन तेन कार्यकारणभावस्यैव प्रतीत्या तदभेदाप्रत्ययात् उक्तप्रयोज्यप्रयोजकभावाभ्युप-गमश्च स्वेच्छामात्रमूलकः ।

अत एव ‘विद्वान्नामरूपाद्विमुक्तः’ इत्यादौ ज्ञानसामग्रीवल्लक्षकं विद्वत्पदम् । नामरूप-विमोचनरूपज्ञाने तत्प्रयोज्यत्वमुद्देश्यतावच्छेदकविधेयभावमहिम्ना भासते । एवं ज्ञात्वेत्यादि-स्थलेऽपि । एवं च त्वाप्रत्ययस्य प्रचुरप्रयोगसिद्धोत्तरकालिकत्वस्याप्यपरित्यागः इत्यपि प्रत्युक्तम् । स्वेच्छामात्रेण निर्निमित्तं लक्षणाङ्गीकारे ब्रह्मपरवाक्यस्यापि शून्ये लक्षणाया उक्तवाक्य एव १मुक्त इत्यादेरात्महानिरूपमोक्षलक्षकत्वादेरपि सम्भवेन लाघवेन शून्यवादस्यैव श्रुत्यभिप्रेतत्वप्राप्तेः । ‘नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ इत्यनेन नामरूप-विमोचनोत्तरं पुरुषप्राप्तिरूपक्रियाश्रवणात्तस्यैव सर्वदृश्यनाशत्वे तदुत्तरत्र क्रियाश्रवणानु-पपत्तेश्च । अधिकमन्यत्रानुसन्धेयम् ।

अद्वितीयश्रुतीनामनिर्वचनीयसिद्धेः प्राग्व्याहत्या अलब्धात्मनां नैतच्छ्रुत्यनुग्राहकत्वम् । ‘अणोरणीयान्’ इत्यादिश्रुतीनां व्याहत्यभावात्परेषां ब्रह्मकारणत्वादिश्रुतीनामिवापूर्वार्थत्वा-त्स्वार्थपरत्वनिश्चयात्तदुपपादकतया प्रमाणान्तरसिद्धाचिन्त्यशक्तिराश्रीयत इति नास्माकं त्वन्मत इव प्रकृतवाक्यार्थसिद्ध्यर्थमेवाप्रामाणिकव्याहतपरम्पराश्रयणमित्याद्याकरे व्यक्तम् ।

लाघवायैव प्रकृते लोकसिद्धं प्रतियोगिध्वंसयोरसमानकालिकत्वनियमं परित्यज्य नियमान्तराश्रयणे लोकसिद्धं कारणस्य साक्षात् व्यापारघटितसम्बन्धेन वा कार्याव्यवहित-प्राक्क्षणवृत्तित्वं परित्यज्योभयसिद्धं कारणस्य कार्योत्तरकालानुत्पन्नत्वमात्रनियममङ्गीकृत्याभेदे प्रयोज्यप्रयोजकभावादिकमिव व्यवहितस्य फलोपधायकत्वमभ्युपेत्य यागस्वर्गयोः कार्यकारण-भावोपपादनसम्भवेन अपूर्वकल्पनाया निर्मूलत्वापत्त्या तद्विलयापत्तेश्च । ध्वंसान्तराकल्पने लाघवमितिवत् १तदभावाकल्पने लाघवमिति वक्तुं शक्यत्वाच्च । तत्त्वज्ञानस्य चरमक्षणानां तत्कालीनान्तवायुसंयोगव्यक्तीनां वा सर्वदृश्यध्वंसत्वं कल्प्यत इत्यत्र विनिगमकाभावा-दतिरिक्तध्वंससिद्धेश्च ।

यदत्र ‘प्रतियोगिप्रागभावयोरिव ध्वंसप्रतियोगिनोरप्यभेदो व्याहतः’ इत्याशङ्ग्य ‘प्रतियोगिदेशनियमाय कल्प्यमानकारणताकप्रागभावस्य प्रतियोगि भेदकधर्मवत्त्वेनैव सिद्धेः’ इत्युक्तं तदत्यन्तमसङ्गतम् । ध्वंसरूपकार्यं प्रति लाघवात् २प्रतियोगिरूपप्रागभावस्यैव तद्देश-नियमाय कल्पनीयतया प्रतियोगिध्वंसयोरपि भेदवत्त्वेनैव सिद्धेः ।

अत्र यदुक्तम् ‘अधिकं तत्वरत्नपरीक्षायां द्रष्टव्यम्’ इति तत् तत्खण्डनावसर एवाधिकनिरासेन निराकृतं भविष्यति ।

यदपि ‘स्वस्य स्वध्वंसत्वं न घटते । प्रतियोगिजन्याभावस्यैव ध्वंसत्वात्’ इत्याशङ्ग्य ‘अनुयोगिताविशेष एव ध्वंसत्वं प्रतियोगिन्यपि कालविशेषावच्छेदेन स्वीक्रियते । जन्याभावत्वस्य ध्वंसत्वे कपालरूपजन्यघटरूपादावतिव्याप्तेः । भावभिन्नत्वनिवेशे घटादीनां स्वप्रागभावध्वंसत्वानुपपत्तेः’ इति । तन्न । प्रतियोगिनि कालविशेषावच्छेदेन ध्वंसत्वाभ्युपगमे प्रतियोगिध्वंसयोरेककालसत्त्वेनाविरोधितया ध्वंससद्भावेऽपि प्रतियोग्यनुवृत्तेरुत्तरक्षणेषु प्राप्त्या तादृशध्वंसत्वं पारिभाषिकं स्यात् । अन्यथा प्रतियोगिनि सर्वदा विद्यमानप्रमेयत्वाभिधेयत्वा-दीनां तद्ध्वंसत्वरूपत्वं किमिति नोच्यते । न च प्रतियोगिनि यदा ध्वंसत्वं तदुत्तरक्षणे प्रतियोग्यननुवृत्तिरिति न प्रमेयत्वादीनां तथात्वमिति वाच्यम् । तथात्वे उत्तरक्षणे प्रतियोग्य-भावेऽवश्यं वाच्ये तस्यैव ध्वंसत्वं सर्वसम्मतमस्तु । किमर्थमेकस्मिन् क्षणे प्रतियोगिनि ध्वंस-त्वस्याप्रामाणिकस्याभ्युपगमः। यथोक्तम् ‘अभूत्वा भवनमुत्पत्तिः। भूत्वाऽभवनं ध्वंसः’ इति ।

त्वदीयचरमक्षणे तत्वज्ञाने वा ध्वंसत्वाभ्युपगमे उत्तरत्र क्षणस्यैवाभावेन त्वन्मते तत्र तद-भावस्य वक्तुमशक्यत्वे तादृशतत्वज्ञानचरमक्षणतन्निष्ठध्वंसत्वादिरूपप्रपञ्चसम्बन्धेन न शुद्धाऽत्मरूपेणावस्थानरूपमोक्षप्रसक्तिः ।

न चोपादानगतोत्तरावस्था ध्वंस इति मते कपालाद्यभिन्नतादृशावस्थाविशेषस्य ध्वंसत्वे घटकपालयोरैक्याद्धटेऽपि ध्वंसत्वमागतमिति वाच्यम् । परिणामिन एकत्वेऽपि तादृशावस्था-विशेषघटादिरूपपरिणामानामत्यन्तविलक्षणत्वात्परिणामिनापि भेदाभेदसत्त्वेनोक्तस्यानुपपत्तेः । अन्यथा कपालमृत्पिण्डादिना जलाहरणाद्यापत्तेः ।

लक्षणदूषणमप्ययुक्तम् । भावप्रतियोगिकध्वंसस्यैवैतल्लक्षणलक्ष्यत्वात् । अन्यथा घटाभावा- भावात्मके घटे अव्याप्त्या ‘नित्यसंसर्गाभावत्वमत्यन्ताभावत्वं न । किं त्वनुयोगिताविशेष एव’ इति घटस्यैव घटात्यन्ताभावत्वं स्वीकर्तव्यं स्यात् । अविशेषात् । एतेन ‘चरमक्षण-तत्सम्बन्धयोरेव परस्परं ध्वंसत्वम्’ इति प्रत्युक्तम् । प्रतियोगिध्वंसयोः समानकालीनत्वायोगा-प्रामाणिकत्वादिरूपपूर्वोक्तदोषाणामविशेषात् । तस्मात् ध्वंसस्य तत्वज्ञानजन्यतापक्षाश्रयणेन परिष्कारो न युक्त एव ।

अपि च संस्कारस्य संस्काराभावादनादिजीवेशतद्विभागादीनां संस्काराभ्युपगमे बीज-प्रमाणयोरभावाच्च तेषां स्वीयसंस्काराप्रसिद्ध्या ज्ञानप्रयुक्तस्वस्वीयसंस्कारोभयध्वंसकत्व-लक्षणस्याव्याप्तिः । सामान्यधर्मावच्छिन्नप्रतियोगिताकध्वंसाभ्युपगमाभावे असम्भवश्च । तस्मादुक्तमयुक्तम् ।

एतेन ‘ज्ञानप्रयुक्तोच्छेदप्रतियोगित्वं वा तत् । उच्छेदश्च स्वस्वीयसंस्काराधिकरणकाल-निष्ठतादृशान्यतराधिकरणकालपूर्वत्वाभाव एव । तत्प्रतियोगित्वं च परम्परया तन्निरूपक-त्वम् । तथा च स्वस्वीयसंस्काराधिकरणकालनिष्ठतदन्यतराधिकरणकालपूर्वत्वाभावकत्वं पर्यवसितम्’ इति परास्तम् । अनादिदृश्यसंस्कारतत्वज्ञानतत्समानकालिकवायुसंयोगादिष्व-व्याप्तेः । तत्वज्ञानतत्समानकालिकानामुत्तरक्षण एवोच्छेदेन तन्नाशोत्तरविद्यमानतत्सूक्ष्मरूप-संस्कारप्रसिद्ध्यभावात् । अपि चोच्छेदरूपतादृशाभावस्य नाशो वर्तते न वा । नाद्यः । तन्नाशस्यापि नाशान्तराभ्युपगमे अविश्रान्तनाशधारापत्त्या न कदापि शुद्धात्मस्वरूप-मोक्षाशा । क्वचिद्विश्रान्तौ तस्यैव नाशाभावेनात्मस्वरूपारोपिततया सिद्ध्या न निष्प्रपञ्च-ब्रह्मरूपावस्थितिरिति पूर्वोक्त एव दोषः । अविद्यानिवृत्त्युत्तरमपि प्रतीयमानानां तेषां उच्छेदकाभावादात्मस्वरूपमात्रानुबन्धित्वाच्च कदाचिदप्यनिवृत्तेश्च । न द्वितीयः । १तस्यैव नाशेनोत्तरत्रापि अनुवृत्त्या स्वपदेनोपादेये तस्मिन् स्वस्वीयेत्यादिलक्षणगमनायोगः । स्वाधिकरणक्षणे तादृशान्यतराधिकरणीभूतक्षणपूर्वत्वसत्त्वात् ।

दृश्याधिकरणक्षणे दृश्याधिकरणक्षणपूर्वत्वाभाव एवोच्छेद इति सामान्यतो दृश्यत्वेन निवेशेन परिष्कारे तादृशोच्छेदरूपाभावस्य नाशानाशपक्षद्वयेऽप्युक्तलक्षणव्याहतेः तद्रूपस्य दृश्यस्य तन्नाशरूपदृश्यस्य वाऽनुच्छिन्नतया सत्त्वात् ।

ननु तादृशोच्छेदस्य ध्वंसो नास्त्येव । ध्वंसाप्रतियोगित्वरूपं पारिभाषिकं नित्यत्वं घट-त्वादीनामिवेष्टम् । परन्तु चरमक्षणावधि । तदुत्तरं कार्यजनकादृष्टाभावान्न कस्याप्युत्पत्तिरिति क्षणानामप्यनुत्पत्तिः । इत्थं च न स्वत्वेन घटितलक्षणस्याव्याप्तिः । स्वाधिकरणस्य चरम-क्षणस्य स्वाधिकरणीभूततत्क्षणनिरूपिततत्पूर्वक्षणप्रसिद्धपूर्वत्वाभाववत्त्वात् । नापि दृश्यत्वेन सामान्यतो निवेश्य कृतपरिष्कारस्य स्वरूपाप्रसिद्धिरूपव्याहतिः । न चोच्छिद्यमानपदार्थानां ध्वंसप्रतियोगित्वनियमः । घटत्वादीनां तु नोच्छेदोऽद्यापि सिद्धोऽस्मत्सम्मतश्च । येन तत्रोक्तनियमस्य व्यभिचारः स्यात् । तथा चोच्छिद्यमानत्वादेव ध्वंसप्रतियोगित्वस्यावर्जनीय-तया पूर्वोक्तसर्वदोषो दुर्वार एवेति वाच्यम् । स्वाप्नव्याघ्रशुक्तिरजतादीनामुक्तोच्छेदशालिनामपि घटादीनां मुद्गरपातादिनेव ध्वंसानुपलम्भेन व्यभिचारेणोक्तनियमस्यैवायोगादिति चेन्न । मुद्गरपाताद्द्वितीयक्षणे घटानुपलब्धिवत् शुक्तिसाक्षात्काराद्द्वितीयक्षणे जाग्रद्द्वितीयक्षणे वा शुक्तिरजतस्वाप्नव्याघ्राद्यनुपलब्धेः अविशेषाद्धटो नष्ट उच्छिन्नो ध्वस्तो गत इत्यादिवत् स्वाप्नव्याघ्रबन्धादिकं शुक्तिरजतादिकं च नष्टमुत्सन्नं गतं ध्वस्तमिति व्यवहाराविशेषात् एकस्य ध्वंसो अन्यस्य नास्तीत्युक्तेरनिवेचनीयवादिनः तव साहसत्वात् । न हीतोऽन्यत् घटध्वंस-साधकस्य शृृङ्गमस्ति । शुक्तिसाक्षात्काराद्द्वितीयक्षणे रजताभावसत्त्वे तस्यैव ध्वंसरूपत्वम् । पूर्वक्षणे सत्तादात्म्यापन्नतया विद्यमानो यस्तद्द्वितीयक्षणे प्रतीयमानतत्प्रतियोगिकाभावस्यैव ध्वंसत्वात् । घटादिस्थलेऽप्येतदतिरिक्तविशेषादर्शनात् । तथा च कथमुक्तनियमस्य व्यभिचारः । कथं वा तमवष्टभ्य प्राप्तदूषणपरिहारः स्यात् ।

ननु शुक्तिरूप्यादौ ध्वस्तं गतमित्याकारो मुख्यार्थालम्बनः सार्वजनीनः प्रत्ययो नास्त्येव । तथात्वे त्वया तदसत्त्वं नाङ्गीक्रियेत । क्वाचित्कव्यवहारस्तज्ज्ञानध्वंसविषयकः । तथा चाधिष्ठानसाक्षात्कारोत्तरं प्रतीयमानोऽभावो न ध्वंसः । तत्कालेऽविद्यमानस्य तदुत्तर-क्षणे प्रतीयमानस्यैव ध्वंसत्वात् । अयं तु पूर्वमपि विद्यमान एव रजतप्रतीत्यपगमे प्रतीयते । अतोऽत्यन्ताभाव एव सः । घटादौ तु नैवम् । व्यवहारकाले तदुत्तरं ध्वंसस्यैव प्रतीते-र्निर्विवादत्वादिति मत एवैतन्निरुक्तेः कृतत्वात् । तत्रोक्तस्वाप्नव्याघ्रशुक्तिरजतादावुक्त-व्यभिचारो युक्त एवेति चेन्न । तर्हि अधिष्ठानसाक्षात्कारो रजतप्रतीतिमात्रविरोधी रजत-प्रतीतावपगतायां पूर्वसिद्धरजताभावः स्वयमेव प्रतीयत इत्यागतम् । तथा च रजताधिकरण-क्षणनिष्ठरजताधिकरणक्षणपूर्वत्वाभावे ज्ञानस्योपयोगाभावेन तादृशोच्छेदस्य ज्ञानप्रयुक्तत्वा-भावात्तत्वज्ञानस्थलेऽप्येवं रीतेः सत्त्वादुक्तलक्षणस्यासम्भव एव । न च ज्ञानेन रजतप्रतीति-निवृत्तौ प्रतीतिमात्रशरीरस्य रजतस्य निवृत्तिप्राप्त्या रजतक्षणे तदधिकरणक्षणपूर्वत्वाभावो लभ्यत इत्यस्त्येव ज्ञानस्योपयोग इति वाच्यम् । रजतप्रतीत्यप्रतीतिभ्यामेव रजतस्य क्षण-सम्बन्धासम्बन्धयोरङ्गीकारे द्वितीयक्षणे विद्यमानतदसम्बन्धस्य तद्ध्वंसरूपतयोक्तनियमस्य व्यभिचारयोगात् । प्रतीत्यधीनस्य तात्कालिकस्य वा क्षणसम्बन्धस्य रजतेऽनङ्गीकारे च रजताधिकरणक्षणाप्रसिद्ध्याऽव्याप्तिरसम्भवो वा स्यात् ।

अस्तु वा ध्वंसाभावस्तस्य । तथापि स्वस्वीयसंस्काराधिकरणक्षणनिष्ठतदन्यतराधि-करणक्षणपूर्वत्वाभावकत्वरूपं १संस्काराघटितं चोच्छिद्यमानत्वं शुक्तिरूप्यादौ घटादौ च क्रमात् स्वस्वीयसंस्काराभाववत्स्वोत्तरक्षणकत्वस्य स्वाभाववत्स्वोत्तरक्षणकत्वस्य व्याप्यं दृष्टमिति तद्बलादेव त्वदभिमतोच्छेदोत्तरक्षणतद्वत्त्यभावादिप्राप्तौ तस्याप्युच्छेदपरम्पराप्राप्त्या ध्वंसपक्षोक्तदोषः सामान्यतो दृश्यत्वेन घटितलक्षणस्य स्वरूपालाभश्च दुर्वार एव ।

न चैवं संसारदशायां स्वाधिकरणक्षणेषु स्वनिष्ठबन्धाधिकरणक्षणपूर्वत्वाव्यभिचारदर्शनेन तादृशव्याप्तिसिद्धौ तद्बलात् त्वदभिमतमुक्त्यसिद्धिप्रसङ्गः । विपक्षे बाधकाभावेन सहचारदर्शनमात्रस्याप्रयोजकतया तत्र व्याप्त्यनभ्युपगमे प्रकृतेऽपि तथाऽस्त्विति कुतस्त्वदुक्त-दूषणावकाश इति वाच्यम् । ‘तीर्णो हि सर्वान् शोकान् हृदयस्य भवति’ ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’ इत्याद्यनेकमोक्षश्रुतिबाधितत्वेन तादृशनियमानङ्गीकारात् । त्वदभिमतोच्छेद-बोधकस्य कस्यापि वाक्यस्याभावेन त्वदुत्प्रेक्षामात्रस्य ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति’ ‘गौरनाद्यन्तवती’ इत्यादिजगदनुच्छेदबोधकप्रमाणानुगृहीताव्यभिचारसहचार-दर्शनगृहीतनियमबाधकत्वायोगात् । प्रामाणिकपरित्यागस्यैव विपक्षे बाधकत्वात् । न हि कार्यकारणभावादिरेव सर्वत्र व्याप्ति ग्राहकः । रसरूपसङ्ख्यापरिमाणपृथिवीत्वद्रव्यत्वादीनां व्याप्त्यसिद्धिप्रसङ्गात् । अत उक्तदूषणं युक्तमेव ।

अपि च तत्वज्ञानतत्क्षणतन्निष्ठतादृशक्षणपूर्वत्वाभावरूपोच्छेदादीनां ध्वंसाप्रतियोगित्वं स्वीकृत्य तदुत्तरं क्षणादिरूपदृश्यानुत्पत्तिमात्रेण तेषूक्तोच्छेदोपगमे तस्य प्रमेयत्वादिवत् तत्स्थित्यविरोधेन तैस्तत्समानकालिकपदार्थैर्ब्रह्मणः संसृष्टतयैवावस्थानान्निष्प्रपञ्चब्रह्मानन्द-प्रकाशरूपमोक्षासिद्धिः ।

नन्वस्त्वेतद्दूषणम् । लक्षणस्य तु किमागतमिति चेत् । यद्धर्मज्ञानं सदिति व्यवहारविरोधि तद्धर्मस्यैव मिथ्यापदार्थतावच्छेदकत्वेन तदितरस्यातथात्वात् प्रमेयत्वादिवत्तदविरोधिनोऽस्य धर्मस्य मिथ्यापदप्रवृत्तिनिमित्तत्वायोगात् लक्षणत्वानुपपत्तिरेव । मिथ्यापदार्थत्वावच्छेदकस्यैव निर्वाच्यत्वात् । अन्यथा जडत्वमेव मिथ्यात्वमिति कुतो नोच्येत । इतरभेदानुमापकत्व-पक्षेऽपि सर्वथा ध्वंसाप्रतियोगिनः सत्प्रतीतिगोचरस्यापरिच्छिन्नब्रह्मवदमिथ्यात्वप्राप्त्या अलक्ष्यताया अवर्जनीयतया तत्साधारणस्यैतल्लक्षणस्यातिव्याप्तिरेवेति दूषणं पर्यवस्यति ।

किञ्च ‘तदा विद्वान्’ ‘ततः परं न भेदोस्ति’ इत्यादिश्रुत्यादिव्यवहाराणां ‘तत्वज्ञानोत्तरं किमपि नास्ति’ इत्यादित्वद्व्यवहाराणां च प्रामाण्यं न वा । आद्ये तेनैव तत्वज्ञानोत्तरोत्तर-क्षणादिसिद्धेस्त्वल्लक्षणव्याहतिः । अन्त्ये मुक्त्यनन्तरं किमपि नास्तीत्यस्याप्रामाण्ये तदुत्तर-कालादिसद्भावप्राप्त्या पुनरुक्तव्याहतिः । न चैतद्वाक्यानामुक्तोच्छेदे लक्षणया तात्पर्याङ्गी-कारान्नाप्रामाण्यमिति वाच्यम् । उक्तलक्षणया बोधस्य कीदृशार्थमादाय पर्यवसानमिति वादिना शिष्येण वा पृष्टे ‘तदनन्तरं किमपि द्वैतं नास्ति’ इत्युत्तररूपत्वद्वाक्यस्यैवेदानीमुक्त-विकल्पेन दूषणदानात् । अन्यथा तव मूकत्वं स्यात् । श्रुतीनामपि प्रतीयमानद्वारीभूत-बोधविषयीभूतार्थे व्यावहारिकप्रामाण्यस्याप्यभावे कर्मादिप्रतिपादकवाक्यानां ब्रह्ममात्रलक्षणया तद्बोधकत्वमात्रमादृत्य कर्मादावपि व्यावहारिकप्रामाण्यत्यागस्याविशेषेणाऽपत्त्या स्फुट एव नास्तिकवादः ।

नन्वङ्गीक्रियत एवास्मद्वाक्यस्य श्रुतीनां च व्यावहारिकप्रापाण्यम् । तदर्थमाविद्यकोपि मुक्त्युत्तरकालः स्वीक्रियते । यदा व्यवहारः क्रियते तदा तद्विषयस्य स्वर्गनरकादिवत्सत्त्वात् । तत्वज्ञानेन सोप्युच्छिद्यत एवेति उक्तोच्छेदनिर्वचनमपि नानुपपन्नमिति चेन्न । तर्हि व्यवहार-दशायामेवोक्तनिर्वचनस्य कर्तव्यतया व्यवहारकाल एव बद्धपुरुषाविद्याकल्पिततत्वज्ञानादिरूप-दृश्याधिकरणकाले व्यवहारदशायामेव बद्धपुरुषाविद्याकल्पितक्षणत्वकालत्वादिरूपदृश्याधि-कारणकालपूर्वत्वस्य व्यावहारिकस्यैव सत्त्वात्कथं लक्षणसङ्गतिः । अन्यथा लक्षणान्तरेष्वपि व्यवहारदशापन्नपदार्थानादाय दोषो न परिहर्तव्यः स्यात् । न चानयोर्मात्रयापि विशेषोस्ति ।

न च स कालो बद्धपुरुषाविद्याकल्पितोपि न मायाचित्सम्बन्धाद्यात्मकः । स एव लक्षणे निविष्ट इति वाच्यम् । तर्हि शुक्तिरजतादिवत्तस्य प्रातिभासिकत्वस्यैव प्राप्त्योक्तश्रुतीनां अप्रामाण्यं दुर्वारम् । व्यवहारकाले बाधाभावान्न दोष इति चेन्न । उक्तोच्छेदबोधक-श्रुतियुक्त्यादिभिरेव बाधितत्वात् । अन्यथा शून्यवाद्यविद्याकल्पितार्थेषु शून्यवादिवाक्या-नामपि व्यावहारिकप्रामाण्यानपाये त्वद्वाक्यानामपि व्यावहारिकप्रामाण्यवत्त्वेनाविशेषा-त्तत्खण्डनादौ प्रवृत्त्याद्यनुपपत्तेः । एवमिदानीं मुक्त्युत्तरकालस्य कल्पितत्वे इदानीं तदुपलम्भ प्रसङ्गः । भविष्यत्त्वेन कल्पनायां भविष्यत्काले तदुपलब्धिप्रसङ्गात् त्वदुक्तार्थव्याहतेः । अन्यथा सत्कारणत्वाभाववादिकल्पितार्थनिराकरणाय ‘तद्धैक आहुः’ इत्यादिश्रुतिप्रवृत्त्यनु-पपत्तेरित्यादिबहुदोषदुष्टत्वान्न किञ्चिदेतत् ।

एतेन ‘ब्रह्माधिकरणकालस्य ब्रह्माधिकरणकालपूर्वत्वाभावसत्त्वात्तस्यापि उच्छेदापत्तिः । ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिश्रुतिस्मृतीनां व्यावहारिकप्रामाण्यरक्षणाय ब्रह्मणोऽपि कालवृत्तित्वाभ्युपगमात्’ इति दूषणमाशङ्क्य परिहृतं ‘तदन्योन्याभाववतः तदधिकरणकालस्य तदधिकरणकालपूर्वत्वानधिकरणत्वमुच्छेद इत्युक्तावुक्तदोषाभावात् । ब्रह्मज्ञानोत्तरत्वस्यापि शुद्धे ब्रह्मण्याविद्यकस्याभ्युपगमेन तस्य च ब्रह्माधिकरणकालतया तत्पूर्वभावस्य च तदत्यन्तभिन्ने काले क्वाप्यभावात्’ इति निरस्तम् । आविद्यकतत्कल्पनापक्षासङ्गतेरुक्तत्वात् । क्षणादीनां स्वाभाविकत्वे नैयायिकरीत्या कालोपाधिरूपसमानकालिकबहुक्षणानां अभावेन स्ववृत्तित्वस्यैव सत्त्वात् । अन्योन्याभावरूपविशेषणोपादाने उक्तोच्छेदस्य तत्र वक्तुम-शक्यत्वादनुपयोगाच्च तद्विशेषणदानस्यासङ्गतत्वाच्च । न च तत्वज्ञानोत्तरत्वादेराविद्यकस्य ब्रह्मणि कल्पने तदुपहितकालस्य ब्रह्मस्वरूपत्वप्राप्त्या तद्रूपकालस्य ब्रह्माधिकरणीभूतस्य ब्रह्माधिकरणकालपूर्वत्वाभावादुच्छेदापत्तिवारणाय तदन्योन्याभावनिवेशसार्थक्यम् । भेदमात्र-निवेशे उपहितस्य केवलेन भेदाभेदसत्त्वात्तद्दोषतादवस्थ्यं स्यात् । अतोऽन्योन्याभावपद-मत्यन्तभेदार्थकमिति वाच्यम् । ब्रह्मण्याविद्यकस्योत्तरकालसम्बन्धस्य कल्पनेनैव तत्व-ज्ञानोत्तरत्वप्रतिपादकश्रुतीनां प्रामाण्यसम्भवे कालत्वस्य ब्रह्मणि कल्पने मानाभावात् । अभेदे १आधाराधेयभाववारणाय पुनस्तत्र भेदकल्पनाया आवश्यकत्वे प्रथमत एव भिन्नकालसम्बन्धस्यैव कल्पयितुमुचितत्वात् । अन्यथा सांसारिककालत्वस्यापि वैरूप्यपरिहाराय ब्रह्मण्येव कल्पनापत्त्या सर्वत्रासम्भव एव स्यात् । मुक्तौ जडाभावादेव लक्षणसङ्गतिरिति चेत्तर्हि स्वपदेन ब्रह्मग्रहणस्य कर्तुमशक्यत्वादेव सर्वदोषवारणसम्भवात् तदुपपादनस्यानुपयोगापत्तेः ।

न च भिन्नकालकल्पने उक्तविवक्षया ब्रह्मोच्छेदरूपदोषस्य परिहारायोगादेवं कल्प्यत इति वाच्यम् । स्वविवक्षानिर्वाहाय गौरवाश्रयणस्यानुचितत्वात् । एतद्दोषस्य स्वान्यूनसत्ताक-स्वाधिकरणकालस्य स्वाधिकरणकालपूर्वत्वाभाव इति विवक्षयापि परिहर्तुं शक्यत्वात् । मिथ्यात्वसिद्धेः प्रागन्यूनसत्तादिप्रक्रियाया इव त्वदुक्ताविद्यकोत्तरत्वादिकल्पनाप्रक्रियाया अप्यसिद्धत्वेन प्रतिवादिनः तदसिद्धिरूपदोषस्योभयत्र तौल्यात् । तस्मान्न किञ्चिदेतत् ।

यत्तु ‘उच्छेदस्तूच्छिद्यमानधर्मपरिपतितेषु जायते । अस्ति वर्धत इत्यादिषु षट्सु भाव-विकारेषु परस्परसामानाधिकरण्यस्योचितत्वेनोपचयोत्पत्त्यादियुक्ते दृश्यवर्गे विद्यमानश्चरमक्षण-सम्बन्धो ध्वंसः । स न त्वतथाविधात्मनिष्ठ इति न तस्योच्छेदापत्तिः । एवं च दृश्याधिकरणक्षणनिष्ठः दृश्याधिकरणक्षणपूर्वत्वाभाव एवाधिकरणात्मा चरमदृश्यस्य ब्रह्म-साक्षात्कारस्य चरमो विकार एक एवाविद्यातत्प्रयुक्ततद्वत्तीनामुच्छेदरूपः । तन्तुनाश इव पटतदवयवतद्विकाराणाम् । न चोच्छेदस्याप्युच्छेदावश्यम्भावः । भावविकाराणां पुनः सजातीयभावविकारान्तराभावात् । अन्यथोत्पत्तेरप्युत्पत्त्यन्तरमित्यनवस्थापत्तेः’ इति । तदपि एतत्परिष्कारस्य पूर्वमेव दूषितत्वादकिञ्चित्करम् ।

उत्पत्तेरप्युत्पत्तिव्यवहारस्य अस्तित्वस्याप्यस्तित्वव्यवहारस्य लोके सत्त्वादनवस्था-भावात्तस्यैव स्वाश्रितत्वं प्रमेयत्वादिवदङ्गीक्रियते । नाशादेर्नाशव्यवहाराभावात्स्वान्यस्य स्वस्य वोच्छेदस्याश्रयो न भवत्वयेव । अतस्तद्दृष्टान्तेनोक्तोच्छेदस्य स्वीयोच्छेदरूपत्वाभावेन तस्यानुच्छिद्यमानत्वरूपध्वंसाप्रतियोगित्वस्यैव प्राप्त्या पूर्वोक्तदोषानिस्तारात् । तन्तुनाश-दृष्टान्तस्तु विषमः । तस्य पटादिप्रतियोगिकत्वेऽपि स्वप्रतियोगिकत्वाभावेन बाधकाभावात् । प्रकृते चोक्तोच्छेदरूपनाशस्य प्रतियोगिसम्बन्धित्ववत्स्वसम्बन्धित्वे स्वस्यापि स्वप्रतियोगित्व- प्राप्त्या तत्रोक्तदो षाणां जागरूकत्वात् । न चैतन्मते चरमक्षणसम्बन्धस्यैव ध्वंसत्वेन तस्य प्रतियोगिसमानकालिकत्वस्यावर्जनीयत्वेन प्रतियोगिध्वंसयोरैक्याङ्गीकारेऽभिहितानां भावा-भावयोरेकक्षणवृत्तित्वानुपपत्त्या व्याहत्यादिदोषाणामेतत्पक्षे नावकाश इति वाच्यम् । एवमपि परेण दृश्याधिकरणक्षणे दृश्याधिकरणक्षणपूर्वत्वाभावस्यैवोच्छेदरूपतया पर्यवसानस्य कृतत्वेन तत्र पूर्वोक्तदोषस्यानिस्तारात् ।

न च पूर्वमते एतदन्यध्वंसस्याङ्गीकृतत्वात्तदप्रतियोगित्वे उक्तोच्छेदे चरमक्षणे वाङ्गीकृते स्थिरत्वप्राप्त्या निष्प्रपञ्चब्रह्मावस्थानानुपपत्तिलक्षणदोषोऽभिहितः । एतन्मते चास्यैवोच्छेद-रूपतया तच्छालिन्युक्तोच्छेदे नित्यत्वाप्रसक्त्या कथं तद्दोषावकाश इति वाच्यम् । यतो घटादीनां चरमक्षणो नाम घटाधिकरणक्षणप्रागभावानधिकरणक्षणः । तत्सम्बन्धो ध्वंस इत्युक्तौ घटाधिकरणक्षणे घटक्षणप्रागभावाधिकरणत्वरूपपूर्वत्वाभाव इत्यर्थे पर्यवस्यतीति त्वया एवं चेत्यभिहितम् । तस्य च घटनिष्ठत्वाभावे कथं तस्योच्छिद्यमानधर्मत्वम् । क्षण-वृत्तित्वविशिष्टस्य घटावृत्तित्वात् । उपलक्षितस्य निवेशे नित्येषु कालिकसम्बन्धेन प्रागभावा-नधिकरणेषु वर्तत इत्यनुच्छिद्यमानधर्मिसाधारणस्य प्रमेयत्वादिवदुच्छेदरूपत्वानुपपत्तिः । पूर्वत्वस्य तत्क्षणवृत्तिध्वंसप्रतियोगित्वरूपस्य निवेशेऽप्येष दोषः समानः । तद्ध्वंसत्व-शरीरेऽन्यध्वंसस्य निवेश इत्यनवस्था बाधिका । अतः स्वाधिकरणक्षणनिष्ठस्वाधिकरणक्षण-पूर्वत्वाभावकत्वं पूर्वत्वाभाववत्क्षणसम्बन्धरूपं पर्यवस्यति । अस्य च प्रतियोगिवृत्त्यु-च्छेदपदार्थत्वस्य त्वयाङ्गीकारेऽपि नायमेव ध्वंसः । तथात्वे तत्क्षणसम्बन्धकाले घटो नङ्क्ष्यतीति व्यवहारो न स्यात् । स्याच्चैतत्क्षणे घटो नश्यतीति । नचेष्टापत्तिः । अस्मिन् क्षणे उच्छिद्यत इति व्यवहारवत् अस्मिन् दिवस उच्छिद्यत इत्यादिव्यवहारात् घटाधि-करणदिवसपूर्वत्वाभाववद्दिवससम्बन्धित्वस्य घटाधिकरणमासपूर्वत्वाभाववन्माससम्बन्धस्याऽपि उच्छेदरूपत्वप्राप्त्या समभिव्याहृतदिवसादिपदानां घटाधिकरणदिवसादिपरत्वस्यैव त्वद्रीत्या प्राप्त्यैतद्दिवसे नश्यति एतन्मासे नश्यतीति व्यवहारस्य अस्मिन्दिवसे स्थास्यति न नश्यति इति व्यवहाराभावस्य च प्रसङ्गः । क्षणस्य सूक्ष्मकालतया विशिष्य दुर्विज्ञेयतया तत्रेष्टापत्ति-सम्भवेऽपि सर्वजनविरुद्धे चेष्टापत्तेः कर्तुमशक्यत्त्वात् । यस्य ज्योतिश्शास्त्रेण षष्ठीतिथ्याद्यक्षणे पितृमृतिग्रहः तस्य त्वद्रीत्या पञ्चम्यन्त्यक्षण एव नाशप्राप्त्या नाशाधिकरणतिथौ श्राद्ध-विधायकप्रमाणबलात् पञ्चमीश्राद्धापत्तिः । अन्यथा तद्वाक्ये १वृथालक्षणकल्पनाप्रसङ्गः । एवमन्त्यशब्दज्ञानयोः क्षणिकत्वपक्षे उत्पत्तिनाशयोरैक्यमेव स्यात् । तस्मान्नायं नाशः । किन्तु तादृशचरमक्षणद्वितीयक्षणे प्रतीयमानोऽपलापानर्हो घटाभाव एव नाशः । भवदुक्त-क्षणसम्बन्धस्य नाशत्वे घटो नश्यति नष्ट इतिवत्तन्नाशो नश्यति नष्ट इत्यपि प्रतीतिः स्यात् । एवं चोक्तो ध्वंसरूपोऽभाव उत्तरक्षणे घटानधिकरणत्वनिर्वाहकतया भवदुक्तोच्छेदरूपविशिष्टा-भावनिर्वाहकः । इत्थं च तत्त्वज्ञानोत्तरक्षणानङ्गीकारे तादृशचरमवृत्तेर्नाशाप्राप्त्या त्वदभिमतो-च्छेदस्य स्वाश्रयसत्तानियतस्थितिकतया तस्य स्थिरतायास्त्वद्वाङ्मात्रेण निवारयितुमशक्यतया पूर्वोक्तदोषस्य दुर्वारतैव । एतेन ‘चरमवृत्त्यात्मकविकारस्य सर्वदृश्यनाशरूपविकारभूतस्य न विकारापेक्षेत्यधिष्ठानमात्रपरिशेषः’ इत्यपि निरस्तम् । तत्स्थिरतायाः समर्थितत्वात् ।

एवं ‘सर्वदृश्योच्छेदरूपचरमवृत्त्यात्मकविकारस्य किमधिकरणं दृश्यान्तरं ब्रह्म वा । आद्ये तस्याप्युच्छेदेन भाव्यमित्यनवस्था । द्वितीये सापेक्षनिरपेक्षयोश्च तयोरभेदासम्भव इत्यनु-च्छेदस्तस्य’ इत्यनुपपत्तिमाशङ्क्य ‘वृत्तिनिष्ठोच्छेदस्य वृत्त्यधिकरणकत्वेन तदात्मकत्वादन्तः-करणाद्यभावेन वृत्तिरूपोच्छेदाधिकरणप्रश्न एव पर्यवसानमित्यभिप्रेत्य ब्रह्मनिष्ठतत्तादात्म्यरूप-सम्बन्धस्यापि तद्वज्जन्यतया कालोपाधित्वेन तयोः समानकालिकत्वेन परस्परं कालिकेनाऽधाराधेयभावप्रतिपादनं प्रत्युक्तम् । देशविधया तदधिकरणे पृष्टे कालविधया तदधिकरणकथनस्य असङ्गतत्वात् । देशविधयाऽधिकरणशून्यस्य कालिकेन वृत्त्यदृष्टेः । कथञ्चित् क्वचित्सत्त्वेऽपि तस्य प्रकृते तथात्वे मानाभावात् । तथात्वे पूर्वमधिकरणात्मेत्यनेन तादृशोच्छेदस्याधिकरणात्मकत्वकथनादुक्तचरमवृत्तितत्तादात्म्ययोः परस्परवृत्तित्वेन परस्परात्मकत्वप्राप्त्यैकतरमात्रपरिशेषापातेन त्वदुक्तेरसङ्गत्यपरिहारात् ।

ब्रह्मसाक्षात्कारनिष्ठदृश्याधिकरणकालपूर्वत्वाभावरूपोच्छेदं प्रति तत्वज्ञानजनकसामग्य्रेव कारणम् । १स्वस्य वा समानकालिकस्यापि प्रयोजकत्वम्’ इत्यप्ययुक्तम् । एकसामग्री-नियम्ययोः प्रतियोगितन्नाशयोः कुत्राप्यदृष्टत्वेन एकसामग्रीनियम्यत्वे तस्य तदुच्छेदरूप-त्वस्यैवात्यन्तासङ्गतत्वात् । अन्यथा स्वस्यैव स्वोच्छेदरूपत्वं कुतो न कल्पयसि । अविशेषात् । समानकालिकयोः प्रयोज्यप्रयोजकभावाङ्गीकारेऽपि तत्पक्षे कारणानिरूपणेना-कारणकार्योत्पत्तिप्रसङ्गः । अनादित्वे तस्य प्रयोजकत्वोक्तेरत्यन्तमयोगः । उत्तरकालिकस्य पूर्ववर्तिनं प्रति प्रयोजकत्वादर्शनात् । उच्छेदरूपध्वंसस्योच्छेद्यात्प्राक्कालिकत्वप्राप्त्या ‘प्रतियोग्यधिकरणकालपूर्वकालस्य तद्ध्वंसाधिकरणत्वाभावः’ इति भवदुक्तनियमस्यापि परित्यागः कृतः इति सम्यक् परीक्षकरीतिरनुसृता । रूपभेदेन स्वस्यैव कार्यकारणभावो-पपादनमप्यसङ्गतम् । स्वस्य स्वं प्रति स्वरूपयोग्यत्वस्य कथञ्चित्सम्भवेऽपि स्वस्य स्वोपधायकत्वस्य व्याहतत्वात् । पूर्ववृत्तितानिर्वाहकेण केनचिद्रूपेण स्वस्यैव पूर्ववृत्तित्वं मतं चेत् तादृशं रूपमन्तःकरणत्वादिकमेवेति स्वसामग्रीकरणतापक्ष एव पर्यवसानम् । तत्र च दोषोऽभिहित एवेति न किञ्चिदेतत् ।

यदपि ‘उक्तरूपोच्छेदः उक्तविकारान्तरसमानाधिकरणो न तथाविधात्मनिष्ठ इति न तस्योच्छेदापत्तिः’ इति । तदप्यसत् । स्वाधिकरणकालनिष्ठस्वाधिकरणकालपूर्वत्वा-भावस्योच्छेदरूपत्वे तस्यात्मनिष्ठस्य विकारान्तरासामानाधिकरण्येऽपि उच्छेदरूपत्वं किं गच्छति । तत्स्वरूपे विकारान्तरसामानाधिकरण्यस्यानिविष्टत्वात् । अन्यथा तत्समा-नाधिकरणमन्यदेव किञ्चित्प्रकृते उच्छेद इत्यस्यैव युक्तत्वे एतावदायासस्य वैफल्यापत्तेः ।

यदपि आत्मन उच्छेदवारणाय तस्य कालासम्बन्धमुपेत्य तथात्वेऽपि परमार्थसत्त्व-मभ्युपेत्य ‘गगनादीनां तथात्वं न्यायवित्सम्मतम्’ इत्यभिहितं तत्तु तथात्वे त्रैकालिक-निषेधप्रतियोगिनः शशविषाणादेः सत्त्वापत्तेर्वारयितुमशक्यत्वादनुपादेयम् । अत एव साध्यता-वच्छेदकसम्बन्धधर्मिकोभयाभावघटितलक्षणमपहाय प्रतियोगिताधर्मिकोभयाभावघटितलक्षण-मनुसृतं दीधितिकृता । अत एव भट्टाचार्येणापि गगनादीनां कालासम्बन्धित्वे पारमार्थि-कत्वानुपपत्तिरित्यवतारितम् । तस्माद्ध्वंसघटितलक्षणं तत्सजातीयमुच्छेदघटितलक्षणं च परिष्कर्तुमयुक्तमिति ।

ननु परस्यायुक्तभाषित्वादेवोक्तरीत्या बाधकसत्त्वेऽपि तल्लक्षणं कथं न सम्मतमिति ज्ञायत इत्यत आह ।। तेनेति ।। अधिष्ठानयाधात्म्यज्ञानेन स्वजन्यपटुतमसंस्कारसहिता-धिष्ठानापरोक्षज्ञानेन । विलीनायां नष्टायाम् । स्वयमेव तन्नाशाधीननाशप्रतियोगितां विनैव । निवर्तते नास्ति नासीन्न भविष्यतीति बाधबुद्धिविषयीभूतं भवतीत्यर्थः । तदुपादानकत्व-मप्यत्रैव नियामकम् । न तु नाश इति सूचनाय तदुपादानकत्वोक्तिः।। इत्यङ्गीकृतत्वादिति ।। अत एवाद्वैतचन्द्रिकायां ज्ञाननिवर्त्यत्वलक्षणव्याख्यावसरे मूलोदाहृतविवरणवाक्यव्याख्यायां ‘अज्ञानस्य निवृत्तिः । तत्प्रयुक्तस्य तु बाध एव’ इत्यभिहितम् । यद्वा अविद्यायां विलीनायामित्यस्य त्रैकालिकनिषेधप्रतियोगित्वेन गृह्यमाणायामित्यर्थः । स्वयमेवेत्यादेर्नाशं विनेति पूर्वोक्त एवार्थः । तत्रैवोक्तविवरणवाक्ये ‘निवृत्तिपदमत्यन्ताभावपरमपि । वार्तिकानु-सारात्’ इत्यादिना मूलोदाहृतवार्तिकमवतार्य तदर्थोक्तेः । वार्तिकंतु

तत्त्वमस्यादिवाक्यार्थसम्यग्धीजन्ममात्रतः ।

अविद्या सह कार्येण नासीदस्ति भविष्यति ।।’ इति ।

१अज्ञानस्यावर्तमानत्वेप्यतीतकार्यासहितरूपेणातीतत्वादासीदित्यस्य प्रसक्त्या नासी-दिति निषेधसम्भव इति भावः । अदृष्टादिकाणसत्त्वादग्रे भाविता यज्जातीयकार्यस्य प्रसक्ता तज्जातीयस्यादृष्टाद्यभावाज्ज्ञानप्रयुक्तादभावो न भविष्यतीत्यनेन बोध्यत इत्यर्थः’ इत्यद्वैत-चन्द्रिकाया मेवास्यार्थः स्पष्टः । तरङ्गिण्यां तु ‘अभावे कालत्रयसम्बन्धो बोध्यते’ इति श्लोकार्थ उक्तः । तेषां मतेन अर्थ एव मुख्यविशेष्यतया भासत इत्यभ्युपेयम् । तथा चोक्त-पक्षद्वयेऽपि अज्ञानप्रयुक्तरजतादीनां नाशाभावप्राप्तेर्न नाशघटितलक्षणं तस्य परमसिद्धान्ते सम्मतम् । इदानीं तन्निकृष्टपक्षस्यास्माभिर्दूष्यत्वात्परैर्ध्वंसाद्यभ्युपगमेन कथञ्चित्कृतलक्षणा-नामनादरणीयत्वमेवेति भावः । तर्हि किं तस्याभिप्रेतमित्यत आह ।। प्रतिपन्नोपाधाविति ।।

नन्वेतदयुक्तम् । परैः स्वग्रन्थेऽत्यन्ताभावघटनया प्रकारान्तरेण परिष्कृतत्वात् । तथा हि ‘ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम् । न चोत्तरज्ञाननिवर्त्ये पूर्वज्ञानेऽतिव्याप्तिः मुद्गरघातनिवर्त्य-घटादावव्याप्तिश्चेति वाच्यम् । ज्ञानप्रयुक्तावस्थितिसामान्याभावकत्वस्य विवक्षितत्वात् । अवस्थितिर्द्वेधा । स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । एवं च घटादेः स्वरूपेणावस्थित्यभावस्य मुद्गरपातादिप्रयुक्तत्वेऽपि कार्यकारणात्मनाऽवस्थितिसाधारणोक्ता-वस्थितिसामान्याभावस्य ब्रह्मज्ञानप्रयुक्तत्वान्नाव्याप्तिः । न वा सिद्धसाधनम् । अत एव न वियदादेः ब्रह्महत्यादेरिव सेतुदर्शनादिना ब्रह्मज्ञानेन नाशसिद्धावपि मिथ्यात्वासिद्ध्याऽ-र्थान्तरम् । तुच्छस्यावस्थितिसामान्याभावसत्त्वेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्न तत्राति-व्याप्तिः । शुक्तिरजतादेरपरोक्षप्रतीत्यन्यथाऽनुपपत्त्या प्रतिभासकालेऽवस्थित्यङ्गीकारान्न बाधकं विना तद्विरह इति न साध्यविकलता । न च घटादेरेकावस्थितिविशेषविरहस्य ज्ञाना-प्रयुक्तत्वेन घटावस्थितिसामान्यविरहस्य ज्ञानाप्रयुक्तत्वाद्विशेषाभावातिरिक्तसामान्याभावा-नभ्युपगमे घटादावव्याप्तिदुर्वारैव । ज्ञानप्रयुक्तविरहप्रतियोग्युपादानकत्वविवक्षायां तादृशा-ज्ञानोपादानके घटादावव्याप्तिविरहेऽप्यनाद्यविद्यादावव्याप्तिर्दुर्वारैवेति वाच्यम् । यथा मण्याद्यसमवधानकालीनस्य कारणाभावप्रयुक्तदाहाभावस्य तत्तत्कालीनतत्तद्दाहाभावत्वेन मण्याद्यप्रयुक्तत्वेऽपि तत्समवधानकालीनतत्तदभावस्य दाहसामान्याभावत्वेन तत्प्रयोज्यत्वं एवं घटादीनां स्वरूपेणावस्थितिविरहस्य ब्रह्मज्ञानप्राक्कालीनस्य तत्त्वेन तदप्रयोज्यत्वेऽपि स्वसमानविषयकाज्ञानतत्प्रयुक्तान्यतरत्वावच्छिन्नप्रतियोगिताकाभावत्वेन तत्प्रयोज्यत्वस्य निष्प्रत्यूहत्वात् । ‘विद्वान्नामरूपाद्विमुक्तः’ इति श्रुत्या ‘धनवान् सुखी’ इत्यत्र सुखे धनप्रयोज्यत्ववत् नामरूपसामान्यविरहरूपमुक्तौ विद्वत्तायाः प्रयोजकत्वावगमात् ‘शुक्त्यादेः तत्वज्ञानादिदानीं तदज्ञानतत्प्रयुक्तान्यतरन्नास्ति’ इति सार्वजनीनानुभवाच्च । अस्मिन्पक्षे अभावद्वैताभ्युपगमाच्च न १शङ्कान्तरावकाशः ।

अथ वा ज्ञानप्रयुक्तोऽधिष्ठानतत्वज्ञानव्यापको योऽवस्थितिसामान्यस्य स्वस्वीयसंस्कारा-न्यतरस्याभावस्तत्प्रतियोगित्वं तत् । भवति च ‘या याऽप्रामाण्यज्ञानादिशून्यसाक्षात्कारिप्रमा सा स्वसमानविषयकाज्ञानक्षणावृत्तिः’ या या स्वजन्यपटुतमसंस्कारसहितोक्तप्रमा सोक्ता-ज्ञानतत्संस्कारक्षणावृत्तिः’ । सहितान्तोपादानादुक्तसहितान्यशुक्त्यादिप्रमाया उक्तसंस्कार-क्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । या योक्तप्रमा सा सोक्तस्वसमानविषयकाज्ञानतत्प्रयुक्ततत्संस्कारान्य१तरवत्कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमां प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्तज्ञानतत्संस्कारान्यतरस्याभावः उक्ताज्ञानप्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वत्वसम्बन्धावच्छिन्नाभावश्च व्यापक इति अज्ञानतत्प्रयुक्त२तत्संस्कारेषु सत्त्वाल्लक्षणसमन्वयः । तथा च तादात्म्यसम्बन्धेन स्वजन्यपटुतमसंस्कारसहितप्रमां प्रति तादृशोक्तज्ञानं प्रति वा व्यापको योऽभावः तन्निरूपिता या स्वसमानविषयकत्वकालिकविशेषणतोभयसम्बन्धावच्छिन्नप्रतियोगिता या च तादृशी स्वप्रयोजकाज्ञानसमानविषयकत्वस्वाधिकरणकालपूर्वत्वोभयसम्बन्धावच्छिन्ना प्रतियोगिता तदन्यतरावच्छेदकस्वस्वीयसंस्कारान्यतरत्वकत्वमिति निष्कर्षः । प्रतियोगिता च स्वव्यधि-करणसम्बन्धा३द्यनवच्छिन्ना ग्राह्या । प्रयोजनं तु ४स्वयमूह्यम् । ‘एतेन दण्डादिनिवृत्तस्य घटाद्यवस्थाविशेषस्य ज्ञाननिवर्त्यत्वेऽपि ज्ञानप्रयुक्तावस्थाविशेषविरहमादाय अन्यतरत्वेन लक्षणसमन्वये अर्थान्तरत्वापत्तिः’ इति निरस्तम् । यादृशज्ञानप्रयुक्तो अवस्थाविरहविशेषः तादृशज्ञानस्य तदीयावस्थान्तराधिकरणकालपूर्वत्वादिमत्त्वे उक्तलक्षणासम्भवात्तादृशकालपूर्वं ज्ञानादिशून्यत्वे च मिथ्यात्वेनैव सिद्ध्याऽर्थान्तरानवकाशात् ।

न च साक्षात्कारिप्रमेत्यादिनियमो न सम्भवति । सन् घट इत्यादिप्रमायाः न स्फुट इत्यादिप्रमायाः आपातवेदान्तजन्यप्रमायाश्च त्वन्मते ब्रह्मप्रमात्वेन स्वीकृतायाः स्वसमान-विषयकाज्ञानकालवृत्तित्वेन व्यभिचारात् विशेष्यताख्यविषयतामादायैव ज्ञानाज्ञानयोः समानविषयकत्वं त्वया वाच्यम् । न समानप्रकारकत्वमादाय । अखण्डार्थकवेदान्तजन्य-ज्ञानतन्निवर्तनीयाज्ञानयोस्तदभावात् । तच्चोक्तप्रमयोरस्तीति वाच्यम् । सन् घट इत्यादि-प्रमाया घटाद्युपहितसद्विषयकत्वेन मूलाज्ञानस्य शुद्धविषयकत्वेन समानविषयकत्वस्य दूरनिरस्तत्वात् । उक्तप्रमायां शुद्धस्य भानेऽपि स्वविषयतानिरूपकत्वस्य सम्बन्धकोटौ निवेशान्नानुपपत्तिः । ज्ञानेच्छयोरिव ज्ञानाज्ञानयोरपि समानाकारयोर्विषयताभेदे मानाभावेन वृत्तिनिरूपिताकाराख्यविषयताया एवाज्ञाननिरूपितत्त्वोपगमात् । साक्षात्कारत्वं च परोक्षान्यज्ञानत्वादिरूपमन्यदेवेत्यन्यदेतत् । एवं च मूलाज्ञानीया या जीवत्वब्रह्मत्वोप-लक्षितविषयिता तन्निरूपकत्वस्य न स्फुट इत्यादिज्ञानादावसत्त्वान्न दोषः । अधिकं शास्त्रारम्भसमर्थनटीकायां द्रष्टव्यम् । आपातवेदान्तजन्यप्रमायाश्च नापरोक्षत्वम् । तथात्वेऽपि नाप्रतिबद्धापरोक्षत्वम् । तदेव च लक्षणे निविष्टम् ।

यद्वा ज्ञानेन हि अज्ञानतत्परिणामादिदृश्यसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीय-लक्षणावच्छिन्नः साध्यते । स चाभावः स्वान्यसर्वदृश्यविरोधी क्षणिकः । साध्यत्वं च प्रयोज्यतारूपमन्यद्वेति न कश्चिद्दोषः । क्षणिकश्चायं न्यायविदां क्षणिकशबब्दवत् महाप्रलय-वच्च । अतोऽस्य त्रैकालिकत्वमसिद्धम् । अस्तु वा त्रैकालिकत्वम् । उक्तक्षणप्रत्यासन्नः स एव सर्वदृश्यविरोधी ।

यत्तु ‘अत्यन्ताभावस्य स्वप्रतियोगिना दैशिक एव विरोधो न कालिकः’ इति तन्न । कालिकसम्बन्धेन प्रतियोग्यधिकरणे कालिकसम्बन्धेन वृत्तावपि कालिकसम्बन्धावच्छिन्न-प्रतियोगिताकाभावस्य कालिकसम्बन्धेन प्रतियोग्यधिकरणे स्वरूपसम्बधेनावृत्तित्वरूप-विरोधस्य सर्वसम्मतत्वात् । ‘विद्वान्नामरूपाद्विमुक्तः’ इति श्रुतिसिद्धाभावस्य पुरुषोत्प्रेक्षा-मात्रसिद्धत्वाभावाच्च उक्तात्यन्ताभावस्य ध्वंसप्रतियोगित्वानुपगमेन नानवस्थितध्वंसधारा-पत्तिः । एवं चैतल्लक्षणानां जागरूकत्वात् भवदुक्तपर्यवसानायोगः ।

अथैतल्लक्षणान्यनुपपन्नान्येव । आद्यलक्षणस्य सर्वाद्वैतमते अयोगः घटादौ ज्ञाना-निवर्त्यावस्थाविशेषसद्भावाविरोधिन एतद्धर्मस्य मिथ्यात्वरूपत्वायोग इति दूषणद्वयं स्वय-मेवाभिहितम् । किञ्च शुक्तिरजतादावव्याप्तिः । तदीयकारणावस्थारूपाज्ञानस्य ज्ञानविवर्त्यत्वे मानाभावात् । न च ‘शुक्त्यादेस्तत्वज्ञानात्तदज्ञानतत्प्रयुक्तान्यतरन्नास्ति’ इति सर्वजन-सिद्धानुभव एव मानमिति वाच्यम् । शुक्त्यवच्छिन्नचिद्विषयकाज्ञानस्य रजतोत्पत्त्यर्थमेव कल्पनीयस्यातीन्द्रियत्वेन तदाभावस्य प्रत्येतुमशक्यत्वेनोक्तप्रतीतेः पुरुषाश्रिताज्ञानाभावादि-विषयकत्वात् तस्य च रजताद्यनुपादानत्वेन तदभावस्य प्रत्येतुमशक्यत्वेनोक्तप्रतीतेः तत्र मानत्वायोगात् । न च चिदैक्यात्तदवच्छिन्नाज्ञानमपि साक्षिभास्यम् । तथात्वे पुरुषान्तरनिरूपिताज्ञानस्यापि भानापत्तेः । आरोपे सति निमित्तानुसरणमिति न्यायस्य सर्वसम्प्रतिपन्नस्थलविषयत्वात् । एवं ‘येन रूपेण भासमाने प्रयोज्यता भासते तद्रूपावच्छेद्यत्वं तत्र भासते’ इत्यवश्यमभ्युपेयम् । अन्यथा ‘मण्यसमवधानकालीनदाहाभावः मणिप्रयुक्तः’ ‘मणिमान् कारणाभावप्रयुक्तदाहाभाववान् तत्तत्कालीनतत्तद्दाहाभाववान्’ इत्यादिस्वार-सिकप्रयोगस्य ‘धनवान् प्रमेयवान् गुणवान्’ इति प्रयोगस्य चापातात् । तस्मिन्नेव दाहा-भावादौ रूपान्तरेण प्रयोज्यतायास्त्वयैवोपपादितत्वात् । एवं च ‘नामरूपाद्विमुक्तः’ ‘मुच्यते सर्वपाशैः’ इत्यादौ नामत्वावच्छिन्नाभावरूपत्वावच्छिन्नाभावोपस्थिततत्पाशत्वावच्छिन्नाभावा-नामेव बोधनेन त्वदुक्ताज्ञानतत्प्रयुक्तान्यतरत्वावच्छिन्नप्रतियोगिताकाभावत्वेनानुपस्थित-त्वे१नोपस्थितिरूपस्य तु ज्ञानप्रयोज्यतानवच्छेदकत्वेन तत्र प्रयोज्यप्रयोजकभावबोधस्योक्त श्रुतिभिरनुत्पादादत्रापि मानाभाव एव । न च नामत्वं रूपत्वं वा तदन्यतरत्वं वाऽज्ञान-तत्प्रयुक्तसर्वसाधारणं । येन तदवच्छिन्नाभावत्वमपि प्रयोज्यतावच्छेदकमिति वक्तुं शक्यं स्यात् । तयोः परस्परमेव व्यावृत्तत्वात् । अन्यतरत्वस्यापि अव्याकृते अनादिदृश्येषु चावृत्तेः। ‘तदेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियते’ ‘नामरूपे व्याकरवाणि’ इत्यादि-श्रुतिभिः पञ्चीकृतभूतमात्रविकारवृत्तित्वावगमात् । एवं ज्ञात्वेत्यादिश्रुतौ सर्वपाशपदेन तत्तत्पाशत्वावच्छिन्नाभाव एव प्रतीयते । सर्वपदसमभिव्याहारात् । सर्वपदस्योपस्थित-तत्तद्द्रूपावच्छिन्नवाचितायाः सर्वेभ्यो दर्शपूर्णमासौ’ इत्यादाविवाद्वैतचन्द्रिकायां वार्तिक-कारादिसम्मत्या व्यवस्थापितत्वात् । अन्यथा पाशत्वव्यापकव्यासज्यवृत्तिसर्वत्वधर्मावच्छिन्ना-भावस्य सर्वदा संसारिषु विद्यमानस्यापुरुषार्थत्वेन ज्ञानफलत्वोक्त्ययोगात् । न चोक्तस्थले अज्ञानतत्प्रयुक्तान्यतरत्वावच्छिन्नाभावत्वेन बोधो लक्षणयेति वक्तुं युक्तम् । बाधकाभावात् । स्वाभ्युपगतनिर्वाहाय लक्षणाश्रयणेऽतिप्रसङ्गस्याभिहितत्वात् । मणिसमवधानस्थलेऽपि तन्निष्ठमणिसमवधानोत्तरदाहाभावाधिकरणतातन्निष्ठाधेयत्वयोर्मणिप्रयोज्यत्वस्योभयसिद्धस्योपगमेनैव ‘इदानीं अत्र दाहाभावो मणिप्रयुक्तः’ इत्यादिव्यवहारस्य सविशेषणे हीति न्यायेनोपपत्तौ अनाद्यभावे मणिपूर्वकालीने रूपान्तरेण तत्प्रयुक्ततायाः अप्रामाणिकतया तद्दृष्टान्तेनात्रापि तथोक्तेरत्यन्तासङ्गतत्वात् प्रकृते ज्ञानप्रयुक्ततादृशाधिकरणतापरिष्कारस्त्वसम्भवदुक्तिकः । तस्य सर्वभावोच्छेदकत्वेन तत्प्रयोजकत्वोक्तेरयोगात् । तादृशाधिकरणतारूपभावस्यैव सत्त्वेन मोक्षायोगश्च ।

द्वितीयलक्षणमप्ययुक्तम् । पूर्वोक्तरीत्याऽनादिदृश्यसंस्कारादिष्वव्याप्तेः । स्वसंस्कारा-प्रसिद्ध्या स्वपदेन तेषां ग्रहणायोगात् । ज्ञानाज्ञानयोरेकामाकारताख्यविषयतामङ्गीकृत्य नियमे व्यभिचारं परिहृत्य लक्षणपरिष्कारोऽप्यसङ्गतः । अज्ञानस्य शुद्धचिति शुक्त्याद्यवच्छिन्नचिति च सम्बद्धतया तादात्म्यरूपविषयतायाः कथञ्चिदुक्तिसम्भवेप्याकाराख्यगौणविषयतायां माना-भावात् । न च ‘अत्राहमज्ञः’ ‘अहं घटं न जानामि’ इति प्रत्ययबलात्तत्सिद्धिरिति वाच्यम् । तत्र घटविषयकज्ञानविरुद्धत्वपुरस्कारेणाविद्यात्वरूपजात्यवच्छिन्नावगाहितायाः असुरादिपदाधीनप्रत्ययवत्त्वदाचार्यैरभ्युपगतत्वेनाज्ञानस्य तादृशविषयतानिरूपकत्वासिद्धेः । न च विनिगमकाभावात्समभिव्याहृतपदार्थभूतघटादिविषयकत्वमज्ञान एव प्रतीयतामिति वाच्यम् । घटं जानामीच्छामीतिप्रतीतिभिस्तेषां सविषकत्वसिद्धेरेव विनिगमकत्वात् । न च ‘अत्र मम मोहः’ इति प्रतीत्या मोहशब्दिताज्ञानस्य सविषयकत्वसिद्धिरिति वाच्यम् । तत्र मोहशब्दस्य तत्कार्यमिथ्याज्ञानवाचित्वात् । अत एव ‘अत्रैव मा भगवन्मोहान्तमापीपन्’ इति श्रुतौ याज्ञवल्क्यस्य मोहप्रापकत्वाभिधानं मैत्रेय्याः सङ्गच्छते । अन्यथाऽनाद्यविद्यायाः याज्ञवल्क्यवचनानधीनत्वेन तत्कथनासङ्गतिप्रसङ्गात् ।

तमो मोहो महामोहस्तामिस्त्रः क्रोध एव च ।

अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।।

इति स्मृतौ तमःशब्दितावरकवस्त्वपेक्षया अतिरिक्तस्य विपर्ययस्य मोहशब्देनाभिधानात् ।

तमस्तु शार्वरं विद्यान्मोहश्चेव विपर्ययः ।

तदाग्रहो महामोहः ... ... ...... ।।

इति स्मृत्यन्तरे मोहशब्दस्य विपर्ययपरत्वेन व्याख्यातत्वाच्च ।

अस्तु वा पुरुषनिष्ठाज्ञानस्य कथञ्चित्सविषयकत्वोपगमः । विषयनिष्ठाभानापादका-ज्ञानस्य रजतोत्पत्तिनिर्वाहमात्रप्रयोजनानुरोधेन कल्प्यस्य सविषयकत्वं त्वप्रामाणिकमेव । तथा चोक्तलक्षणे स्वसमानविषयकत्वघटितोभयसम्बन्धस्य स्वप्रयोजकाज्ञानसमानविषयकत्व-घटितोभयसम्बन्धस्य च व्यधिकरणतया व्यधिकरणसम्बन्धानवच्छिन्नोक्तोभयसम्बन्धावच्छिन्न-प्रतियोगित्वाप्रसिद्ध्या असम्भवः । तदनिवेशे व्यधिकरणसम्बन्धावच्छिन्नोक्तप्रतियोगिता-शालित्वेऽपि न मिथ्यात्वम् । तादात्म्यरूपविषयतां निवेश्य परिष्कारे तु सन् घट इति प्रतीतौ शुद्धस्यापि भानात्तत्र मूलाज्ञानस्य तादात्म्यरूपविषयतासत्त्वात्तत्समानकालिकत्वाच्च व्यभिचारो दुर्वारः । समानप्रकारत्वादिकं तु न निवेशनार्हम् । अखण्डाकारवृत्तेस्तथात्वा-भावेन मूलाज्ञानस्यापि शुद्धचिद्विषयकत्वेनातथात्वेन विरोधायोगात् । लक्षणे च तादृश-सम्बन्धावच्छिन्नप्रतियोगितायाः व्यधिकरणसम्बन्धानवच्छिन्नत्वायोगेन मूलाज्ञानतत्प्रयुक्तादौ लक्षणगमनायोगात् । एतेन ‘जीवत्वब्रह्मत्वोपलक्षितनिरूपितविषयतायाश्चरमवृत्तिमूलाज्ञान-निरूपितत्वं स्वीक्रियते । ‘न स्फुटः’ इत्यादिप्रमायां सा नास्ति’ इत्येतदपि परास्तम् । ताटस्थ्येन तदवच्छिन्नविषयताया एव तदुपलक्षितविषयतारूपतया मूलाज्ञानीयविषयताया-स्तथात्वे मानाभावात् । अधिकं त्वत्कृतशास्त्रारम्भटीकाख्यग्रन्थस्य खण्डने विवेचयिष्यामः ।

अप्रतिबद्धापरोक्षप्रमैव लक्षणे निवेश्या’ इत्यप्ययुक्तम् । प्रारब्धकर्मरूपप्रतिबन्धकाभाव-निवेशे शुक्तिप्रमाद्यसङ्ग्रहेण तत्र लक्षणगमनायोगः । सामान्यतः अप्रतिबद्धत्वं स्वजन्यकार्य-प्रतिबन्धकाभावकालीनत्वादिकं तु न निवेशनार्हम् । शुक्त्यादिप्रमाजन्यकार्यान्तरप्रतिबन्ध-कान्तरादृष्टादेः क्वचिन्निश्चयस्य सर्वत्र संशयस्य च सम्भवेन तत्रोक्तमिथ्यात्वस्य दुर्ग्रहत्वापत्तेः। नापि स्वजन्याज्ञाननिवृत्तिप्रतिबन्धकत्वेन । एतत्पक्षे ज्ञानस्याज्ञाननाशकत्वस्य त्यक्तत्वेन तथानिवेशासम्भवात् । अन्यथा निवर्तकस्य निवृत्तिपूर्वकालसत्त्वावश्यकत्वेन तयोरेकक्षणे मेलनप्राप्त्या कालिकेन तयोर्विरोधाभावेनासम्भवापत्तेः ।

एवं पूर्वोक्तरीत्या शुक्त्यादौ एकस्यैव पुरुषस्य कालभेदेन सजातीयभ्रमजनकनानाऽज्ञानेषु या या पटुतमेत्यादित्वदुक्तनियमस्य व्यभिचारात्तादृशप्रातिभासिकेषु लक्षणगमनायोगः । एवं ब्रह्मज्ञानाबाध्यसञ्जातबाधभ्रमविषयेषु प्रातिभासिकेषु यादृशप्रातिभासिकनिवर्तकमेकमेवा-पेक्षात्मकं १जातं तेष्वपि लक्षणगमनायोगः । न चैवमुक्तस्थले स्वसमानविषयकपटुतमसंस्कार-सहितप्रमाया अप्रसिद्धावपि प्रसिद्धतादृशप्रमाव्यापकोक्तोभयसम्बन्धावच्छिन्नप्रतियोगितामादाय लक्षणसङ्गतिरिति वाच्यम् । तर्हि एतादृशधर्मस्य तन्निवर्तकप्रमानुत्पत्त्याऽपि तत्र निर्वोढुं शक्यस्य सत्यत्वाविरोधितया मिथ्यात्वरूपत्वानुपपत्तेः । न चोक्तोभयसम्बन्धावच्छिन्न-प्रतियोगितायाः समानाधिकरणसम्बन्धावच्छिन्नत्वानुसारात्तत्प्रतियोगिन्यज्ञानप्रयुक्तत्वसिद्ध्या मिथ्यात्वसिद्धिरिति वाच्यम् । २ज्ञाननिवृत्तिं विना तन्मात्रेण तदसिद्धेः । सत्यत्ववादिनाऽपि अज्ञानप्रयुक्तभयादीनां मिथ्यात्वानङ्गीकारात् मिथ्यात्वासिद्धेश्च । न ह्यज्ञानत्वमेव मिथ्यात्वम् । नापि तत्तत्प्रयुक्तान्यतरत्वम् । उक्तदोषात् । तथात्वे वा तत्साधनस्यैव वक्तव्य-तयोक्तप्रयासासङ्गतेः । अपि च चरमवृत्तावज्ञानप्रयुक्तस्य जगतः स्वाव्यवहितपूर्वकालिकत्व-सम्बन्धघटितोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य चरमवृत्त्यधिकरणक्षणस्य नैयायि-काभिमतचरमध्वंसमहाकालरूपक्षणानामिवानिवृत्तत्वेन स्थितावपि तदुत्तरकालानुत्पत्त्यापि सम्भवेनोक्तप्रतियोगित्वं जगति तादृशकालसम्बन्धितया स्थिरत्वेनाप्युपपन्नमिति न मिथ्यात्व-रूपम् । एवमन्यान्यप्यत्र लक्षणे दूषणान्यूह्यानीत्यलम् ।

तृतीयमप्येतेनैव परास्तम् । द्वितीयक्षणावच्छिन्नत्वेन साध्यस्याभावस्य तत्क्षणस्य च स्थिरत्वावारणात् । तस्य सर्वदृश्यविरोधित्वमप्यसङ्गतम् । स्वस्वाधिकरणक्षणस्ववृत्ति-तादृशविरोधित्वादिधर्माणां स्वकालेऽनुवृत्तेः । एवं तस्य ज्ञानप्रयोज्यत्वमप्यप्रामाणिकं इत्युक्तमेव । कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य विरोधव्यवस्थापनमप्यसङ्गतम् । तस्य कालावृत्तित्वेऽपि जगतः कालसम्बन्धं विना गगनादिवत्त्वन्मतसिद्धब्रह्मवत् स्थिति-सम्भवेनार्थान्तरानिस्तारात् । एवमन्यदपि गुरुचन्द्रिकाद्युक्तमनयैव दिशा निरसनीयमित्यलम् । एवं चोक्तलक्षणानामप्ययोगात् त्रैकालिकनिषेधप्रतियोगित्व एव पर्यवसानं कृतमिति चेन्न ।

१एवमन्यथाऽनुवादकत्वानिस्तारात् । विवरणे हि त्रैकालिकनिषेधप्रतियोगित्वरूपं बाध्यत्वं अभिधाय ज्ञाननिवर्त्यत्वस्य बाध्यत्वरूपतायाः पृथगभिधानात् । न हि परोक्तमयुक्तं भवति इत्येतावता तस्यान्यथानुवादो युक्तः । न च ‘एतन्मूलेन जगति निराकार्यं बाध्यत्वं न ज्ञाननिवर्त्यत्वरूपम् । किन्तूक्तरूपम् । तत्र जगद्ग्रहणं सार्थकम्’ इति टीकाभाव इति वाच्यम् । तथात्वे ज्ञाननिवर्त्यत्वरूपबाध्यत्वाश्रयणेनैतन्मूलावतरणस्य तत्रैव सम्भावितप्रमाण-निरासस्य चासङ्गत्यापत्तेः । न हि ज्ञाननिवर्त्यत्वं तन्नाश इति पराभिमतमित्यारभ्य ज्ञाननिवर्त्यत्वस्यैवात्र पर्यवसानस्य स्फुटप्रतिभासाच्चेति चेत् ।

अत्रोच्यते । यद्यपि विवरणे लक्षणद्वयमेवाभिहितं तथापि ज्ञाननिवर्त्यत्वं प्रथम-लक्षणार्थभूतत्रैकालिकनिषेधप्रतियोगित्वसमकक्षापन्नमेव तदभिमतम् । न तु नाशघटितम् । त्रैकालिकनिषेधप्रतियोगिनः स्वाधिकरणकालोत्तरकालासम्बन्धरूपनाशस्य विप्रतिषिद्धत्वेन लक्षणयोः परस्परव्याहतिप्रसङ्गात् । उक्तरीत्या तद्वाक्यैरप्यत्यन्ताभावस्यैव रजतादेरवगमेन रजतादेर्ध्वंसानुक्तेः । मतभेदेन लक्षणद्वयपरत्वे तदभिमतस्य नाशस्य वक्तव्यतापातात् नत्व-त्यन्ताभावस्योक्तिः । लोकेऽपि रजतादेर्नाशाननुभवाच्च । इत्थं च प्रतिपन्नोपाधौ त्रैकालिक-निषेधप्रतियोगित्वसमकक्षापन्नमेव किञ्चिन्निर्वाच्यम् । तच्च स्वात्यन्ताभावाधिकरण एव प्रतीय-मानत्वं तादृशत्रैकालिकनिषेधप्रतियोगित्वेन प्रमाविषयत्वादिकं अन्यद्वा किञ्चित् । चित्सुखेन स्वात्यन्ताभाव एवेति लक्षणकरणं त्वेतदर्थरूपतयैवास्तु । तल्लाभस्तु ज्ञानेन बाधज्ञानेन निवर्त्य, यत्र स्वयं प्रतीयते तस्मात्सकाशान्निवर्त्यं तद्विशेष्यकप्रतीतिगोचरो न भवति । न तु वस्तुतः १अपूर्व स्वासम्बन्धोत्पत्येत्यर्थकरणे एतत्परिचितयोरुक्तलक्षणयोः सुज्ञानत्वात् । एतादृशलक्षणानि शुक्तिरजतादौ अस्माकं सम्मतानीति जगद्ग्रहणस्य सार्थक्यमिति टीकाशयात् । अत एव ज्ञाननिवर्त्यत्वलक्षणेनैतन्मूलमवतार्य तस्य प्रथमलक्षणे पर्यवसानं कथयता परपरिष्क्रियमाणानां असामञ्जस्यमपि ध्वनितम् । ‘ज्ञाते द्वैतं न विद्यते’ इत्यादीनि परमते वाचारम्भणश्रुत्यैककण्ट्यायोक्तार्थतात्पर्यकाणि भवन्तीति टीकायामुट्टंक्य निराकृतानि । इत्थं च किन्नामेति टीकायां प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्व-मित्यस्य तत्पर्यवसितं किञ्चिदित्यर्थः । लाक्षणिकनिर्देशस्य तु ज्ञाननिवर्त्यत्वस्योक्तपर्यवसाने पूर्वोक्तरीत्या युक्तिसूचनमेवेति नान्यथाऽनुवादशङ्कापीति सर्वं चतुरस्रम् ।

शुक्तिरजतादौ कुतस्तदङ्गीकार्यं । येन तद्वा तत्पर्यवसितमन्यद्वा तत्र स्यादित्यत आह ।। नात्रेति ।। अभूदित्युपलक्षणम् । नास्ति न भविष्यति इत्यपि ग्राह्यम् । त्रिकालग्राहकेण साक्षिणैवात्यन्ताभावे कालत्रयसम्बन्धावगाहित्वसम्भवात् । भूतकाले निषेधाकारप्रदर्शनं तु तादृशप्रतीतिकाल एव सत्तायाः प्रसक्तत्वादिति ध्येयम् ।। प्रागुक्तेति ।। असद्वैलक्षण्य-साधकापरोक्षप्रतीतिगोचरत्वस्यान्यथोपपत्तिरूपदूषणेनेत्यर्थः ।