व्यावहारिकसत्त्वस्य..
शून्यवादमायावादयोर्वैलक्षण्यमाशङ्क्यापरप्रमेये वैलक्षण्याभावोपपादनम्
श्रीमज्जयतीर्थटीका
नन्वेतदपि नास्ति । असदेव जगच्छून्यादुत्पद्यत इति शून्यवादांशो ह्यत्र निराक्रियते । न चैतत्प्रमेयद्वयं मायावादिनोऽभिमतम् । जगतः पारमार्थिकत्वाभावेऽपि व्यावहारिकसत्त्वस्याङ्गीकृतत्वान्नापरप्रमेये वैलक्षण्याभावः । ब्रह्मणो जगत्कारण-त्वाभ्युपगमान्न परप्रमेयेऽपीति । मैवम् । यतः परमार्थापेक्षयैव शून्यवादिना जगदसदुच्यते । यथा मायावादिना ‘अथ पुनर्विद्योदयेऽविद्यायाः निरुपाख्यत्वमङ्गीकृत्यासत्त्वमुच्यते । काममभिधीयताम्’ इति । व्यावहारिकसत्त्वं तु जगतस्तेनाप्यङ्गीकृतमेव । अतोऽपरप्रमेये तावन्न शून्यवादिमताद्वैलक्षण्यं मायावादिमतस्येत्याह–
मूलं
व्यावहारिकसत्त्वस्य तेनाप्यङ्गीक्रियमाणत्वात्
पूर्वेण सम्बन्धः । जगति व्यावहारिकसत्त्वं शून्यवादिनाऽङ्गीक्रियत इत्येतत्कुतो ज्ञायते । तद्वाक्यादेवेति तदुदाहरति
मूल
सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् ।
संव्रियतेऽनयेति संवृतिरविद्या तत्कृतं सांवृतम् । अनेन सत्यद्वयोद्देशः कृतः । के ते द्वे सत्ये इति शृङ्गग्राहिकया दर्शयति
सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ।।
यदिदं हानादिव्यवहारविषयो जगत्तत् सांवृतं सत्यमित्युच्यते । व्यवहारनिवृत्तौ यदवतिष्ठते तदव्यावहार्यं शून्यमिति यावत् । तत्पारमार्थिकं सत्यमित्युच्यते ।
किंलक्षणके ते सत्ये इत्यतो वाक्यलाघवादनन्तरोक्तस्यापि पारमार्थिकसत्यस्य लक्षणं तावदाह–
मूल
... ... ... ... निवृत्तौ पारमार्थिकम् ।
व्यवहाराविषयत्वं पारमार्थिकलक्षणम् । अथ वा विज्ञानेनाशेषप्रपञ्चनिवृत्तावपि यन्न निवर्तते तत्पारमार्थिकमिति कालत्रयेप्यबाध्यत्वं पारमार्थिकसत्यलक्षणमुक्तं भवति । सांवृतसत्यलक्षणमाह–
मूल
विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते ।
यस्य तत्सांवृतं ज्ञेयम् ।
प्रागूर्ध्वं यस्य सत्त्वं न मध्ये तस्य कुतो भवेत् ।
अन्यथा शुक्तिरूप्यादेः सत्त्वं केन निवार्यते ।।
इत्यादिविचार्यमाणे यस्य वस्तुनः सत्त्वं न युज्यते । तथापि सत्त्वं प्रतीयते च । तद्वस्तु सांवृतं सत्यं ज्ञेयम् । अत्राऽद्येन विशेषणेन पारमार्थिकसत्याद्व्यावृत्तिः । द्वितीये-नात्यन्तासतः ।
लक्षणान्तरञ्चाह–
मूल
....... व्यवहारपदञ्च यत् ।। इत्यादिना ।
पारमार्थिकस्यात्यन्तासतश्च हानाद्यविषयत्वाद्व्यवहारविषयत्वञ्च सांवृतसत्यलक्षणं भवति । आदिपदेन
द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके सांवृतसत्यञ्च सत्यञ्च परमार्थतः ।।
इत्यादेः सङ्ग्रहः । इत्यादिनाऽङ्गीक्रियमाणत्वादिति सम्बन्धः । इत्यादिना शून्य-वादिवाक्येन तदङ्गीकारो ज्ञायत इति वा ।
द्वैतद्युमणि:
निरुपाख्यत्वम् स्वकार्यैः सहाप्रतीयमानत्वम् । तथा च जगतः । अविद्यो-पादानकत्वात्सत्त्वमेव । परमविद्यारूपोपादाननाशेन नाशमात्रम् । कपालनाशेन घटस्येव । शून्यवादिना त्वसत्त्वमुच्यते । अतो महावैलक्षण्यमपरप्रमेय इति शङ्ककाभिमानः । ज्ञानेनाज्ञाननाश इति तेन मुखत उक्तावपि तस्य ज्ञानाद्बाध एवोच्यते । बाधश्च स्वरूप-तस्त्रैकालिकसत्त्वापहार एवेति तस्य तन्मूलकप्रतीतिविषयजगतश्च सत्त्वाभावो मायावादिमते वर्तत एवेत्युक्ताभिमानो न युक्त इत्यभिसन्धिनाह ।। काममभिधीयतामिति ।। ननु माया-वादिना जगति व्यावहारिकत्वं नाम सत्त्वविशेषोऽङ्गीक्रियत इत्यत आह ।। व्यावहारिकसत्त्वं त्विति ।। तेन शून्यवादिना । सांवृतं व्यावहार्यं स्यादित्यादेर्लक्षणकथनपरत्वे विचार्यमाणे नो सत्त्वमित्युत्तरमूलवैयर्थ्यम् । न च लक्षणान्तरकथनपरं तदिति वाच्यम् । मध्ये पारमार्थिक-लक्षणमुक्त्वा पुनस्तत्कथने बीजाभावात् । व्यवहारपदं च यदित्यंशे पौनरुक्त्यापत्तेश्चेत्य-तस्तद्वाक्यमवतार्य व्याचष्टे ।। अनेनेत्यादिना ।। पारमार्थिकसत्त्वलक्षणकथकवाक्यान्तरा-नुपलम्भान्न्यूनतापरिहाराय तद्वाक्यमेवावृत्त्या व्याचष्टे किंलक्षणक इत्यादिना ।। अत्यन्तासत इति ।। मायावादिवदेव तेनाप्यत्यन्तासतः सत्त्वेन प्रतीतिर्न स्वीक्रियते इत्युक्तदलेन तद्व्यावृत्तिरिति भावः ।