सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि..

विशिष्टनिरासकतर्कस्य विपर्यये पर्यवसानाभावसमर्थनम्

सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि

श्रीमज्जयतीर्थटीका

अथ ब्रह्म कथं परस्य दुर्घटं प्रसक्तमिति चेत् । सर्ववैलक्षण्याङ्गीकारात् । चेतनाचेतनादिभावस्य परेण ब्रह्मण्यनङ्गीकारात् । इह हि नित्यशुद्धबुद्धमुक्तमखण्डैकरसं ब्रह्मानङ्गीकुर्वाणाः केचिच्चेतनाचेतनतया भावाभावतया वा तत्त्वं द्विविधमभ्युपयन्ति । अपरे तु प्रमाणप्रमेयप्रमातृभेदेन त्रिविधम् । अन्ये तु द्रव्यगुणकर्मसामान्यभेदेन चतुर्विधमित्यादि । ते तु तर्कयन्ति । यद्युक्तलक्षणं ब्रह्म तत्त्वं स्यात्तर्हि चेतनाचेतनाद्युक्तविधास्वन्तर्भवेत् । न च ब्रह्मवादिना अस्त्वेवमिति शक्यते वक्तुम् । तेन तस्य चेतनाद्युक्तविधावैलक्षण्याङ्गीकारात् । अन्यथा ज्ञानाश्रयत्वादितत्तल्लक्षणवत्त्वापत्त्या निर्विशेषत्वभङ्गाद्यापत्तेः । चेतनाद्युक्त-विधानन्तर्भूतं न तत्त्वं यथा शशविषाणमिति । एवं तर्केण ब्रह्मणि दुर्घटे सति ब्रह्मवादिनैतावदेव वक्तव्यम् । प्रमाणसिद्धं खलूक्तलक्षणं ब्रह्म न पुरुषमतिवैश्वरूप्यजन्मना तर्केण शक्यं निराकर्तुम् । किन्तु तर्क एव प्रमाणविरुद्धार्थे प्रवर्तमानोऽयमाभासो युक्तः । ततो यदि नामैतदुक्तविधासु नान्तर्भवति । विधान्तरेण तत्त्वं भविष्यति । चेतनादिलक्षणं वा अन्यत्प्रकल्प्यान्तर्भावयिष्यत इत्यादि । तथा शक्यते प्रकृतेऽपि वक्तुम् । ‘दण्डी देवदत्तः’ ‘पर्वतोऽग्निमान्’ ‘यः सर्वज्ञः’ इत्यादिप्रमाणसिद्धं तावद्विशिष्टादि । न तदुक्तविकल्प-पांसुभिः शक्यमाच्छादयितुम् । तेषामेव प्रमाणविरुद्धानामाभासत्वात् । ततो यदि नाम नोक्तप्रकारसम्भवस्तथाऽपि प्रकारान्तरेण सत्यं भविष्यति । एतेष्वेव वा प्रकारेषु कश्चिद्विशेषः कल्पनीय इति ।

द्वैतद्युमणि:

।। पुरुषमतिवैश्वरूप्यजन्मेति ।। पुरुषमतीनां वैश्वरूप्यं विश्वरूपत्वमनेक-विधत्वमिति यावत् । तज्जन्मेत्यर्थः ।। एतेष्वेवेति ।। भेदादिप्रकारेष्वित्यर्थः ।। कश्चिन्निर्वाह इति ।। दण्ड्यादिरूपविशिष्टस्य विशेषणाद्भेदः । विशष्याद्भेदाभेदः सार्वज्ञ्यादिविशिष्टस्येश्वर-रूपविशेष्यात् ज्ञानरूपबिशेषणाच्चात्यन्ताभेद इत्यादिरीत्याभ्युपगन्तव्यम् । भेदस्य धर्मिस्वरूपत्वादिकमभ्युपेत्यानवस्थादिदोषः परिहर्तव्य इति भावः ।