असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः
असतः अपरोक्षज्ञानाङ्गीकारे सर्वज्ञानेष्वनाश्वासशङ्का तन्निरासश्च
असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः
श्रीमज्जयतीर्थटीका
किंनिबन्धनश्चायमसतोऽपरोक्षप्रतीतिगोचरताऽनङ्गीकारः । क्वचिज्ज्ञानस्या-नालम्बनत्वेऽन्यत्राप्यनाश्वासप्रसङ्ग इति चेत् तत्किं परोक्षप्रतीतेरसद्विषयत्वे नानाश्वास-प्रसङ्गः । समानश्चायं प्रसङ्गः प्रातिभासिकविषयप्रत्ययाङ्गीकारेऽपि । बाधकाद्विवेक इति चेत् समं प्रकृतेऽपि ।
द्वैतद्युमणि:
एवं विपक्षे बाधकेनासतोऽपरोक्षप्रतीतिं समर्थ्य अप्रयोजकत्वादपि असत्त्वम-परोक्षप्रतीतिविषयत्वाभावव्याप्यं सत्त्वमसद्विलक्षणत्वं सत्तादात्म्यपर्यवसन्नं वा अपरोक्ष-प्रतीतिविषयताव्यापकमिति च पक्षं निराकुरुते ।। किंनिबन्धन इति ।। अनाश्वास इति ।। इदं रजतमित्यपरोक्षज्ञाने असद्रजतस्य विषयत्वाङ्गीकारे निर्विषयकत्वमेवागतम् । विषयो नास्तीत्यस्यासद्विषयकत्वमित्यस्याभिन्नार्थकत्वात् । तथा चापरोक्षज्ञानत्वस्य निर्विषयकत्व-सामानाधिकरण्ये घटादिप्रत्यक्षेष्वपि तादृशधर्मसाधारणधर्मदर्शनेन विशेषादर्शनेन च निर्विषयकत्वसन्देहेन तद्विषयासिद्ध्या घटादिगोचरप्रवृत्त्यादिकार्यविलयापात इति अनुकूल-तर्कसत्त्वान्नाप्रयोजकतेति भावः । न च रजतस्यासत्त्वेऽपि शुक्तेरेव विषयीभूतायाः सत्त्वात्कथं तादृशज्ञानस्य निर्विषयत्वप्रसक्तिरिति वाच्यम् । विशिष्टैकार्थविषयकैकज्ञाने एकस्य सत्त्वमेकस्यासत्त्वं न वक्तुं शक्यम् । सदसदुपरागाभावेन सदसदुभयघटितविशिष्टा-योगात् । अत एकस्य प्रकारीभूतरजतस्यासत्त्वे तदुपरक्तं सर्वमसदेवेति प्राप्तमिति पराभिमानात् । तमेव ‘न च वयम्’ इत्यादिनाऽनुपदमेव निराकरिष्यति ।
परमुखेनैव समाधिं वाचयितुं प्रतिबन्दीं सूचयन् उत्तरयति ।। तत्किमिति ।। अनाश्वास-प्रसङ्गो न इति यत् तत्किं केनोपपाद्यं तदेवाऽलोचयेत्यर्थः । बाधकाद्विवेक इत्यादि त्वयोच्यमानं ममापि सममिति हृदयम् । असतः परोक्षप्रतीतेः प्राक् व्यवस्थापितत्वान्न कश्चित्क्षुद्रोपद्रवः । अपरोक्षस्थल इव परोक्षस्थलेऽपि अनिर्वचनीयस्यैव भानमिति व्यधिकरणप्रकारकत्वमेव परोक्षज्ञानस्येति वा आग्रहकरणेप्याह ।। समानश्चेति ।। प्रत्ययेति ।। अपरोक्षप्रत्यक्षेत्यर्थः । तस्यैव प्रक्रान्तत्वात् ।
यद्वा बाधितप्रत्ययसामान्यस्य प्रातिभासिकविषयकत्वमङ्गीकृत्यासद्विषयकप्रत्ययानङ्गी-कारेऽपीत्यर्थः । शुक्तिरजतादिप्रत्यये व्यवहारकालबाध्यार्थक्रियानर्हपदार्थविषयकत्वसत्त्वे पूर्वो-पपादितरीत्या घटादिप्रत्यये अनाश्वासेन घटादौ प्रवृत्यभावप्रसङ्गः सम इत्यर्थः ।। बाधकादिति ।। व्यवहारकालीनबाधग्रहविषयीभूतार्थविषयकज्ञानत्वस्यैवार्थक्रियानर्हार्थविषय-कत्वव्याप्यताग्रहेण घटादिज्ञाने तद्वैलक्षण्यग्रहात्तज्ज्ञानोत्तरं प्रवृत्त्याद्युपपत्तिरित्यर्थः ।। समं प्रकृतेऽपीति ।। मन्मते यदंशे बाधितं तस्यासत्त्वं तद्विषयकत्वांशे ज्ञानस्याप्रामाण्यमिति नियमाङ्गीकारेण घटादिज्ञानेषु वैलक्षण्यात्तदुत्तरं प्रवृत्त्याद्युपपत्तिरित्येतन्मतेऽपि समानमित्यर्थः।