विषयवर्जितः..

आत्मप्रकाशस्य निर्विषयत्वाभावसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु मा भूदात्मप्रकाशः स्वविषयः । मा भूत्परविषयः । निर्विषय एवायं किन्न स्यादिति तृतीयं पक्षं निराकरोति

मूलं

विषयवर्जितः प्रकाश एव न भवति घटवत्

आत्मा न प्रकाशः प्रकाश्यशून्यत्वात् घटवत् । अन्यथा घटोऽपि प्रकाशः स्यादिति जडत्वासिद्धिः ।

ननु विषयशून्यस्य घटस्य प्रकाशत्वाभावेप्यात्मा विषयवर्जितः प्रकाशोऽस्तु को दोषः । न हि सर्वैर्भावैरेकविधैर्भाव्यमिति नियमोऽस्ति । यथा अन्यो ज्ञाता अन्यश्च ज्ञेय इत्यन्यत्र दर्शनेप्यात्मन्यैक्यं गृह्यते तथेति चेत् । स्यादप्येवं यद्येवं प्रमाणं स्यात् । न चैतदस्तीत्याह–

मूल

तत्प्रमाणाभावात्

प्रकाशत्वस्यैवानुपपत्तावात्मनः स्वप्रकाशत्वं सुतरां परेषामशक्योपपादनमिति मन्वानो भगवानाचार्यः अस्वप्रकाशत्वं जडत्वमिति परोक्तमपि निराकर्तुं न पृथक्प्रक्रान्तवानिति ।

द्वैतद्युमणि:

।। अन्यथेति ।। आत्मन्यैक्यमिति ।। भवन्मत इत्यादिः।। अशक्यो-पपादनमिति ।। अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्यापि तस्यात्मनो दृश्यत्वस्य व्यवस्थापितत्वादशक्योपपादनत्वमित्यर्थः ।