न चान्नत्वे दुर्घटे..

रागातिरेकेणापि बाधितेऽर्थे प्रवृत्त्यभावसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु प्रत्यक्षेण दृष्टमन्नं तर्केण बाध्यत एवातो नायं प्रसङ्गः । ननूक्तं तर्हि नाद्यादिति । मैवम् । बाधितेऽप्यर्थे रागातिरेकेण प्रवृत्तिसम्भवादित्यत आह ।

मूलं

न चान्नत्वे दुर्घटे तस्यानन्नत्वं भवति ।

यद्यन्नत्वं तस्य बाधितं स्यात्तदा परमार्थतोऽनन्नत्वं स्यात् । रजतत्वे बाधिते सत्यरजतत्वपारमार्थ्यवत् । न त्वेवम् । तथा सति नाद्यादित्युक्तम् । न हि रजते रागातिरेकवानपि निवृत्ते भ्रमे पुनस्तत्र प्रवर्तते । यदि पुनरुत्पन्नेऽपि बाधे रागातिरेकात् भ्रमसंस्कारात्(द्वा) प्रवृत्तिरित्यभिप्रायः । तथाप्यर्थक्रिया न स्यादिति । ननूक्तमेवैतत्क्षुधित इति । सत्यम् । तस्यैव प्रपञ्चोऽयमित्यदोषः ।

यदानन्नमन्नत्वेन मन्यते तदा तर्कबाधितं भवत्येवानन्नमित्यत आह ।

मूलं

दृष्ट्यबाधितदृष्टस्य

पूर्वेणैव सम्बन्धः । तात्पर्यं पूर्ववत् ।