नमो नारायणायार्यवृन्दवन्दितपद्द्वय..
अन्ते निवेशितशिष्यनिबद्धश्लोकार्थविवरणम्
नमो नारायणायार्यवृन्दवन्दितपद्द्वय
श्रीमज्जयतीर्थटीका
इतः परं भगवदाचार्यशिष्यप्रणीताः श्लोकाः । एवमत्र कथां कथयन्ति । पुण्डरीकवनाभिधानेन मायिना सह भगवत आचार्यस्य कथाप्रसक्तौ सभ्यसभापतिप्राश्निकेषु मिलितेष्वाचार्यदर्शनमात्रेण भीतः प्रतिवादी तूष्णीं बभूव । तदाऽऽचार्येण तस्याकर्णयतः सतः मायामतनिकृन्तनोपन्यासोऽयं निर्मितः तच्छ्रवणेनात्यन्तत्रस्तहृदयोऽसौ पलायित-वान् । तदाऽऽचार्यशिष्याः प्रतिवादिभयङ्करं भगवन्तमाचार्यं तदभीष्टदेवतां नरहरिं चोपश्लोकयाम्बभूवुः । ते च श्लोकाः अविच्छिन्नप्रवृत्तये शिष्यैरर्थितेन भगवता प्रकरणान्ते निवेशिता इति । अत एव ते जाह्नवीजलानुगतयामुनोदकवत्प्रकरणान्तर्गता एव । अनेककर्तृकत्वान्न तेषामन्योन्यसङ्गतिः ।
मूलं
आनन्दतीर्थपुंसिंहो मायावादिदितेः सुतान् ।
विदार्य युक्तिनखरैरप्रतीपोऽभिभासते ।।
मायावादिदितेः सुतानिति ‘षष्ठ्या आक्रोशे’ इत्यलुक् ।
मूलं
पलायध्वं पलायध्वं त्वरया मायिदानवाः ।
सर्वज्ञहरिरायाति तर्कागमदरारिभृत् ।
पलायध्वं पलायध्वामिति सभ्भ्रमे द्विर्वचनम् । सर्वज्ञः पूर्णप्रज्ञाचार्यः ।
मूलं
द्रवत द्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः ।
कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः ।।
पूर्ववद्विर्वचनम् । मायिनश्चोरा मायावादिनश्च । समुदेति यत इति शेषः ।
मूलं
नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् ।
प्रपलायनमत्र तत्क्षमं त्वरया वसतिर्गुहासु च ।।
हिशब्दो हेतौ ।
मूलं
जयत्यानन्दतीर्थेष्टदेवता नरकेसरी ।
विपाटिताज्ञानतमःकपाटात्युरुहुंकृतः ।।
जयत्युत्कृष्टो वर्तते । अज्ञानं तम इवाज्ञानतमःप्रकाशप्रतिबन्धकत्वात् । तच्च कपाटमिवाज्ञानतमःकपाटम् । परमपुरुषाराधनधामप्रवेशप्रतिबन्धकत्वात् विपाटितमज्ञान-तमःकपाटं येन तद्विपाटिताज्ञानतमःकपाटं विपाटिताज्ञानतमःकपाटमत्युरुहुंकृतं हुङ्कारो यस्यासौ तथोक्तः। अत्राज्ञानं च माया मतमेवाभिमतं प्रसङ्गात् ।
मूलं
जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः ।
अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः ।।
जनता जनसमूहः । इष्टसिद्धौ चिन्तामणिरिवेष्टचिन्तामणिः ।
मूलं
सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः ।
अजितो जयति श्रीशो रमाबाहुलताश्रयः ।।
रमाबाहुलतयोराश्रयो रमाबाहुलताश्रयः ।
द्वैतद्युमणि:
स्वग्रन्थस्य स्तुतेः कुत्राप्यदर्शनादुत्तरवाक्यनां ग्रन्थाघटकत्वे तेषां स्वाव्याख्ये-यत्वशङ्कापनोदायाह ।। एवमत्रेति ।। आकार्णयतः सत इति ।। ‘षष्ठी चारादरे’ इति स्मरणाद्भावलक्षणे षष्ठी ।। आक्रोश इति ।। निन्दायां गम्यमानायामित्यर्थः । तद्बोधः शाब्द आर्थिको वेत्यन्यदेतत् ।। अत्रेति ।। एतच्छ्लोकस्थाज्ञानपदबोध्यमित्यर्थः । मुख्यार्थानुप-पत्त्यभावात्कुतो लक्षणेत्यत आह ।। प्रसङ्गादिति ।। इदानीं मायामतनिरासस्यैव कृतत्वात्त-न्निरासमूलकस्तुतेरेव प्रसक्तत्वादित्यर्थः । तथा च तात्पर्यानुपपत्तिर्लक्षणाबीजमिति भावः।